०७

001-050

001 राजधर्मान् प्रवक्ष्यामि ...{Loading}...

राजधर्मान् प्रवक्ष्यामि
यथावृत्तो भवेन् नृपः ।
सम्भवश् च यथा तस्य
सिद्धिश् च परमा यथा ॥ ७.१ ॥

002 ब्राह्मम् प्राप्तेन ...{Loading}...

ब्राह्मं प्राप्तेन संस्कारं
क्षत्रियेण यथाविधि ।
सर्वस्याऽस्य यथान्यायं
कर्तव्यं परिरक्षणम् ॥ ७.२ ॥

003 अराजके हि ...{Loading}...

अराजके हि लोके ऽस्मिन्
सर्वतो विद्रुतो भयात् ।
रक्षार्थम् अस्य सर्वस्य
राजानम् असृजत् प्रभुः ॥ ७.३ ॥

004 इन्द्रानिल-यमार्काणाम् अग्नेश् ...{Loading}...

इन्द्रानिल-यमार्काणाम्
अग्नेश् च वरुणस्य च ।
चन्द्र-वित्तेशयोश् चैव
मात्रा निर्हृत्य शाश्वतीः ॥ ७.४ ॥

005 यस्माद् एषाम् ...{Loading}...

यस्माद् एषां सुरेन्द्राणां
मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष
सर्वभूतानि तेजसा ॥ ७.५ ॥

006 तपत्य् आदित्यवच् ...{Loading}...

तपत्य् आदित्यवच् चैष
चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति
कश् चिद् अप्य् अभिवीक्षितुम् ॥ ७.६ ॥

007 सो ऽग्निर् ...{Loading}...

सो ऽग्निर् भवति वायुश् च
सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः
स महेन्द्रः प्रभावतः [मेधातिथिपाठः - स चेन्द्रः स्वप्रभावतः] ॥ ७.७ ॥

008 बालो ऽपि ...{Loading}...

बालो ऽपि नाऽवमान्तव्यो
मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा
नररूपेण तिष्ठति ॥ ७.८ ॥

009 एकम् एव ...{Loading}...

एकम् एव दहत्य् अग्निर्
नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः
स-पशु-द्रव्यसञ्चयम् ॥ ७.९ ॥

010 कार्यं सो ...{Loading}...

कार्यं सो ऽवेक्ष्य शक्तिं च
देश-कालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं
विश्वरूपं पुनः पुनः ॥ ७.१० ॥

011 यस्य प्रसादे ...{Loading}...

यस्य प्रसादे पद्मा श्रीर्
विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे
सर्वतेजोमयो हि सः ॥ ७.११ ॥

012 तं यस् ...{Loading}...

तं यस् तु द्वेष्टि सम्मोहात्
स विनश्यत्य् असंशयम् ।
तस्य ह्य् आशु विनाशाय
राजा प्रकुरुते मनः ॥ ७.१२ ॥

013 तस्माद् धर्मम् ...{Loading}...

तस्माद् धर्मं यम् इष्टेषु
स व्यवस्येन् नराधिपः ।
अनिष्टं चाऽप्य् अनिष्टेषु
तं धर्मं न विचालयेत् ॥ ७.१३ ॥

014 तस्यार्थे सर्वभूतानाम् ...{Loading}...

तस्यार्थे सर्वभूतानां
गोप्तारं धर्मम् आत्मजम् [मेधातिथिपाठः - तदर्थं] ।
ब्रह्मतेजोमयं दण्डम्
असृजत् पूर्वम् ईश्वरः ॥ ७.१४ ॥

015 तस्य सर्वाणि ...{Loading}...

तस्य सर्वाणि भूतानि
स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते
स्वधर्मान् न चलन्ति च ॥ ७.१५ ॥

016 तन् देश-कालौ ...{Loading}...

तं देश-कालौ शक्तिं च
विद्यां चाऽवेक्ष्य तत्त्वतः ।
यथार्हतः सम्प्रणयेन्
नरेष्व् अन्याय-वर्तिषु ॥ ७.१६ ॥

017 स राजा ...{Loading}...

स राजा पुरुषो दण्डः
स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च
धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥

018 दण्डः शास्ति ...{Loading}...

दण्डः शास्ति प्रजाः सर्वा
दण्ड एवाऽभिरक्षति ।
दण्डः सुप्तेषु जागर्ति
दण्डं धर्मं विदुर् बुधाः ॥ ७.१८ ॥

019 समीक्ष्य स ...{Loading}...

समीक्ष्य स धृतः सम्यक्
सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु
विनाशयति सर्वतः ॥ ७.१९ ॥

020 यदि न ...{Loading}...

यदि न प्रणयेद् राजा
दण्डं दण्ड्येष्व् अतन्द्रितः ।
शूले मत्स्यान् इवाऽपक्ष्यन्
दुर्बलान् बलवत्तराः ॥ ७.२० ॥

021 अद्यात् काकः ...{Loading}...

अद्यात् काकः पुरोडाशं
श्वा च लिह्याद् +धविस् तथा [मेधातिथिपाठः - श्वावलिह्याद्द्] ।
स्वाम्यं च न स्यात् कस्मिंश् चित्
प्रवर्तेताऽधरोत्तरम् ॥ ७.२१ ॥

022 सर्वो दण्डजितो ...{Loading}...

सर्वो दण्डजितो लोको
दुर्लभो हि शुचिर् नरः ।
दण्डस्य हि भयात् सर्वं
जगद् भोगाय कल्पते ॥ ७.२२ ॥

023 देव-दानव-गन्धर्वा रक्षांसि ...{Loading}...

देव-दानव-गन्धर्वा
रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्पन्ते
दण्डेनैव निपीडिताः ॥ ७.२३ ॥

024 दुष्येयुः सर्ववर्णाश् ...{Loading}...

दुष्येयुः सर्ववर्णाश् च
भिद्येरन् सर्वसेतवः ।
सर्वलोकप्रकोपश् च
भवेद् दण्डस्य विभ्रमात् ॥ ७.२४ ॥

025 यत्र श्यामो ...{Loading}...

यत्र श्यामो लोहिताक्षो
दण्डश् चरति पापहा ।
प्रजास् तत्र न मुह्यन्ति
नेता चेत् साधु पश्यति ॥ ७.२५ ॥

026 तस्याहुः सम्प्रणेतारम् ...{Loading}...

तस्याहुः सम्प्रणेतारं
राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं
धर्म-कामार्थ-कोविदम् ॥ ७.२६ ॥

027 तं राजा ...{Loading}...

तं राजा प्रणयन् सम्यक्
त्रिवर्गेणाऽभिवर्धते ।
कामात्मा विषमः क्षुद्रो
दण्डेनैव निहन्यते [मेधातिथिपाठः - कामान्धो] ॥ ७.२७ ॥

028 दण्डो हि ...{Loading}...

दण्डो हि सुमहत्-तेजो
दुर्धरश् चाऽकृतात्मभिः ।
धर्माद् विचलितं हन्ति
नृपम् एव स-बान्धवम् ॥ ७.२८ ॥

029 ततो दुर्गम् ...{Loading}...

ततो दुर्गं च राष्ट्रं च
लोकं च स-चराचरम् ।
अन्तरिक्षगतांश् चैव
मुनीन् देवांश् च पीडयेत् ॥ ७.२९ ॥

030 सो ऽसहायेन ...{Loading}...

सो ऽसहायेन मूढेन
लुब्धेनाऽकृत-बुद्धिना ।
न शक्यो न्यायतो नेतुं
सक्तेन विषयेषु च ॥ ७.३० ॥

031 शुचिना सत्यसन्धेन ...{Loading}...

शुचिना सत्यसन्धेन
यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः
सुसहायेन धीमता ॥ ७.३१ ॥

032 स्वराष्ट्रे न्यायवृत्तः ...{Loading}...

स्वराष्ट्रे न्यायवृत्तः स्याद्
भृश-दण्डश् च शत्रुषु ।
सुहृत्स्व् अजिह्मः स्निग्धेषु
ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥

033 एवंवृत्तस्य नृपतेः ...{Loading}...

एवंवृत्तस्य नृपतेः
शिलोञ्छेनाऽपि जीवतः ।
विस्तीर्यते यशो लोके
तैलबिन्दुर् इवाऽम्भसि ॥ ७.३३ ॥

034 अतस् तु ...{Loading}...

अतस् तु विपरीतस्य
नृपतेर् अजितात्मनः ।
सङ्क्षिप्यते यशो लोके
घृतबिन्दुर् इवाऽम्भसि ॥ ७.३४ ॥

035 स्वे स्वे ...{Loading}...

स्वे स्वे धर्मे निविष्टानां
सर्वेषाम् अनुपूर्वशः ।
वर्णानाम् आश्रमाणां च
राजा सृष्टो ऽभिरक्षिता ॥ ७.३५ ॥

036 तेन यद् ...{Loading}...

तेन यद् यत् स-भृत्येन
कर्तव्यं रक्षता प्रजाः ।
तत् तद् वो ऽहं प्रवक्ष्यामि
यथावद् अनुपूर्वशः ॥ ७.३६ ॥

037 ब्राह्मणान् पर्युपासीत ...{Loading}...

ब्राह्मणान् पर्युपासीत
प्रातर् उत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस्
तिष्ठेत् तेषां च शासने ॥ ७.३७ ॥

038 वृद्धांश् च ...{Loading}...

वृद्धांश् च नित्यं सेवेत
विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी हि सततं
रक्षोभिर् अपि पूज्यते ॥ ७.३८ ॥

039 तेभ्यो ऽधिगच्छेद् ...{Loading}...

तेभ्यो ऽधिगच्छेद् विनयं
विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर्
न विनश्यति कर्हि चित् ॥ ७.३९ ॥

040 बहवो ऽविनयान् ...{Loading}...

बहवो ऽविनयान् नष्टा
राजानः स-परिच्छदाः [मेधातिथिपाठः - स-परिग्रहाः] ।
वनस्था अपि राज्यानि
विनयात् प्रतिपेदिरे ॥ ७.४० ॥

041 वेनो विनष्टो ...{Loading}...

वेनो विनष्टो ऽविनयान्
नहुषश् चैव पार्थिवः ।
सुदाः पैजवनश् चैव
सुमुखो निमिर् एव च ॥ ७.४१ ॥

042 पृथुस् तु ...{Loading}...

पृथुस् तु विनयाद् राज्यं
प्राप्तवान् मनुर् एव च ।
कुबेरश् च धनैश्वर्यं
ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥

043 त्रैविद्येभ्यस् त्रयीम् ...{Loading}...

त्रैविद्येभ्यस् त्रयीं विद्यां
दण्डनीतिं च शाश्वतीम् [मेधातिथिपाठः - त्रयीं विद्यात्] ।
आन्वीक्षिकीं चात्मविद्यां
वार्तारम्भांश् च लोकतः ॥ ७.४३ ॥

044 इन्द्रियाणाञ् जये ...{Loading}...

इन्द्रियाणां जये योगं
समातिष्ठेद् दिवा-निशम् ।
जितेन्द्रियो हि शक्नोति
वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥

045 दश काम-समुत्थानि ...{Loading}...

दश काम-समुत्थानि
तथाष्टौ क्रोधजानि च ।
व्यसनानि दुर्-अन्तानि
प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

046 कामजेषु प्रसक्तो ...{Loading}...

