१०

001 अधीयीरंस् त्रयो ...{Loading}...

अधीयीरंस् त्रयो वर्णाः
स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद् ब्राह्मणस् त्व् एषां
नेतराव् इति निश्चयः ॥ १०.१ ॥

002 सर्वेषाम् ब्राह्मणो ...{Loading}...

सर्वेषां ब्राह्मणो विद्याद्
वृत्त्युपायान् यथाविधि ।
प्रब्रूयाद् इतरेभ्यश् च
स्वयं चैव तथा भवेत् ॥ १०.२ ॥

003 वैशेष्यात् प्रकृतिश्रैष्ठ्यान् ...{Loading}...

वैशेष्यात् प्रकृतिश्रैष्ठ्यान्
नियमस्य च धारणात् ।
संस्कारस्य विशेषाच् च
वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥

004 ब्राह्मणः क्षत्रियो ...{Loading}...

ब्राह्मणः क्षत्रियो वैश्यस्
त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु
शूद्रो नाऽस्ति तु पञ्चमः ॥ १०.४ ॥

005 सर्ववर्णेषु तुल्यासु ...{Loading}...

सर्ववर्णेषु तुल्यासु
पत्नीष्व् अक्षत-योनिषु ।
आनुलोम्येन संभूता
जात्या ज्ञेयास् त एव ते ॥ १०.५ ॥

006 स्त्रीष्व् अनन्तरजातासु ...{Loading}...

स्त्रीष्व् अनन्तरजातासु
द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर्
मातृदोषविगर्हितान् ॥ १०.६ ॥

007 अनन्तरासु जातानाम् ...{Loading}...

अनन्तरासु जातानां
विधिर् एष सनातनः ।
द्व्य्-एकान्तरासु जातानां
धर्म्यं विद्याद् इमं विधिम् ॥ १०.७ ॥

008 ब्राह्मणाद् वैश्यकन्यायाम् ...{Loading}...

ब्राह्मणाद् वैश्यकन्यायाम्
अम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां
यः पारशव उच्यते ॥ १०.८ ॥

009 क्षत्रियाच् छूद्रकन्यायाम् ...{Loading}...

क्षत्रियाच् छूद्रकन्यायां
क्रूराचारविहारवान् ।
क्षत्र-शूद्र-वपुर् जन्तुर्
उग्रो नाम प्रजायते ॥ १०.९ ॥

010 विप्रस्य त्रिषु ...{Loading}...

विप्रस्य त्रिषु वर्णेषु
नृपतेर् वर्णयोर् द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन्
षड् एते ऽपसदाः स्मृताः ॥ १०.१० ॥

011 क्षत्रियाद् विप्रकन्यायाम् ...{Loading}...

क्षत्रियाद् विप्रकन्यायां
सूतो भवति जातितः ।
वैश्यान् मागध-वैदेहौ
राज-विप्राङ्गनासुतौ ॥ १०.११ ॥

012 शूद्राद् आयोगवः ...{Loading}...

शूद्राद् आयोगवः क्षत्ता
चण्डालश् चाऽधमो नृणाम् ।
वैश्य-राजन्य-विप्रासु
जायन्ते वर्णसंकराः ॥ १०.१२ ॥

013 एकान्तरे त्व् ...{Loading}...

एकान्तरे त्व् आनुलोम्याद्
अम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृ-वैदेहकौ तद्वत्
प्रातिलोम्ये ऽपि जन्मनि ॥ १०.१३ ॥

014 पुत्रा ये ...{Loading}...

पुत्रा ये ऽनन्तरस्त्रीजाः
क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तर-नाम्नस् तु
मातृदोषात् प्रचक्षते ॥ १०.१४ ॥

015 ब्राह्मणाद् उग्रकन्यायाम् ...{Loading}...

ब्राह्मणाद् उग्रकन्यायाम्
आवृतो नाम जायते ।
आभीरो ऽम्बष्ठकन्यायाम्
आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥

016 आयोगवश् च ...{Loading}...

आयोगवश् च क्षत्ता च
चण्डालश् चाऽधमो नृणाम् ।
प्रातिलोम्येन जायन्ते
शूद्राद् अपसदास् त्रयः ॥ १०.१६ ॥

017 वैश्यान् मागध-वैदेहौ ...{Loading}...

वैश्यान् मागध-वैदेहौ
क्षत्रियात् सूत एव तु ।
प्रतीपम् एते जायन्ते
परे ऽप्य् अपसदास् त्रयः ॥ १०.१७ ॥

018 जातो निषादाच् ...{Loading}...

जातो निषादाच् छूद्रायां
जात्या भवति पुक्कसः ।
शूद्राज् जातो निषाद्यां तु
स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥

019 क्षत्तुर् जातस् ...{Loading}...

क्षत्तुर् जातस् तथोग्रायां
श्वपाक इति कीर्त्यते ।
वैदेहकेन त्व् अम्बष्ठ्याम्
उत्पन्नो वेण उच्यते ॥ १०.१९ ॥

020 द्विजातयः सवर्णासु ...{Loading}...

द्विजातयः सवर्णासु
जनयन्त्य् अव्रतांस् तु यान् ।
तान् सावित्रीपरिभ्रष्टान्
व्रात्यान् इति विनिर्दिशेत् ॥ १०.२० ॥

021 व्रात्यात् तु ...{Loading}...

व्रात्यात् तु जायते विप्रात्
पापात्मा भूर्जकण्टकः [मेधातिथिपाठः - भृज्जकण्टकः] ।
आवन्त्य-वाटधानौ च
पुष्पधः शैख एव च ॥ १०.२१ ॥

022 झल्लो मल्लश् ...{Loading}...

झल्लो मल्लश् च राजन्याद्
व्रात्यान् निच्छिविर् एव च [मेधातिथिपाठः - व्रात्याल् लिच्छविर् एव च] ।
नटश् च करणश् चैव
खसो द्रविड एव च ॥ १०.२२ ॥

023 वैश्यात् तु ...{Loading}...

