०६

001 एवङ् गृहाश्रमे ...{Loading}...

एवं गृहाश्रमे स्थित्वा
विधिवत् स्नातको द्विजः ।
वने वसेत् तु नियतो
यथावद् विजितेन्द्रियः ॥ ६.१ ॥

002 गृहस्थस् तु ...{Loading}...

गृहस्थस् तु यथा पश्येद्
वली-पलितम् आत्मनः ।
अपत्यस्यैव चाऽपत्यं
तदारण्यं समाश्रयेत् ॥ ६.२ ॥

003 सन्त्यज्य ग्राम्यम् ...{Loading}...

सन्त्यज्य ग्राम्यम् आहारं
सर्वं चैव परिच्छदम् ।
पुत्रेषु भार्यां निक्षिप्य
वनं गच्छेत् सहैव वा ॥ ६.३ ॥

004 अग्निहोत्रं समादाय ...{Loading}...

अग्निहोत्रं समादाय
गृह्यं चाऽग्निपरिच्छदम् ।
ग्रामाद् अरण्यं निःसृत्य
निवसेन् नियतेन्द्रियः [मेधातिथिपाठः - निष्क्रम्य] ॥ ६.४ ॥

005 मुन्य्-अन्नैर् विविधैर् ...{Loading}...

मुन्य्-अन्नैर् विविधैर् मेध्यैः
शाक-मूल-फलेन वा ।
एतान् एव महायज्ञान्
निर्वपेद् विधिपूर्वकम् ॥ ६.५ ॥

006 वसीत चर्म ...{Loading}...

वसीत चर्म चीरं वा
सायं स्नायात् प्रगे तथा ।
जटाश् च बिभृयान् नित्यं
श्मश्रु-लोम-नखानि च ॥ ६.६ ॥

007 यद्-भक्ष्यं स्याद् ...{Loading}...

यद्-भक्ष्यं स्याद् ततो दद्याद्
बलिं भिक्षां च शक्तितः [मेधातिथिपाठः - यद्भक्षः] ।
अम्-मूल-फल-भिक्षाभिर्
अर्चयेद् आश्रमागतान् [म्:आश्रमागतम्] ॥ ६.७ ॥

008 स्वाध्याये नित्ययुक्तः ...{Loading}...

स्वाध्याये नित्ययुक्तः स्याद्
दान्तो मैत्रः समाहितः ।
दाता नित्यम् अनादाता
सर्वभूतानुकम्पकः ॥ ६.८ ॥

009 वैतानिकञ् च ...{Loading}...

वैतानिकं च जुहुयाद्
अग्निहोत्रं यथाविधि ।
दर्शम् अस्कन्दयन् पर्व
पौर्णमासं च योगतः ॥ ६.९ ॥

010 ऋक्षेष्ट्य्-आग्रयणञ् चैव ...{Loading}...

ऋक्षेष्ट्य्-आग्रयणं चैव
चातुर्मास्यानि चाहरेत् [मेधातिथिपाठः - दर्शेष्ट्य्-आग्रयणं] ।
तुरायणं च क्रमशो
दक्षस्यायनम् एव च [क्मेधातिथिपाठः - दाक्षस्यायनम्] ॥ ६.१० ॥

011 वासन्त-शारदैर् मेध्यैर् ...{Loading}...

वासन्त-शारदैर् मेध्यैर्
मुन्य्-अन्नैः स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव
विधिवन् निर्वपेत् पृथक् ॥ ६.११ ॥

012 देवताभ्यस् तु ...{Loading}...

देवताभ्यस् तु तद् +धुत्वा
वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत
लवणं च स्वयं कृतम् ॥ ६.१२ ॥

013 स्थलजाउदकशाकानि पुष्प-मूल-फलानि ...{Loading}...

स्थलजाउदकशाकानि
पुष्प-मूल-फलानि च ।
मेध्यवृक्षोद्भवान्य् अद्यात्
स्नेहांश् च फल-सम्भवान् ॥ ६.१३ ॥

014 वर्जयेन् मधु ...{Loading}...

वर्जयेन् मधु मांसं च
भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव
श्लेश्मातक-फलानि च ॥ ६.१४ ॥

015 त्यजेद् आश्वयुजे ...{Loading}...

त्यजेद् आश्वयुजे मासि
मुन्य्-अन्नं पूर्वसञ्चितम् ।
जीर्णानि चैव वासांसि
शाक-मूल-फलानि च ॥ ६.१५ ॥

016 न फालकृष्टम् ...{Loading}...