कामजेषु प्रसक्तो हि
व्यसनेषु महीपतिः ।
वियुज्यते ऽर्थ-धर्माभ्यां
क्रोधजेष्व् आत्मनैव तु ॥ ७.४६ ॥

047 मृगयाक्षो दिवास्वप्नः ...{Loading}...

मृगयाक्षो दिवास्वप्नः
परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च
कामजो दशको गणः ॥ ७.४७ ॥

048 पैशुन्यं साहसम् ...{Loading}...

पैशुन्यं साहसं द्रोह
ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं
क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥

049 द्वयोर् अप्य् ...{Loading}...

द्वयोर् अप्य् एतयोर् मूलं
यं सर्वे कवयो विदुः ।
तं यत्नेन जयेल् लोभं
तज्जाव् एताव् उभौ गणौ ॥ ७.४९ ॥

050 पानम् अक्षाः ...{Loading}...

पानम् अक्षाः स्त्रियश् चैव
मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच्
चतुष्कं कामजे गणे ॥ ७.५० ॥

051-100

051 दण्डस्य पातनम् ...{Loading}...

दण्डस्य पातनं चैव
वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात्
कष्टम् एतत् त्रिकं सदा ॥ ७.५१ ॥

052 सप्तकस्याऽस्य वर्गस्य ...{Loading}...

सप्तकस्याऽस्य वर्गस्य
सर्वत्रैवाऽनुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं
विद्याद् व्यसनम् आत्मवान् ॥ ७.५२ ॥

053 व्यसनस्य च ...{Loading}...

व्यसनस्य च मृत्योश् च
व्यसनं कष्टम् उच्यते ।
व्यसन्य् अधो ऽधो व्रजति
स्वर् यात्य् अव्यसनी मृतः ॥ ७.५३ ॥

054 मौलाञ् शास्त्रविदः ...{Loading}...

मौलाञ् शास्त्रविदः शूरांल्
लब्ध-लक्षान् कुलोद्भवान् [मेधातिथिपाठः - कुलोद्गतान्] ।
सचिवान् सप्त चाऽष्टौ वा
प्रकुर्वीत परीक्षितान् [मेधातिथिपाठः - कुर्वीत सुपरीक्षितान्] ॥ ७.५४ ॥

055 अपि यत् ...{Loading}...

अपि यत् सुकरं कर्म
तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन
किं तु राज्यं महोदयम् [मेधातिथिपाठः - किं नु] ॥ ७.५५ ॥

056 तैः सार्धम् ...{Loading}...

तैः सार्धं चिन्तयेन् नित्यं
सामान्यं सन्धि-विग्रहम् ।
स्थानं समुदयं गुप्तिं
लब्धप्रशमनानि च ॥ ७.५६ ॥

057 तेषां स्वम् ...{Loading}...

तेषां स्वं स्वम् अभिप्रायम्
उपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु
विदध्याद् +धितम् आत्मनः ॥ ७.५७ ॥

058 सर्वेषान् तु ...{Loading}...

सर्वेषां तु विशिष्टेन
ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं
राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥

059 नित्यन् तस्मिन् ...{Loading}...

नित्यं तस्मिन् समाश्वस्तः
सर्वकार्याणि निःक्षिपेत् [मेधातिथिपाठः - निक्षिपेत्] ।
तेन सार्धं विनिश्चित्य
ततः कर्म समारभेत् ॥ ७.५९ ॥

060 अन्यान् अपि ...{Loading}...

अन्यान् अपि प्रकुर्वीत
शुचीन् प्राज्ञान् अवस्थितान् ।
सम्यग् अर्थसमाहर्तॄन्
अमात्यान् सुपरीक्षितान् ॥ ७.६० ॥

061 निर्वर्तेताऽस्य यावद्भिर् ...{Loading}...

निर्वर्तेताऽस्य यावद्भिर्
इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान्
प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥

062 तेषाम् अर्थे ...{Loading}...

तेषाम् अर्थे नियुञ्जीत
शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकर-कर्मान्ते
भीरून् अन्तर्निवेशने ॥ ७.६२ ॥

063 दूतञ् चैव ...{Loading}...

दूतं चैव प्रकुर्वीत
सर्वशास्त्र-विशारदम् ।
इङ्गिताकार-चेष्टज्ञं
शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥

064 अनुरक्तः शुचिर् ...{Loading}...

अनुरक्तः शुचिर् दक्षः
स्मृतिमान् देश-कालवित् ।
वपुष्मान् वीतभीर् वाग्मी
दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥

065 अमात्ये दण्ड ...{Loading}...

अमात्ये दण्ड आयत्तो
दण्डे वैनयिकी क्रिया ।
नृपतौ कोश-राष्ट्रे च
दूते सन्धि-विपर्ययौ ॥ ७.६५ ॥

066 दूत एव ...{Loading}...

दूत एव हि सन्धत्ते
भिनत्त्य् एव च संहतान् ।
दूतस् तत् कुरुते कर्म
भिद्यन्ते येन मानवः ॥ ७.६६ ॥

067 स विद्याद् ...{Loading}...

स विद्याद् अस्य कृत्येषु
निर्गूढेङ्गित-चेष्टितैः ।
आकारम् इङ्गितं चेष्टां
भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥

068 बुद्ध्वा च ...{Loading}...

बुद्ध्वा च सर्वं तत्त्वेन
परराजचिकीर्षितम् ।
तथा प्रयत्नम् आतिष्ठेद्
यथात्मानं न पीडयेत् ॥ ७.६८ ॥

069 जाङ्गलं सस्यसम्पन्नम् ...{Loading}...

जाङ्गलं सस्यसम्पन्नम्
आर्य-प्रायम् अनाविलम् ।
रम्यम् आनत-सामन्तं
स्वाजीव्यं देशम् आवसेत् ॥ ७.६९ ॥

070 धन्व-दुर्गम् मही-दुर्गम् ...{Loading}...

धन्व-दुर्गं मही-दुर्गम्
अब्-दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा
समाश्रित्य वसेत् पुरम् ॥ ७.७० ॥

071 सर्वेण तु ...{Loading}...

सर्वेण तु प्रयत्नेन
गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन
गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥

072 त्रिण्य् आद्यान्य् ...{Loading}...

त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां
मृग-गर्ताश्रयाप्चराः ।
त्रीण्य् उत्तराणि क्रमशः
प्लवङ्गम-नरामराः ॥ ७.७२ ॥

073 यथा दुर्गाश्रितान् ...{Loading}...

यथा दुर्गाश्रितान् एतान्
नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति
नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥

074 एकः शतम् ...{Loading}...

एकः शतं योधयति
प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि
तस्माद् दुर्गं विधीयते ॥ ७.७४ ॥

075 तत् स्याद् ...{Loading}...

तत् स्याद् आयुधसम्पन्नं
धन-धान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर् यन्त्रैर्
यवसेनोदकेन च ॥ ७.७५ ॥

076 तस्य मध्ये ...{Loading}...

तस्य मध्ये सुपर्याप्तं
कारयेद् गृहम् आत्मनः ।
गुप्तं सर्वर्तुकं शुभ्रं
जल-वृक्षसमन्वितम् ॥ ७.७६ ॥

077 तद् अध्यास्योद्वहेद् ...{Loading}...

तद् अध्यास्योद्वहेद् भार्यां
स-वर्णां लक्षणान्विताम् ।
कुले महति सम्भूतां
हृद्यां रूप-गुणान्वीताम् ॥ ७.७७ ॥

078 पुरोहितञ् च ...{Loading}...

पुरोहितं च कुर्वीत
वृणुयाद् एव च र्त्विजः ।
ते ऽस्य गृह्याणि कर्माणि
कुर्युर् वैतानिकानि च ॥ ७.७८ ॥

079 यजेत राजा ...{Loading}...

यजेत राजा क्रतुभिर्
विविधैर् आप्त-दक्षिणैः ।
धर्मार्थं चैव विप्रेभ्यो
दद्याद् भोगान् धनानि च ॥ ७.७९ ॥

080 सांवत्सरिकम् आप्तैश् ...{Loading}...

सांवत्सरिकम् आप्तैश् च
राष्ट्राद् आहारयेद् बलिम् ।
स्याच् चाम्नाय-परो लोके
वर्तेत पितृवन् नृषु ॥ ७.८० ॥

081 अध्यक्षान् विविधान् ...{Loading}...

अध्यक्षान् विविधान् कुर्यात्
तत्र तत्र विपश्चितः ।
ते ऽस्य सर्वाण्य् अवेक्षेरन्
नृणां कार्याणि कुर्वताम् ॥ ७.८१ ॥

082 आवृत्तानाङ् गुरुकुलाद् ...{Loading}...

आवृत्तानां गुरुकुलाद्
विप्राणां पूजको भवेत् ।
नृपाणाम् अक्षयो ह्य् एष
निधिर् ब्राह्मो ऽभिधीयते ॥ ७.८२ ॥

083 न तम् ...{Loading}...

न तं स्तेना न चाऽमित्रा
हरन्ति न च नश्यति ।
तस्माद् राज्ञा निधातव्यो
ब्राह्मणेष्व् अक्षयो निधिः ॥ ७.८३ ॥

084 न स्कन्दते ...{Loading}...

न स्कन्दते न व्यथते
न विनश्यति कर्हि चित् [मेधातिथिपाठः - न स्कन्दति न च्यवते] ।
वरिष्ठम् अग्निहोत्रेभ्यो
ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥

085 समम् अब्राह्मणे ...{Loading}...

समम् अब्राह्मणे दानं
द्विगुणं ब्राह्मणब्रुवे ।
प्राधीते शतसाहस्रम् [मेधातिथिपाठः - आचार्ये शतसाहस्रम्, ञ्- सहस्रगुणम्]
अनन्तं वेदपारगे ॥ ७.८५ ॥

086 पात्रस्य हि ...{Loading}...

पात्रस्य हि विशेषेण
श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य
दानस्य फलम् अश्नुते ॥ ७.८६ ॥

087-१ देश-कालविधानेन द्रव्यम् ...{Loading}...

देश-कालविधानेन
द्रव्यं श्रद्धासमन्वितम् [not in k] ।
पात्रे प्रदीयते यत् तु
तद् धर्मस्य प्रसाधनम् [not in k] ॥ ७.८७.१ ॥ [मेधातिथिपाठे ऽधिकः -१।]

087 समोत्तमाधमै राजा ...{Loading}...

समोत्तमाधमै राजा त्व्
आहूतः पालयन् प्रजाः ।
न निवर्तेत सङ्ग्रामात्
क्षात्रं धर्मम् अनुस्मरन् ॥ ७.८७ ॥ [८८ मेधातिथिपाठे]

088 सङ्ग्रामेष्व् अनिवर्तित्वम् ...{Loading}...

सङ्ग्रामेष्व् अनिवर्तित्वं
प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च
राज्ञां श्रेयस्करं परम् ॥ ७.८८ ॥ [८९ मेधातिथिपाठे]

089 आहवेषु मिथो ...{Loading}...

आहवेषु मिथो ऽन्योन्यं
जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या
स्वर्गं यान्त्य् अपराङ्मुखाः ॥ ७.८९ ॥ [९० मेधातिथिपाठे]

090 न कूटैर् ...{Loading}...

न कूटैर् आयुधैर् हन्याद्
युध्यमानो रणे रिपून् ।
न कर्णिभिर् नाऽपि दिग्धैर्
नाऽग्निज्वलित-तेजनैः ॥ ७.९० ॥ [९१ मेधातिथिपाठे]

091 न च ...{Loading}...