वैश्यात् तु जायते व्रात्यात्
सुधन्वाचार्य एव च ।
कारुषश् च विजन्मा च
मैत्रः सात्वत एव च ॥ १०.२३ ॥

024 व्यभिचारेण वर्णानाम् ...{Loading}...

व्यभिचारेण वर्णानाम्
अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन
जायन्ते वर्णसंकराः ॥ १०.२४ ॥

025 सङ्कीर्ण-योनयो ये ...{Loading}...

संकीर्ण-योनयो ये तु
प्रतिलोमानुलोम-जाः ।
अन्योन्यव्यतिषक्ताश् च
तान् प्रवक्ष्याम्य् अशेषतः ॥ १०.२५ ॥

026 सूतो वैदेहकश् ...{Loading}...

सूतो वैदेहकश् चैव
चण्डालश् च नराधमः ।
मागधः तथायोगव
एव च क्षत्रजातिश् च [मेधातिथिपाठः - क्षत्तृजातिश् च] ॥ १०.२६ ॥

027 एते षट् ...{Loading}...

एते षट् सदृशान् वर्णाञ्
जनयन्ति स्वयोनिषु ।
मातृजात्यां प्रसूयन्ते
प्रवारासु च योनिषु [मेधातिथिपाठः - मातृजात्याः] ॥ १०.२७ ॥

028 यथा त्रयाणाम् ...{Loading}...

यथा त्रयाणां वर्णानां
द्वयोर् आत्मास्य जायते ।
आनन्तर्यात् स्वयोन्यां तु
तथा बाह्येष्व् अपि क्रमात् [मेधातिथिपाठः - क्रमः] ॥ १०.२८ ॥

029 ते चाऽपि ...{Loading}...

ते चाऽपि बाह्यान् सुबहूंस्
ततो ऽप्य् अधिकदूषितान् ।
परस्परस्य दारेषु
जनयन्ति विगर्हितान् ॥ १०.२९ ॥

030 यथैव शूद्रो ...{Loading}...

यथैव शूद्रो ब्राह्मण्यां
बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश्
चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥

031 प्रतिकूलं वर्तमाना ...{Loading}...

प्रतिकूलं वर्तमाना बाह्या
बाह्यतरान् पुनः ।
हीना हीनान् प्रसूयन्ते
वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥

032 प्रसाधनोपचारज्ञम् अदासम् ...{Loading}...

प्रसाधनोपचारज्ञम्
अदासं दासजीवनम् [मेधातिथिपाठः - दास्यजीविनम्] ।
सैरिन्ध्रं वागुरा-वृत्तिं
सूते दस्युर् अयोगवे [मेधातिथिपाठः - सैरन्ध्रं] ॥ १०.३२ ॥

033 मैत्रेयकन् तु ...{Loading}...

मैत्रेयकं तु वैदेहो
माधूकं संप्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं
यो घण्टाताडो ऽरुणोदये ॥ १०.३३ ॥

034 निषादो मार्गवम् ...{Loading}...

निषादो मार्गवं सूते
दासं नौकर्मजीविनम् ।
कैवर्तम् इति यं प्राहुर्
आर्यावर्तनिवासिनः ॥ १०.३४ ॥

035 मृतवस्त्रभृत्स्व् नारीषु ...{Loading}...

मृतवस्त्रभृत्स्व् नारीषु
गर्हितान्नाशनासु च [मेधातिथिपाठः - अनार्याषु] ।
भवन्त्य् आयोगवीष्व् एते
जातिहीनाः पृथक् त्रयः ॥ १०.३५ ॥

036 कारावरो निषादात् ...{Loading}...

कारावरो निषादात् तु
चर्मकारः प्रसूयते [मेधातिथिपाठः - चर्मकारं] ।
वैदेहिकाद् अन्ध्र-मेदौ
बहिर्ग्राम-प्रतिश्रयौ ॥ १०.३६ ॥

037 चण्डालात् पाण्डुसोपाकस् ...{Loading}...

चण्डालात् पाण्डुसोपाकस्
त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन
वैदेह्याम् एव जायते ॥ १०.३७ ॥

038 चण्डालेन तु ...{Loading}...

चण्डालेन तु सोपाको
मूलव्यसनवृत्तिमान् ।
पुक्कस्यां जायते पापः
सदा सज्जनगर्हितः [मेधातिथिपाठः - पुल्कस्यां] ॥ १०.३८ ॥

039 निषादस्त्री तु ...{Loading}...

निषादस्त्री तु चण्डालात्
पुत्रम् अन्त्यावसायिनम् ।
श्मशान-गोचरं सूते
बाह्यानाम् अपि गर्हितम् ॥ १०.३९ ॥

040 सङ्करे जातयस् ...{Loading}...

संकरे जातयस् त्व् एताः
पितृ-मातृ-प्रदर्शिताः ।
प्रछन्ना वा प्रकाशा वा
वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥

041 स्वजातिजानन्तरजाः षट् ...{Loading}...

स्वजातिजानन्तरजाः
षट् सुता द्विजधर्मिणः ।
शूद्राणां तु स-धर्माणः
सर्वे ऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥

042 तपो-बीज-प्रभावैस् तु ...{Loading}...

तपो-बीज-प्रभावैस् तु
ते गच्छन्ति युगे युगे ।
उत्कर्षं चाऽपकर्षं च
मनुष्येष्व् इह जन्मतः ॥ १०.४२ ॥

043 शनकैस् तु ...{Loading}...

शनकैस् तु क्रियालोपाद्
इमाः क्षत्रिय-जातयः ।
वृषलत्वं गता लोके
ब्राह्मणादर्शनेन च [मेधातिथिपाठः - ब्राह्मणातिक्रमेण च] ॥ १०.४३ ॥

044 पौण्ड्रकाश् चौड्र-द्रविडाः ...{Loading}...

पौण्ड्रकाश् चौड्र-द्रविडाः
काम्बोजा यवनाः शकाः [मेधातिथिपाठः - पुण्ड्रकाश् चोड-
द्रविडाः] ।
पारदा-पह्लवाश् चीनाः
किराता दरदाः खशाः ॥ १०.४४ ॥

045 मुख-बाहूरु-पज्-जानां या ...{Loading}...

