०८

001-050

001 व्यवहारान् दिदृक्षुस् ...{Loading}...

व्यवहारान् दिदृक्षुस् तु
ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव
विनीतः प्रविशेत् सभाम् ॥ ८.१ ॥

002 तत्रासीनः स्थितो ...{Loading}...

तत्रासीनः स्थितो वापि
पाणिम् उद्यम्य दक्षिणम् ।
विनीत-वेषाभरणः
पश्येत् कार्याणि कार्यिणाम् ॥ ८.२ ॥

003 प्रत्यहन् देशदृष्टैश् ...{Loading}...

प्रत्यहं देशदृष्टैश् च
शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु
निबद्धानि पृथक् पृथक् ॥ ८.३ ॥

004 तेषाम् आद्यम् ...{Loading}...

तेषाम् आद्यम् ऋणादानं
निक्षेपो ऽस्वामिविक्रयः ।
सम्भूय च समुत्थानं
दत्तस्याऽनपकर्म च ॥ ८.४ ॥

005 वेतनस्यैव चादानम् ...{Loading}...

वेतनस्यैव चादानं
संविदश् च व्यतिक्रमः ।
क्रय-विक्रयानुशयो
विवादः स्वामि-पालयोः ॥ ८.५ ॥

006 सीमाविवादधर्मश् च ...{Loading}...

सीमाविवादधर्मश् च
पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव
स्त्रीसङ्ग्रहणम् एव च ॥ ८.६ ॥

007 स्त्री-पुन्धर्मो विभागश् ...{Loading}...

स्त्री-पुन्धर्मो विभागश् च
द्यूतम् आह्वय एव च ।
पदान्य् अष्टादशैतानि
व्यवहारस्थिताव् इह ॥ ८.७ ॥

008 एषु स्थानेषु ...{Loading}...

एषु स्थानेषु भूयिष्ठं
विवादं चरतां नृणाम् ।
धर्मं शाश्वतम् आश्रित्य
कुर्यात् कार्यविनिर्णयम् ॥ ८.८ ॥

009 यदा स्वयम् ...{Loading}...

यदा स्वयं न कुर्यात् तु
नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं
ब्राह्मणं कार्यदर्शने ॥ ८.९ ॥

010 सो ऽस्य ...{Loading}...

सो ऽस्य कार्याणि सम्पश्येत्
सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याऽग्र्याम्
आसीनः स्थित एव वा ॥ ८.१० ॥

011 यस्मिन् देशे ...{Loading}...

यस्मिन् देशे निषीदन्ति
विप्रा वेदविदस् त्रयः ।
राज्ञश् चाऽधिकृतो विद्वान्
ब्रह्मणस् तां सभां विदुः ॥ ८.११ ॥

012 धर्मो विद्धस् ...{Loading}...

धर्मो विद्धस् त्व् अधर्मेण
सभां यत्रोपतिष्ठते ।
शल्यं चाऽस्य न कृन्तन्ति
विद्धास् तत्र सभासदः ॥ ८.१२ ॥

013 सभां वा ...{Loading}...

सभां वा न प्रवेष्टव्यं
वक्तव्यं वा समञ्जसम् [मेधातिथिपाठः - सभा वा न प्रवेष्टव्या] ।
अब्रुवन् विब्रुवन् वापि
नरो भवति किल्बिषी ॥ ८.१३ ॥

014 यत्र धर्मो ...{Loading}...

यत्र धर्मो ह्य् अधर्मेण
सत्यं यत्राऽनृतेन च ।
हन्यते प्रेक्षमाणानां
हतास् तत्र सभासदः ॥ ८.१४ ॥

015 धर्म एव ...{Loading}...

धर्म एव हतो हन्ति
धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो
मा नो धर्मो हतो ऽवधीत् [मेधातिथिपाठः - वधीत्] ॥ ८.१५ ॥

016 वृषो हि ...{Loading}...

वृषो हि भगवान् धर्मस्
तस्य यः कुरुते ह्य् अलम् [मेधातिथिपाठः - त्व् अलम्] ।
वृषलं तं विदुर् देवास्
तस्माद् धर्मं न लोपयेत् ॥ ८.१६ ॥

017 एक एव ...{Loading}...

एक एव सुहृद् धर्मो
निधाने ऽप्य् अनुयाति यः ।
शरीरेण समं नाशं
सर्वम् अन्यद् +धि गच्छति ॥ ८.१७ ॥

018 पादो ऽधर्मस्य ...{Loading}...

पादो ऽधर्मस्य कर्तारं
पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान्
पादो राजानम् ऋच्छति ॥ ८.१८ ॥

019 राजा भवत्य् ...{Loading}...

राजा भवत्य् अनेनास् तु
मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं
निन्दार्हो यत्र निन्द्यते ॥ ८.१९ ॥

020 जातिमात्रोपजीवी वा ...{Loading}...

जातिमात्रोपजीवी वा
कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर्
न तु शूद्रः कथं चन ॥ ८.२० ॥

021 यस्य शूद्रस् ...{Loading}...

यस्य शूद्रस् तु कुरुते
राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद् राष्ट्रं
पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥

022 यद् राष्ट्रम् ...{Loading}...

यद् राष्ट्रं शूद्र-भूयिष्ठं
नास्तिकाक्रान्तम् अद्विजम् ।
विनश्यत्य् आशु तत् कृत्स्नं
दुर्भिक्ष-व्याधिपीडितम् ॥ ८.२२ ॥

023 धर्मासनम् अधिष्ठाय ...{Loading}...

धर्मासनम् अधिष्ठाय
संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः
कार्यदर्शनम् आरभेत् ॥ ८.२३ ॥

024 अर्थानर्थाव् उभौ ...{Loading}...

अर्थानर्थाव् उभौ बुद्ध्वा
धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि
पश्येत् कार्याणि कार्यिणाम् ॥ ८.२४ ॥

025 बाह्यैर् विभावयेल् ...{Loading}...

बाह्यैर् विभावयेल् लिङ्गैर्
भावम् अन्तर्गतं नृणाम् ।
स्वर-वर्णेङ्गिताकारैश्
चक्षुषा चेष्टितेन च ॥ ८.२५ ॥

026 आकारैर् इङ्गितैर् ...{Loading}...

आकारैर् इङ्गितैर् गत्या
चेष्टया भाषितेन च ।
नेत्र-वक्त्रविकारैश् च
गृह्यते ऽन्तर्गतं मनः ॥ ८.२६ ॥

027 बालदायादिकं रिक्थम् ...{Loading}...

बालदायादिकं रिक्थं
तावद् राजानुपालयेत् ।
यावत् स स्यात् समावृत्तो
यावच् चाऽतीत-शैशवः [मेधातिथिपाठः - यावद् वातीत-शैशवः] ॥ ८.२७ ॥

028 वशापुत्रासु चैवम् ...{Loading}...

वशापुत्रासु चैवं स्याद्
रक्षणं निष्-कुलासु च ।
पति-व्रतासु च स्त्रीषु
विधवास्व् आतुरासु च ॥ ८.२८ ॥

029 जीवन्तीनान् तु ...{Loading}...

जीवन्तीनां तु तासां ये
तद् धरेयुः स्वबान्धवाः ।
ताञ् शिष्याच् चौरदण्डेन
धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥

030 प्रणष्ट-स्वामिकं रिक्थम् ...{Loading}...

प्रणष्ट-स्वामिकं रिक्थं
राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी
परेण नृपतिर् हरेत् ॥ ८.३० ॥

031 ममेदम् इति ...{Loading}...

ममेदम् इति यो ब्रूयात्
सो ऽनुयोज्यो यथाविधि ।
संवाद्य रूप-सङ्ख्यादीन्
स्वामी तद् द्रव्यम् अर्हति ॥ ८.३१ ॥

032 अवेदयानो नष्टस्य ...{Loading}...

अवेदयानो नष्टस्य
देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च
तत्समं दण्डम् अर्हति ॥ ८.३२ ॥

033 आददीताऽथ षड्भागम् ...{Loading}...

आददीताऽथ षड्भागं
प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि
सतां धर्मम् अनुस्मरन् ॥ ८.३३ ॥

034 प्रनष्टाधिगतन् द्रव्यम् ...{Loading}...

प्रनष्टाधिगतं द्रव्यं
तिष्ठेद् युक्तैर् अधिष्ठितम् ।
यांस् तत्र चौरान् गृह्णीयात्
तान् राजेभेन घातयेत् ॥ ८.३४ ॥

035 ममायम् इति ...{Loading}...

ममायम् इति यो ब्रूयान्
निधिं सत्येन मानवः ।
तस्याददीत षड्भागं
राजा द्वादशम् एव वा ॥ ८.३५ ॥

036 अनृतन् तु ...{Loading}...

अनृतं तु वदन् दण्ड्यः
स्ववित्तस्याऽंशम् अष्टमम् ।
तस्यैव वा निधानस्य
सङ्ख्ययाल्पीयसीं कलाम् ॥ ८.३६ ॥

037 विद्वांस् तु ...{Loading}...

विद्वांस् तु ब्राह्मणो दृष्ट्वा
पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत
सर्वस्याऽधिपतिर् हि सः ॥ ८.३७ ॥

038 यन् तु ...{Loading}...

यं तु पश्येन् निधिं राजा
पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्त्वार्धम्
अर्धं कोशे प्रवेशयेत् ॥ ८.३८ ॥

039 निधीनान् तु ...{Loading}...

निधीनां तु पुराणानां
धातूनाम् एव च क्षितौ ।
अर्धभाग् रक्षणाद् राजा
भूमेर् अधिपतिर् हि सः ॥ ८.३९ ॥

040 दातव्यं सर्ववर्णेभ्यो ...{Loading}...

दातव्यं सर्ववर्णेभ्यो
राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश्
चौरस्याप्नोति किल्बिषम् ॥ ८.४० ॥

041 जाति-जानपदान् धर्मान् ...{Loading}...

जाति-जानपदान् धर्मान्
श्रेणीधर्मांश् च धर्मवित् ।
समीक्ष्य कुलधर्मांश् च
स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥

042 स्वानि कर्माणि ...{Loading}...

स्वानि कर्माणि कुर्वाणा
दूरे सन्तो ऽपि मानवाः ।
प्रिया भवन्ति लोकस्य
स्वे स्वे कर्मण्य् अवस्थिताः ॥ ८.४२ ॥

043 नोत्पादयेत् स्वयम् ...{Loading}...

नोत्पादयेत् स्वयं कार्यं
राजा नाऽप्य् अस्य पुरुषः ।
न च प्रापितम् अन्येन
ग्रसेद् अर्थं कथं चन [मेधातिथिपाठः - ग्रसेताऽर्थं] ॥ ८.४३ ॥

044 यथा नयत्य् ...{Loading}...

यथा नयत्य् असृक्पातैर्
मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन
धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥

045 सत्यम् अर्थम् ...{Loading}...

सत्यम् अर्थं च सम्पश्येद्
आत्मानम् अथ साक्षिणः [मेधातिथिपाठः - साक्षिणम्] ।
देशं रूपं च कालं च
व्यवहारविधौ स्थितः ॥ ८.४५ ॥

046 सद्भिर् आचरितम् ...{Loading}...

सद्भिर् आचरितं यत् स्याद्
धार्मिकैश् च द्विजातिभिः ।
तद् देश-कुल-जातीनाम्
अविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥

047 अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन ...{Loading}...

अधमर्णार्थसिद्ध्यर्थम्
उत्तमर्णेन चोदितः ।
दापयेद् धनिकस्याऽर्थम्
अधमर्णाद् विभावितम् ॥ ८.४७ ॥

048 यैर् यैर् ...{Loading}...

यैर् यैर् उपायैर् अर्थं स्वं
प्राप्नुयाद् उत्तमर्णिकः ।
तैर् तैर् उपायैः सङ्गृह्य
दापयेद् अधमर्णिकम् ॥ ८.४८ ॥

049 धर्मेण व्यवहारेण ...{Loading}...

धर्मेण व्यवहारेण
छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं
पञ्चमेन बलेन च ॥ ८.४९ ॥

050 यः स्वयम् ...{Loading}...

यः स्वयं साधयेद् अर्थम्
उत्तमर्णो ऽधमर्णिकात् ।
न स राज्ञाभियोक्तव्यः
स्वकं संसाधयन् धनम् ॥ ८.५० ॥

051-100

051 अर्थे ऽपव्ययमानम् ...{Loading}...

अर्थे ऽपव्ययमानं तु
करणेन विभावितम् ।
दापयेद् धनिकस्याऽर्थं
दण्डलेशं च शक्तितः ॥ ८.५१ ॥

052 अपह्नवे ऽधमर्णस्य ...{Loading}...

अपह्नवे ऽधमर्णस्य
देहीत्य् उक्तस्य संसदि ।
अभियोक्ता दिशेद् देश्यं
करणं वान्यद् उद्दिशेत् ॥ ८.५२ ॥

053 अदेश्यं यश् ...{Loading}...

अदेश्यं यश् च दिशति
निर्दिश्याऽपह्नुते च यः ।
यश् चाऽधरोत्तरान् अर्थान्
विगीतान् नाऽवबुध्यते ॥ ८.५३ ॥

054 अपदिश्याऽपदेश्यञ् च ...{Loading}...

अपदिश्याऽपदेश्यं च
पुनर् यस् त्व् अपधावति [मेधातिथिपाठः - अपदिश्याऽपदेशं] ।
सम्यक् प्रणिहितं चाऽर्थं
पृष्टः सन् नाऽभिनन्दति ॥ ८.५४ ॥

055 असम्भाष्ये साक्षिभिश् ...{Loading}...

असम्भाष्ये साक्षिभिश् च
देशे सम्भाषते मिथः ।
निरुच्यमानं प्रश्नं च
नेच्छेद् यश् चाऽपि निष्पतेत् ॥ ८.५५ ॥

056 ब्रूहीत्य् उक्तश् ...{Loading}...

ब्रूहीत्य् उक्तश् च न ब्रूयाद्
उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात्
तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥

057 साक्षिणः सन्ति ...{Loading}...

साक्षिणः सन्ति मेत्य् उक्त्वा
दिशेत्य् उक्तो दिशेन् न यः [मेधातिथिपाठः - ज्ञातारः सन्ति मेत्य्*]
*{मेत्य् < म इत्य् ?} ।
धर्मस्थः कारणैर् एतैर्
हीनं तम् अपि निर्दिशेत् [मेधातिथिपाठः - तम् इति निर्दिशेत् ॥ ८.५७ ॥

058 अभियोक्ता न ...{Loading}...

अभियोक्ता न चेद् ब्रूयाद्
बध्यो दण्ड्यश् च धर्मतः [मेधातिथिपाठः - बन्ध्यो दण्ड्यश् च] ।
न चेत् त्रिपक्षात् प्रब्रूयाद्
धर्मं प्रति पराजितः ॥ ८.५८ ॥

059 यो यावन् ...{Loading}...

यो यावन् निह्नुवीताऽर्थं
मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ
दाप्यो तद्द्विगुणं दमम् ॥ ८.५९ ॥

060 पृष्टो ऽपव्ययमानस् ...{Loading}...

पृष्टो ऽपव्ययमानस् तु
कृतावस्थो धनैषिणा ।
त्र्यवरैः साक्षिभिर् भाव्यो
नृप-ब्राह्मणसंनिधौ ॥ ८.६० ॥

061 यादृशा धनिभिः ...{Loading}...

यादृशा धनिभिः कार्या
व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि
यथा वाच्यम् ऋतं च तैः ॥ ८.६१ ॥

062 गृहिणः पुत्रिणो ...{Loading}...

गृहिणः पुत्रिणो मौलाः
क्षत्र-विश्-शूद्र-योनयः ।
अर्थ्युक्ताः साक्ष्यम् अर्हन्ति
न ये के चिद् अनापदि ॥ ८.६२ ॥

063 आप्ताः सर्वेषु ...{Loading}...

आप्ताः सर्वेषु वर्णेषु
कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा
विपरीतांस् तु वर्जयेत् ॥ ८.६३ ॥

064 नाऽर्थसम्बन्धिनो नाप्ता ...{Loading}...

नाऽर्थसंबन्धिनो नाप्ता
न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या
न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥

065 न साक्षी ...{Loading}...

न साक्षी नृपतिः कार्यो
न कारुक-कुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो
न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥

066 नाऽध्यधीनो न ...{Loading}...

नाऽध्यधीनो न वक्तव्यो
न दस्युर् न विकर्मकृत् ।
न वृद्धो न शिशुर् नैको
नाऽन्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥

067 नार्तो न ...{Loading}...

नार्तो न मत्तो नोन्मत्तो
न क्षुत्-तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो
न क्रुद्धो नाऽपि तस्करः ॥ ८.६७ ॥

068 स्त्रीणां साक्ष्यम् ...{Loading}...

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्
द्विजानां सदृशा द्विजाः ।
शूद्राश् च सन्तः शूद्राणाम्
अन्त्यानाम् अन्त्य-योनयः ॥ ८.६८ ॥

069 अनुभावी तु ...{Loading}...

अनुभावी तु यः कश् चित्
कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा
शरीरस्याऽपि चाऽत्यये ॥ ८.६९ ॥

070 स्त्रियाप्य् असम्भावे ...{Loading}...

स्त्रियाप्य् असंभावे कार्यं
बालेन स्थविरेण वा ।
शिष्येण बन्धुना वापि
दासेन भृतकेन वा ॥ ८.७० ॥

071 बाल-वृद्धातुराणाञ् च ...{Loading}...

बाल-वृद्धातुराणां च
साक्ष्येषु वदतां मृषा ।
जानीयाद् अस्थिरां वाचम्
उत्सिक्त-मनसां तथा ॥ ८.७१ ॥

072 साहसेषु च ...{Loading}...

साहसेषु च सर्वेषु
स्तेय-संग्रहणेषु च ।
वाग्-दण्डयोश् च पारुष्ये
न परीक्षेत साक्षिणः ॥ ८.७२ ॥

073 बहुत्वम् परिगृह्णीयात् ...{Loading}...

बहुत्वं परिगृह्णीयात्
साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान्
गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३ ॥

074 समक्षदर्शनात् साक्ष्यम् ...{Loading}...

समक्षदर्शनात् साक्ष्यं
श्रवणाच् चैव सिध्यति ।
तत्र सत्यं ब्रुवन् साक्षी
धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥

075 साक्षी दृष्ट-श्रुताद् ...{Loading}...

साक्षी दृष्ट-श्रुताद् अन्यद्
विब्रुवन्न् आर्यसंसदि ।
अवाङ् नरकम् अभ्येति
प्रेत्य स्वर्गाच् च हीयते ॥ ८.७५ ॥

076 यत्राऽनिबद्धो ऽपीक्षेत ...{Loading}...

यत्राऽनिबद्धो ऽपीक्षेत
शृणुयाद् वापि किं चन ।
पृष्टस् तत्राऽपि तद् ब्रूयाद्
यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥

077 एको ऽलुब्धस् ...{Loading}...

एको ऽलुब्धस् तु साक्षी स्याद्
बह्व्यः शुच्यो ऽपि न स्त्रियः [मेधातिथिपाठः - त्व् असाक्षी] ।
स्त्रीबुद्धेर् अस्थिरत्वात् तु
दोषैश् चाऽन्ये ऽपि ये वृताः ॥ ८.७७ ॥

078 स्वभावेनैव यद् ...{Loading}...

स्वभावेनैव यद् ब्रूयुस्
तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर्
धर्मार्थं तद् अपार्थकम् ॥ ८.७८ ॥

079 सभान्तः साक्षिणः ...{Loading}...