न च हन्यात् स्थलारूढं
न क्लीबं न कृताञ्जलिम् ।
न मुक्त-केशं नासीनं
न तवाऽस्मीति वादिनम् ॥ ७.९१ ॥ [९२ मेधातिथिपाठे]

092 न सुप्तम् ...{Loading}...

न सुप्तं न वि-सन्नाहं
न नग्नं न निर्-आयुधम् ।
नाऽयुध्यमानं पश्यन्तं
न परेण समागतम् ॥ ७.९२ ॥ [९३ मेधातिथिपाठे]

093 नायुधव्यसनप्राप्तन् नार्तम् ...{Loading}...

नायुधव्यसनप्राप्तं
नार्तं नाऽतिपरिक्षतं ।
न भीतं न परावृत्तं
सतां धर्मम् अनुस्मरन् ॥ ७.९३ ॥ [९४ मेधातिथिपाठे]

094 यस् तु ...{Loading}...

यस् तु भीतः परावृत्तः
सङ्ग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किं चित्
तत् सर्वं प्रतिपद्यते ॥ ७.९४ ॥ [९५ मेधातिथिपाठे]

095 यच् चाऽस्य ...{Loading}...

यच् चाऽस्य सुकृतं किं चिद्
अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते
परावृत्तहतस्य तु ॥ ७.९५ ॥ [९६ मेधातिथिपाठे]

096 रथाश्वं हस्तिनम् ...{Loading}...

रथाश्वं हस्तिनं छत्रं
धनं धान्यं पशून् स्त्रियः ।
सर्वद्रव्याणि कुप्यं च
यो यज् जयति तस्य तत् ॥ ७.९६ ॥ [९७ मेधातिथिपाठे]

097 राज्ञश् च ...{Loading}...

राज्ञश् च दद्युर् उद्धारम्
इत्य् एषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो
दातव्यम् अपृथग्जितम् ॥ ७.९७ ॥ [९८ मेधातिथिपाठे]

098 एषो ऽनुपस्कृतः ...{Loading}...

एषो ऽनुपस्कृतः प्रोक्तो
योधधर्मः सनातनः ।
अस्माद् धर्मान् न च्यवेत
क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८ ॥ [९९ मेधातिथिपाठे]

099 अलब्धञ् चैव ...{Loading}...

अलब्धं चैव लिप्सेत
लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव
वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥ [१०० मेधातिथिपाठे]

100 एतच् चतुर्विधम् ...{Loading}...

एतच् चतुर्विधं विद्यात्
पुरुषार्थप्रयोजनम् ।
अस्य नित्यम् अनुष्ठानं
सम्यक् कुर्याद् अतन्द्रितः ॥ ७.१०० ॥ [१०१ मेधातिथिपाठे]

101-150

101 अलब्धम् इच्छेद् ...{Loading}...

अलब्धम् इच्छेद् दण्डेन
लब्धं रक्षेद् अवेक्षया ।
रक्षितं वर्धयेद् वृद्ध्या
वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१ ॥ [१०२ मेधातिथिपाठे]

102 नित्यम् उद्यत-दण्डः ...{Loading}...

नित्यम् उद्यत-दण्डः स्यान्
नित्यं विवृत-पौरुषः ।
नित्यं संवृत-संवार्यो
नित्यं छिद्रानुसार्य् अरेः ॥ ७.१०२ ॥ [१०३ मेधातिथिपाठे]

103 नित्यम् उद्यत-दण्डस्य ...{Loading}...

नित्यम् उद्यत-दण्डस्य
कृत्स्नम् उद्विजते जगत् ।
तस्मात् सर्वाणि भूतानि
दण्डेनैव प्रसाधयेत् ॥ ७.१०३ ॥ [१०४ मेधातिथिपाठे]

104 अमाययैव वर्तेत ...{Loading}...

अमाययैव वर्तेत
न कथं चन मायया ।
बुध्येताऽरिप्रयुक्तां च
मायां नित्यं सुसंवृतः ॥ ७.१०४ ॥ [१०५ मेधातिथिपाठे]

105 नाऽस्य छिद्रम् ...{Loading}...

नाऽस्य छिद्रं परो विद्याद्
विद्याच् छिद्रं परस्य च ।
गूहेत् कूर्म इवाऽङ्गानि
रक्षेद् विवरम् आत्मनः ॥ ७.१०५ ॥ [१०६ मेधातिथिपाठे]

106 बकवच् चिन्तयेद् ...{Loading}...

बकवच् चिन्तयेद् अर्थान्
सिंहवच् च पराक्रमे ।
वृकवच् चाऽवलुम्पेत
शशवच् च विनिष्पतेत् ॥ ७.१०६ ॥ [१०७ मेधातिथिपाठे]

107 एवं विजयमानस्य ...{Loading}...

एवं विजयमानस्य
ये ऽस्य स्युः परिपन्थिनः ।
तान् आनयेद् वशं सर्वान्
सामादिभिर् उपक्रमैः ॥ ७.१०७ ॥ [१०८ मेधातिथिपाठे]

108 यदि ते ...{Loading}...

यदि ते तु न तिष्ठेयुर्
उपायैः प्रथमैस् त्रिभिः ।
दण्डेनैव प्रसह्यैताञ्
शनकैर् वशम् आनयेत् ॥ ७.१०८ ॥ [१०९ मेधातिथिपाठे]

109 सामादीनाम् उपायानाम् ...{Loading}...

सामादीनाम् उपायानां
चतुर्णाम् अपि पण्डिताः ।
साम-दण्डौ प्रशंसन्ति
नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९ ॥ [११० मेधातिथिपाठे]

110 यथोद्धरति निर्दाता ...{Loading}...

यथोद्धरति निर्दाता
कक्षं धान्यं च रक्षति ।
तथा रक्षेन् नृपो राष्ट्रं
हन्याच् च परिपन्थिनः ॥ ७.११० ॥ [१११ मेधातिथिपाठे]

111 मोहाद् राजा ...{Loading}...

मोहाद् राजा स्वराष्ट्रं
यः कर्षयत्य् अनवेक्षया ।
सो ऽचिराद् भ्रश्यते राज्याज्
जीविताच् च स-बान्धवः ॥ ७.१११ ॥ [११२ मेधातिथिपाठे]

112 शरीरकर्षणात् प्राणाः ...{Loading}...

शरीरकर्षणात् प्राणाः
क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञाम् अपि प्राणाः
क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥ [११३ मेधातिथिपाठे]

113 राष्ट्रस्य सङ्ग्रहे ...{Loading}...

राष्ट्रस्य सङ्ग्रहे नित्यं
विधानम् इदम् आचरेत् ।
सुसङ्गृहीतराष्ट्रे हि
पार्थिवः सुखम् एधते ॥ ७.११३ ॥ [११४ मेधातिथिपाठे]

114 द्वयोस् त्रयाणाम् ...{Loading}...

द्वयोस् त्रयाणां पञ्चानां
मध्ये गुल्मम् अधिष्ठितम् ।
तथा ग्रामशतानां च
कुर्याद् राष्ट्रस्य सङ्ग्रहम् ॥ ७.११४ ॥ [११५ मेधातिथिपाठे]

115 ग्रामस्याऽधिपतिङ् कुर्याद् ...{Loading}...

ग्रामस्याऽधिपतिं कुर्याद्
दशग्रामपतिं तथा ।
विंशतीशं शतेशं च
सहस्रपतिम् एव च ॥ ७.११५ ॥ [११६ मेधातिथिपाठे]

116 ग्रामदोषान् समुत्पन्नान् ...{Loading}...

ग्रामदोषान् समुत्पन्नान्
ग्रामिकः शनकैः स्वयम् ।
शंसेद् ग्रामदशेशाय
दशेशो विंशतीशिने ॥ ७.११६ ॥ [११७ मेधातिथिपाठे]

117 विंशतीशस् तु ...{Loading}...

विंशतीशस् तु तत् सर्वं
शतेशाय निवेदयेत् ।
शंसेद् ग्रामशतेशस् तु
सहस्रपतये स्वयम् ॥ ७.११७ ॥ [११८ मेधातिथिपाठे]

118 यानि राजप्रदेयानि ...{Loading}...

यानि राजप्रदेयानि
प्रत्यहं ग्रामवासिभिः ।
अन्न-पानेन्धनादीनि
ग्रामिकस् तान्य् अवाप्नुयात् ॥ ७.११८ ॥ [११९ मेधातिथिपाठे]

119 दशी कुलम् ...{Loading}...

दशी कुलं तु भुञ्जीत
विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः
सहस्राधिपतिः पुरम् ॥ ७.११९ ॥ [१२० मेधातिथिपाठे]

120 तेषाङ् ग्राम्याणि ...{Loading}...

तेषां ग्राम्याणि कार्यानि
पृथक्कार्याणि चैव हि ।
राज्ञो ऽन्यः सचिवः स्निग्धस्
तानि पश्येद् अतन्द्रितः ॥ ७.१२० ॥ [१२१ मेधातिथिपाठे]

121 नगरे नगरे ...{Loading}...

नगरे नगरे चैकं
कुर्यात् सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं
नक्षत्राणाम् इव ग्रहम् ॥ ७.१२१ ॥ [१२२ मेधातिथिपाठे]

122 स तान् ...{Loading}...

स तान् अनुपरिक्रामेत्
सर्वान् एव सदा स्वयम् ।
तेषां वृत्तं परिणयेत्
सम्यग् राष्ट्रेषु तच्-चरैः ॥ ७.१२२ ॥ [१२३ मेधातिथिपाठे]

123 राज्ञो हि ...{Loading}...

राज्ञो हि रक्षाधिकृताः
परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण
तेभ्यो रक्षेद् इमाः प्रजाः ॥ ७.१२३ ॥ [१२४ मेधातिथिपाठे]

124 ये कार्यिकेभ्यो ...{Loading}...

ये कार्यिकेभ्यो ऽर्थम् एव
गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वम् आदाय
राजा कुर्यात् प्रवासनम् ॥ ७.१२४ ॥ [१२५ मेधातिथिपाठे]

125 राजा कर्मसु ...{Loading}...

राजा कर्मसु युक्तानां
स्त्रीणां प्रेष्यजनस्य च [मेधातिथिपाठः - राजकर्मसु] ।
प्रत्यहं कल्पयेद् वृत्तिं
स्थानं कर्मानुरूपतः [मेधातिथिपाठः - स्थान-कर्मानुरूपतः] ॥ ७.१२५ ॥ [१२६ मेधातिथिपाठे]

126 पणो देयो ...{Loading}...

पणो देयो ऽवकृष्टस्य
षड् उत्कृष्टस्य वेतनम् ।
षाण्मासिकस् तथाच्छादो
धान्यद्रोणस् तु मासिकः ॥ ७.१२६ ॥ [१२७ मेधातिथिपाठे]

127 क्रय-विक्रयम् अध्वानम् ...{Loading}...

क्रय-विक्रयम् अध्वानं
भक्तं च स-परिव्ययम् ।
योगक्षेमं च सम्प्रेक्ष्य
वणिजो दापयेत् करान् ॥ ७.१२७ ॥ [१२८ मेधातिथिपाठे]

128 यथा फलेन ...{Loading}...

यथा फलेन युज्येत
राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे
कल्पयेत् सततं करान् ॥ ७.१२८ ॥ [१२९ मेधातिथिपाठे]

129 यथाल्पाल्पम् अदन्त्य् ...{Loading}...