मुख-बाहूरु-पज्-जानां
या लोके जातयो बहिः ।
म्लेच्छ-वाचश् चार्य-वाचः
सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥

046 ये द्विजानाम् ...{Loading}...

ये द्विजानाम् अपसदा
ये चाऽपध्वंसजाः स्मृताः ।
ते निन्दितैर् वर्तयेयुर्
द्विजानाम् एव कर्मभिः ॥ १०.४६ ॥

047 सूतानाम् अश्व-सारथ्यम् ...{Loading}...

सूतानाम् अश्व-सारथ्यम्
अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं
मागधानां वणिक्पथः ॥ १०.४७ ॥

048 मत्स्यघातो निषादानाम् ...{Loading}...

मत्स्यघातो निषादानां
त्वष्टिस् त्व् आयोगवस्य च ।
मेदान्ध्र-चुञ्चु-मद्गूनाम्
आरण्यपशुहिंसनम् ॥ १०.४८ ॥

049 क्षत्त्र्-उग्र-पुक्कसानान् तु ...{Loading}...

क्षत्त्र्-उग्र-पुक्कसानां तु
बिलौकोवध-बन्धनम् ।
धिग्वणानां चर्मकार्यं
वेणानां भाण्डवादनम् ॥ १०.४९ ॥

050 चैत्यद्रुम-श्मशानेषु शैलेषूपवनेषु ...{Loading}...

चैत्यद्रुम-श्मशानेषु
शैलेषूपवनेषु च ।
वसेयुर् एते विज्ञाता
वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥

051 चण्डाल-श्वपचानान् तु ...{Loading}...

चण्डाल-श्वपचानां तु
बहिर् ग्रामात् प्रतिश्रयः ।
अपपात्राश् च कर्तव्या
धनम् एषां श्व-गर्दभम् ॥ १०.५१ ॥

052 वासांसि मृतचैलानि ...{Loading}...

वासांसि मृतचैलानि
भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसम् अलङ्कारः
परिव्रज्या च नित्यशः ॥ १०.५२ ॥

053 न तैः ...{Loading}...

न तैः समयम् अन्विच्छेत्
पुरुषो धर्मम् आचरन् ।
व्यवहारो मिथस् तेषां
विवाहः सदृशैः सह ॥ १०.५३ ॥

054 अन्नम् एषाम् ...{Loading}...

अन्नम् एषां पराधीनं
देयं स्याद् भिन्नभाजने ।
रात्रौ न विचरेयुस् ते
ग्रामेषु नगरेषु च ॥ १०.५४ ॥

055 दिवा चरेयुः ...{Loading}...

दिवा चरेयुः कार्यार्थं
चिह्निता राजशासनैः ।
अबान्धवं शवं चैव
निर्हरेयुर् इति स्थितिः ॥ १०.५५ ॥

056 वध्यांश् च ...{Loading}...

वध्यांश् च हन्युः सततं
यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः
शय्याश् चाभरणानि च ॥ १०.५६ ॥

057 वर्णापेतम् अविज्ञातम् ...{Loading}...

वर्णापेतम् अविज्ञातं
नरं कलुषयोनिजम् ।
आर्य-रूपम् इवाऽनार्यं
कर्मभिः स्वैर् विभावयेत् ॥ १०.५७ ॥

058 अनार्यता निष्ठुरता ...{Loading}...

अनार्यता निष्ठुरता
क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह
लोके कलुषयोनिजम् ॥ १०.५८ ॥

059 पित्र्यं वा ...{Loading}...

पित्र्यं वा भजते शीलं
मातुर् वोभयम् एव वा ।
न कथं चन दुर्योनिः
प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥

060 कुले मुख्ये ...{Loading}...

कुले मुख्ये ऽपि जातस्य
यस्य स्याद् योनिसंकरः ।
संश्रयत्य् एव तच्-छीलं
नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥

061 यत्र त्व् ...{Loading}...

यत्र त्व् एते परिध्वंसाज्
जायन्ते वर्णदूषकाः ।
राष्ट्रिकैः सह तद् राष्ट्रं
क्षिप्रम् एव विनश्यति [मेधातिथिपाठः - राष्ट्रियैः] ॥ १०.६१ ॥

062 ब्राह्मणार्थे गवार्थे ...{Loading}...

ब्राह्मणार्थे गवार्थे वा
देहत्यागो ऽनुपस्कृतः ।
स्त्री-बालाभ्युपपत्तौ च
बाह्यानां सिद्धिकारणम् [मेधातिथिपाठः - स्त्री-बालाभ्यवपत्तौ च] ॥ १०.६२ ॥

063 अहिंसा सत्यम् ...{Loading}...

अहिंसा सत्यम् अस्तेयं
शौचम् इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं
चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ १०.६३ ॥

064 शूद्रायाम् ब्राह्मणाज् ...{Loading}...

शूद्रायां ब्राह्मणाज् जातः
श्रेयसा चेत् प्रजायते ।
अश्रेयान् श्रेयसीं जातिं
गच्छत्य् आ सप्तमाद् युगात् ॥ १०.६४ ॥

065 शूद्रो ब्राह्मणताम् ...{Loading}...

शूद्रो ब्राह्मणताम् एति
ब्राह्मणश् चैति शूद्रताम् ।
क्षत्रियाज् जातम् एवं तु
विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥

066 अनार्यायां समुत्पन्नो ...{Loading}...

अनार्यायां समुत्पन्नो
ब्राह्मणात् तु यदृच्छया ।
ब्राह्मण्याम् अप्य् अनार्यात् तु
श्रेयस्त्वं क्वेति चेद् भवेत् [मेधातिथिपाठः - कस्य चिद् भवेत्] ॥ १०.६६ ॥

067 जातो नार्याम् ...{Loading}...