सभान्तः साक्षिणः प्राप्तान्
अर्थि-प्रत्यर्थि-संनिधौ ।
प्राड्विवाको ऽनुयुञ्जीत
विधिनानेन सान्त्वयन् ॥ ८.७९ ॥

080 यद् द्वयोर् ...{Loading}...

यद् द्वयोर् अनयोर् वेत्थ
कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन
युष्माकं ह्य् अत्र साक्षिता ॥ ८.८० ॥

081 सत्यं साक्ष्ये ...{Loading}...

सत्यं साक्ष्ये ब्रुवन् साक्षी
लोकान् आप्नोति पुष्कलान् [मेधातिथिपाठः - आप्नोत्य् अनिन्दितान्] ।
इह चाऽनुत्तमां कीर्तिं
वाग् एषा ब्रह्मपूजिता ॥ ८.८१ ॥

082 साक्ष्ये ऽनृतम् ...{Loading}...

साक्ष्ये ऽनृतं वदन् पाशैर्
बध्यते वारुणैर् भृशम् ।
विवशः शतम् आजातीस्
तस्मात् साक्ष्यं वदेद् ऋतम् ॥ ८.८२ ॥

083 सत्येन पूयते ...{Loading}...

सत्येन पूयते साक्षी
धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं
सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥

084 आत्मैव ह्य् ...{Loading}...

आत्मैव ह्य् आत्मनः साक्षी
गतिर् आत्मा तथात्मनः ।
मावमंस्थाः स्वम् आत्मानं
नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥

085 मन्यन्ते वै ...{Loading}...

मन्यन्ते वै पापकृतो
न कश् चित् पश्यतीति नः ।
तांस् तु देवाः प्रपश्यन्ति
स्वस्यैवाऽन्तरपूरुषः ॥ ८.८५ ॥

086 द्यौर् भूमिर् ...{Loading}...

द्यौर् भूमिर् आपो हृदयं
चन्द्रार्काग्नि-यमानिलाः ।
रात्रिः संध्ये च धर्मश् च
वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥

087 देव-ब्राह्मणसान्निध्ये साक्ष्यम् ...{Loading}...

देव-ब्राह्मणसांनिध्ये
साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्-मुखान् प्राङ्-मुखान् वा
पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥

088 ब्रूहीति ब्राह्मणम् ...{Loading}...

ब्रूहीति ब्राह्मणं पृच्छेत्
सत्यं ब्रूहीति पार्थिवम् ।
गो-बीज-काञ्चनैर् वैश्यं
शूद्रं सर्वैस् तु पातकैः ॥ ८.८८ ॥

089 ब्रह्मघ्नो ये ...{Loading}...

ब्रह्मघ्नो ये स्मृता लोका
ये च स्त्री-बाल-घातिनः ।
मित्रद्रुहः कृत-घ्नस्य
ते ते स्युर् ब्रुवतो मृषा ॥ ८.८९ ॥

090 जन्मप्रभृति यत् ...{Loading}...

जन्मप्रभृति यत् किं चित्
पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद्
यदि ब्रूयास् त्वम् अन्यथा ॥ ८.९० ॥

091 एको ऽहम् ...{Loading}...

एको ऽहम् अस्मीत्य् आत्मानं
यस् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष
पुण्य-पापेक्षिता मुनिः ॥ ८.९१ ॥

092 यमो वैवस्वतो ...{Loading}...

यमो वैवस्वतो देवो यस्
तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते
मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥

093 नग्नो मुण्डः ...{Loading}...

नग्नो मुण्डः कपालेन च
भिक्षार्थी क्षुत्-पिपासितः [मेधातिथिपाठः - कपाली] ।
अन्धः शत्रुकुलं गच्छेद्
यः साक्ष्यम् अनृतं वदेत् ॥ ८.९३ ॥

094 अवाक्-शिरास् तमस्य् ...{Loading}...

अवाक्-शिरास् तमस्य् अन्धे
किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात्
पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥

095 अन्धो मत्स्यान् ...{Loading}...

अन्धो मत्स्यान् इवाऽश्नाति
स नरः कण्टकैः सह ।
यो भाषते ऽर्थवैकल्यम्
अप्रत्यक्षं सभां गतः ॥ ८.९५ ॥

096 यस्य विद्वान् ...{Loading}...

यस्य विद्वान् हि वदतः
क्षेत्रज्ञो नाऽभिशङ्कते [मेधातिथिपाठः - नाऽतिशङ्कते ।
तस्मान् न देवाः श्रेयांसं
लोके ऽन्यं पुरुषं विदुः ॥ ८.९६ ॥

097 यावतो बान्धवान् ...{Loading}...

यावतो बान्धवान् यस्मिन्
हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिन्
शृणु सौम्याऽनुपूर्वशः ॥ ८.९७ ॥

098 पञ्च पश्व्-अनृते ...{Loading}...

पञ्च पश्व्-अनृते हन्ति
दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति
सहस्रं पुरुषानृते ॥ ८.९८ ॥

099 हन्ति जातान् ...{Loading}...

हन्ति जातान् अजातांश् च
हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्य्-अनृते हन्ति
मा स्म भूम्य्-अनृतं वदीः ॥ ८.९९ ॥

100 अप्सु भूमिवद् ...{Loading}...

अप्सु भूमिवद् इत्य् आहुः
स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु
सर्वेष्व् अश्ममयेषु च ॥ ८.१०० ॥

101-150

101 एतान् दोषान् ...{Loading}...

एतान् दोषान् अवेक्ष्य त्वं
सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं
सर्वम् एवाऽञ्जसा वद ॥ ८.१०१ ॥

102 गोरक्षकान् वाणिजिकांस् ...{Loading}...

गोरक्षकान् वाणिजिकांस्
तथा कारु-कुशीलवान् [मेधातिथिपाठः - वाणिजकांस्] ।
प्रेष्यान् वार्धुषिकांश् चैव
विप्रान् शूद्रवद् आचरेत् ॥ ८.१०२ ॥

103 तद् वदन् ...{Loading}...

तद् वदन् धर्मतो ऽर्थेषु
जानन्न् अप्य् अन्य्था नरः ।
न स्वर्गाच् च्यवते लोकाद्
दैवीं वाचं वदन्ति ताम् ॥ ८.१०३ ॥

104 शूद्र-विट्-क्षत्र-विप्राणां यत्र ...{Loading}...

शूद्र-विट्-क्षत्र-विप्राणां
यत्र र्तोक्तौ भवेद् वधः ।
तत्र वक्तव्यम् अनृतं
तद् +धि सत्याद् विशिष्यते ॥ ८.१०४ ॥

105 वाग्-गैवत्यैश् च ...{Loading}...

वाग्-गैवत्यैश् च चरुभिर्
यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य
कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५ ॥

106 कूष्माण्डैर् वापि ...{Loading}...

कूष्माण्डैर् वापि जुहुयाद्
घृतम् अग्नौ यथाविधि [त१०।-५; व्स्२०।१४] ।
उद् इत्य् ऋचा वा वारुण्या
तृचेनाऽब्-दैवतेन वा [र्स्।२४।१५; १०।।-३; व्स्१२।;व्स्१२।५०] ॥ ८.१०६ ॥

107 त्रिपक्षाद् अब्रुवन् ...{Loading}...

त्रिपक्षाद् अब्रुवन् साक्ष्यम्
ऋणादिषु नरो ऽगदः ।
तदृणं प्राप्नुयात् सर्वं
दशबन्धं च सर्वतः ॥ ८.१०७ ॥

108 यस्य दृश्येत ...{Loading}...

यस्य दृश्येत सप्ताहाद्
उक्त-वाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम्
ऋणं दाप्यो दमं च सः ॥ ८.१०८ ॥

109 असाक्षिकेषु त्व् ...{Loading}...

असाक्षिकेषु त्व् अर्थेषु
मिथो विवादमानयोः ।
अविन्दंस् तत्त्वतः सत्यं
शपथेनाऽपि लम्भयेत् ॥ ८.१०९ ॥

110 महर्षिभिश् च ...{Loading}...

महर्षिभिश् च देवैश् च
कार्यार्थं शपथाः कृताः ।
वसिष्ठश् चाऽपि शपथं
शेपे पैजवने नृपे ॥ ८.११० ॥

111 न वृथा ...{Loading}...

न वृथा शपथं कुर्यात्
स्वल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन्
प्रेत्य चेह च नश्यति ॥ ८.१११ ॥

112 कामिनीषु विवाहेषु ...{Loading}...

कामिनीषु विवाहेषु
गवां भक्ष्ये तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च
शपथे नाऽस्ति पातकम् ॥ ८.११२ ॥

113 सत्येन शापयेद् ...{Loading}...

सत्येन शापयेद् विप्रं
क्षत्रियं वाहनायुधैः ।
गो-बीज-काञ्चनैर् वैश्यं
शूद्रं सर्वैस् तु पातकैः ॥ ८.११३ ॥

114 अग्निं वाहारयेद् ...{Loading}...

अग्निं वाहारयेद् एनम्
अप्सु चैनं निमज्जयेत् ।
पुत्र-दारस्य वाप्य् एनं
शिरांसि स्पर्शयेत् पृथक् ॥ ८.११४ ॥

115 यम् इद्धो ...{Loading}...

यम् इद्धो न दहत्य् अग्निर्
आपो नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं
स ज्ञेयः शपथे शुचिः ॥ ८.११५ ॥

116 वत्सस्य ह्य् ...{Loading}...

वत्सस्य ह्य् अभिशस्तस्य
पुरा भ्रात्रा यवीयसा ।
नाऽग्निर् ददाह रोमाऽपि
सत्येन जगतः स्पशः ॥ ८.११६ ॥

117 यस्मिन् यस्मिन् ...{Loading}...

यस्मिन् यस्मिन् विवादे तु
कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत
कृतं चाऽप्य् अकृतं भवेत् ॥ ८.११७ ॥

118 लोभान् मोहाद् ...{Loading}...

लोभान् मोहाद् भयान् मैत्रात्
कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च
साक्ष्यं वितथम् उच्यते ॥ ८.११८ ॥

119 एषाम् अन्यतमे ...{Loading}...

एषाम् अन्यतमे स्थाने
यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषांस् तु
प्रवक्ष्याम्य् अनुपूर्वशः ॥ ८.११९ ॥

120 लोभात् सहस्रम् ...{Loading}...

लोभात् सहस्रं दण्ड्यस् तु
मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ
मैत्रात् पूर्वं चतुर्गुणम् ॥ ८.१२० ॥

121 कामाद् दशगुणम् ...{Loading}...

कामाद् दशगुणं पूर्वं
क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे
बालिश्याच् छतम् एव तु ॥ ८.१२१ ॥

122 एतान् आहुः ...{Loading}...

एतान् आहुः कौटसाक्ष्ये
प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याऽव्यभिचारार्थम्
अधर्मनियमाय च ॥ ८.१२२ ॥

123 कौटसाक्ष्यन् तु ...{Loading}...

कौटसाक्ष्यं तु कुर्वाणांस्
त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा
ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥

124 दश स्थानानि ...{Loading}...

दश स्थानानि दण्डस्य
मनुः स्वयंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर्
अक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥

125 उपस्थम् उदरम् ...{Loading}...

उपस्थम् उदरं जिह्वा
हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च
धनं देहस् तथैव च ॥ ८.१२५ ॥

126 अनुबन्धम् परिज्ञाय ...{Loading}...

अनुबन्धं परिज्ञाय
देश-कालौ च तत्त्वतः ।
सारापराधो चालोक्य
दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥

127 अधर्मदण्डनं लोके ...{Loading}...

अधर्मदण्डनं लोके
यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्राऽपि
तस्मात् तत् परिवर्जयेत् ॥ ८.१२७ ॥

128 अदण्ड्यान् दण्डयन् ...{Loading}...

अदण्ड्यान् दण्डयन् राजा
दण्ड्यांश् चैवाऽप्य् अदण्डयन् ।
अयशो महद् आप्नोति
नरकं चैव गच्छति ॥ ८.१२८ ॥

129 वाग्दण्डम् प्रथमम् ...{Loading}...

वाग्दण्डं प्रथमं कुर्याद्
धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु
वधदण्डम् अतः परम् ॥ ८.१२९ ॥

130 वधेनाऽपि यदा ...{Loading}...

वधेनाऽपि यदा त्व् एतान्
निग्रहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत्
प्रयुञ्जीत चतुष्टयम् ॥ ८.१३० ॥

131 लोकसंव्यवहारार्थं याः ...{Loading}...

लोकसंव्यवहारार्थं
याः संज्ञाः प्रथिता भुवि ।
ताम्र-रूप्य-सुवर्णानां
ताः प्रवक्ष्याम्य् अशेषतः ॥ ८.१३१ ॥

132 जालान्तरगते भानौ ...{Loading}...

जालान्तरगते भानौ
यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां
त्रसरेणुं प्रचक्षते ॥ ८.१३२ ॥

133 त्रसरेणवो ऽष्टौ ...{Loading}...

त्रसरेणवो ऽष्टौ विज्ञेया
लिक्षैका परिमाणतः ।
ता राजसर्षपस् तिस्रस्
ते त्रयो गौरसर्षपः ॥ ८.१३३ ॥

134 सर्षपाः षड् ...{Loading}...

सर्षपाः षड् यवो मध्यस्
त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलको माषस्
ते सुवर्णस् तु षोडश ॥ ८.१३४ ॥

135 पलं सुवर्णाश् ...{Loading}...

पलं सुवर्णाश् चत्वारः
पलानि धरणं दश ।
द्वे कृष्णले समधृते
विज्ञेयो रौप्यमाषकः [मेधातिथिपाठः - रूप्यमाषकः] ॥ ८.१३५ ॥

136 ते षोडश ...{Loading}...

ते षोडश स्याद् +धरणं
पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस्
ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥

137 धरणानि दश ...{Loading}...

धरणानि दश ज्ञेयः
शतमानस् तु राजतः ।
चतुःसौवर्णिको निष्को
विज्ञेयस् तु प्रमाणतः ॥ ८.१३७ ॥

138 पणानान् द्वे ...{Loading}...

पणानां द्वे शते सार्धे
प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः
सहस्रं त्व् एव चोत्तमः ॥ ८.१३८ ॥

139 ऋणे देये ...{Loading}...

ऋणे देये प्रतिज्ञाते
पञ्चकं शतम् अर्हति ।
अपह्नवे तद्द्विगुणं
तन् मनोर् अनुशासनम् ॥ ८.१३९ ॥

140 वसिष्ठविहितां वृद्धिम् ...{Loading}...

वसिष्ठविहितां वृद्धिं
सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान्
मासाद् वार्धुषिकः शते ॥ ८.१४० ॥

141 द्विकं शतम् ...{Loading}...

द्विकं शतं वा गृह्णीयात्
सतां धर्मम् अनुस्मरन् ।
द्विकं शतं हि गृह्णानो
न भवत्य् अर्थकिल्बिषी ॥ ८.१४१ ॥

142 द्विकन् त्रिकम् ...{Loading}...

द्विकं त्रिकं चतुष्कं च
पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद्
वर्णानाम् अनुपूर्वशः ॥ ८.१४२ ॥

143 न त्व् ...{Loading}...

न त्व् एवाधौ सोपकारे
कौसीदीं वृद्धिम् आप्नुयात् ।
न चाधेः कालसंरोधान्
निसर्गो ऽस्ति न विक्रयः ॥ ८.१४३ ॥

144 न भोक्तव्यो ...{Loading}...

न भोक्तव्यो बलाद् आधिर्
भुञ्जानो वृद्धिम् उत्सृजेत् ।
मूल्येन तोषयेच् चैनम्
आधिस्तेनो ऽन्यथा भवेत् ॥ ८.१४४ ॥

145 आधिश् चोपनिधिश् ...{Loading}...

आधिश् चोपनिधिश् चोभौ
न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ
दीर्घकालम् अवस्थितौ ॥ ८.१४५ ॥

146 सम्प्रीत्या भुज्यमानानि ...{Loading}...

संप्रीत्या भुज्यमानानि
न नश्यन्ति कदा चन ।
धेनुर् उष्ट्रो वहन्न् अश्वो
यश् च दम्यः प्रयुज्यते ॥ ८.१४६ ॥

147 यत् किम् ...{Loading}...

यत् किं चिद् दशवर्षाणि
संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं
न स तल् लब्धुम् अर्हति ॥ ८.१४७ ॥

148 अजडश् चेद् ...{Loading}...

अजडश् चेद् अपोगण्डो
विषये चाऽस्य भुज्यते ।
भग्नं तद् व्यवहारेण
भोक्ता तद् द्रव्यम् अर्हति [मेधातिथिपाठः - तद् धनम् अर्हति] ॥ ८.१४८ ॥

149 आधिः सीमा ...{Loading}...

आधिः सीमा बालधनं
निक्षेपोपनिधिः स्त्रियः [मेधातिथिपाठः - निक्षेपोपनिधी] ।
राजस्वं श्रोत्रियस्वं च
न भोगेन प्रणश्यति ॥ ८.१४९ ॥

150 यः स्वामिनाननुज्ञातम् ...{Loading}...

यः स्वामिनाननुज्ञातम्
आधिं भूङ्क्ते ऽविचक्षणः ।
तेनाऽर्धवृद्धिर् मोक्तव्या
तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥

151-200

151 कुसीदवृद्धिर् द्वैगुण्यम् ...{Loading}...

कुसीदवृद्धिर् द्वैगुण्यं
नाऽत्येति सकृद् आहृता [मेधातिथिपाठः - सकृद् आहिता] ।
धान्ये सदे लवे वाह्ये
नाऽतिक्रामति पञ्चताम् ॥ ८.१५१ ॥

152 कृतानुसाराद् अधिका ...{Loading}...

कृतानुसाराद् अधिका
व्यतिरिक्ता न सिध्यति ।
कुसीदपथम् आहुस् तं
पञ्चकं शतम् अर्हति ॥ ८.१५२ ॥

153 नाऽति-सांवत्सरीं वृद्धिम् ...{Loading}...

नाऽति-सांवत्सरीं वृद्धिं
न चाऽदृष्टां पुनर् हरेत् [मेधातिथिपाठः - विनिर्हरेत्] ।
चक्रवृद्धिः कालवृद्धिः
कारिता कायिका च या ॥ ८.१५३ ॥

154 ऋणन् दातुम् ...{Loading}...

ऋणं दातुम् अशक्तो यः
कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्त्वा निर्जितां वृद्धिं
करणं परिवर्तयेत् ॥ ८.१५४ ॥

155 अदर्शयित्वा तत्रैव ...{Loading}...

अदर्शयित्वा तत्रैव
हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस्
तावतीं दातुम् अर्हति ॥ ८.१५५ ॥

156 चक्रवृद्धिं समारूढो ...{Loading}...

चक्रवृद्धिं समारूढो
देश-काल-व्यवस्थितः ।
अतिक्रामन् देश-कालौ
न तत्-फलम् अवाप्नुयात् ॥ ८.१५६ ॥

157 समुद्रयानकुशला देश-कालार्थदर्शिनः ...{Loading}...

समुद्रयानकुशला
देश-कालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं
सा तत्राऽधिगमं प्रति ॥ ८.१५७ ॥

158 यो यस्य ...{Loading}...