यथाल्पाल्पम् अदन्त्य् आद्यं
वार्योको-वत्स-षट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो
राष्ट्राद् राज्ञाब्दिकः करः ॥ ७.१२९ ॥ [१३० मेधातिथिपाठे]

130 पञ्चाशद्भाग आदेयो ...{Loading}...

पञ्चाशद्भाग आदेयो
राज्ञा पशु-हिरण्ययोः ।
धान्यानाम् अष्टमो भागः
षष्ठो द्वादश एव वा ॥ ७.१३० ॥ [१३१ मेधातिथिपाठे]

131 आददीताऽथ षड्भागम् ...{Loading}...

आददीताऽथ षड्भागं
द्रु-मांस-मधु-सर्पिषाम् ।
गन्धौषधि-रसानां च
पुष्प-मूल-फलस्य च ॥ ७.१३१ ॥ [१३२ मेधातिथिपाठे]

132 पत्र-शाक-तृणानाञ् च ...{Loading}...

पत्र-शाक-तृणानां च
चर्मणां वैदलस्य च ।
मृन्मयानां च भाण्डानां
सर्वस्याऽश्ममयस्य च ॥ ७.१३२ ॥ [१३३ मेधातिथिपाठे]

133 म्रियमाणो ऽप्य् ...{Loading}...

म्रियमाणो ऽप्य् आददीत न
राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच्
छ्रोत्रियो विषये वसन् ॥ ७.१३३ ॥ [१३४ मेधातिथिपाठे]

134 यस्य राज्ञस् ...{Loading}...

यस्य राज्ञस् तु विषये
श्रोत्रियः सीदति क्षुधा ।
तस्याऽपि तत् क्षुधा राष्ट्रम्
अचिरेनैव सीदति ॥ ७.१३४ ॥ [१३५ मेधातिथिपाठे]

135 श्रुत-वृत्ते विदित्वास्य ...{Loading}...

श्रुत-वृत्ते विदित्वास्य
वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत् सर्वतश् चैनं
पिता पुत्रम् इवाऽउरसम् ॥ ७.१३५ ॥ [१३६ मेधातिथिपाठे]

136 संरक्ष्यमाणो राज्ञा ...{Loading}...

संरक्ष्यमाणो राज्ञा यं]
कुरुते धर्मम् अन्वहम् [मेधातिथिपाठः - राज्ञायं] ।
तेनायुर् वर्धते राज्ञो
द्रविणं राष्ट्रम् एव च ॥ ७.१३६ ॥ [१३७ मेधातिथिपाठे]

137 यत् किम् ...{Loading}...

यत् किं चिद् अपि वर्षस्य
दापयेत् करसञ्ज्ञितम् ।
व्यवहारेण जीवन्तं
राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७ ॥ [१३८ मेधातिथिपाठे]

138 कारुकाञ् शिल्पिनश् ...{Loading}...

कारुकाञ् शिल्पिनश् चैव
शूद्रांस् चात्मोपजीविनः ।
एकैकं कारयेत् कर्म
मासि मासि महीपतिः ॥ ७.१३८ ॥ [१३९ मेधातिथिपाठे]

139 नोच्छिन्द्याद् आत्मनो ...{Loading}...

नोच्छिन्द्याद् आत्मनो
मूलं परेषां चाऽतितृष्णया ।
उच्छिन्दन् ह्य् आत्मनो
मूलम् आट्मानं तांश् च पीदयेत् ॥ ७.१३९ ॥ [१४० मेधातिथिपाठे]

140 तीक्ष्णश् चैव ...{Loading}...

तीक्ष्णश् चैव मृदुश् च स्यात्
कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश् चैव मृदुश् चैव
राज भवति सम्मतः ॥ ७.१४० ॥ [१४१ मेधातिथिपाठे]

141 अमात्यमुख्यन् धर्मज्ञम् ...{Loading}...

अमात्यमुख्यं धर्मज्ञं
प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेद् आसने तस्मिन्
खिन्नः कार्येक्षणे नृणाम् ॥ ७.१४१ ॥ [१४२ मेधातिथिपाठे]

142 एवं सर्वम् ...{Loading}...

एवं सर्वं विधायेदम्
इतिकर्तव्यम् आत्मनः ।
युक्तश् चैवाऽप्रमत्तश् च
परिरक्षेद् इमाः प्रजाः ॥ ७.१४२ ॥ [१४३ मेधातिथिपाठे]

143 विक्रोशन्त्यो यस्य ...{Loading}...

विक्रोशन्त्यो यस्य राष्ट्राद्
ह्रियन्ते दस्युभिः प्रजाः ।
सम्पश्यतः स-भृत्यस्य
मृतः स न तु जीवति ॥ ७.१४३ ॥ [१४४ मेधातिथिपाठे]

144 क्षत्रियस्य परो ...{Loading}...

क्षत्रियस्य परो धर्मः
प्राजानाम् एव पालनम् ।
निर्दिष्टफलभोक्ता हि
राजा धर्मेण युज्यते ॥ ७.१४४ ॥ [१४५ मेधातिथिपाठे]

145 उत्थाय पश्चिमे ...{Loading}...

उत्थाय पश्चिमे यामे
कृत-शौचः समाहितः ।
हुताग्निर् ब्राह्मणांश् चार्च्य
प्रविशेत् स शुभां सभाम् ॥ ७.१४५ ॥ [१४६ मेधातिथिपाठे]

146 तत्र स्थितः ...{Loading}...

तत्र स्थितः प्रजाः सर्वाः
प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा
मन्त्रयेत् सह मन्त्रिभिः ॥ ७.१४६ ॥ [१४७ मेधातिथिपाठे]

147 गिरिपृष्ठं समारुह्य ...{Loading}...

गिरिपृष्ठं समारुह्य
प्रसादं वा रहोगतः ।
अरण्ये निः-शलाके वा
मन्त्रयेद् अविभावितः ॥ ७.१४७ ॥ [१४८ मेधातिथिपाठे]

148 यस्य मन्त्रम् ...{Loading}...

यस्य मन्त्रं न जानन्ति
समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते
कोशहीनो ऽपि पार्थिवः ॥ ७.१४८ ॥ [१४९ मेधातिथिपाठे]

149 जड-मूकान्ध-बधिरांस् तैर्यग्योनान् ...{Loading}...

जड-मूकान्ध-बधिरांस्
तैर्यग्योनान् वयो-ऽतिगान् ।
स्त्री-म्लेच्छ-व्याधित-व्यङ्गान्
मन्त्रकाले ऽपसारयेत् ॥ ७.१४९ ॥ [१५० मेधातिथिपाठे]

150 भिन्दन्त्य् अवमता ...{Loading}...

भिन्दन्त्य् अवमता मन्त्रं
तैर्यग्योनास् तथैव च ।
स्त्रियश् चैव विशेषेण
तस्मात् तत्रादृतो भवेत् ॥ ७.१५० ॥ [१५१ मेधातिथिपाठे]

151-200

151 मध्यन्दिने ऽर्धरात्रे ...{Loading}...

मध्यन्दिने ऽर्धरात्रे वा
विश्रान्तो विगतक्लमः ।
चिन्तयेद् धर्म-कामार्थान्
सार्धं तैर् एक एव वा [मेधातिथिपाठः - सार्थं] ॥ ७.१५१ ॥ [१५२ मेधातिथिपाठे]

152 परस्परविरुद्धानान् तेषाम् ...{Loading}...

परस्परविरुद्धानां
तेषां च समुपार्जनम् ।
कन्यानां सम्प्रदानं च
कुमाराणां च रक्षणं ॥ ७.१५२ ॥ [१५३ मेधातिथिपाठे]

153 दूतसम्प्रेषणञ् चैव ...{Loading}...

दूतसम्प्रेषणं चैव
कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च
प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥ [१५४ मेधातिथिपाठे]

154 कृत्स्नञ् चाऽष्टविधम् ...{Loading}...

कृत्स्नं चाऽष्टविधं कर्म
पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च
प्रचारं मण्डलस्य च ॥ ७.१५४ ॥ [१५५ मेधातिथिपाठे]

155 मध्यमस्य प्रचारम् ...{Loading}...

मध्यमस्य प्रचारं च
विजीगिषोश् च चेष्टितम् ।
उदासीनप्रचारं च
शत्रोश् चैव प्रयत्नतः ॥ ७.१५५ ॥ [१५६ मेधातिथिपाठे]

156 एताः प्रकृतयो ...{Loading}...

एताः प्रकृतयो मूलं
मण्डलस्य समासतः ।
अष्टौ चाऽन्याः समाख्याता
द्वादशैव तु ताः स्मृताः ॥ ७.१५६ ॥ [१५७ मेधातिथिपाठे]

157 अमात्य-राष्ट्र-दुर्गार्थ- दण्डाख्याः ...{Loading}...

अमात्य-राष्ट्र-दुर्गार्थ-
दण्डाख्याः पञ्च चाऽपराः ।
प्रत्येकं कथिता ह्य् एताः
सङ्क्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥ [१५८ मेधातिथिपाठे]

158 अनन्तरम् अरिम् ...{Loading}...

अनन्तरम् अरिं विद्याद्
अरिसेविनम् एव च ।
अरेर् अनन्तरं मित्रम्
उदासीनं तयोः परम् ॥ ७.१५८ ॥ [१५९ मेधातिथिपाठे]

159 तान् सर्वान् ...{Loading}...

तान् सर्वान् अभिसन्दध्यात्
सामादिभिर् उपक्रमैः ।
व्यस्तैश् चैव समस्तैश् च
पौरुषेण नयेन च ॥ ७.१५९ ॥ [१६० मेधातिथिपाठे]

160 सन्धिञ् च ...{Loading}...

सन्धिं च विग्रहं चैव
यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च
षड्गुणांश् चिन्तयेत् सदा ॥ ७.१६० ॥ [१६१ मेधातिथिपाठे]

161 आसनञ् चैव ...{Loading}...

आसनं चैव यानं च
सन्धिं विग्रहम् एव च ।
कार्यं वीक्ष्य प्रयुञ्जीत
द्वैधं संश्रयम् एव च ॥ ७.१६१ ॥ [१६२ मेधातिथिपाठे]

162 सन्धिन् तु ...{Loading}...

सन्धिं तु द्विविधं विद्याद्
राजा विग्रहम् एव च ।
उभे यानासने चैव
द्विविधः संश्रयः स्मृतः ॥ ७.१६२ ॥ [१६३ मेधातिथिपाठे]

163 समान-यानकर्मा च ...{Loading}...

समान-यानकर्मा च
विपरीतस् तथैव च ।
तदा त्व् आयतिसंयुक्तः
सन्धिर् ज्ञेयो द्विलक्षणः ॥ ७.१६३ ॥ [१६४ मेधातिथिपाठे]

164 स्वयङ्कृतश् च ...{Loading}...

स्वयङ्कृतश् च कार्यार्थम्
अकाले काल एव वा ।
मित्रस्य चैवाऽपकृते
द्विविधो विग्रहः स्मृतः ॥ ७.१६४ ॥ [१६५ मेधातिथिपाठे]

165 एकाकिनश् चात्ययिके ...{Loading}...

एकाकिनश् चात्ययिके
कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण
द्विविधं यानम् उच्यते ॥ ७.१६५ ॥ [१६६ मेधातिथिपाठे]

166 क्षीणस्य चैव ...{Loading}...

