२६ प्रतिग्रहः

247 एध+उदकम् मूल-फलम् ...{Loading}...

एध+++(=इन्धन)++++उदकं मूल-फलम्
अन्नम् अभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान्
मध्व् अथाऽभय-दक्षिणाम् ॥ ४.२४७ ॥ [२४८ मेधातिथिपाठे]+++(5)+++

248 आहृताभ्युद्यताम् भिक्षाम् ...{Loading}...

आहृताभ्युद्यतां भिक्षां
पुरस्ताद् अप्रचोदिताम् ।
मेने प्रजापतिर् ग्राह्याम्
अपि दुष्कृत-कर्मणः ॥ ४.२४८ ॥ [२४९ मेधातिथिपाठे]+++(5)+++

249 नाऽश्नन्ति पितरस् ...{Loading}...

नाऽश्नन्ति पितरस् तस्य
दशवर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर्
यस् ताम् अभ्यवमन्यते ॥ ४.२४९ ॥ [२५० मेधातिथिपाठे]

250 शय्याङ् गृहान् ...{Loading}...

शय्यां गृहान् कुशान् गन्धान्
अपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं
शाकं चैव न निर्णुदेत् ॥ ४.२५० ॥ [२५१ मेधातिथिपाठे]

251 गुरून् भृत्यांश् ...{Loading}...

गुरून् भृत्यांश् चोज्जिहीर्षन्न्
अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्
न तु तृप्येत् स्वयं ततः ॥ ४.२५१ ॥ [२५२ मेधातिथिपाठे]

252 गुरुषु त्व् ...{Loading}...

गुरुषु त्व् अभ्यतीतेषु
विना वा तैर् गृहे वसन् ।
आत्मनो वृत्तिम् अन्विच्छन्
गृह्णीयात् साधुतः सदा ॥ ४.२५२ ॥ [२५३ मेधातिथिपाठे]

253 आर्धिकः, कुलमित्रम् ...{Loading}...

+++(क्षेत्रोत्पन्नस्य)+++ आर्धिकः, कुलमित्रं च
गोपालो दास-नापितौ ।
एते शूद्रेषु भोज्यान्ना
याश् चात्मानं निवेदयेत् +++(सेवाग्रहणाय)+++ ॥ ४.२५३ ॥ [२५४ मेधातिथिपाठे]


  1. This reading makes little sense. Jha’s translation presupposes “abhaya” — abhayadakṣiṇā is really not a gift, because there is no transfer of ownership. DK (5: 1179) suggests: anyarūpatā ↩︎

  2. DK (5: 1180) suggests: edhādyatirekeṇa ↩︎

  3. M G: sthāpita ↩︎

  4. DK (5: 1181) suggests: partīṣyatām ↩︎