यो यस्य प्रतिभूस् तिष्ठेद्
दर्शनायेह मानवः ।
अदर्शयन् स तं तस्य
प्रयच्छेत् स्वधनाद् ऋणम् [मेधातिथिपाठः - तस्य यतेत] ॥ ८.१५८ ॥

159 प्रातिभाव्यं वृथादानम् ...{Loading}...

प्रातिभाव्यं वृथादानम्
आक्षिकं सौरिकां च यत् ।
दण्ड-शुल्कावशेषं च
न पुत्रो दातुम् अर्हति ॥ ८.१५९ ॥

160 दर्शनप्रातिभाव्ये तु ...{Loading}...

दर्शनप्रातिभाव्ये तु
विधिः स्यात् पूर्वचोदितः ।
दानप्रतिभुवि प्रेते
दायादान् अपि दापयेत् ॥ ८.१६० ॥

161 अदातरि पुनर् ...{Loading}...

अदातरि पुनर् दाता
विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते
परीप्सेत् केन हेतुना ॥ ८.१६१ ॥

162 निरादिष्टधनश् चेत् ...{Loading}...

निरादिष्टधनश् चेत् तु
प्रतिभूः स्याद् अलंधनः ।
स्वधनाद् एव तद् दद्यान्
निरादिष्ट इति स्थितिः ॥ ८.१६२ ॥

163 मत्तोन्मत्तार्ताध्यधीनैर् बालेन ...{Loading}...

मत्तोन्मत्तार्ताध्यधीनैर्
बालेन स्थविरेण वा ।
असंबद्धकृतश् चैव
व्यावहारो न सिध्यति ॥ ८.१६३ ॥

164 सत्या न ...{Loading}...

सत्या न भाषा भवति
यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मान्
नियताद् व्यवहारिकात् ॥ ८.१६४ ॥

165 योगाधमनविक्रीतं योगदानप्रतिग्रहम् ...{Loading}...

योगाधमनविक्रीतं
योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत्
तत् सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥

166 ग्रहीता यदि ...{Loading}...

ग्रहीता यदि नष्टः स्यात्
कुटुम्बार्थे कृतो व्ययः [मेधातिथिपाठः - कुटुम्बे च] ।
दातव्यं बान्धवैस् तत् स्यात्
प्रविभक्तैर् अपि स्वतः ॥ ८.१६६ ॥

167 कुटुम्बार्थे ऽध्यधीनो ...{Loading}...

कुटुम्बार्थे ऽध्यधीनो ऽपि
व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा
तं ज्यायान् न विचालयेत् ॥ ८.१६७ ॥

168 बलाद् दत्तम् ...{Loading}...

बलाद् दत्तं बलाद् भुक्तं
बलाद् यच् चाऽपि लेखितम् ।
सर्वान् बलकृतान् अर्थान्
अकृतान् मनुर् अब्रवीत् ॥ ८.१६८ ॥

169 त्रयः परार्थे ...{Loading}...

त्रयः परार्थे क्लिश्यन्ति
साक्षिणः प्रतिभूः कुलम् ।
चत्वारस् तूपचीयन्ते
विप्र आढ्यो वणिङ् नृपः ॥ ८.१६९ ॥

170 अनादेयन् नाददीत ...{Loading}...

अनादेयं नाददीत
परिक्षीणो ऽपि पार्थिवः ।
न चादेयं समृद्धो ऽपि
सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥ ८.१७० ॥

171 अनादेयस्य चादानाद् ...{Loading}...

अनादेयस्य चादानाद्
आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः
स प्रेत्येह च नश्यति ॥ ८.१७१ ॥

172 स्वादानाद् वर्णसंसर्गात् ...{Loading}...

स्वादानाद् वर्णसंसर्गात् त्व्
अबलानां च रक्षणात् ।
बलं संजायते राज्ञः
स प्रेत्येह च वर्धते ॥ ८.१७२ ॥

173 तस्माद् यम ...{Loading}...

तस्माद् यम इव स्वामी
स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्त्या
जित-क्रोधो जितेन्द्रियः ॥ ८.१७३ ॥

174 यस् त्व् ...{Loading}...

यस् त्व् अधर्मेण कार्याणि
मोहात् कुर्यान् नराधिपः ।
अचिरात् तं दुर्-आत्मानं
वशे कुर्वन्ति शत्रवः ॥ ८.१७४ ॥

175 काम-क्रोधौ तु ...{Loading}...

काम-क्रोधौ तु संयम्य
यो ऽर्थान् धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते
समुद्रम् इव सिन्धवः ॥ ८.१७५ ॥

176 यः साधयन्तम् ...{Loading}...

यः साधयन्तं छन्देन
वेदयेद् धनिकं नृपे ।
स राज्ञा तच् चतुर्भागं
दाप्यस् तस्य च तद् धनम् ॥ ८.१७६ ॥

177 कर्मणापि समम् ...{Loading}...

कर्मणापि समं कुर्याद्
धनिकायाऽधमर्णिकः ।
समो ऽवकृष्टजातिस् तु
दद्याच् छ्रेयांस् तु तच् छनैः ॥ ८.१७७ ॥

178 अनेन विधिना ...{Loading}...

अनेन विधिना राजा
मिथो विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि
कार्याणि समतां नयेत् ॥ ८.१७८ ॥

179 कुलजे वृत्तसम्पन्ने ...{Loading}...

कुलजे वृत्तसंपन्ने
धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आर्ये
निक्षेपं निक्षिपेद् बुधः ॥ ८.१७९ ॥

180 यो यथा ...{Loading}...

यो यथा निक्षिपेद् +धस्ते
यम् अर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो
यथा दायस् तथा ग्रहः ॥ ८.१८० ॥

181 यो निक्षेपम् ...{Loading}...

यो निक्षेपं याच्यमानो
निक्षेप्तुर् न प्रयच्छति ।
स याच्यः प्राड्विवाकेन
तन् निक्षेप्तुर् असंनिधौ ॥ ८.१८१ ॥

182 साक्ष्य्-अभावे प्रणिधिभिर् ...{Loading}...

साक्ष्य्-अभावे प्रणिधिभिर्
वयो-रूप-समन्वितैः ।
अपदेशैश् च संन्यस्य
हिरण्यं तस्य तत्त्वतः ॥ ८.१८२ ॥

183 स यदि ...{Loading}...

स यदि प्रतिपद्येत
यथान्यस्तं यथाकृतम् ।
न तत्र विद्यते किं चिद्
यत् परैर् अभियुज्यते ॥ ८.१८३ ॥

184 तेषान् न ...{Loading}...

तेषां न दद्याद् यदि तु
तद् +धिरण्यं यथाविधि ।
उभौ निगृह्य दाप्यः स्याद्
इति धर्मस्य धारणा [मेधातिथिपाठः - स निगृह्योभयं दाप्य इति ॥ ८.१८४ ॥

185 निक्षेपोपनिधी नित्यम् ...{Loading}...

निक्षेपोपनिधी नित्यं
न देयौ प्रत्यनन्तरे ।
नश्यतो विनिपाते ताव्
अनिपाते त्व् अनाशिनौ ॥ ८.१८५ ॥

186 स्वयम् एव ...{Loading}...

स्वयम् एव तु यौ दद्यान्
मृतस्य प्रत्यनन्तरे ।
न स राज्ञाभियोक्तव्यो
न निक्षेप्तुश् च बन्धुभिः ॥ ८.१८६ ॥

187 अच्छलेनैव चाऽन्विच्छेत् ...{Loading}...

अच्छलेनैव चाऽन्विच्छेत्
तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं
साम्नैव परिसाधयेत् ॥ ८.१८७ ॥

188 निक्षेपेष्व् एषु ...{Loading}...

निक्षेपेष्व् एषु सर्वेषु
विधिः स्यात् परिसाधने ।
स-मुद्रे नाप्नुयात् किं चिद्
यदि तस्मान् न संहरेत् ॥ ८.१८८ ॥

189 चौरैर् हृतम् ...{Loading}...

चौरैर् हृतं जलेनोढम्
अग्निना दग्धम् एव वा ।
न दद्याद् यदि तस्मात् स
न संहरति किं चन ॥ ८.१८९ ॥

190 निक्षेपस्याऽपहर्तारम् अनिक्षेप्तारम् ...{Loading}...

निक्षेपस्याऽपहर्तारम्
अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच्
छपथैश् चैव वैदिकैः ॥ ८.१९० ॥

191 यो निक्षेपम् ...{Loading}...

यो निक्षेपं नाऽर्पयति
यश् चाऽनिक्षिप्य याचते ।
ताव् उभौ चौरवच् छास्यौ
दाप्यौ वा तत्समं दमम् ॥ ८.१९१ ॥

192 निक्षेपस्याऽपहर्तारन् तत्समम् ...{Loading}...

निक्षेपस्याऽपहर्तारं
तत्समं दापयेद् दमम् ।
तथोपनिधिहर्तारम्
अविशेषेण पार्थिवः ॥ ८.१९२ ॥

193 उपधाभिश् च ...{Loading}...

उपधाभिश् च यः कश् चित्
परद्रव्यं हरेन् नरः ।
स-सहायः स हन्तव्यः
प्रकाशं विविधैर् वधैः ॥ ८.१९३ ॥

194 निक्षेपो यः ...{Loading}...

निक्षेपो यः कृतो येन
यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो
विब्रुवन् दण्डम् अर्हति ॥ ८.१९४ ॥

195 मिथो दायः ...{Loading}...

मिथो दायः कृतो येन
गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो
यथा दायस् तथा ग्रहः ॥ ८.१९५ ॥

196 निक्षिप्तस्य धनस्यैवम् ...{Loading}...

निक्षिप्तस्य धनस्यैवं
प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्याद्
अक्षिण्वन् न्यासधारिणम् ॥ ८.१९६ ॥

197 विक्रीणीते परस्य ...{Loading}...

विक्रीणीते परस्य स्वं
यो ऽस्वामी स्वाम्यसम्मतः ।
न तं नयेत साक्ष्यं तु
स्तेनम् अस्तेनमानिनम् ॥ ८.१९७ ॥

198 अवहार्यो भवेच् ...{Loading}...

अवहार्यो भवेच् चैव
सान्वयः षट्शतं दमम् ।
निर्-अन्वयो ऽनपसरः
प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.१९८ ॥

199 अस्वामिना कृतो ...{Loading}...

अस्वामिना कृतो यस् तु
दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो
व्यवहारे यथा स्थितिः ॥ ८.१९९ ॥

200 सम्भोगो दृश्यते ...{Loading}...

संभोगो दृश्यते यत्र
न दृश्येतागमः क्व चित् ।
आगमः कारणं तत्र
न संभोग इति स्थितिः ॥ ८.२०० ॥

201-250

201 विक्रयाद् यो ...{Loading}...

विक्रयाद् यो धनं किं चिद्
गृह्णीयत् कुलसंनिधौ ।
क्रयेण स विशुद्धं हि
न्यायतो लभते धनम् ॥ ८.२०१ ॥

202 अथ मूलम् ...{Loading}...

अथ मूलम् अनाहार्यं
प्रकाशक्रयशोधितः ।
अदण्ड्यो मुच्यते राज्ञा
नाष्टिको लभते धनम् ॥ ८.२०२ ॥

203 नाऽन्यद् अन्येन ...{Loading}...

नाऽन्यद् अन्येन संसृष्ट-
रूपं विक्रयम् अर्हति ।
न चाऽसारं न च न्यूनं
न दूरेण तिरोहितम् [मेधातिथिपाठः - न सावद्यं न च न्यूनं न
दूरे] ॥ ८.२०३ ॥

204 अन्याञ् चेद् ...{Loading}...

अन्यां चेद् दर्शयित्वान्या
वोढुः कन्या प्रदीयते ।
उभे त एकशुल्केन
वहेद् इत्य् अब्रवीन् मनुः ॥ ८.२०४ ॥

205 नोन्मत्ताया न ...{Loading}...

नोन्मत्ताया न कुष्ठिन्या
न च या स्पृष्ट-मैथुना ।
पूर्वं दोषान् अभिख्याप्य
प्रदाता दण्डम् अर्हति ॥ ८.२०५ ॥

206 ऋत्विग् यदि ...{Loading}...

ऋत्विग् यदि वृतो यज्ञे
स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण
देयो ऽंशः सहकर्तृभिः ॥ ८.२०६ ॥

207 दक्षिणासु च ...{Loading}...

दक्षिणासु च दत्तासु
स्वकर्म परिहापयन् ।
कृत्स्नम् एव लभेताऽंशम्
अन्येनैव च कारयेत् ॥ ८.२०७ ॥

208 यस्मिन् कर्मणि ...{Loading}...

यस्मिन् कर्मणि यास् तु स्युर्
उक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आदिदीत
भजेरन् सर्व एव वा ॥ ८.२०८ ॥

209 रथं हरेत् ...{Loading}...

रथं हरेत् चाऽध्वर्युर्
ब्रह्माधाने च वाजिनम् ।
होता वापि हरेद् अश्वम्
उद्गाता चाऽप्य् अनः क्रये ॥ ८.२०९ ॥

210 सर्वेषाम् अर्धिनो ...{Loading}...

सर्वेषाम् अर्धिनो मुख्यास्
तदर्धेनाऽर्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश्
चतुर्थांशाश् च पादिनः ॥ ८.२१० ॥

211 सम्भूय स्वानि ...{Loading}...

संभूय स्वानि कर्माणि
कुर्वद्भिर् इह मानवैः ।
अनेन विधियोगेन
कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥

212 धर्मार्थं येन ...{Loading}...

धर्मार्थं येन दत्तं स्यात्
कस्मै चिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यान्
न देयं तस्य तद् भवेत् ॥ ८.२१२ ॥

213 यदि संसाधयेत् ...{Loading}...

यदि संसाधयेत् तत् तु
दर्पाल् लोभेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात्
तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३ ॥

214 दत्तस्यैषोदिता धर्म्या ...{Loading}...

दत्तस्यैषोदिता धर्म्या
यथावद् अनपक्रिया ।
अत ऊर्ध्वं प्रवक्ष्यामि
वेतनस्याऽनपक्रियाम् ॥ ८.२१४ ॥

215 भृतो नार्तो ...{Loading}...

भृतो नार्तो न कुर्याद् यो
दर्पात् कर्म यथोदितम् [मेधातिथिपाठः - अनार्तो] ।
स दण्ड्यः कृष्णलान्य् अष्टौ
न देयं चाऽस्य वेतनम् ॥ ८.२१५ ॥

216 आर्तस् तु ...{Loading}...

आर्तस् तु कुर्यात् स्वस्थः सन्
यथाभाषितम् आदितः ।
स दीर्घस्याऽपि कालस्य
तल् लभेतैव वेतनम् ॥ ८.२१६ ॥

217 यथोक्तम् आर्तः ...{Loading}...

यथोक्तम् आर्तः सुस्थो वा
यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम्
अल्पोनस्याऽपि कर्मणः ॥ ८.२१७ ॥

218 एष धर्मो ...{Loading}...

एष धर्मो ऽखिलेनोक्तो
वेतनादानकर्मणः ।
अत ऊर्ध्वं प्रवक्ष्यामि
धर्मं समयभेदिनाम् ॥ ८.२१८ ॥

219 यो ग्राम-देश-सङ्घानाम् ...{Loading}...

यो ग्राम-देश-संघानां
कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात्
तं राष्ट्राद् विप्रवासयेत् ॥ ८.२१९ ॥

220 निगृह्य दापयेच् ...{Loading}...

निगृह्य दापयेच् चैनं
समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्निष्कांश्
छतमानं च राजकम् ॥ ८.२२० ॥

221 एतद् दण्डविधिम् ...{Loading}...

एतद् दण्डविधिं कुर्याद्
धार्मिकः पृथिवीपतिः ।
ग्राम-जाति-समूहेषु
समयव्यभिचारिणाम् ॥ ८.२२१ ॥

222 क्रीत्वा विक्रीय ...{Loading}...

क्रीत्वा विक्रीय वा किं चिद्
यस्येहानुशयो भवेत् ।
सो ऽन्तर् दशाहात् तद् द्रव्यं
दद्याच् चैवाददीत वा ॥ ८.२२२ ॥

223 परेण तु ...{Loading}...

परेण तु दशाहस्य
न दद्यान् नापि दापयेत् ।
आददानो ददत् चैव
राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥

224 यस् तु ...{Loading}...

यस् तु दोषवतीं कन्याम्
अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं
स्वयं षण्णवतिं पणान् ॥ ८.२२४ ॥

225 अकन्येति तु ...{Loading}...

अकन्येति तु यः कन्यां
ब्रूयाद् द्वेषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं
तस्या दोषम् अदर्शयन् ॥ ८.२२५ ॥

226 पाणिग्रहणिका मन्त्राः ...{Loading}...

पाणिग्रहणिका मन्त्राः
कन्यास्व् एव प्रतिष्ठिताः ।
नाऽकन्यासु क्व चिन् नॄणां
लुप्त-धर्मक्रिया हि ताः ॥ ८.२२६ ॥

227 पाणिग्रहणिका मन्त्रा ...{Loading}...

पाणिग्रहणिका मन्त्रा
नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया
विद्वद्भिः सप्तमे पदे ॥ ८.२२७ ॥

228 यस्मिन् यस्मिन् ...{Loading}...

यस्मिन् यस्मिन् कृते कार्ये
यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन
धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥

229 पशुषु स्वामिनाम् ...{Loading}...

पशुषु स्वामिनां चैव
पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि
यथावद् धर्मतत्त्वतः ॥ ८.२२९ ॥

230 दिवा वक्तव्यता ...{Loading}...

दिवा वक्तव्यता पाले
रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमे ऽन्यथा चेत् तु
पालो वक्तव्यताम् इयात् ॥ ८.२३० ॥

231 गोपः क्षीरभृतो ...{Loading}...

गोपः क्षीरभृतो यस् तु
स दुह्याद् दशतो वराम् ।
गोस्वाम्यनुमते भृत्यः
सा स्यात् पाले ऽभृते भृतिः ॥ ८.२३१ ॥

232 नष्टं विनष्टम् ...{Loading}...

नष्टं विनष्टं कृमिभिः
श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण
प्रदद्यात् पाल एव तु ॥ ८.२३२ ॥

233 विघुष्य तु ...{Loading}...

विघुष्य तु हृतं चौरैर्
न पालो दातुम् अर्हति ।
यदि देशे च काले च
स्वामिनः स्वस्य शंसति ॥ ८.२३३ ॥

234 कर्णौ चर्म ...{Loading}...

कर्णौ चर्म च वालांश् च
बस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान्
मृतेष्व् अङ्कानि दर्शयेत् [मेधातिथिपाठः - अङ्कांश् च दर्शयेत्] ॥ ८.२३४ ॥

235 अजाविके तु ...{Loading}...

अजाविके तु संरुद्धे
वृकैः पाले त्व् अनायति ।
यां प्रसह्य वृको हन्यात्
पाले तत् किल्बिषं भवेत् ॥ ८.२३५ ॥

236 तासाञ् चेद् ...{Loading}...

तासां चेद् अवरुद्धानां
चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान्
न पालस् तत्र किल्बिषी ॥ ८.२३६ ॥

237 धनुःशतम् परीहारो ...{Loading}...

धनुःशतं परीहारो
ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि
त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥

238 तत्राऽपरिवृतन् धान्यम् ...{Loading}...

तत्राऽपरिवृतं धान्यं
विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं
नृपतिः पशुरक्षिणाम् ॥ ८.२३८ ॥

239 वृतिन् तत्र ...{Loading}...