क्षीणस्य चैव क्रमशो
दैवात् पूर्वकृतेन वा ।
मित्रस्य चाऽनुरोधेन
द्विविधं स्मृतम् आसनम् ॥ ७.१६६ ॥ [१६७ मेधातिथिपाठे]

167 बलस्य स्वामिनश् ...{Loading}...

बलस्य स्वामिनश् चैव
स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते द्वैधं
षाड्गुण्यगुणवेदिभिः ॥ ७.१६७ ॥ [१६८ मेधातिथिपाठे]

168 अर्थसम्पादनार्थञ् च ...{Loading}...

अर्थसम्पादनार्थं च
पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशश् च
द्विविधः संश्रयः स्मृतः ॥ ७.१६८ ॥ [१६९ मेधातिथिपाठे]

169 यदावगच्छेद् आयत्याम् ...{Loading}...

यदावगच्छेद् आयत्याम्
आधिक्यं ध्रुवम् आत्मनः ।
तदात्वे चाऽल्पिकां पीडां
तदा सन्धिं समाश्रयेत् ॥ ७.१६९ ॥ [१७० मेधातिथिपाठे]

170 यदा प्रहृष्टा ...{Loading}...

यदा प्रहृष्टा मन्येत
सर्वास् तु प्रकृतीर् भृशम् ।
अत्युच्छ्रितं तथात्मानं
तदा कुर्वीत विग्रहम् ॥ ७.१७० ॥ [१७१ मेधातिथिपाठे]

171 यदा मन्येत ...{Loading}...

यदा मन्येत भावेन
हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च
तदा यायाद् रिपुं प्रति ॥ ७.१७१ ॥ [१७२ मेधातिथिपाठे]

172 यदा तु ...{Loading}...

यदा तु स्यात् परिक्षीणो
वाहनेन बलेन च ।
तदासीत प्रयत्नेन
शनकैः सान्त्वयन्न् अरीन् ॥ ७.१७२ ॥ [१७३ मेधातिथिपाठे]

173 मन्येताऽरिं यदा ...{Loading}...

मन्येताऽरिं यदा राजा
सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा
साधयेत् कार्यम् आत्मनः ॥ ७.१७३ ॥ [१७४ मेधातिथिपाठे]

174 यदा परबलानाम् ...{Loading}...

यदा परबलानां तु
गमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं
धार्मिकं बलिनं नृपम् ॥ ७.१७४ ॥ [१७५ मेधातिथिपाठे]

175 निग्रहम् प्रकृतीनाम् ...{Loading}...

निग्रहं प्रकृतीनां च
कुर्याद् यो ऽरिबलस्य च ।
उपसेवेत तं नित्यं
सर्वयत्नैर् गुरुं यथा ॥ ७.१७५ ॥ [१७६ मेधातिथिपाठे]

176 यदि तत्राऽपि ...{Loading}...

यदि तत्राऽपि सम्पश्येद्
दोषं संश्रयकारितम् ।
सुयुद्धम् एव तत्राऽपि
निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥ [१७७ मेधातिथिपाठे]

177 सर्वोपायैस् तथा ...{Loading}...

सर्वोपायैस् तथा कुर्यान्
नीतिज्ञः पृथिवीपतिः ।
यथास्याऽभ्यधिका न स्युर्
मित्रोदासीन-शत्रवः ॥ ७.१७७ ॥ [१७८ मेधातिथिपाठे]

178 आयतिं सर्वकार्याणाम् ...{Loading}...

आयतिं सर्वकार्याणां
तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां
गुण-दोषौ च तत्त्वतः ॥ ७.१७८ ॥ [१७९ मेधातिथिपाठे]

179 आयत्याङ् गुण-दोषज्ञस् ...{Loading}...

आयत्यां गुण-दोषज्ञस्
तदात्वे क्षिप्र-निश्चयः ।
अतीते कार्यशेषज्ञः
शत्रुभिर् नाऽभिभूयते ॥ ७.१७९ ॥ [१८० मेधातिथिपाठे]

180 यथैनन् नाऽभिसन्दध्युर् ...{Loading}...

यथैनं नाऽभिसन्दध्युर्
मित्रोदासीन-शत्रवः ।
तथा सर्वं संविदध्याद्
एष सामासिको नयः ॥ ७.१८० ॥ [१८१ मेधातिथिपाठे]

181 तदा तु ...{Loading}...

तदा तु यानम् आतिष्ठेद्
अरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन
यायाद् अरिपुरं शनैः ॥ ७.१८१ ॥ [१८२ मेधातिथिपाठे]

182 मार्गशीर्षे शुभे ...{Loading}...

मार्गशीर्षे शुभे मासि
यायाद् यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा
मासौ प्रति यथाबलम् ॥ ७.१८२ ॥ [१८३ मेधातिथिपाठे]

183 अन्येष्व् अपि ...{Loading}...

अन्येष्व् अपि तु कालेषु
यदा पश्येद् ध्रुवं जयम् ।
तदा यायाद् विगृह्यैव
व्यसने चोत्थिते रिपोः ॥ ७.१८३ ॥ [१८४ मेधातिथिपाठे]

184 कृत्वा विधानम् ...{Loading}...

कृत्वा विधानं मूले तु
यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव
चारान् सम्यग् विधाय च ॥ ७.१८४ ॥ [१८५ मेधातिथिपाठे]

185 संशोध्य त्रिविधम् ...{Loading}...

संशोध्य त्रिविधं मार्गं
षड्विधं च बलं स्वकम् ।
साम्परायिककल्पेन
यायाद् अरिपुरं प्रति ॥ ७.१८५ ॥ [१८६ मेधातिथिपाठे]

186 शत्रुसेविनि मित्रे ...{Loading}...

शत्रुसेविनि मित्रे च
गूढे युक्ततरो भवेत् ।
गत-प्रत्यागते चैव
स हि कष्टतरो रिपुः ॥ ७.१८६ ॥ [१८७ मेधातिथिपाठे]

187 दण्डव्यूहेन तन् ...{Loading}...

दण्डव्यूहेन तन् मार्गं
यायात् तु शकटेन वा ।
वराह-मकराभ्यां वा
सूच्या वा गरुडेन वा ॥ ७.१८७ ॥ [१८८ मेधातिथिपाठे]

188 यतश् च ...{Loading}...

यतश् च भयम् आशङ्केत्
ततो विस्तारयेद् बलम् ।
पद्मेन चैव व्यूहेन
निविशेत सदा स्वयम् ॥ ७.१८८ ॥ [१८९ मेधातिथिपाठे]

189 सेनापति-बलाध्यक्षौ सर्वदिक्षु ...{Loading}...

सेनापति-बलाध्यक्षौ
सर्वदिक्षु निवेशयेत् ।
यतश् च भयम् आशङ्केत्
प्राचीं तां कल्पयेद् दिशम् ॥ ७.१८९ ॥ [१९० मेधातिथिपाठे]

190 गुल्मांश् च ...{Loading}...

गुल्मांश् च स्थापयेद् आप्तान्
कृतसञ्ज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलान्
अभीरून् अविकारिणः ॥ ७.१९० ॥ [१९१ मेधातिथिपाठे]

191 संहतान् योधयेद् ...{Loading}...

संहतान् योधयेद् अल्पान्
कामं विस्तारयेद् बहून् ।
सूच्या वज्रेण चैवैतान्
व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥ [१९२ मेधातिथिपाठे]

192 स्यन्दनाश्वैः समे ...{Loading}...

स्यन्दनाश्वैः समे युध्येद्
अनूपे नौ द्विपैस् तथा ।
वृक्ष-गुल्मावृते चापैर्
असि-चर्मायुधैः स्थले ॥ ७.१९२ ॥ [१९३ मेधातिथिपाठे]

193 कुरुक्षेत्रांश् च ...{Loading}...

कुरुक्षेत्रांश् च मत्स्यांश् च
पञ्चालाञ् शूरसेनजान् [म्:कौरक्षेत्रांश् च] ।
दीर्घांल् लघूंश् चैव नरान्
अग्रानीकेषु योजयेत् ॥ ७.१९३ ॥ [१९४ मेधातिथिपाठे]

194 प्रहर्षयेद् बलम् ...{Loading}...

प्रहर्षयेद् बलं व्यूह्य
तांश् च सम्यक् परीक्षयेत् [मेधातिथिपाठः - भृशं परीक्षयेत्] ।
चेष्टाश् चैव विजानीयाद्
अरीन् योधयताम् अपि ॥ ७.१९४ ॥ [१९५ मेधातिथिपाठे]

195 उपरुध्याऽरिम् आसीत ...{Loading}...

उपरुध्याऽरिम् आसीत
राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं
यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥ [१९६ मेधातिथिपाठे]

196 भिन्द्याच् चैव ...{Loading}...

भिन्द्याच् चैव तडागानि
प्राकार-परिखास् तथा ।
समवस्कन्दयेच् चैनं
रात्रौ वित्रासयेत् तथा ॥ ७.१९६ ॥ [१९७ मेधातिथिपाठे]

197 उपजप्यान् उपजपेद् ...{Loading}...

उपजप्यान् उपजपेद्
बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत
जयप्रेप्सुर् अपेतभीः ॥ ७.१९७ ॥ [१९८ मेधातिथिपाठे]

198 साम्ना दानेन ...{Loading}...

साम्ना दानेन भेदेन
समस्तैर् अथ वा पृथक् ।
विजेतुं प्रयतेताऽरीन् [मेधातिथिपाठः-अरिं]
न युद्धेन कदा चन ॥ ७.१९८ ॥ [१९९ मेधातिथिपाठे]

199 अनित्यो विजयो ...{Loading}...

अनित्यो विजयो यस्माद्
दृश्यते युध्यमानयोः ।
पराजयश् च सङ्ग्रामे
तस्माद् युद्धं विवर्जयेत् ॥ ७.१९९ ॥ [२०० मेधातिथिपाठे]

200 त्रयाणाम् अप्य् ...{Loading}...

त्रयाणाम् अप्य् उपायानां
पूर्वोक्तानाम् असम्भवे ।
तथा युध्येत सम्पन्नो
विजयेत रिपून् यथा ॥ ७.२०० ॥ [२०१ मेधातिथिपाठे]

201-226

201 जित्वा सम्पूजयेद् ...{Loading}...

जित्वा सम्पूजयेद् देवान्
ब्राह्मणांश् चैव धार्मिकान् ।
प्रदद्यात् परिहारार्थं
ख्यापयेद् अभयानि च ॥ ७.२०१ ॥ [२०२ मेधातिथिपाठे]

202 सर्वेषान् तु ...{Loading}...

सर्वेषां तु विदित्वैषां
समासेन चिकीर्षितम् ।
स्थापयेत् तत्र तद्वंश्यं
कुर्याच् च समयक्रियाम् ॥ ७.२०२ ॥ [२०३ मेधातिथिपाठे]

203 प्रमाणानि च ...{Loading}...

प्रमाणानि च कुर्वीत
तेषां धर्मान् यथोदितान् ।
रत्नैश् च पूजयेद् एनं
प्रधानपुरुषैः सह ॥ ७.२०३ ॥ [२०४ मेधातिथिपाठे]

204 आदानम् अप्रियकरम् ...{Loading}...

आदानम् अप्रियकरं
दानं च प्रियकारकम् ।
अभीप्सितानाम् अर्थानां
काले युक्तं प्रशस्यते [मेधातिथिपाठः - कालयुक्तं] ॥ ७.२०४ ॥ [२०५ मेधातिथिपाठे]

205 सर्वङ् कर्मेदम् ...{Loading}...