न फालकृष्टम् अश्नीयाद्
उत्सृष्टम् अपि केन चित् ।
न ग्रामजातान्य् आर्तो ऽपि
मूलाणि च फलानि च [मेधातिथिपाठः - पुष्पानि च फलानि च] ॥ ६.१६ ॥

017 अग्निपक्वाशनो वा ...{Loading}...

अग्निपक्वाशनो वा स्यात्
कालपक्वभुग् एव वा ।
अश्म-कुट्टो भवेद् वापि
दन्तोलूखलिको ऽपि वा ॥ ६.१७ ॥

018 सद्यः प्रक्षालको ...{Loading}...

सद्यः प्रक्षालको वा स्यान्
मास-सञ्चयिको ऽपि वा ।
षण्मास-निचयो वा स्यात्
समा-निचय एव वा ॥ ६.१८ ॥

019 नक्तञ् चाऽन्नम् ...{Loading}...

नक्तं चाऽन्नं समश्नीयाद्
दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात्
स्याद् वाप्य् अष्टम-कालिकः ॥ ६.१९ ॥

020 चान्द्रायणविधानैर् वा ...{Loading}...

चान्द्रायणविधानैर् वा
शुक्ल-कृष्णे च वर्तयेत् ।
पक्षान्तयोर् वाप्य् अश्नीयाद्
यवागूं क्वथितां सकृत् ॥ ६.२० ॥

021 पुष्प-मूल-फलैर् वापि ...{Loading}...

पुष्प-मूल-फलैर् वापि
केवलैर् वर्तयेत् सदा ।
कालपक्वैः स्वयं शीर्णैर्
वैखानसमते स्थितः ॥ ६.२१ ॥

022 भूमौ विपरिवर्तेत ...{Loading}...

भूमौ विपरिवर्तेत
तिष्ठेद् वा प्रपदैर् दिनम् ।
स्थानासनाभ्यां विहरेत्
सवनेषूपयन्न् अपः ॥ ६.२२ ॥

023 ग्रीष्मे पञ्च-तपास् ...{Loading}...

ग्रीष्मे पञ्च-तपास् तु स्याद्
वर्षास्व् अभ्रावकाशिकः ।
आर्द्र-वासास् तु हेमन्ते
क्रमशो वर्धयंस् तपः ॥ ६.२३ ॥

024 उपस्पृशंस् त्रिषवणम् ...{Loading}...

उपस्पृशंस् त्रिषवणं
पितॄन् देवांश् च तर्पयेत् ।
तपश् चरंश् चोग्रतरं
शोषयेद् देहम् आत्मनः ॥ ६.२४ ॥

025 अग्नीन् आत्मनि ...{Loading}...

अग्नीन् आत्मनि वैतानान्
समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान्
मुनिर् मूल-फलाशनः ॥ ६.२५ ॥

026 अप्रयत्नः सुखार्थेषु ...{Loading}...

अप्रयत्नः सुखार्थेषु
ब्रह्मचारी धराशयः ।
शरणेष्व् अममश् चैव
वृक्षमूल-निकेतनः ॥ ६.२६ ॥

027 तापसेष्व् एव ...{Loading}...

तापसेष्व् एव विप्रेषु
यात्रिकं भैक्षम् आहरेत् ।
गृहमेधिषु चाऽन्येषु
द्विजेषु वनवासिषु ॥ ६.२७ ॥

028 ग्रामाद् आहृत्य ...{Loading}...

ग्रामाद् आहृत्य वाश्नीयाद्
अष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव
पाणिना शकलेन वा ॥ ६.२८ ॥

029 एताश् चाऽन्याश् ...{Loading}...

एताश् चाऽन्याश् च सेवेत
दीक्षा विप्रो वने वसन् ।
विविधाश् चाऽउपनिषदीर्
आत्मसंसिद्धये श्रुतीः ॥ ६.२९ ॥

030 ऋषिभिर् ब्राह्मणैश् ...{Loading}...

ऋषिभिर् ब्राह्मणैश् चैव
गृहस्थैर् एव सेविताः ।
विद्या-तपो-विवृद्ध्यर्थं
शरीरस्य च शुद्धये ॥ ६.३० ॥

031 अपराजितां वास्थाय ...{Loading}...