वृतिं तत्र प्रकुर्वीत
याम् उष्ट्रो न विलोकयेत् ।
छिद्रं च वारयेत् सर्वं
श्व-सूकरमुखानुगम् ॥ ८.२३९ ॥

240 पथि क्षेत्रे ...{Loading}...

पथि क्षेत्रे परिवृते
ग्रामान्तीये ऽथ वा पुनः ।
स-पालः शतदण्डार्हो
विपालान् वारयेत् पशून् ॥ ८.२४० ॥

241 क्षेत्रेष्व् अन्येषु ...{Loading}...

क्षेत्रेष्व् अन्येषु तु पशुः
स-पादं पणम् अर्हति ।
सर्वत्र तु सदो देयः
क्षेत्रिकस्येति धारणा ॥ ८.२४१ ॥

242 अनिर्दशाहाङ् गाम् ...{Loading}...

अनिर्दशाहां गां सूतां
वृषान् देवपशूंस् तथा ।
स-पालान् वा वि-पालान् वा
न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२४२ ॥

243 क्षेत्रियस्याऽत्यये दण्डो ...{Loading}...

क्षेत्रियस्याऽत्यये दण्डो
भागाद् दशगुणो भवेत् [मेधातिथिपाठः - क्षेत्रिकस्याऽत्यये] ।
ततो ऽर्धदण्डो भृत्यानाम्
अज्ञानात् क्षेत्रिकस्य तु ॥ ८.२४३ ॥

244 एतद् विधानम् ...{Loading}...

एतद् विधानम् आतिष्ठेद्
धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च
पालानां च व्यतिक्रमे ॥ ८.२४४ ॥

245 सीमाम् प्रति ...{Loading}...

सीमां प्रति समुत्पन्ने
विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासि नयेत् सीमां
सु-प्रकाशेषु सेतुषु ॥ ८.२४५ ॥

246 सींआवृक्षांश् च ...{Loading}...

सींआवृक्षांश् च कुर्वीत
न्यग्रोधाश्वत्थ-किंशुकान् ।
शाल्मलीन् सालतालांश् च
क्षीरिणश् चैव पादपान् ॥ ८.२४६ ॥

247 गुल्मान् वेणूंश् ...{Loading}...

गुल्मान् वेणूंश् च विविधान्
शमी-वल्ली-स्थलानि च ।
शरान् कुब्जकगुल्मांश् च
तथा सीमा न नश्यति ॥ ८.२४७ ॥

248 तडागान्य् उदपानानि ...{Loading}...

तडागान्य् उदपानानि
वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि
देवतायतनानि च ॥ ८.२४८॥ [म्२५०च्]

249 उपछन्नानि चान्यानि ...{Loading}...

उपछन्नानि चान्यानि
सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य
नित्यं लोके विपर्ययम् ॥ ८.२४९ ॥

250 अश्मनो ऽस्थीनि ...{Loading}...

अश्मनो ऽस्थीनि गोवालांस्
तुषान् भस्म कपालिकाः ।
करीषम् इष्टकाङ्गारांश्
शर्करा वालुकास् तथा ॥ ८.२५०॥ [म्२४८]

251-300

251 यानि चैवम्प्रकाराणि ...{Loading}...

यानि चैवंप्रकाराणि
कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम्
अप्रकाशानि कारयेत् [मेधातिथिपाठः - सीमाया] ॥ ८.२५१ ॥

252 एतैर् लिङ्गैर् ...{Loading}...

एतैर् लिङ्गैर् नयेत् सीमां
राजा विवदमानयोः ।
पूर्वभुक्त्या च सततम्
उदकस्यागमेन च ॥ ८.२५२ ॥

253 यदि स्ंशय ...{Loading}...

यदि स्ंशय एव स्याल्
लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात्
सीमावादविनिर्णयः [मेधातिथिपाठः - सीमावादविनिश्चयः] ॥ ८.२५३ ॥

254 ग्रामीयक-कुलानाञ् च ...{Loading}...

ग्रामीयक-कुलानां च
समक्षं सीम्नि साक्षिणः [मेधातिथिपाठः - ग्रामेयक-] ।
प्रष्टव्याः सीमलिङ्गानि
तयोश् चैव विवादिनोः [मेधातिथिपाठः - सीमालिङ्गानि] ॥ ८.२५४ ॥

255 ते पृष्टास् ...{Loading}...

ते पृष्टास् तु यथा ब्रूयुः
समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात् तथा सीमां
सर्वांस् तांश् चैव नामतः ॥ ८.२५५ ॥

256 शिरोभिस् ते ...{Loading}...

शिरोभिस् ते गृहीत्वोर्वीं
स्रग्विणो रक्त-वाससः ।
सुकृतैः शापिथाः स्वैः
स्वैर् नयेयुस् ते समञ्जसम् ॥ ८.२५६ ॥

257 यथोक्तेन नयन्तस् ...{Loading}...

यथोक्तेन नयन्तस् ते
पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु
दाप्याः स्युर् द्विशतं दमम् ॥ ८.२५७ ॥

258 साक्ष्यभावे तु ...{Loading}...

साक्ष्यभावे तु चत्वारो
ग्रामाः सामन्तवासिनः [मेधातिथिपाठः - ग्रामसीमान्तवासिनः] ।
सीमाविनिर्णयं कुर्युः
प्रयता राजसंनिधौ ॥ ८.२५८ ॥

259 सामन्तानाम् अभावे ...{Loading}...

सामन्तानाम् अभावे तु
मौलानां सीम्नि साक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत
पुरुषान् वन-गोचरान् ॥ ८.२५९ ॥

260 व्याधाञ् शाकुनिकान् ...{Loading}...

व्याधाञ् शाकुनिकान् गोपान्
कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन्
अन्यांश् च वनचारिणः ॥ ८.२६० ॥

261 ते पृष्टास् ...{Loading}...

ते पृष्टास् तु यथा ब्रूयुः
सीमासंधिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा
धर्मेण ग्रामयोर् द्वयोः ॥ ८.२६१ ॥

262 क्षेत्र-कूप-तडागानाम् आरामस्य ...{Loading}...

क्षेत्र-कूप-तडागानाम्
आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः
सीमासेतुविनिर्णयः ॥ ८.२६२ ॥

263 सामन्ताश् चेन् ...{Loading}...

सामन्ताश् चेन् मृषा ब्रूयुः
सेतौ विवादतां नृणाम् ।
सर्वे पृथक् पृथग् दण्ड्या
राज्ञा मध्यमसाहसम् ॥ ८.२६३ ॥

264 गृहन् तडागम् ...{Loading}...

गृहं तडागम् आरामं
क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद्
अज्ञानाद् द्विशतो दमः ॥ ८.२६४ ॥

265 सीमायाम् अविषह्यायाम् ...{Loading}...

सीमायाम् अविषह्यायां
स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम्
उपकाराद् इति स्थितिः ॥ ८.२६५ ॥

266 एषो ऽखिलेनाऽभिहितो ...{Loading}...

एषो ऽखिलेनाऽभिहितो
धर्मः सीमाविनिर्णये ।
अत ऊर्ध्वं प्रवक्ष्यामि
वाक्पारुष्यविनिर्णयम् ॥ ८.२६६ ॥

267 शतम् ब्राह्मणम् ...{Loading}...

शतं ब्राह्मणम् आक्रुश्य
क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽप्य् अर्धशतं द्वे वा
शूद्रस् तु वधम् अर्हति ॥ ८.२६७ ॥

268 पञ्चाशद् ब्राह्मणो ...{Loading}...

पञ्चाशद् ब्राह्मणो दण्ड्यः
क्षत्रियस्याऽभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच्
छूद्रे द्वादशको दमः ॥ ८.२६८ ॥

269 समवर्णे द्विजातीनाम् ...{Loading}...

समवर्णे द्विजातीनां
द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु
तद् एव द्विगुणं भवेत् ॥ ८.२६९ ॥

270 एकजातिर् द्विजातींस् ...{Loading}...

एकजातिर् द्विजातींस् तु
वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच् छेदं
जघन्य-प्रभवो हि सः ॥ ८.२७० ॥

271 नाम-जातिग्रहन् त्व् ...{Loading}...

नाम-जातिग्रहं त्व् एषाम्
अभिद्रोहेण कुर्वतः ।
निक्षेप्यो ऽयोमयः शङ्कुर्
ज्वलन्न् आस्ये दशाङ्गुलः ॥ ८.२७१ ॥

272 धर्मोपदेशन् दर्पेण ...{Loading}...

धर्मोपदेशं दर्पेण
विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं
वक्त्रे श्रोत्रे च पार्थिवः [मेधातिथिपाठः - श्रौत्रे] ॥ ८.२७२ ॥

273 श्रुतन् देशम् ...{Loading}...

श्रुतं देशं च जातिं च
कर्म शरीरम् एव च ।
वितथेन ब्रुवन् दर्पाद्
दाप्यः स्याद् द्विशतं दमम् ॥ ८.२७३ ॥

274 काणं वाप्य् ...{Loading}...

काणं वाप्य् अथ वा खञ्जम्
अन्यं वापि तथाविधम् ।
तथ्येनाऽपि ब्रुवन् दाप्यो
दण्डं कार्षापणावरम् ॥ ८.२७४ ॥

275 मातरम् पितरम् ...{Loading}...

मातरं पितरं जायां
भ्रातरं तनयं गुरुम् ।
आक्षारयञ् शतं दाप्यः
पन्थानं चाऽददद् गुरोः ॥ ८.२७५ ॥

276 ब्राह्मण-क्षत्रियाभ्यान् तु ...{Loading}...

ब्राह्मण-क्षत्रियाभ्यां तु
दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः
क्षत्रिये त्व् एव मध्यमः ॥ ८.२७६ ॥

277 विट्-शूद्रयोर् एवम् ...{Loading}...

विट्-शूद्रयोर् एवम् एव
स्वजातिं प्रति तत्त्वतः ।
छेद-वर्जं प्रणयनं
दण्डस्येति विनिश्चयः ॥ ८.२७७ ॥

278 एष दण्डविधिः ...{Loading}...

एष दण्डविधिः प्रोक्तो
वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि
दण्डपारुष्यनिर्णयम् ॥ ८.२७८ ॥

279 येन केन ...{Loading}...

येन केन चिद् अङ्गेन
हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः ।
छेत्तव्यं तद् तद् एवाऽस्य
तन् मनोर् अनुशासनम् ॥ ८.२७९ ॥

280 पाणिम् उद्यम्य ...{Loading}...

पाणिम् उद्यम्य दण्डं वा
पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात्
पादच्छेदनम् अर्हति ॥ ८.२८० ॥

281 सहासनम् अभिप्रेप्सुर् ...{Loading}...

सहासनम् अभिप्रेप्सुर्
उत्कृष्टस्याऽपकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः
स्फिचं वास्याऽवकर्तयेत् ॥ ८.२८१ ॥

282 अवनिष्ठीवतो दर्पाद् ...{Loading}...

अवनिष्ठीवतो दर्पाद्
द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम्
अवशर्धयतो गुदम् ॥ ८.२८२ ॥

283 केशेषु गृह्णतो ...{Loading}...

केशेषु गृह्णतो हस्तौ
छेदयेद् अविचारयन् ।
पादयोर् दाढिकायां च
ग्रीवायां वृषणेषु च ॥ ८.२८३ ॥

284 त्वग्भेदकः शतम् ...{Loading}...

त्वग्भेदकः शतं दण्ड्यो
लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्-निष्कान्
प्रवास्यस् त्व् अस्थिभेदकः ॥ ८.२८४ ॥

285 वनस्पतीनां सर्वेषाम् ...{Loading}...

वनस्पतीनां सर्वेषाम्
उपभोगो यथा यथा ।
यथा तथा दमः कार्यो
हिंसायाम् इति धारणा ॥ ८.२८५ ॥

286 मनुष्याणाम् पशूनाम् ...{Loading}...

मनुष्याणां पशूनां च
दुःखाय प्रहृते सति ।
यथा यथा महद् दुःखं
दण्डं कुर्यात् तथा तथा ॥ ८.२८६ ॥

287 अङ्गावपीडनायाञ् च ...{Loading}...

अङ्गावपीडनायां च
व्रण-शोनितयोस् तथा [मेधातिथिपाठः - प्राण-शोनितयोस्] ।
समुत्थानव्ययं दाप्यः
सर्वदण्डम् अथाऽपि वा ॥ ८.२८७ ॥

288 द्रव्याणि हिंस्याद् ...{Loading}...

द्रव्याणि हिंस्याद् यो यस्य
ज्ञानतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं
राज्ञे दद्याच् च तत्समम् ॥ ८.२८८ ॥

289 चर्म-चार्मिकभाण्डेषु काष्ठ-लोष्टमयेषु ...{Loading}...

चर्म-चार्मिकभाण्डेषु
काष्ठ-लोष्टमयेषु ।
मूल्यात् पञ्चगुणो दण्डः
पुष्प-मूल-फलेषु च ॥ ८.२८९ ॥

290 यानस्य चैव ...{Loading}...

यानस्य चैव यातुश् च
यानस्वामिन एव च ।
दशातिवर्तनान्य् आहुः
शेषे दण्डो विधीयते ॥ ८.२९० ॥

291 छिन्न-नास्ये भग्न-युगे ...{Loading}...

छिन्न-नास्ये भग्न-युगे
तिर्यक्-प्रतिमुखागते ।
अक्ष-भङ्गे च यानस्य
चक्र-भङ्गे तथैव च ॥ ८.२९१ ॥

292 छेदने चैव ...{Loading}...

छेदने चैव यन्त्राणां
योक्त्र-रश्म्योस् तथैव च ।
आक्रन्दे चाऽप्य् अपैहीति
न दण्डं मनुर् अब्रवीत् ॥ ८.२९२ ॥

293 यत्राऽपवर्तते युग्यम् ...{Loading}...

यत्राऽपवर्तते युग्यं
वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो
हिंसायां द्विशतं दमम् ॥ ८.२९३ ॥

294 प्राजकश् चेद् ...{Loading}...

प्राजकश् चेद् भवेद् आप्तः
प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते
सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४ ॥

295 स चेत् ...{Loading}...

स चेत् तु पथि संरुद्धः
पशुभिर् वा रथेन वा ।
प्रमापयेत् प्राणभृतस्
तत्र दण्डो ऽविचारितः ॥ ८.२९५ ॥

296 मनुष्यमारणे क्षिप्रम् ...{Loading}...

मनुष्यमारणे क्षिप्रं
चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं
गो-गजोष्ट्र-हयादिषु ॥ ८.२९६ ॥

297 क्षुद्रकाणाम् पशूनाम् ...{Loading}...

क्षुद्रकाणां पशूनां तु
हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः
शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥

298 गर्धभाजाविकानान् तु ...{Loading}...

गर्धभाजाविकानां तु
दण्डः स्यात् पञ्चमाषिकः [मेधातिथिपाठः - पाञ्चमाषिकः] ।
माषिकस् तु भवेद् दण्डः
श्व-सूकरनिपातने ॥ ८.२९८ ॥

299 भार्या पुत्रश् ...{Loading}...

भार्या पुत्रश् च दासश् च
प्रेष्यो भ्रात्रा च सोदरः ।
प्राप्तापराधास् ताड्याः स्यू
रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥

300 पृष्ठतस् तु ...{Loading}...

पृष्ठतस् तु शरीरस्य
नोत्तमाङ्गे कथं चन ।
अतो ऽन्यथा तु प्रहरन्
प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.३०० ॥

301-350

301 एषो ऽखिलेनाऽभिहितो ...{Loading}...

एषो ऽखिलेनाऽभिहितो
दण्डपारुष्यनिर्णयः ।
स्तेनस्याऽतः प्रवक्ष्यामि
विधिं दण्डविनिर्णये ॥ ८.३०१ ॥

302 परमं यत्नम् ...{Loading}...

परमं यत्नम् आतिष्ठेत्
स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्रहाद् अस्य
यशो राष्ट्रं च वर्धते ॥ ८.३०२ ॥

303 अभयस्य हि ...{Loading}...

अभयस्य हि यो दाता
स पूज्यः सततं नृपः ।
सत्त्रं हि वर्धते तस्य
सदैवाऽभय-दक्षिणम् ॥ ८.३०३ ॥

304 सर्वतो धर्मषड्भागो ...{Loading}...

सर्वतो धर्मषड्भागो
राज्ञो भवति रक्षतः ।
अधर्माद् अपि षड्भागो
भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०४ ॥

305 यद् अधीते ...{Loading}...

यद् अधीते यद् यजते
यद् ददाति यद् अर्चति ।
तस्य षड्भागभाग् राजा
सम्यग् भवति रक्षणात् ॥ ८.३०५ ॥

306 रक्षन् धर्मेण ...{Loading}...

रक्षन् धर्मेण भूतानि
राजा वध्यांश् च घातयन् ।
यजते ऽहर् अहर् यज्ञैः
सहस्रशत-दक्षिणैः ॥ ८.३०६ ॥

307 यो ऽरक्षन् ...{Loading}...

यो ऽरक्षन् बलिम् आदत्ते
करं शुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च
स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥

308 अरक्षितारं राजानम् ...{Loading}...

अरक्षितारं राजानं
बलिषड्भाग-हारिणम् [क्: अरक्षितारं अत्तारं] ।
तम् आहुः सर्वलोकस्य
समग्रमल-हारकम् ॥ ८.३०८ ॥

309 अनपेक्षित-मर्यादन् नास्तिकम् ...{Loading}...

अनपेक्षित-मर्यादं
नास्तिकं विप्रलुंपकम् [मेधातिथिपाठः - अनवेक्षित-मर्यादं] ।
अरक्षितारम् अत्तारं
नृपं विद्याद् अधो-गतिम् ॥ ८.३०९ ॥

310 अधार्मिकन् त्रिभिर् ...{Loading}...

अधार्मिकं त्रिभिर् न्यायैर्
निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन
विविधेन वधेन च ॥ ८.३१० ॥

311 निग्रहेण हि ...{Loading}...

निग्रहेण हि पापानां
साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः
पूयन्ते सततं नृपाः ॥ ८.३११ ॥

312 क्षन्तव्यम् प्रभुणा ...{Loading}...

क्षन्तव्यं प्रभुणा नित्यं
क्षिपतां कार्यिणां नृणाम् ।
बाल-वृद्धातुराणां च
कुर्वता हितम् आत्मनः ॥ ८.३१२ ॥

313 यः क्षिप्तो ...{Loading}...

यः क्षिप्तो मर्षयत्य् आर्तैस्
तेन स्वर्गे महीयते ।
यस् त्व् ऐश्वर्यान् न क्षमते
नरकं तेन गच्छति ॥ ८.३१३ ॥

314 राजा स्तेनेन ...{Loading}...

राजा स्तेनेन गन्तव्यो
मुक्त-केशेन धावता [मेधातिथिपाठः - धीमता] ।
आचक्षाणेन तत् स्तेयम्
एवंकर्मास्मि शाधि माम् ॥ ८.३१४ ॥

315 स्कन्धेनादाय मुसलम् ...{Loading}...

स्कन्धेनादाय मुसलं
लगुडं वापि खादिरम् [मेधातिथिपाठः - मुशलं] ।
शक्तिं चोभयतस् तीक्ष्णाम्
आयसं दण्डम् एव वा ॥ ८.३१५ ॥

316 शासनाद् वा ...{Loading}...

शासनाद् वा विमोक्षाद् वा
स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजा
स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६ ॥

317 अन्नादे भ्रूणहा ...{Loading}...

