२९ उपसंहारः

259 एषोदिता गृहस्थस्य ...{Loading}...

एषोदिता गृहस्थस्य
वृत्तिर् विप्रस्य शाश्वती ।
स्नातकव्रतकल्पश् च
सत्त्ववृद्धिकरः शुभः ॥ ४.२५९ ॥ [२६० मेधातिथिपाठे]

260 अनेन विप्रो ...{Loading}...

अनेन विप्रो वृत्तेन
वर्तयन् वेद-शास्त्रवित् ।
व्यपेत-कल्मषो नित्यं
ब्रह्मलोके महीयते ॥ ४.२६० ॥ [२६१ मेधातिथिपाठे]


  1. M G: pāpakalmaṣaṃ ↩︎