जातो नार्याम् अनार्यायाम्
आर्याद् आर्यो भवेद् गुणैः ।
जातो ऽप्य् अनार्याद् आर्यायाम्
अनार्य इति निश्चयः ॥ १०.६७ ॥

068 ताव् उभाव् ...{Loading}...

ताव् उभाव् अप्य् असंस्कार्याव्
इति धर्मो व्यवस्थितः ।
वैगुण्याज् जन्मनः पूर्व
उत्तरः प्रतिलोमतः [मेधातिथिपाठः - जन्मतः] ॥ १०.६८ ॥

069 सुबीजञ् चैव ...{Loading}...

सुबीजं चैव सुक्षेत्रे
जातं संपद्यते यथा ।
तथार्याज् जात आर्यायां
सर्वं संस्कारम् अर्हति ॥ १०.६९ ॥

070 बीजम् एके ...{Loading}...

बीजम् एके प्रशंसन्ति
क्षेत्रम् अन्ये मनीषिणः ।
बीज-क्षेत्रे तथैवाऽन्ये
तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥

071 अक्षेत्रे बीजम् ...{Loading}...

अक्षेत्रे बीजम् उत्सृष्टम्
अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं
केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥

072 यस्माद् बीजप्रभावेण ...{Loading}...

यस्माद् बीजप्रभावेण
तिर्यग्जा ऋषयो ऽभवन् ।
पूजिताश् च प्रशस्ताश् च
तस्माद् बीजं प्रशस्यते [मेधातिथिपाठः - विशिष्यते] ॥ १०.७२ ॥

073 अनार्यम् आर्य-कर्माणम् ...{Loading}...

अनार्यम् आर्य-कर्माणम्
आर्यं चाऽनार्यकर्मिणम् ।
संप्रधार्याऽब्रवीद् धाता
न समौ नाऽसमाव् इति ॥ १०.७३ ॥

074 ब्राह्मणा ब्रह्मयोनिस्था ...{Loading}...

ब्राह्मणा ब्रह्मयोनिस्था
ये स्वकर्मण्य् अवस्थिताः ।
ते सम्यग् उपजीवेयुः
षट् कर्माणि यथाक्रमम् ॥ १०.७४ ॥

075 अध्यापनम् अध्ययनम् ...{Loading}...

अध्यापनम् अध्ययनं
यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव
षट् कर्माण्य् अग्रजन्मनः ॥ १०.७५ ॥

076 षण्णान् तु ...{Loading}...

षण्णां तु कर्मणाम् अस्य
त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव
विशुद्धाच् च प्रतिग्रहः ॥ १०.७६ ॥

077 त्रयो धर्मा ...{Loading}...

त्रयो धर्मा निवर्तन्ते
ब्राह्मणात् क्षत्रियं प्रति ।
अध्यापनं याजनं च
तृतीयश् च प्रतिग्रहः ॥ १०.७७ ॥

078 वैश्यम् प्रति ...{Loading}...

वैश्यं प्रति तथैवैते
निवर्तेरन्न् इति स्थितिः ।
न तौ प्रति हि तान् धर्मान्
मनुर् आह प्रजापतिः [मेधातिथिपाठः - प्रति हितान् धर्मान्] ॥ १०.७८ ॥

079 शस्त्रास्त्रभृत्त्वङ् क्षत्रस्य ...{Loading}...

शस्त्रास्त्रभृत्त्वं क्षत्रस्य
वणिक्-पशु-कृषिर् विषः ।
आजीवनार्थं धर्मस् तु
दानम् अध्ययनं यजिः ॥ १०.७९ ॥

080 वेदाभ्यासो ब्राह्मणस्य ...{Loading}...

वेदाभ्यासो ब्राह्मणस्य
क्षत्रियस्य च रक्षणम् ।
वार्ताकर्मैव वैश्यस्य
विशिष्टानि स्वकर्मसु ॥ १०.८० ॥

081 अजीवंस् तु ...{Loading}...

अजीवंस् तु यथोक्तेन
ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण
स ह्य् अस्य प्रत्य् अनन्तरः ॥ १०.८१ ॥

082 उभाभ्याम् अप्य् ...{Loading}...

उभाभ्याम् अप्य् अजीवंस् तु
कथं स्याद् इति चेद् भवेत् ।
कृषि-गोरक्षम् आस्थाय
जीवेद् वैश्यस्य जीविकाम् ॥ १०.८२ ॥

083 वैश्यवृत्त्यापि जीवंस् ...{Loading}...

वैश्यवृत्त्यापि जीवंस् तु
ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसा-प्रायां पराधीनां
कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥

084 कृषिं साध्व् ...{Loading}...

कृषिं साध्व् इति मन्यन्ते
सा वृत्तिः सद्विगर्हिताः ।
भूमिं भूमिशयांश् चैव
हन्ति काष्ठम् अयो-मुखम् ॥ १०.८४ ॥

085 इदन् तु ...{Loading}...

इदं तु वृत्तिवैकल्यात्
त्यजतो धर्मनैपुणं ।
विट्-पण्यम् उद्धृतोद्धारं
विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥

086 सर्वान् रसान् ...{Loading}...

सर्वान् रसान् अपोहेत
कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव
पशवो ये च मानुषाः ॥ १०.८६ ॥

087 सर्वञ् च ...{Loading}...

सर्वं च तान्तवं रक्तं
शाण-क्षौमाविकानि च ।
अपि चेत् स्युर् अरक्तानि
फल-मूले तथौषधीः ॥ १०.८७ ॥

088 अपः शस्त्रम् ...{Loading}...

अपः शस्त्रं विषं मांसं
सोमं गन्धांश् च सर्वशः ।
क्षीरं क्षौद्रं दधि घृतं
तैलं मधु गुडं कुशान् ॥ १०.८८ ॥

089 आरण्यांश् च ...{Loading}...

आरण्यांश् च पशून् सर्वान्
दंष्ट्रिणश् च वयांसि च ।
मद्यं नीलिं च लाक्षां च
सर्वांश् चैक-शफांस् तथा [मेधातिथिपाठः - नीलीं] ॥ १०.८९ ॥

090 कामम् उत्पाद्य ...{Loading}...