अन्नादे भ्रूणहा मार्ष्टि
पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश् च याज्यश् च
स्तेनो राजनि किल्बिषम् ॥ ८.३१७ ॥

318 राजभिः कृतदण्डास् ...{Loading}...

राजभिः कृतदण्डास् तु
कृत्वा पापानि मानवाः [मेधातिथिपाठः - राजभिर् धृतदण्डास् तु] ।
निर्-मलाः स्वर्गम् आयान्ति
सन्तः सुकृतिनो यथा ॥ ८.३१८ ॥

319 यस् तु ...{Loading}...

यस् तु रज्जुं घटं कूपाद्
धरेद् भिन्द्याच् च यः प्रपाम् ।
स दण्डं प्राप्नुयान् माषं
तच् च तस्मिन् समाहरेत् ॥ ८.३१९ ॥

320 धान्यन् दशभ्यः ...{Loading}...

धान्यं दशभ्यः कुम्भेभ्यो
हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं
दाप्यस् तस्य च तद् धनम् ॥ ८.३२० ॥

321 तथा धरिममेयानाम् ...{Loading}...

तथा धरिममेयानां
शताद् अभ्यधिके वधः ।
सुवर्ण-रजतादीनाम्
उत्तमानां च वाससाम् ॥ ८.३२१ ॥

322 पञ्चाशतस् त्व् ...{Loading}...

पञ्चाशतस् त्व् अभ्यधिके
हस्तच्छेदनम् इष्यते ।
शेषे त्व् एकादशगुणं
मूल्याद् दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥

323 पुरुषाणाङ् कुलीनानाम् ...{Loading}...

पुरुषाणां कुलीनानां
नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां
हरणे वधम् अर्हति ॥ ८.३२३ ॥

324 महापशूनां हरणे ...{Loading}...

महापशूनां हरणे
शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च
दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥

325 गोषु ब्राह्मणसंस्थासु ...{Loading}...

गोषु ब्राह्मणसंस्थासु
छुरिकायाश् च भेदने [मेधातिथिपाठः - खरिकायाश् च] ।
पशूनां हरणे चैव
सद्यः कार्यो ऽर्धपादिकः ॥ ८.३२५ ॥

326 सूत्र-कार्पास-किण्वानाङ् गोमयस्य ...{Loading}...

सूत्र-कार्पास-किण्वानां
गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य
पानीयस्य तृणस्य च ॥ ८.३२६ ॥

327 वेणुवैदलभाण्डानां लवणानाम् ...{Loading}...

वेणुवैदलभाण्डानां
लवणानां तथैव च ।
मृण्मयानां च हरणे
मृदो भस्मन एव च ॥ ८.३२७ ॥

328 मत्स्यानाम् पक्षिणाम् ...{Loading}...

मत्स्यानां पक्षिणां चैव
तैलस्य च घृतस्य च ।
मांसस्य मधुनश् चैव
यच् चाऽन्यत् पशु-संभवम् ॥ ८.३२८ ॥

329 अन्येषाञ् चैवम्-आदीनाम् ...{Loading}...

अन्येषां चैवम्-आदीनां
मद्यानाम् ओदनस्य च [मेधातिथिपाठः - चैवमादीनाम् अद्यानाम्] ।
पक्वान्नानां च सर्वेषां
तन्मुल्याद् द्विगुणो दमः ॥ ८.३२९ ॥

330 पुष्पेषु हरिते ...{Loading}...

पुष्पेषु हरिते धान्ये
गुल्म-वल्ली-नगेषु च ।
अन्येष्व् अपरिपूतेषु
दण्डः स्यात् पञ्चकृष्णलः ॥ ८.३३० ॥

331 परिपूतेषु धान्येषु ...{Loading}...

परिपूतेषु धान्येषु
शाक-मूल-फलेषु च ।
निरन्वये शतं दण्डः
सान्वये ऽर्धशतं दमः ॥ ८.३३१ ॥

332 स्यात् साहसम् ...{Loading}...

स्यात् साहसं त्व् अन्वयवत्
प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं
हृत्वापव्ययते च यत् ॥ ८.३३२ ॥

333 यस् त्व् ...{Loading}...

यस् त्व् एतान्य् उपकॢप्तानि
द्रव्याणि स्तेनयेन् नरः ।
तम् आद्यं दण्डयेद् राजा
यश् चाग्निं चोरयेद् गृहात् [मेधातिथिपाठः - तं शतं] ॥ ८.३३३ ॥

334 येन येन ...{Loading}...

येन येन यथाङ्गेन
स्तेनो नृषु विचेष्टते ।
तत् तद् एव हरेत् तस्य
प्रत्यादेशाय पार्थिवः ॥ ८.३३४ ॥

335 पिताचार्यः सुहृन् ...{Loading}...

पिताचार्यः सुहृन् माता
भार्या पुत्रः पुरोहितः ।
नाऽदण्ड्यो नाम राज्ञो ऽस्ति
यः स्वधर्मे न तिष्ठति ॥ ८.३३५ ॥

336 कार्षापणम् भवेद् ...{Loading}...

कार्षापणं भवेद् दण्ड्यो
यत्राऽन्यः प्राकृतो जनः ।
तत्र राजा भवेद् दण्ड्यः
सहस्रम् इति धारणा ॥ ८.३३६ ॥

337 अष्टापाद्यन् तु ...{Loading}...

अष्टापाद्यं तु शूद्रस्य
स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य
द्वात्रिंशत् क्षत्रियस्य च ॥ ८.३३७ ॥

338 ब्राह्मणस्य चतुःषष्टिः ...{Loading}...

ब्राह्मणस्य चतुःषष्टिः
पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस्
तद्दोषगुणविद् +धि सः ॥ ८.३३८ ॥

339 वानस्पत्यम् मूल-फलम् ...{Loading}...

वानस्पत्यं मूल-फलं
दार्व् अग्न्य्-अर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थम्
अस्तेयं मनुर् अब्रवीत् ॥ ८.३३९ ॥

340 यो ऽदत्ताऽऽदायिनो ...{Loading}...

यो ऽदत्ताऽऽदायिनो(=स्तेनस्य) हस्ताल्
लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनाऽपि (लिप्सायाम्)
यथा स्तेनस् तथैव सः ॥ ८.३४० ॥

341 द्विजो ऽध्वगः ...{Loading}...

द्विजो ऽध्वगः क्षीण-वृत्तिर्
द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्
न दण्डं दातुम् अर्हति ॥ ८.३४१ ॥

342 असन्दितानां सन्दाता ...{Loading}...

असंदितानां संदाता
संदितानां च मोक्षकः ।
दासाश्व-रथहर्ता च
प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.३४२ ॥

343 अनेन विधिना ...{Loading}...

अनेन विधिना राजा
कुर्वाणः स्तेननिग्रहम् ।
यशो ऽस्मिन् प्राप्नुयाल् लोके
प्रेत्य चाऽनुत्तमं सुखम् ॥ ८.३४३ ॥

344 ऐन्द्रं स्थानम् ...{Loading}...

ऐन्द्रं स्थानम् अभिप्रेप्सुर्
यशश् चाऽक्षयम् अव्ययम् ।
नोपेक्षेत क्षणम् अपि
राजा साहसिकं नरम् ॥ ८.३४४ ॥

345 वाग्दुष्टात् तस्कराच् ...{Loading}...

वाग्दुष्टात् तस्कराच् चैव
दण्डेनैव च हिंसतः ।
साहसस्य नरः कर्ता
विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥

346 साहसे वर्तमानम् ...{Loading}...

साहसे वर्तमानं तु
यो मर्षयति पार्थिवः ।
स विनाशं व्रजत्य् आशु
विद्वेषं चाऽधिगच्छति ॥ ८.३४६ ॥

347 न मित्रकारणाद् ...{Loading}...

न मित्रकारणाद् राजा
विपुलाद् वा धनागमात् ।
समुत्सृजेत् साहसिकान्
सर्वभूतभयावहान् ॥ ८.३४७ ॥

348 शस्त्रन् द्विजातिभिर् ...{Loading}...

शस्त्रं द्विजातिभिर् ग्राह्यं
धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां
विप्लवे कालकारिते ॥ ८.३४८ ॥

349 आत्मनश् च ...{Loading}...

आत्मनश् च परित्राणे
दक्षिणानां च संगरे ।
स्त्री-विप्राभ्युपपत्तौ च
घ्नन् धर्मेण न दुष्यति ॥ ८.३४९ ॥

350 गुरुं वा ...{Loading}...

गुरुं वा बाल-वृद्धौ वा
ब्राह्मणं वा बहु-श्रुतम् ।
आततायिनम् आयान्तं
हन्याद् एवाऽविचारयन् ॥ ८.३५० ॥

351-420

351 नाततायिवधे दोषो ...{Loading}...

नाततायिवधे दोषो
हन्तुर् भवति कश् चन ।
प्रकाशं वाप्रकाशं वा
मन्युस् तं मन्युम् ऋच्छति ॥ ८.३५१ ॥

352 परदाराभिमर्शेषु प्रवृत्तान् ...{Loading}...

परदाराभिमर्शेषु
प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर् दण्डैश्
छिन्नयित्वा प्रवासयेत् [मेधातिथिपाठः - चिह्नयित्वा] ॥ ८.३५२ ॥

353 तत्-समुत्थो हि ...{Loading}...

तत्-समुत्थो हि लोकस्य
जायते वर्णसंकरः ।
येन मूलहरो ऽधर्मः
सर्वनाशाय कल्पते ॥ ८.३५३ ॥

354 परस्य पत्न्या ...{Loading}...

परस्य पत्न्या पुरुषः
संभाषां योजयन् रहः ।
पूर्वम् आक्षारितो दोषैः
प्राप्नुयात् पूर्वसाहसम् ॥ ८.३५४ ॥

355 यस् त्व् ...{Loading}...

यस् त्व् अनाक्षारितः पूर्वम्
अभिभाषते कारणात् ।
न दोषं प्राप्नुयात् किं चिन्
न हि तस्य व्यतिक्रमः ॥ ८.३५५ ॥

356 परस्त्रियं यो ...{Loading}...

परस्त्रियं यो ऽभिवदेत्
तीर्थे ऽरण्ये वने ऽपि वा ।
नदीनां वापि संभेदे
स संग्रहणम् आप्नुयात् ॥ ८.३५६ ॥

357 उपचारक्रिया केलिः ...{Loading}...

उपचारक्रिया केलिः
स्पर्शो भूषण-वाससाम् [मेधातिथिपाठः - उपकारक्रिया] ।
सह खट्वासनं चैव
सर्वं संग्रहणं स्मृतम् ॥ ८.३५७ ॥

358 स्त्रियं स्पृशेद् ...{Loading}...

स्त्रियं स्पृशेद् अदेशे यः
स्पृष्टो वा मर्षयेत् तया ।
परस्परस्याऽनुमते
सर्वं संग्रहणं स्मृतम् ॥ ८.३५८ ॥

359 अब्राह्मणः सङ्ग्रहणे ...{Loading}...

अब्राह्मणः संग्रहणे
प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां
दारा रक्ष्यतमाः सदा ॥ ८.३५९ ॥

360 भिक्षुका बन्दिनश् ...{Loading}...

भिक्षुका बन्दिनश् चैव
दीक्षिताः कारवस् तथा ।
संभाषनं सह स्त्रीभिः
कुर्युर् अप्रतिवारिताः ॥ ८.३६० ॥

361 न सम्भाषाम् ...{Loading}...

न संभाषां परस्त्रीभिः
प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस् तु
सुवर्णं दण्डम् अर्हति ॥ ८.३६१ ॥

362 नैष चारणदारेषु ...{Loading}...

नैष चारणदारेषु
विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर्
निगूढाश् चारयन्ति च ॥ ८.३६२ ॥

363 किञ् चिद् ...{Loading}...

किं चिद् एव तु दाप्यः स्यात्
संभाषां ताभिर् आचरन् ।
प्रैष्यासु चैकभक्तासु
रहः प्रव्रजितासु च [मेधातिथिपाठः - प्रेष्यासु] ॥ ८.३६३ ॥

364 यो ऽकामाम् ...{Loading}...

यो ऽकामां दूषयेत् कन्यां
स सद्यो वधम् अर्हति ।
स-कामां दूषयंस् तुल्यो
न वधं प्राप्नुयान् नरः ॥ ८.३६४ ॥

365 कन्याम् भजन्तीम् ...{Loading}...

कन्यां भजन्तीम् उत्कृष्टं
न किं चिद् अपि दापयेत् ।
जघन्यं सेवमानां तु
संयतां वासयेद् गृहे ॥ ८.३६५ ॥

366 उत्तमां सेवमानस् ...{Loading}...

उत्तमां सेवमानस् तु
जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः
समाम् इच्छेत् पिता यदि ॥ ८.३६६ ॥

367 अभिषह्य तु ...{Loading}...

अभिषह्य तु यः कन्यां
कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ
दण्डं चाऽर्हति षट्शतम् [मेधातिथिपाठः - कर्त्या अङ्गुल्यो] ॥ ८.३६७ ॥

368 स-कामान् दूषयंस् ...{Loading}...

स-कामां दूषयंस् तुल्यो
नाऽङ्गुलि-च्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः
प्रसङ्गविनिवृत्तये ॥ ८.३६८ ॥

369 कन्यैव कन्याम् ...{Loading}...

कन्यैव कन्यां या कुर्यात्
तस्याः स्याद् द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच्
छिफाश् चैवाप्नुयाद् दश ॥ ८.३६९ ॥

370 या तु ...{Loading}...

या तु कन्यां प्रकुर्यात् स्त्री
सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा छेदं
खरेणोद्वहनं तथा ॥ ८.३७० ॥

371 भर्तारं लङ्घयेद् ...{Loading}...

भर्तारं लङ्घयेद् या तु
स्त्री ज्ञाति-गुणदर्पिता ।
तां श्वभिः खादयेद् राजा
संस्थाने बहुसंस्थिते ॥ ८.३७१ ॥

372 पुमांसन् दाहयेत् ...{Loading}...

पुमांसं दाहयेत् पापं
शयने तप्त आयसे ।
अभ्यादध्युश् च काष्ठानि
तत्र दह्येत पापकृत् ॥ ८.३७२ ॥

373 संवत्सराभिशस्तस्य दुष्टस्य ...{Loading}...

संवत्सराभिशस्तस्य
दुष्टस्य द्विगुणो दमः [मेधातिथिपाठः - संवत्सरे ऽभिशस्तस्य] ।
व्रात्यया सह संवासे
चाण्डाल्या तावद् एव तु ॥ ८.३७३ ॥

374 शूद्रो गुप्तम् ...{Loading}...

शूद्रो गुप्तम् अगुप्तं वा
द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्ग-सर्वस्वैर्
गुप्तं सर्वेण हीयते [मेधातिथिपाठः - अङ्ग-सर्वस्वी] ॥ ८.३७४ ॥

375 वैश्यः सर्वस्व-दण्डः ...{Loading}...

वैश्यः सर्वस्व-दण्डः स्यात्
संवत्सरनिरोधतः ।
सहस्रं क्षत्रियो दण्ड्यो
मौण्ड्यं मूत्रेण चाऽर्हति ॥ ८.३७५ ॥

376 ब्राह्मणीं यद्य् ...{Loading}...

ब्राह्मणीं यद्य् अगुप्तां तु
गच्छेतां वैश्य-पार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात्
क्षत्रियं तु सहस्रिणम् ॥ ८.३७६ ॥

377 उभाव् अपि ...{Loading}...

उभाव् अपि तु ताव् एव
ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ
दग्धव्यौ वा कटाग्निना ॥ ८.३७७ ॥

378 सहस्रम् ब्राह्मणो ...{Loading}...

सहस्रं ब्राह्मणो दण्ड्यो
गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद्
इच्छन्त्या सह संगतः ॥ ८.३७८ ॥

379 मौण्ड्यम् प्राणान्तिकम् ...{Loading}...

मौण्ड्यं प्राणान्तिकं दण्डो
ब्राह्मणस्य विधीयते [मेधातिथिपाठः - प्राणान्तको][म्ऽस् चोम्
रेफ़ेर्स् तो थे रेअदिन्ग् ओफ़् “प्राणान्तिक-”] ।
इतरेषां तु वर्णानां
दण्डः प्राणान्तिको भवेत् [मेधातिथिपाठः - प्राणान्तको] ॥ ८.३७९ ॥

380 न जातु ...{Loading}...

न जातु ब्राह्मणं हन्यात्
सर्वपापेष्व् अपि स्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात्
समग्र-धनम् अक्षतम् ॥ ८.३८० ॥

381 न ब्राह्मणवधाद् ...{Loading}...

न ब्राह्मणवधाद् भूयान्
अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा
मनसापि न चिन्तयेत् ॥ ८.३८१ ॥

382 वैश्यश् चेत् ...{Loading}...

वैश्यश् चेत् क्षत्रियां गुप्तां
वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां
ताव् उभौ दण्डम् अर्हतः ॥ ८.३८२ ॥

383 सहस्रम् ब्राह्मणो ...{Loading}...

सहस्रं ब्राह्मणो दण्डं
दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रिय-विशोः
साहस्रो वै भवेद् दमः [मेधातिथिपाठः - शूद्राया] ॥ ८.३८३ ॥

384 क्षत्रियायाम् अगुप्तायाम् ...{Loading}...

क्षत्रियायाम् अगुप्तायां
वैश्ये पञ्चशतं दमः ।
मूत्रेण मौण्ड्यम् इच्छेत् तु
क्षत्रियो दण्डम् एव वा [मेधातिथिपाठः - ऋच्छेत् तु] ॥ ८.३८४ ॥

385 अगुप्ते क्षत्रिया-वैश्ये ...{Loading}...

अगुप्ते क्षत्रिया-वैश्ये
शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात्
सहस्रं त्व् अन्त्यजस्त्रियम् ॥ ८.३८५ ॥

386 यस्य स्तेनः ...{Loading}...

यस्य स्तेनः पुरे नाऽस्ति
नाऽन्यस्त्रीगो न दुष्ट-वाक् ।
न साहसिक-दण्डघ्नो
स राजा शक्रलोकभाक् ॥ ८.३८६ ॥

387 एतेषान् निग्रहो ...{Loading}...

एतेषां निग्रहो राज्ञः
पञ्चानां विषये स्वके ।
सांराज्यकृत् सजात्येषु
लोके चैव यशस्करः ॥ ८.३८७ ॥

388 ऋत्विजं यस् ...{Loading}...

ऋत्विजं यस् त्यजेद् याज्यो
याज्यं च र्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च
तयोर् दण्डः शतं शतम् ॥ ८.३८८ ॥

389 न माता ...{Loading}...

न माता न पिता न स्त्री
न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान्
राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥

390 आश्रमेषु द्विजातीनाम् ...{Loading}...

आश्रमेषु द्विजातीनां
कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं
चिकीर्षन् हितम् आत्मनः ॥ ८.३९० ॥

391 यथार्हम् एतान् ...{Loading}...

यथार्हम् एतान् अभ्यर्च्य
ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ
स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥

392 प्रतिवेश्यानुवेश्यौ च ...{Loading}...

प्रतिवेश्यानुवेश्यौ च
कल्याणे विंशतिद्विजे ।
अर्हाव् अभोजयन् विप्रो
दण्डम् अर्हति माषकम् ॥ ८.३९२ ॥

393 श्रोत्रियः श्रोत्रियम् ...{Loading}...