अपराजितां वास्थाय
व्रजेद् दिशम् अजिह्मगः ।
आ निपाताच् छरीरस्य
युक्तो वार्य्-अनिलाशनः ॥ ६.३१ ॥

032 आसाम् महर्षिचर्याणाम् ...{Loading}...

आसां महर्षिचर्याणां
त्यक्त्वान्यतमया तनुम् ।
वीत-शोक-भयो विप्रो
ब्रह्मलोके महीयते ॥ ६.३२ ॥

033 वनेषु च ...{Loading}...

वनेषु च विहृत्यैवं
तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं
त्यक्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥

034 आश्रमाद् आश्रमम् ...{Loading}...

आश्रमाद् आश्रमं गत्वा
हुत-होमो जितेन्द्रियः ।
भिक्षा-बलि-परिश्रान्तः
प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥

035 ऋणानि त्रीण्य् ...{Loading}...

ऋणानि त्रीण्य् अपाकृत्य
मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु
सेवमानो व्रजत्य् अधः ॥ ६.३५ ॥

036 अधीत्य विधिवद् ...{Loading}...

अधीत्य विधिवद् वेदान्
पुत्रांश् चोत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्
मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥

037 अनधीत्य द्विजो ...{Loading}...

अनधीत्य द्विजो वेदान्
अनुत्पाद्य तथा सुतान् [मेधातिथिपाठः - तथा प्रजाम्] ।
अनिष्ट्वा चैव यज्ञैश् च
मोक्षम् इच्छन् व्रजत्य् अधः ॥ ६.३७ ॥

038 प्राजापत्यन् निरुप्येष्टिम् ...{Loading}...

प्राजापत्यं निरुप्येष्टिं
सर्ववेदस-दक्षिणाम् [मेधातिथिपाठः - सार्ववेदसदक्षिणाम्] ।
आत्मन्य् अग्नीन् समारोप्य
ब्राह्मणः प्रव्रजेद् गृहात् ॥ ६.३८ ॥

039 यो दत्त्वा ...{Loading}...

यो दत्त्वा सर्वभूतेभ्यः
प्रव्रजत्य् अभयं गृहात् ।
तस्य तेजोमया लोका
भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥

040 यस्माद् अण्व् ...{Loading}...

यस्माद् अण्व् अपि भूतानां
द्विजान् नोत्पद्यते भयम् ।
तस्य देहाद् विमुक्तस्य
भयं नाऽस्ति कुतश् चन ॥ ६.४० ॥

041 अगाराद् अभिनिष्क्रान्तः ...{Loading}...

अगाराद् अभिनिष्क्रान्तः
पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु
निर्-अपेक्षः परिव्रजेत् ॥ ६.४१ ॥

042 एक एव ...{Loading}...

एक एव चरेन् नित्यं
सिद्ध्यर्थम् असहायवान् ।
सिद्धिम् एकस्य सम्पश्यन्
न जहाति न हीयते [मेधातिथिपाठः - सिद्धम्] ॥ ६.४२ ॥

043 अनग्निर् अनिकेतः ...{Loading}...

अनग्निर् अनिकेतः स्याद्
ग्रामम् अन्नार्थम् आश्रयेत् ।
उपेक्षको ऽसङ्कुसुको
मुनिर् भावसमाहितः [मेधातिथिपाठः - अ-साङ्कुसुको] ॥ ६.४३ ॥

044 कपालं वृक्षमूलानि ...{Loading}...

कपालं वृक्षमूलानि
कुचेलम् असहायता [मेधातिथिपाठः - कुचैलम्] ।
समता चैव सर्वस्मिन्न्
एतन् मुक्तस्य लक्षणम् ॥ ६.४४ ॥

045 नाऽभिनन्देत मरणम् ...{Loading}...

नाऽभिनन्देत मरणं
नाऽभिनन्देत जीवितम् ।
कालम् एव प्रतीक्षेत
निर्वेशं भृतको यथा ॥ ६.४५ ॥

046 दृष्टिपूतन् न्यसेत् ...{Loading}...

दृष्टिपूतं न्यसेत् पादं
वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं
मनःपूतं समाचरेत् ॥ ६.४६ ॥

047 अतिवादांस् तितिक्षेत ...{Loading}...

अतिवादांस् तितिक्षेत
नाऽवमन्येत कं चन ।
न चेमं देहम् आश्रित्य
वैरं कुर्वीत केन चित् ॥ ६.४७ ॥

048 क्रुद्ध्यन्तन् न ...{Loading}...