कामम् उत्पाद्य कृष्यां तु
स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् शूद्रान्
धर्मार्थम् अचिरस्थितान् [मेधातिथिपाठः - तिलाञ् शुद्धान्] ॥ १०.९० ॥

091 भोजनाभ्यञ्जनाद् दानाद् ...{Loading}...

भोजनाभ्यञ्जनाद् दानाद्
यद् अन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां
पितृभिः सह मज्जति ॥ १०.९१ ॥

092 सद्यः पतति ...{Loading}...

सद्यः पतति मांसेन
लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति
ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥

093 इतरेषान् तु ...{Loading}...

इतरेषां तु पण्यानां
विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण
वैश्यभावं नियच्छति ॥ १०.९३ ॥

094 रसा रसैर् ...{Loading}...

रसा रसैर् निमातव्या
न त्व् एव लवणं रसैः ।
कृतान्नं च कृतान्नेन
तिला धान्येन तत्समाः ॥ १०.९४ ॥

095 जीवेद् एतेन ...{Loading}...

जीवेद् एतेन राजन्यः
सर्वेणाऽप्य् अनयं गतः ।
न त्व् एव ज्यायंसीं वृत्तिम्
अभिमन्येत कर्हि चित् ॥ १०.९५ ॥

096 यो लोभाद् ...{Loading}...

यो लोभाद् अधमो जात्या
जीवेद् उत्कृष्ट-कर्मभिः ।
तं राजा निर्धनं कृत्वा
क्षिप्रम् एव प्रवासयेत् ॥ १०.९६ ॥

097 वरं स्वधर्मो ...{Loading}...

वरं स्वधर्मो विगुणो
न पारक्यः स्वनुष्ठितः [मेधातिथिपाठः - विगुणः परधर्मात्
स्वधिष्ठितात्] ।
परधर्मेण जीवन् हि
सद्यः पतति जातितः ॥ १०.९७ ॥

098 वैश्यो ऽजीवन् ...{Loading}...

वैश्यो ऽजीवन् स्वधर्मेण
शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्न् अकार्याणि
निवर्तेत च शक्तिमान् ॥ १०.९८ ॥

099 अशक्नुवंस् तु ...{Loading}...

अशक्नुवंस् तु शुश्रूषां
शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्र-दारात्ययं प्राप्तो
जीवेत् कारुक-कर्मभिः ॥ १०.९९ ॥

100 यैः कर्मभिः ...{Loading}...

यैः कर्मभिः प्रचरितैः
शुश्रूष्यन्ते द्विजातयः ।
तानि कारुक-कर्माणि
शिल्पानि विविधानि च ॥ १०.१०० ॥

101 वैश्यवृत्तिम् अनातिष्ठन् ...{Loading}...

वैश्यवृत्तिम् अनातिष्ठन्
ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्न्
इमं धर्मं समाचरेत् ॥ १०.१०१ ॥

102 सर्वतः प्रतिगृह्णीयाद् ...{Loading}...

सर्वतः प्रतिगृह्णीयाद्
ब्राह्मणस् त्व् अनयं गतः ।
पवित्रं दुष्यतीत्य् एतद्
धर्मतो नोपपद्यते ॥ १०.१०२ ॥

103 नाऽध्यापनाद् याजनाद् ...{Loading}...

नाऽध्यापनाद् याजनाद् वा
गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां
ज्वलनाम्बु-समा हि ते ॥ १०.१०३ ॥

104 जीवितात्ययम् आपन्नो ...{Loading}...

जीवितात्ययम् आपन्नो
यो ऽन्नम् अत्ति ततस् ततः ।
आकाशम् इव पङ्केन
न स पापेन लिप्यते ॥ १०.१०४ ॥

105 अजीगर्तः सुतम् ...{Loading}...

अजीगर्तः सुतं हन्तुम्
उपासर्पद् बुभुक्षितः ।
न चालिप्यत पापेन
क्षुत्प्रतीकारम् आचरन् ॥ १०.१०५ ॥

106 श्वमांसम् इच्छन् ...{Loading}...

श्वमांसम् इच्छन् आर्तो ऽत्तुं
धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं
वामदेवो न लिप्तवान् ॥ १०.१०६ ॥

107 भरद्वाजः क्षुधार्तस् ...{Loading}...

भरद्वाजः क्षुधार्तस् तु
स-पुत्रो विजने वने ।
बह्वीर् गाः प्रतिजग्राह
वृधोस् तक्ष्णो महातपाः ॥ १०.१०७ ॥

108 क्षुधार्तश् चाऽत्तुम् ...{Loading}...

क्षुधार्तश् चाऽत्तुम् अभ्यागाद्
विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्ताद् आदाय
धर्माधर्मविचक्षणः ॥ १०.१०८ ॥

109 प्रतिग्रहाद् याजनाद् ...{Loading}...

प्रतिग्रहाद् याजनाद् वा
तथैवाऽध्यापनाद् अपि ।
प्रतिग्रहः प्रत्यवरः
प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥

110 याजनाध्यापने नित्यम् ...{Loading}...

याजनाध्यापने नित्यं
क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस् तु क्रियते
शूद्राद् अप्य् अन्त्य-जन्मनः ॥ १०.११० ॥

111 जप-होमैर् अपैत्य् ...{Loading}...

जप-होमैर् अपैत्य् एनो
याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु
त्यागेन तपसैव च ॥ १०.१११ ॥

112 शिलोञ्छम् अप्य् ...{Loading}...

शिलोञ्छम् अप्य् आददीत
विप्रो ऽजीवन् यतस् ततः ।
प्रतिग्रहाच् छिलः श्रेयांस्
ततो ऽप्य् उञ्छः प्रशस्यते ॥ १०.११२ ॥

113 सीदद्भिः कुप्यम् ...{Loading}...