श्रोत्रियः श्रोत्रियं साधुं
भूतिकृत्येष्व् अभोजयन् ।
तद्-अन्नं द्विगुणं दाप्यो
हिरण्यं चैव माषकम् [मेधातिथिपाठः - हैरण्यं] ॥ ८.३९३ ॥

394 अन्धो जडः ...{Loading}...

अन्धो जडः पीठसर्पी
सप्तत्या स्थविरश् च यः ।
श्रोत्रियेषूपकुर्वंश् च
न दाप्याः केन चित् करम् ॥ ८.३९४ ॥

395 श्रोत्रियं व्याधितार्तौ ...{Loading}...

श्रोत्रियं व्याधितार्तौ च
बाल-वृद्धाव् अकिंचनम् ।
महाकुलीनम् आर्यं च
राजा संपूजयेत् सदा ॥ ८.३९५ ॥

396 शाल्मलीफलके श्लक्ष्णे ...{Loading}...

शाल्मलीफलके श्लक्ष्णे
नेनिज्यान् नेजकः शनैः ।
न च वासांसि वासोभिर्
निर्हरेन् न च वासयेत् ॥ ८.३९६ ॥

397 तन्तुवायो दशपलम् ...{Loading}...

तन्तुवायो दशपलं
दद्याद् एकपलाधिकम् ।
अतो ऽन्यथा वर्तमानो
दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥

398 शुल्कस्थानेषु कुशलाः ...{Loading}...

शुल्कस्थानेषु कुशलाः
सर्वपण्य-विचक्षणाः ।
कुर्युर् अर्घं यथापण्यं
ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥

399 राज्ञः प्रख्यातभाण्डानि ...{Loading}...

राज्ञः प्रख्यातभाण्डानि
प्रतिषिद्धानि यानि च ।
ताणि निर्हरतो लोभात्
सर्वहारं हरेन् नृपः ॥ ८.३९९ ॥

400 शुल्कस्थानम् परिहरन्न् ...{Loading}...

शुल्कस्थानं परिहरन्न्
अकाले क्रय-विक्रयी ।
मिथ्यावादी च संख्याने
दाप्यो ऽष्टगुणम् अत्ययम् ॥ ८.४०० ॥

401 आगमन् निर्गमम् ...{Loading}...

आगमं निर्गमं स्थानं
तथा वृद्धि-क्षयाव् उभौ ।
विचार्य सर्वपण्यानां
कारयेत् क्रय-विक्रयौ ॥ ८.४०१ ॥

402 पञ्चरात्रे पञ्चरात्रे ...{Loading}...

पञ्चरात्रे पञ्चरात्रे
पक्षे पक्षे ऽथ वा गते ।
कुर्वीत चैषां प्रत्यक्षम्
अर्घसंस्थापनं नृपः ॥ ८.४०२ ॥

403 तुलामानम् प्रतीमानम् ...{Loading}...

तुलामानं प्रतीमानं
सर्वं च स्यात् सुलक्षितम् ।
षट्सु षट्सु च मासेषु
पुनर् एव परीक्षयेत् ॥ ८.४०३ ॥

404 पणं यानम् ...{Loading}...

पणं यानं तरे दाप्यं
पौरुषो ऽर्धपणं तरे ।
पादं पशुश् च योषिच् च
पादार्धं रिक्तकः पुमान् [मेधातिथिपाठः - पादे] ॥ ८.४०४ ॥

405 भाण्डपूर्णानि यानानि ...{Loading}...

भाण्डपूर्णानि यानानि
तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किं चित्
पुमांसश् चाऽपरिच्छदाः ॥ ८.४०५ ॥

406 दीर्घाध्वनि यथादेशम् ...{Loading}...

दीर्घाध्वनि यथादेशं
यथाकालं तरो भवेत् ।
नदीतीरेषु तद् विद्यात्
समुद्रे नाऽस्ति लक्षणम् ॥ ८.४०६ ॥

407 गर्भिणी तु ...{Loading}...

गर्भिणी तु द्विमासादिस्
तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव
न दाप्यास् तारिकं तरे ॥ ८.४०७ ॥

408 यन् नावि ...{Loading}...

यन् नावि किं चिद् दाशानां
विशीर्येताऽपराधतः ।
तद् दाशैर् एव दातव्यं
समागम्य स्वतो ऽंशतः ॥ ८.४०८ ॥

409 एष नौयायिनाम् ...{Loading}...

एष नौयायिनाम् उक्तो
व्यवहारस्य निर्णयः ।
दाशापराधतस् तोये
दैविके नाऽस्ति निग्रहः ॥ ८.४०९ ॥

410 वाणिज्यङ् कारयेद् ...{Loading}...

वाणिज्यं कारयेद् वैश्यं
कुसीदं कृषिम् एव च ।
पशूनां रक्षणं चैव
दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१० ॥

411 क्षत्रियञ् चैव ...{Loading}...

क्षत्रियं चैव वैश्यं च
ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन
स्वानि कर्माणि कारयेत् ॥ ८.४११ ॥

412 दास्यन् तु ...{Loading}...

दास्यं तु कारयंल् लोभाद्
ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्राभवत्याद्
राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥

413 शूद्रन् तु ...{Loading}...

शूद्रं तु कारयेद् दास्यं
क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ
ब्राह्मणस्य स्वयंभुवा ॥ ८.४१३ ॥

414 न स्वामिना ...{Loading}...

न स्वामिना निसृष्टो ऽपि
शूद्रो दास्याद् विमुच्यते ।
निसर्गजं हि तत् तस्य
कस् तस्मात् तद् अपोहति ॥ ८.४१४ ॥

415 ध्वजाहृतो भक्तदासो ...{Loading}...

ध्वजाहृतो भक्तदासो
गृहजः क्रीत-दत्त्रिमौ ।
पैत्रिको दण्डदासश् च
सप्तैते दासयोनयः ॥ ८.४१५ ॥

416 भार्या पुत्रश् ...{Loading}...

भार्या पुत्रश् च दासश् च
त्रय एवाऽधनाः स्मृताः ।
यत् ते समधिगच्छन्ति
यस्य ते तस्य तद् धनम् ॥ ८.४१६ ॥

417 विस्रब्धम् ब्राह्मणः ...{Loading}...

विस्रब्धं ब्राह्मणः शूद्राद्
द्रव्योपादानम् आचरेत् ।
न हि तस्याऽस्ति किं चित् स्वं
भर्तृहार्य-धनो हि सः ॥ ८.४१७ ॥

418 वैश्य-शूद्रौ प्रयत्नेन ...{Loading}...

वैश्य-शूद्रौ प्रयत्नेन
स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः
क्षोभयेताम् इदं जगत् ॥ ८.४१८ ॥

419 अहन्य् अहन्य् ...{Loading}...

अहन्य् अहन्य् अवेक्षेत
कर्मान्तान् वाहनानि च ।
आय-व्ययौ च नियताव्
आकरान् कोशम् एव च ॥ ८.४१९ ॥

420 एवं सर्वान् ...{Loading}...

एवं सर्वान् इमान् राजा
व्यवहारान् समापयन् ।
व्यपोह्य किल्बिषं सर्वं
प्राप्नोति परमां गतिम् ॥ ८.४२० ॥


  1. DK (1: 29; 4: 1815): karaḥ śuklādi ↩︎ ↩︎ ↩︎ ↩︎

  2. DK (1: 29) suggests etadanyathā ↩︎ ↩︎ ↩︎

  3. M G J: -āśanodhārāya; I follow DK (1: 29); DK (4: 1815) suggests: -āśayoddhārāya ↩︎ ↩︎ ↩︎ ↩︎

  4. M G J: praviśec cety; I follow DK (1: 29; 4: 1815). ↩︎ ↩︎ ↩︎ ↩︎

  5. M G J: adṛṣṭaṃ na; I follow DK (1: 29). ↩︎ ↩︎ ↩︎ ↩︎

  6. DK (1: 29; 4: 1815) suggests: hi mantrajñā ↩︎ ↩︎ ↩︎ ↩︎

  7. M G add: na ↩︎ ↩︎ ↩︎ ↩︎

  8. M G: vyavahārastutir ↩︎ ↩︎ ↩︎

  9. M G: yata ānurūpāpīyaso; J: yato ’niṣṭaṃ pāpīyaso ↩︎ ↩︎ ↩︎

  10. M G J: yas tv avadharhān avakāśān na puradāsyādiskhalitād anuhatadaṇḍatākhyāpanāya vā janaiḥ ↩︎ ↩︎ ↩︎

  11. M G J: ghātayitvopapatti (this whole passage has been corrupted; I have followed DK, but the readings are uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  12. J: rājasatvāt ↩︎ ↩︎ ↩︎ ↩︎

  13. M G J omit: vadhe ↩︎ ↩︎ ↩︎ ↩︎

  14. M G J: -vyatikarmatayā ↩︎ ↩︎ ↩︎ ↩︎

  15. M G J: yuktimatvenedaṃ ↩︎ ↩︎ ↩︎ ↩︎

  16. M G: śvagaṇānāṃ; DK (1: 30) svagaṇānāṃ, for ayaṃ tāval lokānāṃ ↩︎ ↩︎ ↩︎ ↩︎

  17. DK: -ārtham ↩︎ ↩︎ ↩︎ ↩︎

  18. M G: uddhṛtaveṣe ↩︎ ↩︎ ↩︎ ↩︎

  19. M G add: vṛttilakṣaṇayā; DK adds: pratilabhya ↩︎ ↩︎ ↩︎ ↩︎

  20. M G: uddhṛta- ↩︎ ↩︎ ↩︎ ↩︎

  21. M G DK omit: syāt ↩︎ ↩︎ ↩︎ ↩︎

  22. M G DK omit: veṣaḥ ↩︎ ↩︎ ↩︎ ↩︎

  23. M G: uddhṛtaveṣa ↩︎ ↩︎ ↩︎ ↩︎

  24. M G: uddhṛtābharaṇo ↩︎ ↩︎ ↩︎ ↩︎

  25. M G: bahvāhāraś ↩︎ ↩︎ ↩︎ ↩︎

  26. DK (1: 31; not 4: 1816): tāvatparyantaṃ ↩︎ ↩︎ ↩︎ ↩︎

  27. M G: -mātram | phalaṃ ↩︎ ↩︎ ↩︎ ↩︎

  28. M G: votsukanirṇayādūtir; DK (1: 31; not 4.1816): pūtir; (the reading here is uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  29. M G: tāś ca syus ↩︎ ↩︎ ↩︎

  30. M G: vadadbhis tu ↩︎ ↩︎ ↩︎ ↩︎

  31. M G: bāndhavādi- ↩︎ ↩︎ ↩︎ ↩︎

  32. M G: vicalanti ↩︎ ↩︎ ↩︎ ↩︎

  33. M G add: na ↩︎ ↩︎ ↩︎ ↩︎

  34. M G: -ārtha ↩︎ ↩︎ ↩︎ ↩︎

  35. M G omit: adhikṛtaḥ ↩︎ ↩︎ ↩︎ ↩︎

  36. M G: pātanīyāc ↩︎ ↩︎ ↩︎ ↩︎

  37. M G: -manasaḥ sūyante; DK: -manasaḥ śrūyante ↩︎ ↩︎ ↩︎ ↩︎

  38. M G: vivekasūtyātmānas ↩︎ ↩︎ ↩︎ ↩︎

  39. DK (1: 71) suggests: pratidivasaṃ gamanena ↩︎ ↩︎ ↩︎ ↩︎

  40. M G J: ca parīkṣitasya; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  41. M G J: asatyāt pūrvavad arthaniścayaḥ; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  42. M G DK (1: 71): akṣaparāhatā ↩︎ ↩︎ ↩︎ ↩︎

  43. M G: tatsaivānantaraṃ; DK (1: 71) tataḥ saivānantaraṃ ↩︎ ↩︎ ↩︎ ↩︎

  44. M G: kṛcchraṃ ↩︎ ↩︎ ↩︎ ↩︎

  45. M G J: anuditāḥ; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  46. M G J omit: tu; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  47. J: śāstrakāravacanvat ↩︎ ↩︎ ↩︎ ↩︎

  48. M G: bhavati ↩︎ ↩︎ ↩︎ ↩︎

  49. M G: tathā ↩︎ ↩︎ ↩︎ ↩︎

  50. J omit: tasmin ↩︎ ↩︎ ↩︎ ↩︎

  51. J: yac cedṛśe ↩︎ ↩︎ ↩︎ ↩︎

  52. M G: lekhyakam upalikhitaṃ ↩︎ ↩︎ ↩︎ ↩︎

  53. M G J: patra- ↩︎ ↩︎ ↩︎ ↩︎

  54. M G J: nirupādhis; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  55. M G J: pūrveṇottarā; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  56. M G J: pūrvā; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  57. J: nāsty ↩︎ ↩︎ ↩︎ ↩︎

  58. M G: -lekhya- ↩︎ ↩︎ ↩︎ ↩︎

  59. J omits: nānyavastuto saṃbandhaḥ ↩︎ ↩︎ ↩︎ ↩︎

  60. DK (1: 72): samūlalābha- ↩︎ ↩︎ ↩︎ ↩︎

  61. M G J: iyaṃ; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  62. M G: balopādhi- ↩︎ ↩︎ ↩︎ ↩︎

  63. M G J: prāmāṇāntaraṃ; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  64. M G DK: nāsya ↩︎ ↩︎ ↩︎ ↩︎

  65. M G: puṇyāheturakāraṇam; DK: puṇyāhas tu kāraṇam ↩︎ ↩︎ ↩︎ ↩︎

  66. M G: gṛhāṇāś ca ↩︎ ↩︎ ↩︎ ↩︎

  67. M G: sarvadātāsmīty ↩︎ ↩︎ ↩︎ ↩︎

  68. M G: nyāyakāntara-; DK: nyāyakārāntara- ↩︎ ↩︎ ↩︎ ↩︎

  69. M G: ābhāsākṛte ↩︎ ↩︎ ↩︎ ↩︎

  70. M G J: na svahasta-; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  71. DK (1: 73): pratipanno ↩︎ ↩︎ ↩︎ ↩︎

  72. M G: ahantuṃ; DK: apahantuṃ ↩︎ ↩︎ ↩︎ ↩︎

  73. M G DK: tatpramāṇaṃ ↩︎ ↩︎ ↩︎ ↩︎

  74. DK adds: na ↩︎ ↩︎ ↩︎ ↩︎

  75. M G: apekṣā ↩︎ ↩︎ ↩︎ ↩︎

  76. M G DK add: ‘vaśyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  77. DK: haret ↩︎ ↩︎ ↩︎ ↩︎

  78. M G J: tadvastupratyabhijñānena; I follow DK. ↩︎ ↩︎ ↩︎

  79. M G: tatsadṛśaṃ ↩︎ ↩︎ ↩︎ ↩︎

  80. M G DK omit: na ↩︎ ↩︎ ↩︎ ↩︎

  81. M G DK add: bādhaḥ sa ↩︎ ↩︎ ↩︎ ↩︎

  82. M G DK: bāḍham; I do not understand the meaning of boḍhāra accepted by Jha. ↩︎ ↩︎ ↩︎ ↩︎

  83. M G DK (1: 1713): vyācakṣate | pūrvo ↩︎ ↩︎ ↩︎ ↩︎

  84. M G DK: avaśyam ayaṃ daṇḍa ity evānye paṭhanti ↩︎ ↩︎ ↩︎ ↩︎

  85. M G DK omit: na hy anyaḥ . . . mithaḥ** **parasparam | ↩︎ ↩︎ ↩︎ ↩︎

  86. M G DK (1: 435): veśeṣeṣu ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  87. DK: pratyabhiśastaḥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  88. M G omit: na ↩︎ ↩︎ ↩︎ ↩︎

  89. DK (1: 32; 4:1817) suggests: sabhāpraveśasthānāsaneṣu ↩︎ ↩︎ ↩︎ ↩︎

  90. M G: niravadyaiveyam ↩︎ ↩︎ ↩︎ ↩︎

  91.  ↩︎ ↩︎ ↩︎ ↩︎
  92.  ↩︎ ↩︎ ↩︎ ↩︎
  93.  ↩︎ ↩︎ ↩︎ ↩︎
  94. M G: dharma- ↩︎ ↩︎ ↩︎ ↩︎

  95. M G: vedadharmeṇa ↩︎ ↩︎ ↩︎ ↩︎

  96. M G J: siddhaṃ; I follow DK (1:35) ↩︎ ↩︎ ↩︎ ↩︎

  97. M G: no ‘rthaṃ; J: hanti ity arthaḥ — pratyarthī; DK (5: 627) ity arthaḥ, no ‘rthī ( the text here is clearly corrup). ↩︎ ↩︎ ↩︎ ↩︎

  98. M G: arthādayaḥ ↩︎ ↩︎ ↩︎ ↩︎

  99. M G: evaṃjānaḥ; J: evaṃjānānaḥ; I follow DK (1: 35; 5: 627). ↩︎ ↩︎ ↩︎ ↩︎

  100. M G add: dharmaḥ nidhane ‘py anjuyān ↩︎ ↩︎ ↩︎ ↩︎

  101. M G omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  102. M G DK (1:36) omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  103. J: -gocaram ↩︎ ↩︎ ↩︎ ↩︎

  104. M G: pūrvaślokārthapratiṣedhaḥ śeṣatayā; J: pūrvaślokārthapratiṣedhaśeṣatayā; I follow DK (1: 33). ↩︎ ↩︎ ↩︎ ↩︎

  105. M G DK omit: tu ↩︎ ↩︎ ↩︎ ↩︎

  106. M G DK (1: 110): yadārthe ↩︎ ↩︎ ↩︎

  107. DK (1:192): niścitaṃ liṅgaṃ ↩︎ ↩︎ ↩︎ ↩︎

  108. M G J: -vikṣepādi ↩︎ ↩︎ ↩︎ ↩︎

  109. M G: tvasaṃvedam ↩︎ ↩︎ ↩︎ ↩︎

  110. J places tathā hi loke before verse 26 as an introduction to it. ↩︎ ↩︎ ↩︎ ↩︎

  111. M G: dṛṣṭaśaktito ’nena ↩︎ ↩︎ ↩︎ ↩︎

  112. M G J read caitanyād without the avagraha. ↩︎ ↩︎ ↩︎ ↩︎

  113. M G: pratyakaṣaḥ śābdo; J: -vedyā ↩︎ ↩︎ ↩︎ ↩︎

  114. M G: -jālavad bhāntimahanādatramukhabibhīṣikāsañjanamātraṃ phalaṃ; J: -jālavad bhrāntivad atra mukhabibhīṣikāsañjanamātraphalaṃ (clearly the reading here is quite uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  115. M G: - mātulādi- ↩︎ ↩︎ ↩︎ ↩︎