क्रुद्ध्यन्तं न प्रतिक्रुध्येद्
आक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च
न वाचम् अनृतां वदेत् ॥ ६.४८ ॥

049 अध्यात्म-रतिर् आसीनो ...{Loading}...

अध्यात्म-रतिर् आसीनो
निर्-अपेक्षो निर्-आमिषः ।
आत्मनैव सहायेन
सुखार्थी विचरेद् इह ॥ ६.४९ ॥

050 न चोत्पात-निमित्ताभ्याम् ...{Loading}...

न चोत्पात-निमित्ताभ्यां
न नक्षत्राङ्गविद्यया ।
नाऽनुशासन-वादाभ्यां
भिक्षां लिप्सेत कर्हि चित् ॥ ६.५० ॥

051 न तापसैर् ...{Loading}...

न तापसैर् ब्राह्मणैर् वा
वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यैर्
अगारम् उपसंव्रजेत् ॥ ६.५१ ॥

052 कॢप्त-केश-नख-श्मश्रुः पात्री ...{Loading}...

कॢप्त-केश-नख-श्मश्रुः
पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं
सर्वभूतान्य् अपीडयन् ॥ ६.५२ ॥

053 अतैजसानि पात्राणि ...{Loading}...

अतैजसानि पात्राणि
तस्य स्युर् निर्-व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं
चमसानाम् इवाऽध्वरे ॥ ६.५३ ॥

054 अलाबुन् दारुपात्रम् ...{Loading}...

अलाबुं दारुपात्रं च
मृण्मयं वैदलं तथा ।
एताणि यतिपात्राणि
मनुः स्वायम्भुवो ऽब्रवीत् ॥ ६.५४ ॥

055 एककालञ् चरेद् ...{Loading}...

एककालं चरेद् भैक्षं
न प्रसज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्
विषयेष्व् अपि सज्जति ॥ ६.५५ ॥

056 वि-धूमे सन्न-मुसले ...{Loading}...

वि-धूमे सन्न-मुसले
व्य्-अङ्गारे भुक्तवज्-जने ।
वृत्ते शरावसम्पाते
भिक्षां नित्यं यतिश् चरेत् ॥ ६.५६ ॥

057 अलाभे न ...{Loading}...

अलाभे न विषदी स्याल्
लाभे चैव न हर्षयेत् ।
प्राणयात्रिक-मात्रः स्यान्
मात्रासङ्गाद् विनिर्गतः ॥ ६.५७ ॥

058 अभिपूजितलाभांस् तु ...{Loading}...

अभिपूजितलाभांस् तु
जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैश् च
यतिर् मुक्तो ऽपि बध्यते ॥ ६.५८ ॥

059 अल्पान्नाभ्यवहारेण रहःस्थानासनेन ...{Loading}...

अल्पान्नाभ्यवहारेण
रहःस्थानासनेन च ।
ह्रियमाणानि विषयैर्
इन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥

060 इन्द्रियाणान् निरोधेन ...{Loading}...

इन्द्रियाणां निरोधेन
राग-द्वेश-क्षयेण च ।
अहिंसया च भूतानाम्
अमृतत्वाय कल्पते ॥ ६.६० ॥

061 अवेक्षेत गतीर् ...{Loading}...

अवेक्षेत गतीर् नॄणां
कर्मदोष-समुद्भवाः ।
निरये चैव पतनं
यातनाश् च यमक्षये ॥ ६.६१ ॥

062 विप्रयोगम् प्रियैश् ...{Loading}...

विप्रयोगं प्रियैश् चैव
संयोगं च तथाप्रियैः ।
जरया चाऽभिभवनं
व्याधिभिश् चोपपीडनं ॥ ६.६२ ॥

063 देहाद् उत्क्रमणम् ...{Loading}...

देहाद् उत्क्रमणं चाऽष्मात्
पुनर् गर्भे च सम्भवम् ।
योनिकोटिसहस्रेषु
सृतीश् चाऽस्याऽन्तरात्मनः ॥ ६.६३ ॥

064 अधर्म-प्रभवञ् चैव ...{Loading}...

अधर्म-प्रभवं चैव
दुःखयोगं शरीरिणाम् ।
धर्मार्थ-प्रभवं चैव
सुखसंयोगम् अक्षयम् ॥ ६.६४ ॥

065 सूक्ष्मताञ् चाऽन्ववेक्षेत ...{Loading}...