सीदद्भिः कुप्यम् इच्छद्भिर्
धने वा पृथिवीपतिः [मेधातिथिपाठः - धनं वा] ।
याच्यः स्यात् स्नातकैर् विप्रैर्
अदित्संस् त्यागम् अर्हति ॥ १०.११३ ॥

114 अकृतञ् च ...{Loading}...

अकृतं च कृतात् क्षेत्राद्
गौर् अजाविकम् एव च ।
हिरण्यं धान्यम् अन्नं च
पूर्वं पूर्वम् अदोषवत् ॥ १०.११४ ॥

115 सप्त वित्तागमा ...{Loading}...

सप्त वित्तागमा धर्म्या
दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च
सत्प्रतिग्रह एव च ॥ १०.११५ ॥

116 विद्या शिल्पम् ...{Loading}...

विद्या शिल्पं भृतिः सेवा
गोरक्ष्यं विपणिः कृषिः ।
धृतिर् भैक्षं कुसीदं च
दश जीवनहेतवः ॥ १०.११६ ॥

117 ब्राह्मणः क्षत्रियो ...{Loading}...

ब्राह्मणः क्षत्रियो वापि
वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थं
दद्यात् पापीयसे ऽल्पिकाम् ॥ १०.११७ ॥

118 चतुर्थम् आददानो ...{Loading}...

चतुर्थम् आददानो ऽपि
क्षत्रियो भागम् आपदि ।
प्रजा रक्षन् परं शक्त्या
किल्बिषात् प्रतिमुच्यते ॥ १०.११८ ॥

119 स्वधर्मो विजयस् ...{Loading}...

स्वधर्मो विजयस् तस्य
नाहवे स्यात् पराङ्-मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा
धर्म्यम् आहारयेद् बलिम् [मेधातिथिपाठः - वैश्याद् रक्षित्वा] ॥ १०.११९ ॥

120 धान्ये ऽष्टमम् ...{Loading}...

धान्ये ऽष्टमं विशां शुल्कं
विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः
कारवः शिल्पिनस् तथा ॥ १०.१२० ॥

121 शूद्रस् तु ...{Loading}...

शूद्रस् तु वृत्तिम् आकाङ्क्षन्
क्षत्रम् आराधयेद् यदि [मेधातिथिपाठः - आराधयेद् इति] ।
धनिनं वाप्य् उपाराध्य
वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥

122 स्वर्गार्थम् उभयार्थम् ...{Loading}...

स्वर्गार्थम् उभयार्थं वा
विप्रान् आराधयेत् तु सः ।
जातब्राह्मण-शब्दस्य
सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥

123 विप्रसेवैव शूद्रस्य ...{Loading}...

विप्रसेवैव शूद्रस्य
विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् +धि कुरुते
तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥

124 प्रकल्प्या तस्य ...{Loading}...

प्रकल्प्या तस्य तैर् वृत्तिः
स्वकुटुम्बाद् यथार्हतः ।
शक्तिं चाऽवेक्ष्य दाक्ष्यं च
भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥

125 उच्छिष्टम् अन्नम् ...{Loading}...

उच्छिष्टम् अन्नं दातव्यं
जीर्णानि वसनानि च ।
पुलाकाश् चैव धान्यानां
जीर्णाश् चैव परिच्छदाः ॥ १०.१२५ ॥

126 न शूद्रे ...{Loading}...

न शूद्रे पातकं किं चिन्
न च संस्कारम् अर्हति ।
नाऽस्याऽधिकारो धर्मे ऽस्ति
न धर्मात् प्रतिषेधनम् ॥ १०.१२६ ॥

127 धर्मेप्सवस् तु ...{Loading}...

धर्मेप्सवस् तु धर्मज्ञाः
सतां वृत्तम् अनुष्ठिताः [मेधातिथिपाठः - सतां धर्मम्] ।
मन्त्रवर्ज्यं न दुष्यन्ति
प्रशंसां प्राप्नुवन्ति च [मेधातिथिपाठः - मन्त्रवर्जं] ॥ १०.१२७ ॥

128 यथा यथा ...{Loading}...

यथा यथा हि सद्वृत्तम्
आतिष्ठत्य् अनसूयकः ।
तथा तथेमं चाऽमुं च
लोकं प्राप्नोत्य् अनिन्दितः ॥ १०.१२८ ॥

129 शक्तेनाऽपि हि ...{Loading}...

शक्तेनाऽपि हि शूद्रेण
न कार्यो धनसंचयः ।
शूद्रो हि धनम् आसाद्य
ब्राह्मणान् एव बाधते ॥ १०.१२९ ॥

130 एते चतुर्णाम् ...{Loading}...

एते चतुर्णां वर्णानाम्
आपद्धर्माः प्रकीर्तिताः ।
यान् सम्यग् अनुतिष्ठन्तो
व्रजन्ति परमं गतिम् ॥ १०.१३० ॥

131 एष धर्मविधिः ...{Loading}...

एष धर्मविधिः कृत्स्नश्
चातुर्वर्ण्यस्य कीर्तितः ।
अतः परं प्रवक्ष्यामि
प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥


  1. M G: gṛhītasya vedasya vā vismaraṇam ↩︎

  2. M G: -karaṇasyāśrutatvāt ↩︎

  3. M G: tadarthaṃ vyākhyānam ↩︎

  4. J: atha vālaukika- ↩︎

  5. M G J: yathopadiṣṭā (see DK: 5: 1206) ↩︎

  6. DK suggests: ata ↩︎

  7. M G add: hṛdayaṅgmābhir ityādi grāma eva ↩︎

  8. DK suggests; ityādir upanayanādir ↩︎

  9. M G: -dvādaśato ↩︎

  10. M G: syād eva svavarṇakālaviśeṣayukto nimittārthaḥ ↩︎

  11. M G J: tad ucyata (Govindarāja also cites MDh 10.127 at this point) ↩︎

  12. M G: amantrakasya niyatakālasya ↩︎

  13. M G: -niyamārtham ayaṃ ↩︎

  14. M G: dharme ↩︎

  15. M G: bhartṛsaṃbhūtāsu; DK (5: 1208) suggests: saṃbhutāḥ ↩︎

  16. M G: -grahaṇāsyāśrutopi; DK suggests deleting: ato ↩︎

  17. DK suggests: āśaṅkyamānaṃ ↩︎

  18. M G: yady ↩︎

  19. M G: punaḥpunaḥśabda- ↩︎

  20. M G: dhetur uktaḥ ↩︎

  21. M G: tajjāyāḥ ↩︎

  22. M G: prayojanavācyam ↩︎

  23. M G: pramāṇaṃ tair eva ↩︎

  24. M G: -ślokair ↩︎

  25. M G: puruṣāparādhāsāv ↩︎

  26. M G: niyāmakāḥ ↩︎

  27. M G: abhyupapadyata ↩︎

  28. M G: saṃtānavacanatvāt ↩︎

  29. M G add: vā ↩︎

  30. M G: antare pabhāvānāṃ ↩︎

  31. M G: kataraṃ ↩︎

  32. M G: jātiviśeṣaḥ svīyo; J: jātiviśeṣaḥ striyo ↩︎

  33. DK suggests: -ārthāvṛtteḥ ↩︎

  34. M G: sahacārijātyantareṇa tritvam ↩︎

  35. M G: tad uktam ↩︎

  36. M G J: api ↩︎

  37. M G: prayujyata evāpadhvaṃsanivṛttyarthaṃ ca ↩︎

  38. M G add: sa ca mātāpitror ↩︎

  39. M G: -gamyatvam ↩︎

  40. M G: tāsu ↩︎

  41. M G J: -paryaṃ kaiś ↩︎

  42. M G: -darśanatve ↩︎

  43. DK: bhagavati ↩︎

  44. M G: brāhmaṇo ↩︎

  45. M G: saṃgatābhūva ↩︎

  46. M G: tv atas ↩︎

  47. M G: paricārikājīvikāhetoḥ; DK suggests: paricārikātvahetoḥ ↩︎

  48. M G J: nanu ↩︎

  49. M G: sākṣājjānāti- ↩︎

  50. M G J: tena ↩︎

  51. M G J omit: doṣasya ↩︎

  52. M G: uttarārdham; the reference is to the commentary on 10.5: ānulomyagrahaṇam uttarārtham ↩︎

  53. M G: itaḥ ↩︎

  54. M G add: ete ↩︎

  55. M G: sadā putrārthaphaladā apaśīrṇāḥ ↩︎

  56. M G: bhidyante ↩︎

  57. M G J: prātilomye na ↩︎

  58. M G: adhyayanādiṣu ↩︎

  59. M G: evaṃ ↩︎

  60. M G: vānyeṣu ↩︎

  61. M G: caṇḍāla- ↩︎

  62. M G: -nāmnaḥ ↩︎

  63. M G add: yā ↩︎

  64. M G: tarhy ↩︎

  65. M G: pratilomādi ↩︎

  66. M G J: api ↩︎

  67. M G: tāsvayam; DK suggests deleting svayam ↩︎

  68. M G: kṣatra- ↩︎

  69. M G omit: iti ↩︎

  70. M G: uttarārdhaṃ ↩︎

  71. M G: svayoni- ↩︎

  72. M G: ‘mbaṣṭhāṃ ↩︎

  73. M G; varṇayoniṣu ↩︎

  74. M G: prasajyata ↩︎

  75. M G: prātilomyaṃ ca sāmānyena ↩︎

  76. M G: anulomajā ↩︎

  77. M G: kṣatriyāyāṃ kṣatrāyogavyāṃ ↩︎

  78. M G: kṣatriyāyām ↩︎

  79. M G: caṇḍālābhyaḥ ↩︎

  80. M G: bāhyatareṇa bāhyā jātāḥ ↩︎

  81. M G: kṣatriyacaṇḍālā ↩︎

  82. M G J: śūdrās trayaḥ ↩︎

  83. M G: -bhavanti ↩︎

  84. M G J: ‘hīnān (with avagraha) ↩︎

  85. M G J: varṇābhāvāt (I follow DK 5: 1470 suggestion) ↩︎

  86. M G: prāptilābha- ↩︎

  87. M G: karmakāryakṣiprakāritā kāryāṇām ↩︎

  88. DK (5: 1471) suggests: avasara ityā- ↩︎

  89. M G: vāgurā vṛttir ↩︎

  90. M G J: -pitryarthaṃ ↩︎

  91. M G add: varṇakaḥ ↩︎

  92. DK (5: 1472) suggests: praśaṃsati; but see tāḍayanti later. ↩︎

  93. M G: evāyaṃ janayati ↩︎

  94. M G: ye ’nantara ↩︎

  95. J omits: ye ’nantaram . . . ślokaḥ (probably a formatting error; Jha has this passage in his translation) ↩︎

  96. M G J: jāyante ↩︎

  97. M G: -kāraṇāl ↩︎

  98. M G: -niṣādyau ↩︎

  99. M G: vaidehyā- ↩︎

  100. M G: bhinnarṇa- ↩︎

  101. M G: -vyavahāratvāt ↩︎

  102. M G: pukkasyāṃ ↩︎

  103. M G: āhārādīni karmāṇi taiḥ prasiddhaiḥ sopākādināmatayā tajjātīya eva so ’ntaś cāṇḍālād ↩︎

  104. M G: -jātīyās tu ↩︎

  105. M G add: dharmiṇa iti śabdasya dharmo ‘rthanīyaḥ ↩︎

  106. M G: tathopa- ↩︎

  107. DK suggests: tasyaiva ↩︎

  108. M G J: lugvidhau ↩︎

  109. M G J: lug ↩︎

  110. M G J: lugyogāt prakhyānāt ↩︎

  111. M G J: kriyate ↩︎

  112. M G J: aprasiddhair ↩︎

  113. M G: ātmāno ↩︎

  114. M G: -ādi- ↩︎

  115. M G: takṣā karma ↩︎

  116. M G: nivasedyaḥ ↩︎

  117. M G: vijñātāvijñāticihnaṃ ↩︎

  118. M G J omit: ca ↩︎

  119. M G: atha vāvapātrāya ↩︎

  120. M G: śakteṣu ↩︎

  121. M G omit: na ↩︎

  122. M G: draṣṭavyam ↩︎

  123. M G: -hetutvam ↩︎

  124. M G J: eva ca (taking this as part of the previous citation) ↩︎

  125. M G: avagamas ↩︎

  126. M G: utpannaḥ; I follow J and DK (5: 1747). I suggest the following emendation: yathākutaścid avagamāt teṣām anupapannāhiṃsā ↩︎