  116. M G: ca tad ↩︎ ↩︎ ↩︎ ↩︎

  117. M G DK (1:1951): tāś ↩︎ ↩︎ ↩︎ ↩︎

  118. M G DK: bhavanti ↩︎ ↩︎ ↩︎ ↩︎

  119. DK: tā rakṣyadhanāḥ ↩︎ ↩︎ ↩︎ ↩︎

  120. M G: vibhūṣaṇa-; the explanation takes vi- into viyuktā. ↩︎ ↩︎ ↩︎ ↩︎

  121. M G DK (1:1952): coradaṇḍo ↩︎ ↩︎ ↩︎ ↩︎

  122. M G DK (1: 1953) add: svāṃ ↩︎ ↩︎ ↩︎ ↩︎

  123. M G DK: digdeśādikān pūrvān ↩︎ ↩︎ ↩︎ ↩︎

  124. J: rājñā svāmini ↩︎ ↩︎ ↩︎ ↩︎

  125. M G: tad ↩︎ ↩︎ ↩︎ ↩︎

  126. M G: parakīyasya ↩︎ ↩︎ ↩︎ ↩︎

  127. M G DK: tatrānapahāravācoyuktir evāpahāraphalasya ↩︎ ↩︎ ↩︎ ↩︎

  128. M G: japamudrādes ↩︎ ↩︎ ↩︎ ↩︎

  129. M G DK: jñāpayitum alam ↩︎ ↩︎ ↩︎ ↩︎

  130. DK (4: 1340) suggests adding: śuklā ↩︎ ↩︎ ↩︎ ↩︎

  131. M G J: evāsyānena ↩︎ ↩︎ ↩︎ ↩︎

  132. M G DK (1: 1955): corā ↩︎ ↩︎ ↩︎ ↩︎

  133. M G add: tarhi ↩︎ ↩︎ ↩︎ ↩︎

  134. M G: dṛṣṭārtham ↩︎ ↩︎ ↩︎ ↩︎

  135. M G: ceti ↩︎ ↩︎ ↩︎ ↩︎

  136. M G: ’nyavādī ↩︎ ↩︎ ↩︎ ↩︎

  137. M G omit: na ↩︎ ↩︎ ↩︎ ↩︎

  138. M G DK: aṣṭamām ↩︎ ↩︎ ↩︎ ↩︎

  139.  ↩︎ ↩︎ ↩︎ ↩︎
  140.  ↩︎ ↩︎ ↩︎ ↩︎
  141.  ↩︎ ↩︎ ↩︎ ↩︎
  142. J omits: bījam ↩︎ ↩︎ ↩︎ ↩︎

  143. J: pūrvavat ↩︎ ↩︎ ↩︎ ↩︎

  144. J DK (4: 1343 – but not 1.1957) omit: caśabdavaśāt ↩︎ ↩︎ ↩︎ ↩︎

  145. M G DK (1: 1957): samāhṛtam; but DK (4: 704) has āhṛtam ↩︎ ↩︎ ↩︎ ↩︎

  146. M G DK (1:576): -tantrasaṅgena ↩︎ ↩︎ ↩︎ ↩︎

  147. M G J: paraprayukta- ↩︎ ↩︎ ↩︎ ↩︎

  148. M G: -graha- ↩︎ ↩︎ ↩︎ ↩︎

  149. M G DK (1: 76): kiṃ ca ↩︎ ↩︎ ↩︎ ↩︎

  150. M G DK omit: deśadharmāṇām | yathā jātir nityā evaṃ ↩︎ ↩︎ ↩︎ ↩︎

  151. M G: dṛṣṭārtho ↩︎ ↩︎ ↩︎ ↩︎

  152. M G: deśabandhasya ↩︎ ↩︎ ↩︎ ↩︎

  153. M G: -viśeṣaṇāviśiṣṭānām ↩︎ ↩︎ ↩︎ ↩︎

  154. M G DK: etenāyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  155. M G DK: deśānāṃ ↩︎ ↩︎ ↩︎ ↩︎

  156. M G DK: na ↩︎ ↩︎ ↩︎ ↩︎

  157. M G: -vivāhādiḥ ↩︎ ↩︎ ↩︎ ↩︎

  158. M G DK omit: so ‘yaṃ ↩︎ ↩︎ ↩︎ ↩︎

  159. M G DK omit: na ↩︎ ↩︎ ↩︎ ↩︎

  160. M G DK omit: so ‘yaṃ ↩︎ ↩︎ ↩︎ ↩︎

  161. M G DK: jananivāsa- ↩︎ ↩︎ ↩︎ ↩︎

  162. M G DK: āmnāye virodho ↩︎ ↩︎ ↩︎ ↩︎

  163. M G DK: cāpratilomā ↩︎ ↩︎ ↩︎ ↩︎

  164. M G DK: āryāvartinām ↩︎ ↩︎ ↩︎ ↩︎

  165. M G DK: taddeśaniyamo ↩︎ ↩︎ ↩︎

  166. M G: sīmāntaravāsinaḥ ↩︎ ↩︎ ↩︎ ↩︎

  167. M G DK: madhyamaśabdena ↩︎ ↩︎ ↩︎

  168. M G DK: saṃgamanārtham ↩︎ ↩︎ ↩︎ ↩︎

  169. M G DK (1:109) omit: sva- ↩︎ ↩︎ ↩︎ ↩︎

  170. M G DK: raupya- ↩︎ ↩︎ ↩︎

  171. M G DK (1: 74): eva gantavyam ↩︎ ↩︎ ↩︎ ↩︎

  172. M G: satyena ↩︎ ↩︎ ↩︎ ↩︎

  173. M G: satkavir; PK (1: 75): san kvacit ↩︎ ↩︎ ↩︎ ↩︎

  174. J: -darśanāsattvena ↩︎ ↩︎ ↩︎ ↩︎

  175. M G J DK 1: 77: -āvirodhena (I follow DK 5: 118; see na virodhe in the second half of the sentence) ↩︎ ↩︎ ↩︎ ↩︎

  176. M G DK (1:77): tasmāc ca nādṛṣṭāya (not in DK 5: 118) ↩︎ ↩︎ ↩︎ ↩︎

  177. M G: yadi viruddhaṃ ↩︎ ↩︎ ↩︎ ↩︎

  178. DK (1: 77; 5: 118): lakṣaṇādhikārobhaya- ↩︎ ↩︎ ↩︎ ↩︎

  179. DK 5: 118: anupātteṣu (not in DK 1: 77) ↩︎ ↩︎ ↩︎ ↩︎

  180. M G: tavato ‘pi; DK (1: 78) tajjāto ‘pi ↩︎ ↩︎ ↩︎ ↩︎

  181. J: nityatvād ↩︎ ↩︎ ↩︎ ↩︎

  182. M G add: na; DK add: ca ↩︎ ↩︎ ↩︎

  183. M G DK: vaiśvāmitram avadhīr ↩︎ ↩︎ ↩︎ ↩︎

  184. M G: tāny asyeti; DK nānyasyeti ↩︎ ↩︎ ↩︎ ↩︎

  185. M G: niryaṇam; J: niryaṇaḥ ↩︎ ↩︎ ↩︎ ↩︎

  186. M G DK (1: 717): grahaḥ ↩︎ ↩︎ ↩︎ ↩︎

  187. J omits: sarvadhanādiṣu prakṣeptavyāv anyatra . . . matvarīyaś ca durlabhaḥ ↩︎ ↩︎ ↩︎ ↩︎

  188. M G: niḥśvasavyavahāreṇa ↩︎ ↩︎ ↩︎ ↩︎

  189. M G: bāla- ↩︎ ↩︎ ↩︎ ↩︎

  190. M G: nanu ↩︎ ↩︎ ↩︎ ↩︎

  191. M G J omit: gṛhītam ↩︎ ↩︎ ↩︎ ↩︎

  192. M G J omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  193. M G DK: daṇḍabhāgaṃ ↩︎ ↩︎ ↩︎ ↩︎

  194. M G omit: dehy ↩︎ ↩︎ ↩︎ ↩︎

  195. M G add: apalāpo ↩︎ ↩︎ ↩︎ ↩︎

  196. M G: tadābhiyukto ↩︎ ↩︎ ↩︎ ↩︎

  197. M G: - marṇāya ↩︎ ↩︎ ↩︎ ↩︎

  198. M G DK (1: 212): karaṇa- ↩︎ ↩︎ ↩︎ ↩︎

  199. M G DK (1. 212): -karaṇam ↩︎ ↩︎ ↩︎ ↩︎

  200. M G J: bandhanaṃ (see dviguṇībhūtaṃ dhanam under 8.145) ↩︎ ↩︎ ↩︎ ↩︎

  201. DK (1: 640) reads: dviguṇaṃ tatra | kadācit saṃmatyā yatra bhuṃkte, bhuktaiva vṛddhir niścetavyā | ↩︎ ↩︎ ↩︎ ↩︎

  202. M G J: -jñānatayā ↩︎ ↩︎ ↩︎ ↩︎

  203. M G: nātikrāmayati; J: nātikrāmayeti ↩︎ ↩︎ ↩︎ ↩︎

  204. J: samyak ↩︎ ↩︎ ↩︎ ↩︎

  205. M G J: śāstrāntaravad antarhito (M G antarvitto); I follow DK (1: 386); DK (5: 1186) however suggests: śāstrāntaravaśād anantarhito ↩︎ ↩︎ ↩︎ ↩︎

  206. M G J: tadā deśe diśyate (M G dīyate) ↩︎ ↩︎ ↩︎ ↩︎

  207. M G J DK (5: 1186): ‘dhimokṣaṇe (I follow DK 1: 386) ↩︎ ↩︎ ↩︎ ↩︎

  208. M G DK (1: 386): na tv evādhau iti ↩︎ ↩︎ ↩︎ ↩︎

  209. M G DK (1: 194): rājaputramānyā- ↩︎ ↩︎ ↩︎ ↩︎

  210. M G: amatyantāpaunaruktyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  211. M G: pṛcchyamāne ↩︎ ↩︎ ↩︎

  212. M G: -bhāvayed ↩︎ ↩︎ ↩︎ ↩︎

  213. MG: ‘pratibhāve ↩︎ ↩︎ ↩︎ ↩︎

  214. M G DK omit: yadi ↩︎ ↩︎ ↩︎ ↩︎

  215. M G DK (1: 195) omit: cet ↩︎ ↩︎ ↩︎ ↩︎

  216. M G: prakāreṇa navagamyate ↩︎ ↩︎ ↩︎ ↩︎

  217. M G: pratibhānavataḥ; DK: ‘pratibhānavataḥ ↩︎ ↩︎ ↩︎ ↩︎

  218. M G: aparādhnuyāt ↩︎ ↩︎ ↩︎ ↩︎

  219. M G DK: cātra smṛtyādayo ↩︎ ↩︎ ↩︎ ↩︎

  220. M G DK: vastrādyupahāreṇa ↩︎ ↩︎ ↩︎ ↩︎

  221. M G DK: nāśāśaṅkṣā ↩︎ ↩︎ ↩︎ ↩︎

  222. M G DK: krameṇa ↩︎ ↩︎ ↩︎ ↩︎

  223. M G DK: smṛtir ↩︎ ↩︎ ↩︎ ↩︎

  224. M G: vipakṣabādhakaṃ pramāṇavṛttyā ↩︎ ↩︎ ↩︎ ↩︎

  225. M G: svapakṣe sādhanābhāvād ↩︎ ↩︎ ↩︎ ↩︎

  226. DK (1: 386): bhogān ↩︎ ↩︎ ↩︎ ↩︎

  227. DK (1: 386): sa para eva ↩︎ ↩︎ ↩︎ ↩︎

  228. DK: anarthakaḥ syāt | yasya parasyāpi na paravyapadeśaḥ sa nirasyate ↩︎ ↩︎ ↩︎ ↩︎

  229. M G DK: ca ↩︎ ↩︎ ↩︎

  230. J: bandhyo ↩︎ ↩︎ ↩︎

  231. M G: deśa ↩︎ ↩︎ ↩︎ ↩︎

  232. M G: pravartamānachalavyavahārīti ↩︎ ↩︎ ↩︎ ↩︎

  233. M G: daṇḍyam ↩︎ ↩︎ ↩︎ ↩︎

  234. M G: yācati ↩︎ ↩︎ ↩︎ ↩︎

  235. M G DK (1:254) add: hnuvāno ↩︎ ↩︎ ↩︎ ↩︎

  236. M G DK (1: 251) omit: ṛtaṃ satyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  237. M G: abhibhavanti ↩︎ ↩︎ ↩︎

  238. M G: bhāvaḥ ↩︎ ↩︎ ↩︎ ↩︎

  239. DK (1: 384): cirakālasiddhihetum ↩︎ ↩︎ ↩︎ ↩︎

  240. M G DK (1: 384): atha vā tatparasyāpi ↩︎ ↩︎ ↩︎ ↩︎

  241. DK (5: 1181) omits: svatvakāryaḥ ↩︎ ↩︎ ↩︎ ↩︎

  242. M G add: ity arthaḥ; DK (1.252) omit: sarvakāryeṣu ↩︎ ↩︎ ↩︎ ↩︎

  243. M G DK: yathokalakṣaṇāḥ ↩︎ ↩︎ ↩︎ ↩︎

  244. M G: anyaviṣaye ’nye ↩︎ ↩︎ ↩︎ ↩︎

  245. M G: -vādakam ↩︎ ↩︎ ↩︎ ↩︎

  246. M G: nabhāva- ↩︎ ↩︎ ↩︎ ↩︎

  247. M G: anumīyante ↩︎ ↩︎ ↩︎ ↩︎

  248. M G: -vaśitāḥ ↩︎ ↩︎ ↩︎ ↩︎

  249. M G: ’tau ↩︎ ↩︎ ↩︎ ↩︎

  250. M G DK (1:254): saṃnihitadhanatvāc cittam anuvartamānaḥ śakyate ↩︎ ↩︎ ↩︎ ↩︎

  251. M G J: saktā- ↩︎ ↩︎ ↩︎ ↩︎

  252. M G J: -vilepād; DK (1: 3845-vilopā ↩︎ ↩︎ ↩︎ ↩︎

  253. M G DK: samānakaraṇapratiṣedhaḥ ↩︎ ↩︎ ↩︎ ↩︎

  254. DK (1: 385): yatraika eva ↩︎ ↩︎ ↩︎ ↩︎

  255. M G: bhūmir ↩︎ ↩︎ ↩︎ ↩︎

  256. M G: bhogābhilāṣeva; DK (1: 385): bhogābhiṣvaṅga (DK 5: 1189 follows the edition) ↩︎ ↩︎ ↩︎ ↩︎

  257. M G DK (1: 256): evaṃ ↩︎ ↩︎ ↩︎ ↩︎

  258. DK: trihastācārapatre (perhaps attempting to correct the sandhi); could the original be trihastācāre patre? ↩︎ ↩︎ ↩︎ ↩︎

  259. M G DK omit: na ↩︎ ↩︎ ↩︎ ↩︎

  260. M G DK: svadharmād ↩︎ ↩︎ ↩︎ ↩︎

  261. DK (1: 257): -saṃyogī ↩︎ ↩︎ ↩︎ ↩︎

  262. M G: upekṣamāṇasyāsyaiva; upekṣamāṇasyāstyeva ↩︎ ↩︎ ↩︎ ↩︎

  263. DK (1: 385): -virodhāt na sarveṇa sarvaṃ samarthanīyam ↩︎ ↩︎ ↩︎ ↩︎

  264. M G DK (1: 257) read: sākṣiṇām eva sarvo rājapuruṣādikaṃ na copadravanti, and place sākṣiṇo labyante na vā tāvatkālaṃ pratipālayanti after sākṣitvena grahītavyaḥ ↩︎ ↩︎ ↩︎ ↩︎

  265. M G DK (1.259): jñātisādṛśye ↩︎ ↩︎ ↩︎ ↩︎

  266. M G DK: nātivyāpakaṃ ↩︎ ↩︎ ↩︎ ↩︎

  267. J: maukhaśrauta- ↩︎ ↩︎ ↩︎ ↩︎

  268. M G: ahāryotpattikāyānasaṃbandha-; J: ahāryotpattikāyādisaṃbandha- ↩︎ ↩︎ ↩︎ ↩︎

  269. M G: vaitānikaḥ ↩︎ ↩︎ ↩︎ ↩︎

  270. M G DK: tena vā ↩︎ ↩︎ ↩︎ ↩︎

  271. J: tathā ↩︎ ↩︎ ↩︎ ↩︎

  272. M G: dṛṣṭe ↩︎ ↩︎ ↩︎ ↩︎

  273. M G: anumāne; DK ( 1:271): pramāṇaṃ anumānam ↩︎ ↩︎ ↩︎

  274. DK (1: 388): vastrā- ↩︎ ↩︎ ↩︎ ↩︎

  275. M G J: yānyatare ↩︎ ↩︎ ↩︎

  276. J add: yāti ↩︎ ↩︎ ↩︎ ↩︎

  277. J: yamayātanāsthānaṃ ↩︎ ↩︎ ↩︎ ↩︎

  278. M G: upekṣya; J: upekṣyetāpi ↩︎ ↩︎ ↩︎ ↩︎

  279. DK (1: 388) add: na; (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎ ↩︎

  280. M G J omit: nirṇayo ↩︎ ↩︎ ↩︎ ↩︎

  281. J: vicalitā ↩︎ ↩︎ ↩︎ ↩︎

  282. M G DK (1:269) add: strīpratyayam āśritya ↩︎ ↩︎ ↩︎ ↩︎

  283. M G: yadyayathā- ↩︎ ↩︎ ↩︎ ↩︎

  284. M G DK: ākruṣṭaṃ ↩︎ ↩︎ ↩︎ ↩︎

  285. M G DK: na karmaṇā ↩︎ ↩︎ ↩︎ ↩︎

  286. M G: vyāroṣeṇa ↩︎ ↩︎ ↩︎ ↩︎

  287. M G DK: tatrākṛuṣṭaṃ ↩︎ ↩︎ ↩︎ ↩︎

  288. M G DK: na karamaṇety ↩︎ ↩︎ ↩︎ ↩︎

  289. M G omit: bruvan ↩︎ ↩︎ ↩︎ ↩︎

  290. M G: ‘prakṛtisthānaṃ ↩︎ ↩︎ ↩︎ ↩︎

  291. M G: tathā ca ↩︎ ↩︎ ↩︎ ↩︎

  292. M G DK (1: 260): asmadapratyakṣaṃ ↩︎ ↩︎ ↩︎ ↩︎

  293. M G: sākṣibhūte ↩︎ ↩︎ ↩︎

  294. J: kīrtiṃ khyātim anuttamām ↩︎ ↩︎ ↩︎ ↩︎

  295. J: pralamba ↩︎ ↩︎ ↩︎ ↩︎

  296. M G DK (1: 261): iti yāvat ↩︎ ↩︎ ↩︎

  297. M G DK (1: 262): jānīṣva ↩︎ ↩︎ ↩︎ ↩︎

  298. M G: nāsatyavādinā ↩︎ ↩︎ ↩︎ ↩︎

  299. M G omit: ātmāntaraṃ pratipannasya kim eṣa me draṣṭāpi kariṣyatīti | tan na | gatir ātmā tathātmanaḥ ↩︎ ↩︎ ↩︎ ↩︎

  300. M G DK: devādīnāṃ ↩︎ ↩︎ ↩︎

  301. M G: draṣṭṛtvam acaitanyā śrutyāropyate ↩︎ ↩︎ ↩︎ ↩︎

  302. DK omit: darśanāntare tu mahābhūtāni devatātmatayā cetanāny eva | tathā ca ↩︎ ↩︎ ↩︎ ↩︎

  303. M G DK (1: 612; 5: 1192): vetyādiniścaye ↩︎ ↩︎ ↩︎ ↩︎

  304. M G DK (1: 264): brāhmaṇadāra- ↩︎ ↩︎ ↩︎ ↩︎

  305. M G DK omit: kṛtaghnasya ↩︎ ↩︎ ↩︎ ↩︎

  306. M G: bhavaty evety ↩︎ ↩︎ ↩︎ ↩︎

  307. M G DK: atyalpa- ↩︎ ↩︎ ↩︎ ↩︎

  308. M G DK: yathā ↩︎ ↩︎ ↩︎ ↩︎

  309. M G DK: dehavanādy- ↩︎ ↩︎ ↩︎ ↩︎

  310. M G DK: satrā ↩︎ ↩︎ ↩︎ ↩︎

  311. M G DK: nayati ↩︎ ↩︎ ↩︎ ↩︎

  312. M G DK: pratyayinaḥ ↩︎ ↩︎ ↩︎ ↩︎

  313. M G DK: me ’taḥ ↩︎ ↩︎ ↩︎ ↩︎

  314. M G: asitā ↩︎ ↩︎ ↩︎ ↩︎

  315. M G: mohaduḥkhaṃ ↩︎ ↩︎ ↩︎

  316. M G: saṃbandho dhanadvāreṇo- ↩︎ ↩︎ ↩︎

  317. M G DK omit: yena kena ↩︎ ↩︎

  318. M G: sarve vā nīyante; DK: sarvā vā dīyate ↩︎ ↩︎ ↩︎

  319. M G DK omit: anyakṛtena puṇyapāpādinānyasya svarganarakādiprāptiḥ ↩︎ ↩︎ ↩︎

  320. M G: vadaḥ; DK reproduces the whole line: sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadaḥ ↩︎ ↩︎ ↩︎

  321. J omits: smottare laṅ ca iti; DK adds: laṅvādaḥ ↩︎ ↩︎ ↩︎

  322. M G DK: madhamena for apy etat ↩︎ ↩︎ ↩︎

  323. M G: na tv ↩︎ ↩︎ ↩︎

  324. M G: viśvakarmā bhauvanam ādiśed; J: viśvakarman dāsitha bauvanamādi (clearly this passage has been transmitted badly; I follow DK, but I am not sure whether the editors of it have tried to create a sensible conjectural reading or are reproducing the reading of a good manuscript). ↩︎ ↩︎ ↩︎