सूक्ष्मतां चाऽन्ववेक्षेत
योगेन परमात्मनः ।
देहेषु च समुत्पत्तिम्
उत्तमेष्व् अधमेषु च [मेधातिथिपाठः - देहेषु चैवोपपत्तिम्] ॥ ६.६५ ॥

066 दूषितो ऽपि ...{Loading}...

दूषितो ऽपि चरेद् +धर्मं
यत्र तत्राश्रमे रतः [मेधातिथिपाठः - भूषितो ऽपि] ।
समः सर्वेषु भूतेषु
न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥

067 फलङ् कतकवृक्षस्य ...{Loading}...

फलं कतकवृक्षस्य
यद्य् अप्य् अम्बुप्रसादकम् ।
न नामग्रहणाद् एव
तस्य वारि प्रसीदति ॥ ६.६७ ॥

068 संरक्षणार्थञ् जन्तूनाम् ...{Loading}...

संरक्षणार्थं जन्तूनां
रात्राव् अहनि वा सदा ।
शरीरस्याऽत्यये चैव
समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥

069 अह्ना रात्र्या ...{Loading}...

अह्ना रात्र्या च याञ् जन्तून्
हिनस्त्य् अज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं
प्राणायामान् षड् आचरेत् ॥ ६.६९ ॥

070 प्राणायामा ब्राह्मणस्य ...{Loading}...

प्राणायामा ब्राह्मणस्य
त्रयो ऽपि विधिवत् कृताः ।
व्याहृति-प्रणवैर् युक्ता
विज्ञेयं परमं तपः ॥ ६.७० ॥

071 दह्यन्ते ध्मायमानानाम् ...{Loading}...

दह्यन्ते ध्मायमानानां
धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते
दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥

072 प्राणायमैर् दहेद् ...{Loading}...

प्राणायमैर् दहेद् दोषान्
धारणाभिश् च किल्बिषम् ।
प्रत्याहारेण संसर्गान्
ध्यानेनाऽनीश्वरान् गुणान् ॥ ६.७२ ॥

073 उच्चावचेषु भूतेषु ...{Loading}...

उच्चावचेषु भूतेषु
दुर्ज्ञेयाम् अकृतात्मभिः ।
ध्यानयोगेन सम्पश्येद्
गतिम् अस्याऽन्तरात्मनः ॥ ६.७३ ॥

074 सम्यग्दर्शनसम्पन्नः कर्मभिर् ...{Loading}...

सम्यग्दर्शनसम्पन्नः
कर्मभिर् न निबध्यते ।
दर्शनेन विहीनस् तु
संसारं प्रतिपद्यते ॥ ६.७४ ॥

075 अहिंसयेन्द्रियासङ्गैर् वैदिकैश् ...{Loading}...

अहिंसयेन्द्रियासङ्गैर्
वैदिकैश् चैव कर्मभिः ।
तपसश् चरणैश् चोग्रैः
साधयन्तीह तत्पदम् ॥ ६.७५ ॥

076 अस्थि-स्थूणं स्नायुयुतम् ...{Loading}...

अस्थि-स्थूणं स्नायुयुतं
मांस-शोणित-लेपनम् ।
चर्मावनद्धं दुर्-गन्धि
पूर्णं मूत्र-पुरीषयोः ॥ ६.७६ ॥

077 जरा-शोकसमाविष्टं रोगायतनम् ...{Loading}...

जरा-शोकसमाविष्टं
रोगायतनम् आतुरम् ।
रजस्वलम् अनित्यं च
भूतावासम् इमं त्यजेत् ॥ ६.७७ ॥

078 नदीकूलं यथा ...{Loading}...

नदीकूलं यथा वृक्षो
वृक्षं वा शकुनिर् यथा ।
तथा त्यजन्न् इमं देहं
कृच्छ्राद् ग्राहाद् विमुच्यते ॥ ६.७८ ॥

079 प्रियेषु स्वेषु ...{Loading}...

प्रियेषु स्वेषु सुकृतम्
अप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन
ब्रह्माऽभ्येति सनातनम् ॥ ६.७९ ॥

080 यदा भावेन ...{Loading}...

यदा भावेन भवति
सर्वभावेषु निःस्पृहः ।
तदा सुखम् अवाप्नोति
प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥

081 अनेन विधिना ...{Loading}...