सर्वं कर्मेदम् आयत्तं
विधाने दैव-मानुषे ।
तयोर् दैवम् अचिन्त्यं तु
मानुषे विद्यते क्रिया ॥ ७.२०५ ॥ [२०६ मेधातिथिपाठे]

[the following 3 shlokas are found only in मेधातिथिपाठः - Jha’s edition does not count them in its numbering of the text, although मेधातिथि gives their commentary।]

206-१ दैवमानुषसम्पन्ना यात्रा ...{Loading}...

दैवमानुषसंपन्ना
यात्रा सर्वार्थसाधिका ।
तस्याम् अतिशये दैवं
वर्तते पौरुषं समम् [^३१४]॥ ७.२०६.१ ॥ [गङ्गानाथपाठे ऽगणितः। मेधातिथिपाठे ऽधिकः -१।]

206-२ दैवेन विधिना ...{Loading}...

दैवेन विधिना युक्तं
मानुष्यं यत् प्रवर्तते [not in k] ।
परिक्लेशेन महता
तदर्थस्य समाधकम् [not in k] ॥ ७.२०६.२ ॥ [मेधातिथिपाठे ऽधिकः-२।]

206-३ पुरुषार्थस् तु ...{Loading}...

पुरुषार्थस् तु दैवेन
संयुक्तो यः प्रवर्तते।
अक्लेशेन स सर्वेषां
मन्त्रार्थानाम् एव साधकः ॥ ७.२०६.३ ॥ [मेधातिथिपाठे ऽधिकः-३।]

206-४ केचिद् युद्धम् ...{Loading}...

केचिद् युद्धम् अपि
क्षेत्रं युक्तं पुरुषकर्मणा । दैवहीनाय तु फलं
कस्यचित् संप्रयच्छति ॥ ७.२०६.४ ॥ [मेधातिथिपाठे ऽधिकः-४।]

206-५ केचित् क्षेत्रस्य ...{Loading}...

केचित् क्षेत्रस्य भृतम्
इत्य् उक्तं पुरुषकर्मणा ॥ ७.२०६.५ ॥ [मेधातिथिपाठे ऽधिकः-५। अर्ध एवात्र श्लोक इति भाति।]

206-६ संयुक्तस्याऽपि दैवेन ...{Loading}...

संयुक्तस्याऽपि दैवेन
पुरुषकारेण वर्जितम् [not in k] ।
विना पुरुषकारेण
फलं क्षेत्रं प्रयच्छति [not in k] ॥ ७.२०६.६ ॥ [मेधातिथिपाठे ऽधिकः-६।]

206-७ चन्द्रार्काद्या ग्रहा ...{Loading}...

चन्द्रार्काद्या ग्रहा वायुर्
अग्निर् आपस् तथैव च [not in k] ।
इह दैवेन साध्यन्ते
पौरुषेण प्रयत्नतः [not in k] ॥ ७.२०६.७ ॥ [मेधातिथिपाठे ऽधिकः-७।]

206 सह वापि ...{Loading}...

सह वापि व्रजेद् युक्तः
सन्धिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा
सम्पश्यंस् त्रिविधं फलम् ॥ ७.२०६ ॥ [२१० मेधातिथिपाठे]

207 पार्ष्णिग्राहञ् च ...{Loading}...

पार्ष्णिग्राहं च सम्प्रेक्ष्य
तथाक्रन्दं च मण्डले ।
मित्राद् अथाऽप्य् अमित्राद् वा
यात्राफलम् अवाप्नुयात् ॥ ७.२०७ ॥ [२११ मेधातिथिपाठे]

208 हिरण्य-भूमिसम्प्राप्त्या पार्थिवो ...{Loading}...

हिरण्य-भूमिसम्प्राप्त्या
पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा
कृशम् अप्य् आयतिक्षमम् ॥ ७.२०८ ॥ [२१२ मेधातिथिपाठे]

209 धर्मज्ञञ् च ...{Loading}...

धर्मज्ञं च कृतज्ञं च
तुष्टप्रकृतिम् एव च ।
अनुरक्तं स्थिरारम्भं
लघुमित्रं प्रशस्यते ॥ ७.२०९ ॥ [२१३ मेधातिथिपाठे]

210 प्राज्ञङ् कुलीनम् ...{Loading}...

प्राज्ञं कुलीनं शूरं च
दक्षं दातारम् एव च ।
कृतज्ञं धृतिमन्तं च
कष्टम् आहुर् अरिं बुधाः ॥ ७.२१० ॥ [२१४ मेधातिथिपाठे]

211 आर्यता पुरुषज्ञानम् ...{Loading}...

आर्यता पुरुषज्ञानं
शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततम्
उदासीनगुणोदयः ॥ ७.२११ ॥ [२१५ मेधातिथिपाठे]

212 क्षेम्यां सस्यप्रदाम् ...{Loading}...

क्षेम्यां सस्यप्रदां नित्यं
पशुवृद्धिकरीम् अपि ।
परित्यजेन् नृपो भूमिम्
आत्मार्थम् अविचारयन् ॥ ७.२१२ ॥ [२१६ मेधातिथिपाठे]

213 आपदर्थन् धनम् ...{Loading}...

आपदर्थं धनं रक्षेद्
दारान् रक्षेद् धनैर् अपि [मेधातिथिपाठः - आपदर्थे] ।
आत्मानं सततं रक्षेद्
दारैर् अपि धनैर् अपि ॥ ७.२१३ ॥ [२१७ मेधातिथिपाठे]

214 सह सर्वाः ...{Loading}...

सह सर्वाः समुत्पन्नाः
प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश् च वियुक्तांश् च
सर्वोपायान् सृजेद् बुधः ॥ ७.२१४ ॥ [२१८ मेधातिथिपाठे]

215 उपेतारम् उपेयम् ...{Loading}...

उपेतारम् उपेयं च
सर्वोपायांश् च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य
प्रयतेताऽर्थसिद्धये ॥ ७.२१५ ॥ [२१९ मेधातिथिपाठे]

216 एवं सर्वम् ...{Loading}...

एवं सर्वम् इदं राजा
सह सम्मन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने
भोक्तुम् अन्तःपुरं विशेत् ॥ ७.२१६ ॥ [२२० मेधातिथिपाठे]

217 तत्रात्मभूतैः कालज्ञैर् ...{Loading}...

तत्रात्मभूतैः कालज्ञैर्
अहार्यैः परिचारकैः ।
सुपरीक्षितम् अन्नाद्यम्
अद्यान् मन्त्रैर् विषापहैः ॥ ७.२१७ ॥ [२२१ मेधातिथिपाठे]

218 विषघ्नैर् अगदैश् ...{Loading}...

विषघ्नैर् अगदैश् चाऽस्य
सर्वद्रव्याणि योजयेत् [मेधातिथिपाठः - विषघ्नैर् उदकैश् चाऽस्य सर्वद्रव्याणि शोधयेत्] ।
विषघ्नानि च रत्नानि
नियतो धारयेत् सदा ॥ ७.२१८ ॥ [२२२ मेधातिथिपाठे]

219 परीक्षिताः स्त्रियश् ...{Loading}...

परीक्षिताः स्त्रियश् चैनं
व्यजनोदक-धूपनैः ।
वेषाभरणसंशुद्धाः
स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥ [२२३ मेधातिथिपाठे]

220 एवम् प्रयत्नम् ...{Loading}...

एवं प्रयत्नं कुर्वीत
यान-शय्यासनाशने ।
स्नाने प्रसाधने चैव
सर्वालङ्कारकेषु च ॥ ७.२२० ॥ [२२४ मेधातिथिपाठे]

221 भुक्तवान् विहरेच् ...{Loading}...

भुक्तवान् विहरेच् चैव
स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य तु यथाकालं
पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥ [२२५ मेधातिथिपाठे]

222 अलङ्कृतश् च ...{Loading}...

अलङ्कृतश् च सम्पश्येद्
आयुधीयं पुनर् जनम् ।
वाहनानि च सर्वाणि
शस्त्राण्य् आभरणानि च ॥ ७.२२२ ॥ [२२६ मेधातिथिपाठे]

223 सन्ध्याञ् चोपास्य ...{Loading}...

सन्ध्यां चोपास्य शृणुयाद्
अन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव
प्रणिधीनां च चेष्टितम् ॥ ७.२२३ ॥ [२२७ मेधातिथिपाठे]

224 गत्वा कक्षान्तरम् ...{Loading}...

गत्वा कक्षान्तरं त्व् अन्यत्
समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च
स्त्रीवृतो ऽन्तःपुरं पुनः ॥ ७.२२४ ॥ [२२८ मेधातिथिपाठे]

225 तत्र भुक्त्वा ...{Loading}...

तत्र भुक्त्वा पुनः किं चित्
तूर्यघोषैः प्रहर्षितः ।
संविशेत् तं यथाकालम्
उत्तिष्ठेच् च गतक्लमः ॥ ७.२२५ ॥ [२२९ मेधातिथिपाठे]

226 एतद्विधानम् आतिष्ठेद् ...{Loading}...

एतद्विधानम् आतिष्ठेद्
अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एतत् तु
भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥ [२३० मेधातिथिपाठे]