  325. M G J: viśvakarma- ↩︎ ↩︎ ↩︎

  326. M G J: rājñāmantraṇaṃ ↩︎ ↩︎ ↩︎

  327. M G J: mayāsau rantum ↩︎ ↩︎ ↩︎

  328. M G J: upamaiṣyati ↩︎ ↩︎ ↩︎

  329. M G: svalpe ‘pi sahopakāro; DK (1: 268): svalpe ‘pi khalv apahāre ↩︎ ↩︎ ↩︎

  330. J: upanyasati ↩︎ ↩︎ ↩︎

  331. J: saṃkrāmi ↩︎ ↩︎ ↩︎

  332. M G: karaṇaṃ ↩︎ ↩︎

  333. M G J: -kāle ↩︎ ↩︎ ↩︎

  334. MG: rājñā; J: rājā (all outside the compound) ↩︎ ↩︎ ↩︎

  335. DK (1: 1: 388): saṃbhāvayati (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎

  336. All editions read “sarvais,” but it is clear that Medhātithi’s reading was “ebhis”, as is evident from his commentary: “vakṣyamāṇaiḥ pātakaiḥ”, and the reading “śūdram ebhis tu pātakaiḥ” given at 8.99. ↩︎ ↩︎ ↩︎

  337. DK: vadaḥ ↩︎ ↩︎

  338. M G omit: tām ↩︎ ↩︎

  339. M G DK omit: mūlyena ↩︎ ↩︎

  340. M G: yaṃ naikapalādhikaṃ; DK: vayannaikapalādhikaṃ ↩︎ ↩︎

  341. M G: vṛddhidāne ↩︎ ↩︎

  342. M G: katipayā māsikena; DK: katipayāḥ | māsikena ↩︎ ↩︎

  343. M G: vṛddhir ↩︎ ↩︎

  344. M G DK omit: iti ↩︎ ↩︎

  345. M G: yasyādhamarṇasya ↩︎ ↩︎

  346. M G J: ūnavya- ↩︎ ↩︎

  347. M G omit: kṣayavyaya, and read: -sārasādividhi-; DK (1: 1708; but not 4: 2330): āgamakṣayakrayasārāsārādividhijñā ↩︎ ↩︎

  348. M G: tair ↩︎ ↩︎

  349. M G omit: atha vā ↩︎ ↩︎

  350. M G J: kācaivādhikādīnām ↩︎ ↩︎

  351. M G J: jayo ↩︎ ↩︎

  352. M G: yā gantryādisaṃbhāvanā; J: yogakrayādisaṃbhāvanā (we have here three different readings from the three editions; clearly a defective reading here, which the editors attempted to correct) ↩︎ ↩︎

  353. M G: prayoge ↩︎ ↩︎

  354. M G: mahāśa; J: mahān ayaṃ ↩︎ ↩︎

  355. M G: prekṣyaś ca tam; DK: prekṣya ca tam ↩︎ ↩︎

  356. M G: vāṇijya ↩︎ ↩︎

  357. DK (1: 1706; 4: 2331): daṇḍaṃ ↩︎ ↩︎

  358. J: ahiraṇyam (but Jha’s translation presupposes vṛddhi- here). ↩︎ ↩︎

  359. M G: yatraivāropayet; J: tatraivāropayet ↩︎ ↩︎

  360. M G: yāvat saṃvatsarā vṛddhir; J: yāvat saṃvatsarāt vṛddhir ↩︎ ↩︎

  361. DK (4: 2331) suggests: tathā kiyato ↩︎ ↩︎

  362. DK (4: 2331): dravyāntaraviṣayeṇa ↩︎ ↩︎

  363. M G omit: krayavikrayeṇa ↩︎ ↩︎

  364. J: pāde ↩︎

  365. M G J: tareṇa; I follow DK 1: 1945; 4: 1347 (see similar error later in the com. on this verse) ↩︎ ↩︎

  366. M G: -vāhye ↩︎ ↩︎

  367. M G: - sāmarthyāsaṃbhāvanayā ↩︎ ↩︎

  368. M G J: tadīyaṃ puṇyaṃ ↩︎ ↩︎

  369. M G J: hetur ↩︎ ↩︎

  370. M G J: -saṃtaraṇaṃ rāṣṭro- ↩︎ ↩︎

  371. M G: aprāptā tāṃ ↩︎ ↩︎

  372. M G: māsam eva hantuṃ ↩︎ ↩︎

  373. M G J omit: āsthitavān ↩︎ ↩︎

  374. M G: atikramo ↩︎ ↩︎

  375. M G: sthūlapathikā ↩︎ ↩︎

  376. M G DK (1: 319): anyasmād ↩︎ ↩︎

  377. M G: dṛḍhabandhanajalapraveśam ↩︎ ↩︎

  378. M G: dvividhe ↩︎ ↩︎

  379. M G DK (1: 662): bhūtvānukampayante (MG: -kapayante) ↩︎ ↩︎

  380. J: tat tad ↩︎ ↩︎

  381. M G: tanmayāṃ ↩︎ ↩︎

  382. M G J: nigrahāntaṃ vikrayaṇaṃ ↩︎ ↩︎

  383. DK (1: 663): arhatā ↩︎ ↩︎

  384. M G: adhikāraḥ pratiṣedhaḥ ↩︎ ↩︎

  385. M G: vyākhyāyante ↩︎ ↩︎

  386. DK: vyākhyeyam eva draṣṭavyā ↩︎ ↩︎

  387. J omits: mama ↩︎ ↩︎

  388. M G: niṣpannam (omit pari-) ↩︎ ↩︎

  389. M G: pitrādattaṃ ↩︎ ↩︎

  390. M G J: yaṃ cāham ↩︎ ↩︎

  391. M G: dāpayed ↩︎ ↩︎

  392. DK: prayojayet ↩︎ ↩︎

  393. M G: daṇḍaśaḥ śulkaśaś ↩︎ ↩︎

  394. J adds: na svāminā nisṛṣṭo ‘pi dāsyād vimucyate; M G add: na svāminā nisṛṣṭo ‘pi ↩︎ ↩︎

  395. M G: jatisahabhāvikam ↩︎ ↩︎

  396. M G DK: sādhanānukte ↩︎ ↩︎

  397. M G: yasya ↩︎ ↩︎

  398. M G: pratiṣedha- ↩︎ ↩︎

  399. M G: darśanaṃ grahaṇād ↩︎ ↩︎

  400. M G: vidhibhūtapratiṣedha ↩︎ ↩︎

  401. M G DK (1: 664): saṃdehahetuślokaḥ ↩︎ ↩︎

  402. M G: na; J omits: ca ↩︎ ↩︎

  403. M G DK: uktam | mṛto dānapratibhūtajjātas tādṛśe mṛte ↩︎ ↩︎

  404. J omits: na ↩︎ ↩︎

  405. M G: tadyo; J: tad dadyān ↩︎ ↩︎

  406. J omits: cen maivam | nirādeśanena ↩︎ ↩︎

  407. M G DK (1: 552): tatpramāṇam āvasthiko ↩︎ ↩︎

  408. M G J: tadā prakṛtam asyāhur asvatantre sahetutaḥ ↩︎ ↩︎

  409. M G: -ārthā bhayavyasana- ↩︎ ↩︎

  410. M G: rāgadveṣaparāś ceti ↩︎ ↩︎

  411. This section is a commentary on NSm 1.37 ↩︎ ↩︎

  412. M G: -ādhiṣṭha-; DK: -ādhiṣṭhaḥ ↩︎ ↩︎

  413. M G: abhiyuktaviśabdau ↩︎ ↩︎

  414. M G: dharmiparau ↩︎ ↩︎

  415. M G J: ātura iti ↩︎ ↩︎

  416. M G J: abhiyukta- ↩︎ ↩︎

  417. M G DK: tadvyākhyānarataḥ ↩︎ ↩︎

  418. DK: kvacit; MG: cit (omitting kasya) ↩︎ ↩︎

  419. M G DK: vadanto ’nyad ācaranti ↩︎ ↩︎

  420. M G: -mattāḥ prakṛtisthāḥ ↩︎ ↩︎

  421. M G DK: syur na caivam adhyadhīno . . . (making it one sentence. But the commentary on NSm ends here, and with adhyadhīno, Medhātithi resumes his commentary on Manu’s verse). ↩︎ ↩︎

  422. DK: tatra tu ↩︎ ↩︎

  423. DK: yat ↩︎ ↩︎

  424. M G DK: prabhavad ata ity uktam ↩︎ ↩︎

  425. Editions give diverse and wrong readngs, all omitting the final kṛtam: M D DK: tatkṛtaṃ tasyākṛtaṃ nāsvatantrakṛtam; J: tatkṛtaṃ tatkāryajātaṃ nāsvatantrakṛtam ↩︎ ↩︎

  426. M G J: svāmitvasyety etāś ↩︎

  427. M G: anyasvāmyasya ↩︎

  428. M G: svadharmo; DK: svadharme ↩︎

  429. DK: paratantraḥ mahā- ↩︎

  430. M G: yonātmopabhogo; J: nātmopabhogo ↩︎

  431. M G: upapanno ↩︎

  432. M G: tadā śiṣyate; DK: tadeśiṣyante ↩︎

  433. M G: eva putrādāv api; eva putrādayaḥ ↩︎

  434. M G J: strīṇām asamāveśa ↩︎

  435. The readings here is probably corrupt. M G: tair āsāṃ sthāne nirūpaṇīyena hitāḥ; J: tāḥ sthāne nirūpaṇīyena hitāhitaṃ ↩︎

  436. M G: kartuṃ ↩︎

  437. J divides the words: evamādi tayā ↩︎

  438. M G DK: kiṃcid avijñāte ↩︎

  439. M G J: rājādhipatiputrayoḥ; DK: rājā ca patiputrayoḥ ↩︎

  440. M G DK: atisvātantryam ↩︎

  441. M G J: visvarā ↩︎

  442. DK: abuddhipūrve ↩︎

  443. J: bālaśikṣite (the reading of this sentence is very uncertain) ↩︎

  444. M G: nanu; M G DK add: tair ↩︎

  445. M G DK omit: na ↩︎

  446. M G DK: anujñāpya ↩︎

  447. DK: tiṣṭhati ↩︎

  448. M G: śreyo na bhāve vījino mataḥ ↩︎

  449. M G: apṛthak | tasya ↩︎

  450. M G: tadagrahe ↩︎

  451. M G : nivaset ↩︎

  452. M G: pitṛvibhakta- ↩︎

  453. M G: arpitavāṃs ↩︎

  454. M G: sarvā vibhāṣā ↩︎

  455. M G: pratiṣṭhitāḥ ↩︎

  456. M G J: yadā ↩︎

  457. M G DK omit: ādhamanaṃ; J: dhamanaṃ (although it wrong division: yadādhamanaṃ, read as yadā dhamanaṃ) ↩︎

  458. M G J add: iti ↩︎

  459. M G J: asatyakāryeṇa ↩︎

  460. M G J omit: iti ↩︎

  461. DK omits: me; M G: na kiṃcid astīti me ↩︎

  462. M G DK: kṣetre sthaṇḍile vā dattam iti tad ↩︎

  463. M G J: suhṛtsvajanāya ↩︎

  464. M G: ādhānaiva ↩︎

  465. M G DK: yogāvāpanam ↩︎

  466. M G DK: yogāvāpanam ↩︎

  467. M G DK: daṇḍitaḥ ↩︎

  468. The passage yad ubhayasvāmikam . . . dvandvaikavyavahāraḥ is placed after daṇḍaḥ syāt in J, and after yatra vāpy upadhiṃ paśyed iti in M G. ↩︎

  469. M G: anyatare; J: anyataraḥ ↩︎

  470. J: dāpyate ↩︎

  471. M G add: na ↩︎

  472. M G: chadmanaiva; DK: evam ↩︎

  473. M G: dhaninottvoyāvad ↩︎

  474. M G: māsasya ↩︎

  475. M G DK: tadṛkthahārī ↩︎

  476. M G: tattadvyati- (omits na) ↩︎

  477. M G: kuṭumbena ↩︎

  478. M G: tadṛṣṭe; DK: tadṛkthe ↩︎

  479. M G: ṛkṣita; DK: ṛkthinaḥ ↩︎

  480. M G: pravibhaktāt ↩︎

  481. M G: -karaṇārtham ↩︎

  482. M G DK omit: ataḥ ↩︎

  483. M G DK (1: 555) add: tu ↩︎

  484. M G DK: gṛhakramabhṛtyo ↩︎

  485. J omits: ṛṇam atra ↩︎

  486. M G: atra śabdābhisaṃbandhāpi vā; J: yattacchabdābhisaṃbaddham ↩︎

  487. DK (1: 556): nivartayed ↩︎

  488. M G: lekhyalekhitam ↩︎

  489. M G DK: daivād ↩︎

  490. M G: yogāvāpanam; DK: yogādhamanavikrītam ↩︎

  491. M G J: yogabalaśakye ↩︎

  492. DK: -dhīna- ↩︎

  493. M G: bālavṛddhir; DK: bālavṛddha- ↩︎

  494. M G: balākṛtiḥ; DK: balāt kṛtiḥ ↩︎

  495. M G: asaṃvardheta; DK: asaṃbandhena ↩︎

  496. M G: vyavahārau; J: kṛto vyavahāro ↩︎

  497. M G omit: na ↩︎

  498. M G: vyavahāreṇa kṣaṇaṃ ↩︎

  499. M G: vṛddhayuṣāḥ; J omits: kulaṃ vṛddhapuruṣāḥ ↩︎

  500. M G: vipraṃ pratigrahītavyāḥ ↩︎

  501. M G J: tadanādāne ↩︎

  502. M G J: hatabalasādhyaṃ ↩︎

  503. DK add: na ↩︎

  504. M G: balavato; J: balavatā ↩︎

  505. M G: necchanti ↩︎

  506. M G: kurvad ↩︎

  507. M G J omit: na (I think Jha’s translation presupposes this na) ↩︎

  508. M G J: notsāhāyet ↩︎

  509. M G: rājñā ↩︎

  510. M G add: asmābhir ↩︎

  511. M G J: pare svaśaktiṃ (I follow DK 4: 1344) ↩︎

  512. J: ca dharmadaṇḍanāt (but Jha’s translation presupposes the negative) ↩︎

  513. M G: -prabhave ↩︎

  514. M G DK (I: 1931): na _for _ayaṃ ca ↩︎

  515. M G: tad viditvā; DK: tad dhi hitvā ↩︎

  516. M G DK: prasaṅgākhyānena ↩︎

  517. M G: dharmajaṃ ↩︎

  518. M G: bahukṛtya ↩︎

  519. M G add: na; DK (1: 718) add: ca ↩︎

  520. M G DK: rājaputrair ↩︎

  521. M G: āhvayanenārhatarapradeśo ’nurudhyedaṃ hi dhanam iti; J: āhvānenārhatarapradeśe ’nurudhyedaṃ hi dhanam iti | The reading is suspect here; I follow DK. ↩︎

  522. M G: cāpṛṣṭo ↩︎

  523. M G J omit: dāpyaḥ ↩︎

  524. J omits: evaṃ pañcaviṃśatiḥ ↩︎

  525. M G J: śataṃ ↩︎

  526.  ↩︎
  527. M G DK (1: 1907): sākṣipratyayaḥ ↩︎

  528. J: abhisaṃbadhyate ↩︎

  529. M G: saṃmataṃ na yad ↩︎

  530. M G J: aikyam anyata ↩︎

  531. M G J: svakulāṃśaṃ nigṛhītvā ↩︎

  532. J omits: na ↩︎

  533. J omits: adṛṣṭākārye ↩︎

  534. M G: -mahimahattvena ↩︎

  535. M G DK (1: 738) omits: nikṣepam ↩︎

  536. M G DK: samudrayitvā; J: so ‘mudrayitvā ↩︎

  537. J: jīyate ↩︎

  538. DK: mudrāpahnavād ↩︎

  539. M G DK place nikṣeptrā after sākṣiṣv asatsu ↩︎

  540. M G DK: nikṣeptā ↩︎

  541. M G: vayasāmanvitā ↩︎

  542. M G: nāśako ↩︎

  543. M G DK: tenaiva tad ↩︎

  544. J: asatyaṃ ↩︎

  545. M G: gṛhītanikṣeptur; DK: gṛhītur nikṣeptur ↩︎

  546. J: kriyata ↩︎

  547. M G: ‘vaṣṭabdhasya ↩︎

  548. M G: arthine ↩︎

  549. M G omit: pratyanantare ↩︎

  550. J omits: utpattyanantara ↩︎

  551. See commentary on MDh 8.163. ↩︎

  552. M G: yāvan nikṣeptary; J: yācate kṣeptary ↩︎

  553. J: atraivārthavādaṃ ↩︎

  554. J: deśāntare ↩︎

  555. M G: nikṣeptuṃ ↩︎

  556. DK (1: 740): ānāyya ↩︎

  557. M G: nikṣeptṛyācamānāya ↩︎

  558. M G: adāsyam ↩︎

  559. M G DK: bhujyate ↩︎

  560.  ↩︎
  561.  ↩︎
  562. M G J: apanīya ↩︎

  563. M G: pramāṇā na ↩︎

  564. M G: nikṣipta- ↩︎

  565. M G DK (1: 743) omit: ca ↩︎

  566. DK: tatsamadhanavaikalpiko ↩︎

  567. M G DK: dravyajātir nigrāhyā jātiṃ ca nāpekṣate ↩︎

  568. M G: citrāsanaṃ ↩︎

  569. DK (1: 744): rājyata ↩︎

  570. M G: tv ↩︎

  571. J: tatsamaṃ ↩︎

  572. M G DK add: puruṣās ↩︎

  573. J: kathaṃ ↩︎

  574. DK (1: 739): uktvā ↩︎

  575. M G omit: na sākṣitvam ↩︎

  576. M G DK (1: 758): vājñāṃ datvā ↩︎

  577. M G: yenānyad ↩︎