  127. M G add: no ↩︎

  128. M G: pitryarthe yogyatā ↩︎

  129. M G: ete yathokte ↩︎

  130. M G: prāptaṃ ↩︎

  131. DK (5: 1484): prasajjayitum ↩︎

  132. M G: evam anyatra ↩︎

  133. M G J: ārocayamāna ↩︎

  134. M G place vā after kṣetraṃ ↩︎

  135. M G: bhavet kevalaṃ ↩︎

  136. M G: yadā śakyante ↩︎

  137. M G: buddhā ↩︎

  138. DK (5: 1214) suggests: garīyastvāt ↩︎

  139. M G: śūdratulyaḥ syāt ↩︎

  140. M G: yathāvikāraṃ ↩︎

  141. M G: -pekṣyam ↩︎

  142. M G: cānuvāda ↩︎

  143. M G: vaṇikkarmāntarbhāvena ↩︎

  144. M G: svakarmaśāstrapravṛttikarmasv ↩︎

  145. M G: prāptaṃ ↩︎

  146. M G: kuṭumbasvakarmanityakarmāvasthitam; J: kuṭumbasvakarmāṇi nityakarmāvasthitām ↩︎

  147. M G J add: tu ↩︎

  148. M G: vā svayaṃkṛte ↩︎

  149. M G: tasyāmapratiṣedhārthā ↩︎

  150. M G: na tu tad yuktam; DK (5: 1220): yad uktam ↩︎

  151. M G: kāṣṭhavatpīḍām ↩︎

  152. M G: anubhavantī ↩︎

  153. M G: sarva- ↩︎

  154. DK suggests: vitta for vṛtti ↩︎

  155. M G: dhānābhāvād ↩︎

  156. M G: bhāvānuvādhaḥ ↩︎

  157. M G omit: tato nyūnā vāṇijyā ↩︎

  158. M G: gorakṣādayaḥ ↩︎

  159. M G: tathā ↩︎

  160. M G J: ca (I follow DK 5:1220) ↩︎

  161. M G J: rasavikāraṃ ↩︎

  162. M G: -pratiṣedhe nivṛtyarthagrahaṇam; J: -arthagrahaṇam ↩︎

  163. DK suggests: apekṣya ↩︎

  164. M G: kālāntareṇāgāmī ↩︎

  165. M G: veyam arthe; J: veyam artha (typo?) ↩︎

  166. M G J omit: vā ↩︎

  167. M G: yavatilān ↩︎

  168. M G: brāhmādayo ↩︎

  169. M G J omit: hi ↩︎

  170. DK suggests: niyamārtham ↩︎

  171. M G omit: na ↩︎

  172. M G J: anāpadity- ↩︎

  173. M G: saktvodanādyakṛtānnena; DK suggests anyena for annena, and thinks Medh reads kṛtānnaṃ ca kṛtānnena, which is also the reading of Vijñāneśvara on YDh 3.39. ↩︎

  174. M G J: nārthāpe- ↩︎

  175. M G J: prakṛtivinimayam astu; ↩︎

  176. M G: gautamenaivaṃ darśitam ↩︎

  177. M G: sarvaṃ śeṣa ↩︎

  178. M G: jīveta ↩︎

  179. M G J: vivāhādikarmaṇām eṣāṃ vidhānān (I follow DK conjecture) ↩︎

  180. M G: vaiśyavṛttir ↩︎

  181. M G: karśitaṃ ↩︎

  182. M G: prāpnuyāt ↩︎

  183. M G: -saṃsargeṇa ↩︎

  184. M G J omit: na. I follow DK (5: 1229) in inserting the negative particle, which makes the pūrvapakṣa view different from that stated by Medh. ↩︎

  185. M G: evaṃ ↩︎

  186. M G J: prativacanaṃ ↩︎

  187. M G: tad eva vākyatvāpatter ↩︎

  188. M G: prabhṛtiḥ ↩︎

  189. M G: jātikarmāt tadapekṣam atra svāminam ↩︎

  190. M G: śeṣārthavādaś ca ↩︎

  191. M G J: abhyāgata ↩︎

  192. M G: pratigrahaḥ samānajātīyaḥ ↩︎

  193. M G: syāt ↩︎

  194. M G J: tatrādhidevatāniṣṭhitabhṛtyāgataṃ ↩︎

  195. M G: upapannena kurvīteyam ↩︎

  196. M G: nimittaiḥ ↩︎

  197. M G: nibandhāt ↩︎

  198. M G: tadīyaśabdena ↩︎

  199. M G: viśeṣaśravaṇe ↩︎

  200. M G J: yānabandhenāpi ↩︎

  201. M G: pārśvaka-; J DK (5: 1234): pāśuka- ↩︎

  202. M G add: āvarjanaḥ ↩︎

  203. M G: puruṣamātre viṣa- ↩︎

  204. M G: -pannivṛttir ↩︎

  205. DK (4: 1350): yuddhaṃ ↩︎

  206. M G a very different reading: dhānavyavahāriṇāḥ śūdrā karma ↩︎

  207. M G: yadasya ↩︎

  208. M G: viśiṣṭaṃ karmaiṣa śabdo ↩︎

  209. M G: yadasya ↩︎

  210. M G add: na ↩︎

  211. M G add: tad uktam “nivṛttis tu mahāphalā” ↩︎

  212. M G: dharmaprāptum ↩︎

  213. M G add: tāvatikaṃ ↩︎