२७ आत्मनिवेदनम्

254 यादृशो ऽस्य ...{Loading}...

यादृशो ऽस्य भवेद् आत्मा
यादृशं च चिकीर्षितम् ।
यथा चोपचरेद् एनं
तथात्मानं निवेदयेत् +++(सेवाग्रहणाय)+++ ॥ ४.२५४ ॥ [२५५ मेधातिथिपाठे]

255 यो ऽन्यथा ...{Loading}...

यो ऽन्यथा सन्तम् आत्मानम्
अन्यथा सत्सु भाषते ।
स पापकृत्तमो लोके
स्तेन आत्मापहारकः ॥ ४.२५५ ॥ [२५६ मेधातिथिपाठे]

256 वाच्य् अर्था ...{Loading}...

वाच्य् अर्था नियताः सर्वे
वाङ्-मूला वाग्-विनिःसृताः ।
तांस् तु यः स्तेनयेद्+++(=चोरयेद्)+++ वाचं
स सर्वस्तेयकृन् नरः [मेधातिथिपाठः - तान् तु?] ॥ ४.२५६ ॥ [२५७ मेधातिथिपाठे]