अनेन विधिना सर्वांस्
त्यक्त्वा सङ्गाञ् शनैः शनैः ।
सर्वद्वन्द्वविनिर्मुक्तो
ब्रह्मण्य् एवाऽवतिष्ठते ॥ ६.८१ ॥

082 ध्यानिकं सर्वम् ...{Loading}...

ध्यानिकं सर्वम् एवैतद्
यद् एतद् अभिशब्दितम् ।
न ह्य् अनध्यात्मवित् कश् चित्
क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥

083 अधियज्ञम् ब्रह्म ...{Loading}...

अधियज्ञं ब्रह्म जपेद्
आधिदैविकम् एव च ।
आध्यात्मिकं च सततं
वेदान्ताभिहितं च यत् ॥ ६.८३ ॥

084 इदं शरणम् ...{Loading}...

इदं शरणम् अज्ञानाम्
इदम् एव विजानताम् ।
इदम् अन्विच्छतां स्वर्गम्
इदम् आनन्त्यम् इच्छताम् ॥ ६.८४ ॥

085 अनेन क्रमयोगेन ...{Loading}...

अनेन क्रमयोगेन
परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं
परं ब्रह्माऽधिगच्छति ॥ ६.८५ ॥

086 एष धर्मो ...{Loading}...

एष धर्मो ऽनुशिष्टो वो
यतीनां नियतात्मनाम् ।
वेदसन्न्यासिकानां तु
कर्मयोगं निबोधत ॥ ६.८६ ॥

087 ब्रह्मचारी गृहस्थश् ...{Loading}...

ब्रह्मचारी गृहस्थश् च
वानप्रस्थो यतिस् तथा ।
एते गृहस्थ-प्रभवाश्
चत्वारः पृथग् आश्रमाः ॥ ६.८७ ॥

088 सर्वे ऽपि ...{Loading}...

सर्वे ऽपि क्रमशस् त्व् एते
यथाशास्त्रं निषेविताः ।
यथोक्त-कारिणं विप्रं
नयन्ति परमां गतिम् ॥ ६.८८ ॥

089 सर्वेषाम् अपि ...{Loading}...

सर्वेषाम् अपि चैतेषां
वेद-स्मृतिविधानतः [मेधातिथिपाठः - वेद-श्रुतिविधानतः] ।
गृहस्थ उच्यते श्रेष्ठः
स त्रीन् एतान् बिभर्ति हि ॥ ६.८९ ॥

090 यथा नदी-नदाः ...{Loading}...

यथा नदी-नदाः सर्वे
सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे
गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥

091 चतुर्भिर् अपि ...{Loading}...

चतुर्भिर् अपि चैवैतैर्
नित्यम् आश्रमिभिर् द्विजैः ।
दश-लक्षणको धर्मः
सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥

092 धृतिः क्षमा ...{Loading}...

धृतिः क्षमा दमो ऽस्तेयं
शौचम् इन्द्रियनिग्रहः ।
धीर् विद्या सत्यम् अक्रोधो
दशकं धर्मलक्षणम् ॥ ६.९२ ॥

093 दश लक्षणानि ...{Loading}...

दश लक्षणानि धर्मस्य
ये विप्राः समधीयते ।
अधीत्य चाऽनुवर्तन्ते
ते यान्ति परमां गतिम् ॥ ६.९३ ॥

094 दश-लक्षणकन् धर्मम् ...{Loading}...

दश-लक्षणकं धर्मम्
अनुतिष्ठन् समाहितः ।
वेदान्तं विधिवच् छ्रुत्वा
सन्न्यसेद् अनृणो द्विजः ॥ ६.९४ ॥

095 सन्न्यस्य सर्वकर्माणि ...{Loading}...

सन्न्यस्य सर्वकर्माणि
कर्मदोषान् अपानुदन् ।
नियतो वेदम् अभ्यस्य
पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥

096 एवं सन्न्यस्य ...{Loading}...

एवं सन्न्यस्य कर्माणि
स्वकार्य-परमो ऽस्पृहः ।
सन्न्यासेनाऽपहत्यैनः
प्राप्नोति परमं गतिम् ॥ ६.९६ ॥

097 एष वो ...{Loading}...

