२८ निवृत्तिः

257 महर्षि-पितृ-देवानाङ् गत्वानृण्यम् ...{Loading}...

महर्षि-पितृ-देवानां
गत्वानृण्यं यथाविधि ।
पुत्रे सर्वं समासज्य
वसेन् माध्यस्थ्यम् आश्रितः [मेधातिथिपाठः - आस्थितः] ॥ ४.२५७ ॥ [२५८ मेधातिथिपाठे]

258 एकाकी चिन्तयेन् ...{Loading}...

एकाकी चिन्तयेन् नित्यं
विविक्ते हितम् आत्मनः [मेधातिथिपाठः - हितम् आत्मनि] ।
एकाकी चिन्तयानो हि
परं श्रेयो ऽधिगच्छति ॥ ४.२५८ ॥ [२५९ मेधातिथिपाठे]


  1. M G omit: na ↩︎