  1. M G: tatkṛtaḥ ↩︎

  2. M G: svādhyāyavidhi- ↩︎

  3. DK (4: 810) suggests: nirmitaḥ niṣkṛṣya utpāditaḥ yataḥ niṣkṛṣyotpādane ↩︎

  4. M G J: brāhmaṇajātyutkṛṣṭā ↩︎

  5. DK: mātrāśrayatvāt ↩︎

  6. M G: prāyo ↩︎

  7. M G: antiko ↩︎

  8. M G: durupasarpinaraḥ ↩︎

  9. DK (4: 812): śrīparyāyo ↩︎

  10. M G 1st ed.: vindati ↩︎

  11. M G 1st ed.: hy apekṣyamāṇaḥ; G 2nd ed.: ity upepkṣyamānaḥ ↩︎

  12. M G: krameṇāpi ↩︎

  13. J: rājā ↩︎

  14. M G: svatantravirodhāpatteḥ ↩︎

  15. DK (4: 813) gives the reading of Rājanītiprakāśa: yaṃ dharmaṃ yāṃ vyavasthāṃ ↩︎

  16. DK (4: 813) gives the reading of Rājanītiprakāśa: sthāpayet tāṃ na ↩︎

  17. DK (4: 813) gives the reading of Rājanītiprakāśa: saunikair ↩︎

  18. DK (4: 813) gives the reading of Rājanītiprakāśa: narṇikā dhanikair uparodhanīyāḥ ↩︎

  19. DK (4: 813) gives the reading of Rājanītiprakāśa: spṛhādoṣādinā ↩︎

  20. M G J: yāgadānādi- ↩︎

  21. M G: -grahaṇa- ↩︎

  22. M G 1st ed.: anubandham anujñātrāparijñāyety ↩︎

  23. DK (4: 684) suggests: śāsyaṃ ↩︎

  24. M G J: śūlyākriyante ↩︎

  25. M G: nīpo ↩︎

  26. M G: vidyāśaktatayoś ↩︎

  27. M G J place after krodhanaḥ the sentence: samatvena daṇḍapātanena śatrau mitre ca vardhate↩︎

  28. DK (4: 690): -anuraktaḥ ↩︎

  29. M G: nyāyapravṛttiḥ; J: nyāyapravṛttaḥ (I follow DK 4: 390) ↩︎

  30. M G J: vṛttanyāyaḥ ↩︎

  31. M G: tatkārye pradhānaṃ ↩︎

  32. M G omit: samānābhyudayapratyavāyāḥ suhṛdaḥ snigdhāḥ ↩︎

  33. DK (4: 809) suggests: svadharmaniṣṭhānāṃ ↩︎

  34. M G: svadharmāpannāḥ ↩︎

  35. M G 1st ed.: eṣām akaraṇān nu; G 2nd ed.: eṣākaraṇān nu; DK (4: 809): deyam ↩︎

  36. M G: vijñāyante ↩︎

  37. M G: -apakaraṇeṣu ↩︎

  38. DK (4: 873) suggests adding: saha ↩︎

  39. M G J: -āviśeyus (I follow the emendation suggestd by DK 4: 874) ↩︎

  40. M G J: dvitīyaślokārthārthavādaḥ (I follow the emendation suggestd by DK 4: 874) ↩︎

  41. M G: sadyopadeśāt ↩︎

  42. M G: tv upayujyate; DK: hy apayujyate (perhaps a typo) ↩︎

  43. DK: -kāryāya ↩︎

  44. M G: -vāditrāṇām ↩︎

  45. DK (4: 1572): amātyādayo ↩︎

  46. DK: abhiṣaṅgaṃ ↩︎

  47. M G J: avajñāyeta; I follow DK 4: 1575. ↩︎

  48. M G: lakṣaḥ paricayaḥ ↩︎

  49. DK (4: 1575): haret, and suggests emending to sarvahare; see sarvaharaḥ in the next sentence. ↩︎

  50. M G DK: vyasana- ↩︎

  51. M G: āśaṅkya ↩︎

  52. DK (4: 1576) suggests: ago ↩︎

  53. M G: bhṛtyavidhijñānaṃ ↩︎

  54. KAŚ (1.9.1) and Bhāruci read: pragalbhaḥ, which is probably the original reading. ↩︎

  55. M G 1st ed.: udghāṭakaḥ; G 2nd ed.: udghaṭanaṃ ↩︎

  56. M G: sarvaṃ ↩︎

  57. M G: avikṣiptaḥ ↩︎

  58. M G: parivrājikāntaḥpure ↩︎

  59. M G: pramādam ↩︎

  60. M G: -pramādaḥ ↩︎

  61. M G J: arthapramādakartṛsaṃnidhātṝn; I follow the conjecture of DK (4: 1250) representing the KAŚ vocabulary and the reading in MDh 7.60. ↩︎

  62. DK (4: 1251) suggests reading: rājamahiṣīviṣayā rājaviṣayā ca ↩︎

  63. M G J: cārayati; I follow DK (4:1251) ↩︎

  64. M G add: kathaṃ mevatu ↩︎

  65. M G: phalavāṃś cānapekṣamāṇasya ↩︎

  66. M G 1st ed.: mahaty alam upodeti; G 2nd ed.: mahat phalam upodeti ↩︎

  67. DK (4: 1772) notes that this commentary is quite corrupt. See Bhāruci’s commentary on this verse, which is followed by Medhātithi. ↩︎

  68. M G: cintyapratikarma ↩︎

  69. M G add: ca ↩︎

  70. M G J: yāni nyāyasthānāni ↩︎

  71. M G J DK: ātmasaṃdhāraṇaṃ parasaṃdhāraṇena (I follow Bhāruci) ↩︎

  72. Bhāruci reads here: svārakṣyaḥ ↩︎

  73. M G J DK: paśavaḥ ↩︎

  74. Bhāruci reads: śatrudveśi (ī?) sītāprāyaḥ ↩︎

  75. M G J DK: guptigocaraḥ ↩︎

  76. M G J DK: daṇḍakaragraha (I follow Bhāruci) ↩︎

  77. M G: tasmād ↩︎

  78. M G: vāṇijyam uktadaṇḍa ↩︎

  79. M G: devatāsamaṃ vidyāvatāṃ ↩︎

  80. M G: avitānāṃ; J DK: uditānāṃ ↩︎

  81. M G J DK -daṇḍopādhikam; see Bhāruci and KAŚ 13.5.14 for the reading adopted. ↩︎

  82. M G: apratyatīkaṃ ↩︎

  83. M G omit: tena ↩︎

  84. M G: avyayahetāv; DK (4: 1252) bhayasaṃnidhāv avasāda- ↩︎

  85. DK: apy utsāhavantaḥ ↩︎

  86. M G: kāryakāle ↩︎

  87. M G: rājñe ↩︎

  88. M G: ākāra- ↩︎

  89. M G: śuci- ↩︎

  90. DK (4: 1672): amuṣitasmṛtiḥ (but see Bhāruci on this verse) ↩︎

  91. M G: api saṃdiṣṭaṃ ↩︎

  92. M G: uktadūtaguṇānāṃ ↩︎

  93. M G: saṃpādanāya tatprayojanam ↩︎

  94. M G: yathā dūtaḥ ↩︎

  95. M G add: na ↩︎

  96. The commentary here is corrupt. See DK (4: 1453) for suggestions for improvement. ↩︎

  97. DK (4: 1453) suggests: parivṛtam; M G J add: dhanurdurgam; clearly this is an error. It appears that the commentary on dhanurdurga is missing. ↩︎

  98. M G J: durgam; I follow the suggestion of DK. ↩︎

  99. M G: vacanakaraṇādayas ↩︎

  100. M G 1st ed.: -bhāvanān ↩︎

  101. M G 1st ed. omit: tān ↩︎

  102. M G J: arthād upadhāśuddhaiḥ (I follow DK 4.1108 suggestion) ↩︎

  103. M G: karādeṣv ↩︎

  104. M G: adhikṛtā- ↩︎

  105. M G: vāphala- ↩︎

  106. M G: vakṣyamāṇam ↩︎

  107. M G add: ca ↩︎

  108. M G: -śravaṇasyapy ↩︎

  109. M G: dharma- ↩︎

  110. This phrase is found in one ms. in G, and it is presupposed in J’s translation, although he does not give it in his edition. Omitted in DK (4: 394). ↩︎

  111. M G: bhāvaḥ prasāda ↩︎

  112. M G J: -āhatasya ↩︎

  113. M G: -balenāpekṣā- ↩︎

  114. M G 1st ed. add: yathā ↩︎

  115. M G J: parety (I follow DK 4: 2777) ↩︎

  116. M G J: svarga ucyate, taking the latter as part of that sentence. Generally, however, Medhātithi begins his answer to an objection with ucyate (so also DK 4: 2777). ↩︎

  117. M G J: tāṃś ca devāpi (I follow DK 4: 2777) ↩︎

  118. M G: darśayati ↩︎

  119. M G: mriyante ↩︎

  120. M G places this sentence after bhṛtiparikrītasyāsvatantrasya. ↩︎

  121. M G: -āsvatasya ↩︎

  122. M G J: kurviti (I follow DK 4: 2777) ↩︎

  123. M G: pratiṣedhāpekṣaḥ ↩︎

  124. M G J: duṣkṛtasya hatas (I follow DK 4: 2780) ↩︎

  125. M G: prayojakāc ↩︎

  126. DK (4: 2819) gives a different reading for this sentence: tathā ca hīnāḥ dhanaṃ prāpya taddhanaṃ mamārdham iti prayuñjate | ↩︎

  127. DK (4: 2819) suggests: saṃbhūyajaye ↩︎

  128. DK (4: 2780): calet ↩︎

  129. M G: yathāyavyayaṃ ↩︎

  130. M G: evamādi- ↩︎

  131. M G J: ityādi; my reading conjectural following the parallel readings in this passage. ↩︎

  132. M G J: bālapramādam; DK (4. 1110) sugests pāla-, and this is actually the reading of Bhārucit who is followed here by Medhātithi. ↩︎

  133. M G J: yāvantas teṣām suhṛdāv (I follow DK 4: 1404) ↩︎

  134. DK (4: 1404) suggests: daṇḍaih sa bāndhavaiḥ saha ↩︎

  135. M G: rakṣati dhanaṃ ↩︎

  136. DK (4: 1405): rakṣitṛsamūhaḥ ↩︎

  137. M G DK: adhikāri- ↩︎

  138. DK (4: 1406) suggests adding: yāni ↩︎

  139. M G: sabalena ↩︎

  140. M G: kārpaṭikādibhiḥ ↩︎

  141. DK (4: 1408) suggests: bhakṣayanti ↩︎

  142. DK adds: vā ↩︎

  143. M G: svalpetad ↩︎

  144. M F: mūlāchedo; J: mūlācchedo ↩︎

  145. M G: parimāṇāniyama- ↩︎

  146. DK (4: 1339) suggests: aparuddha uddharaṇe ↩︎

  147. M G omit: tat- ↩︎

  148. M G: nākheditā ↩︎

  149. M G: abhipretam ↩︎

  150. M G: yata ↩︎

  151. DK (4: 945): -vādanaḥ ↩︎

  152. M G 1st ed.: mantrāñcāṅgaṃ ↩︎

  153. J omits: imāny aṅgāni . . . guptamantraś ca syāt; for this passage see KAŚ 1.15.42f. ↩︎

  154. M G: parivartitavārttāvinikāḥ ↩︎

  155. M G: sadasadgrāhīrūpavārttādayo ↩︎

  156. M G: narendravidyāś ca ↩︎

  157. M G omit: itareṣāṃ grahaṇam ↩︎

  158. DK (4: 1776) suggests: śukādayo ‘pasārāsattve ↩︎

  159. M G: anumantum ↩︎

  160. M G J: yenārthajātenopadiśyate tat tadā dūṣayati; DK (4: 1011) omits one yena. Here Medh is copying Bhāruci’s commentary on this verse verse, which itself is based on Kauṭilya’s Arthaśāśtra 1.17.31. ↩︎

  161. M G J DK 4: 1777: -matiśuddhāṃ; I follow the reading of DK (4:977) based on Bhāruci. ↩︎

  162. M G: devīm grahalīno; J: devīm grahalīno; DK (4:977) devīgrahalīno; I follow Bhāruci. *J and DK (4: 1777) connects devīṃ with nāpariśuddhām. ↩︎

  163. M G J: bhadraseno mātuḥ śayanāntargataḥ rājānaṃ jaghāna | kupuruṣaśaṅkhaviṣadigdhena nūpureṇāvantyaṃ (M G omit: rājānaṃ jaghāna). My reading is based on DK (4:977). ↩︎

  164. M G: mekhalāyāḥ ↩︎

  165. M G J DK: vā parasparābhiceṣṭitaṃ; my reading is based on Bhāruci. ↩︎

  166. M G: akṛtārambha- ↩︎

  167. J DK (4: 1777): cānuvacane; for this and following readings, see Bhāruci. ↩︎

  168. M G J DK (4: 1777): arthādhikṛtānāṃ matipravṛttinirodho ↩︎

  169. M G J DK: anuvacanam ↩︎

  170. M G: svakarmasaṃśaya-; Bhāruci reads: -saṃśraye ↩︎

  171. M G: -gṛhapatika- ↩︎

  172. M G J: paramadharmajñāḥ (this corrupt passage has been restored on the basis of KAŚ 1.11 and Bhāruci on MDh 7.154). ↩︎