एष वो ऽभिहितो धर्मो
ब्राह्मणस्य चतुर्-विधः ।
पुण्यो ऽक्षय-फलः प्रेत्य
राज्ञां धर्मं निबोधत ॥ ६.९७ ॥


  1. M G 1st ed.: kanyāyāṃ putrasyāpi ↩︎

  2. G 1st ed.: ca ↩︎

  3. M G omit: na ↩︎

  4. M G: bahiḥ kapāṭakaṃ ↩︎

  5. M G: nirvṛttir ↩︎

  6. This is the reading in all editions. It may be a mistake for caṃkramet. ↩︎

  7. M G: evāvakāśāśrayaḥ ↩︎

  8. M G: saṃtapya vaneṣv ādyaiḥ ↩︎

  9. M G 1st ed.: pitṛlokavāso; G 2nd ed.: pitṛlokavāso kāmo ↩︎

  10. M G: -otpattīs ↩︎

  11. M G 1st ed.: na ↩︎

  12. M G 1st ed. omit: yaḥ ↩︎

  13. M G: ye ↩︎

  14. M G 1st ed.: nāvaśyā ↩︎

  15. M G 1st ed.: tatra ↩︎

  16. M G 1st ed. omit: upahṛteṣu ↩︎

  17. M G: gṛhā- ↩︎

  18. M G: mūlaphalamulodakādibhir ↩︎

  19. M G: -kleśāṃs tu ↩︎

  20. M G: śatrusaṃgrahagamanādibhiḥ ↩︎

  21. M G: -vaikalya- ↩︎

  22. M G: -ādir ↩︎

  23. M G 1st ed. omit: na ↩︎

  24. M G: pūrvaślokārtho ’nuvādaḥ ↩︎

  25. M G 1st ed.: uddhriyeta ↩︎

  26. M G: evedam ↩︎

  27. M G: upaghāte ↩︎

  28. M G 1st ed.: naivaṃparavānyaḥ ↩︎

  29. M G: anapāvṛtādiguṇaviśiṣṭaṃ ↩︎

  30. M G omit: sa ↩︎

  31. M G 1st ed.: vidhyarthasaṃpannena; G 2nd ed: vidhyarthasaṃpatter anyat ↩︎

  32. M G: sarvaviṣayatvālābhād ↩︎

  33. M G: auṣadhena ↩︎

  34. M G 1st ed.: jalaukobhūmisūtakān ↩︎

  35. M G 1st ed.: nānyad ↩︎

  36. M G 1st ed.: tata upari atha vā ↩︎

  37. M G: spṛhayāluḥ ↩︎

  38. M G 1st ed.: avekṣyam ↩︎

  39. M G 1st ed.: tṛptatā ↩︎

  40. M G 1st ed.: śarīreṇa ↩︎

  41. M G 1st ed.: na pratyuktam ↩︎

  42. M G 1st ed.: kṛcchra- ↩︎

  43. M G 1st ed.: annakriyārthaṃ daleṣu parituṣṭaḥ ↩︎

  44. Reading chandogyoktam is conjectura; it is omitted by J, and M G read: chandogyokta ↩︎

  45. M G 1st ed.: vidhāya karma ↩︎

  46. M G: adhidaiva- ↩︎

  47. M G 1st ed. add: ahaṃ bhavam ↩︎

  48. M G 1st ed.: śāstrād avagatātmatatvānavagatātmatatvā; G 2nd ed.: śāstrād anavagatātmatatvā ↩︎

  49. M G 1st ed.: prekṣaṇīyarāgādidoṣajñā ātma-; G 2nd ed.: prekṣaṇīyarāgādidoṣāṃ jñānātma- ↩︎

  50. M G: -japādikakarmāṇi ↩︎

  51. M G 1st ed.: yato ↩︎

  52. M G 1st ed.: svāhākāraḥ; G 2nd ed.: svāhākāra- ↩︎

  53. M G 1st ed.: strīmātra- ↩︎

  54. M G: santu ↩︎

  55. M G 1st ed.: adhikṛtaṃ ↩︎

  56. M G 1st ed.: vivāhaprayuktiṃ vinā ↩︎

  57. M G 1st ed.: api veda- ↩︎

  58. J omits: vai ↩︎

  59. M G 1st ed. add: ādhāne ↩︎

  60. M G 1st ed.: yauvane vā yā kanyā sarvataram idānīṃ yācate ↩︎

  61. M G: liṅgabhede ↩︎

  62. M G 1st ed.: paunaruktatayā ↩︎

  63. M G omit: tadā naivaṃ syāt ↩︎