  173. M G: evācchātavyaṃ ↩︎

  174. M G J: prabhūtahiraṇyāyāṃ dāsakarma ↩︎

  175. M G J: kṛṣikarmaphalaṃ tac ca ↩︎

  176. M G add: sarvapravrajitāḥ svaṃ svaṃ karmopajapeyuḥ ↩︎

  177. M G: muṇḍāntevāsi- ↩︎

  178. M G J place ca after duṣṭavadhaṃ ↩︎

  179. M G J: tasya for tad asya ↩︎

  180. M G J: vaṃśalakṣaṇavidyām (omit ‘vaśyabhartavyā) ↩︎

  181. M G: -vidyāsaṅgavedyāṃ; J: -vidyāṃ saṅgavidyāṃ; DK (4: 1652): -vidyāṃ saṃsargavidyāṃ (which is found in KAŚ 1.12.1; for my reading, see Bhāruci’s comentary) ↩︎

  182. M G J: mantriṇas ↩︎

  183. M G J DK: etatpañcasaṃsthāyatair ↩︎

  184. DK (4: 1652): satribhiḥ ↩︎

  185. M G J: mantriṇaḥ ↩︎

  186. M G J DK: saṃdhārayet (for my reading, see Bhāruci) ↩︎

  187. M G J: vārisaṃcāriṇasthā ↩︎

  188. M G J: ca gūḍhasaṃjñitāḥ (this verse is KAŚ 1.12.24) ↩︎

  189. M G J DK (4: 1777): cātmīyād; see Bhāruci ↩︎

  190. M G: pravartita ↩︎

  191. M G J: rājamaṇḍalapracārako māṇḍalikaḥ ↩︎

  192. M G: tayo ↩︎

  193. DK (4: 1853) suggests adding: iti ↩︎

  194. M G: nigrahasamarthanasaṃhatayor ↩︎

  195. M G J: prakṛtā (reading follows DK 4: 1854) ↩︎

  196. M G J: arimitraṃ mitraṃ tu; I follow DK (4: 1855) suggestion. ↩︎

  197. M G J: ariṃ bhūmyantaraṃ ↩︎

  198. M G: coktau ↩︎

  199. M G: ekāntatāpy ucyate ↩︎

  200. DK (4: 2070) suggests: upekṣaṇam ↩︎

  201. DK (4: 2134) suggests: utsāhayuktāḥ ↩︎

  202. M G: viṣayānantaratvam ↩︎

  203. M G J: yānadvaividhyam yānasyāsatyāṃ (I follow DK 4: 2137) ↩︎

  204. DK (4: 2189): ayaṃ ↩︎

  205. DK (4: 2189): caitad iti ↩︎

  206. M G J: arthapīḍānivṛttis ↩︎

  207. M G: śaknoty ↩︎

  208. M G: dvaidhībhāvaḥ ↩︎

  209. M G omit: balīyān eva . . . iti dṛśyate ↩︎

  210. DK (4: 2200) suggests asmi for api ↩︎

  211. M G add: balīyān eva hi vyasane balaṃdvidhā karotīti dṛśyate ↩︎

  212. DK (4: 2200) sugges -hānaṃ for -homaṃ ↩︎

  213. M G: duścaritāni kīrtanam ↩︎

  214. M G J: saṅghādināpi (I follow the suggestion of DK 4: 2200) ↩︎

  215. M G J: yathā syāt (I follow DK 4: 2200) ↩︎

  216. M G J omit: na (I follow the suggestion of DK 4: 2200) ↩︎

  217. M G J: mitratvādhikyam (I follow DK 4: 2200) ↩︎

  218. M G J: maṇḍalair (I follow DK 4: 2200) ↩︎

  219. M G J: tato (I follow the suggestion of DK 4: 2201) ↩︎

  220. M G add: vimṛśyakārīti ↩︎

  221. M G place diṅmātram uktam at the beginning of the commentary on verse 180. ↩︎

  222. M G J: itarair ivopāyair (I follow DK 4: 2200) ↩︎

  223. DK 4: 2202 suggests deleting na. ↩︎

  224. DK (4: 2571): yadā apacikīrṣati ↩︎

  225. M G: vyasana- ↩︎

  226. M G omit: -gatam ↩︎

  227. M G: evāṣṭabhyāhūya ↩︎

  228. M G: vidhivad vedaṃ ↩︎

  229. M G J: yavasasenādimattā; my reading is conjectural, following the DK 4: 2572. ↩︎

  230. DK (4: 1509) suggests omitting: senā (as it is, there are seven items) ↩︎

  231. DK suggests: senāpatiprakṣepaṇam ↩︎

  232. M G: kṛtsnaṃ ↩︎

  233. M G: -sthāpita- ↩︎

  234. M G omit: na kāryaḥ ↩︎

  235. M G: sūcivyūhaḥ ↩︎

  236. DK (4: 2663) suggests emending this to: pakṣakakṣorasyaiḥ ↩︎

  237. DK (4: 2663) suggests emending this to: bhayena ↩︎

  238. M G: kaṭamakaravarāhair ↩︎

  239. DK (4: 2664) suggests emending this to: pūrvavyūhād ↩︎

  240. M G: yavasaṃpatra-; DK (4: 2664) suggests emending yava to java, and śatru to jatru, and making a longer compound: -parasparāvaruddha- ↩︎

  241. DK (4: 2664) suggests emending dhanasyā- to balasyā- ↩︎

  242. M G: eva and connects with bhavati. ↩︎

  243. M G omit: saṃbodhanāya ↩︎

  244. M G omit: śaṅkhe ↩︎

  245. M G add: tatra ↩︎

  246. M G: śaraiḥ ↩︎

  247. M G: nānusaraṇādau ↩︎

  248. M G: pṛṣṭhadeśārthaḥ ↩︎

  249. M G: triṣu ↩︎

  250. Here I follow the reading of DK (4:2665); the reading in the editions are garbled. M G: bahūn asthapater bhayapratibodhanārtham avahitebhedātari jano viśvasto; J: bahūn sthapater bhayapratibodhanārtham avahitebhedād arijano viśvasto ↩︎

  251. M G J: nāmamatrāṃ ↩︎

  252. DK (4: 2665) suggests: viśeṣo yathāsaṃbhavaṃ vā ↩︎

  253. I follow DK; M G J read: vyūhadurgādyam aśve ↩︎

  254. M G: ye ‘mī kathitāḥ; DK (4: 2666) suggests: ye ‘grānīkasthitāḥ ↩︎

  255. DK (4: 2666) reads: māraṇā- ↩︎

  256. M G J: eva; I folow DK (4: 2667). ↩︎

  257. M G: śavaceṣṭāṃ ↩︎

  258. M G J make this phrase part of the commentary on verse 194. ↩︎

  259. M G: -jalāśraya- ↩︎

  260. M G: prākārayantrair ↩︎

  261. M G J: abhimata- (see DK 4: 1934) ↩︎

  262. M G: dṛṣṭaḥ svapna- ↩︎

  263. M G: mahājanakathā ↩︎

  264. J: dānaṃ vidhānaṃ ↩︎

  265. M G DK (4: 1935): asādhakas tadā (DK suggests asaṃbhavaḥ) ↩︎

  266. DK (4: 1935) thinks the phrase kiṃ punā rūpeṇa saha is spurious. ↩︎

  267. M G: iti yuṣmākam eva ↩︎

  268. DK suggests: yadāsaṃdigdhaḥ parājayaḥ ↩︎

  269. M G place this phrase at the end of the commentary on verse 200 ↩︎

  270. M G: yasmin ↩︎

  271. M G: vihitānuṣṭhānino ↩︎

  272. M G: paurajanapadabalatānām ↩︎

  273. DK (4: 2820) suggests: teṣāṃ mayā kṣāntam ↩︎

  274. M G omit: vā ↩︎

  275. M G omit: iti; DK (4: 2821) reads: eṣāṃ paurādīnām abhiprāyaṃ ↩︎

  276. M G: -ādara- ↩︎

  277. M G place after kālopapannam the phrase: kriyamāṇam abhimatānām arthānāṃ sukhāvahaṃ bhaved anyathā ca duḥkhayatīty arthaḥ. ↩︎

  278. M G J: samarthād arthakarmakāryaphalaṃ; I follow DK (4: 2402) suggestion. ↩︎

  279. M G J: adhikaṃ (I follow DK) ↩︎

  280. M G J: daiva- (I follow DK) ↩︎

  281. M G: phala- ↩︎

  282. M G add: sarvaṃ ↩︎

  283. M G omit: kuṇayaḥ ↩︎

  284. M G omit: -phalaṃ ↩︎

  285. M G add: kuṇayo ↩︎

  286. M G: cāduḥkhino ↩︎

  287. M G: daivamātrābhidhānādināśavināśavinipātādibhir ↩︎

  288. M G: -padeśāt ↩︎

  289. M G: manuṣyadharma ↩︎

  290. M G: -kārya- ↩︎

  291. M G: bhuṅkte vai balavān iti ↩︎

  292. M G: -padeśo bhavati ↩︎

  293. M G omit: yathā ↩︎

  294. M G: tadaiva yāpayati ↩︎

  295. M G: devaṃ ↩︎

  296. DK (4: 2403) suggests, correctly I think, cāsyāparijñānād ↩︎

  297. DK (4: 2403) suggests, correctly I think, vidyate (citation from the verse) ↩︎

  298. M G: eva ↩︎

  299. M G: vivakṣyate; DK (4: 2403) suggests vipadyate ↩︎

  300. The reading should probably be yātrā, which is in the verse. ↩︎

  301. The reading should probably be atiśaye, as in the verse. ↩︎

  302. DK (4: 2403) suggests, correctly I think, na pravartate. ↩︎

  303. M G J: nātivyūhaṃ ↩︎

  304. M G: daive ca ↩︎

  305. M G: yadātyantaguṇadaive; J: yadāpaṃcatuṇe daive; DK (4:2403) suggests yadātyantānuguṇe daive ↩︎

  306. M G: sarvasya ↩︎

  307. M G J: cāpauruṣeṇa ↩︎

  308. M G J put puruṣāṇāṃ . . . kriyante at the beginning of the commentary after verse 211. ↩︎

  309. M G J: puruṣajñānalokajñānapuruṣaviśeṣajño ↩︎

  310. DK (4: 2404) places this under 7.205g, but at (4: 2170) places a version of it under 7.211 ↩︎

  311. M G J: abahu- ↩︎

  312. M G: tattvabhukta- ↩︎

  313. M G J: nāyam (see DK 4: 978) ↩︎

  314. M G J: yugapadupajātānīty artham (see DK 4: 1935) ↩︎

  315. DK (4: 1935) suggests adding: vyuktāṃś ca ↩︎

  316. M G J: dānam evetyādikān (see DK) ↩︎

  317. M G: samasta- ↩︎

  318. DK (4: 1935) suggests: upeyam iti for ayam iti ↩︎

  319. DK (4:1935) suggests samāśritaṃ. ↩︎

  320. M G J: upāya etānām; I follow DK (4:1935). ↩︎

  321. M G: viśeṣārthārtham ↩︎

  322. M G J: vaivarṇyajvālāsu; I follow DK (4:947). ↩︎

  323. DK (4:979) suggests nāgamaṇi in place of nāgadamaṇi. ↩︎

  324. J: -bharaṇaṃ ↩︎

  325. DK (4:979) suggests vicāryaṃ ↩︎

  326. DK (4: 947): krīḍet ↩︎

  327. M G: paricāribhiḥ ↩︎

  328. DK (4: 948) suggests: tatra ↩︎