२५ सत्सङ्गः

244 उत्तमैर् उत्तमैर् ...{Loading}...

उत्तमैर् उत्तमैर् नित्यं
सम्बन्धान् आचरेत् सह [मेधातिथिपाठः - सम्भन्धान्] ।
निनीषुः कुलम् उत्कर्षम्
अधमान् अधमांस् त्यजेत् ॥ ४.२४४ ॥ [२४५ मेधातिथिपाठे]+++(5)+++

245 उत्तमान् उत्तमान् ...{Loading}...

उत्तमान् उत्तमान् एव
गच्छन् हीनांस् तु वर्जयन् ।
ब्राह्मणः श्रेष्ठताम् एति
प्रत्यवायेन शूद्रताम् ॥ ४.२४५ ॥ [२४६ मेधातिथिपाठे]

246 दृढकारी मृदुर् ...{Loading}...

दृढकारी मृदुर् दान्तः
क्रूराचारैर् असंवसन् ।
अहिंस्रो दम-दानाभ्यां
जयेत् स्वर्गं तथा-व्रतः ॥ ४.२४६ ॥ [२४७ मेधातिथिपाठे]


  1. M G omit: yena ↩︎

  2. M G: saṃbandhinaḥ ↩︎

  3. M G 1st ed.: anapāyas tāṃ tulyatāṃ ↩︎

  4. M G: yathā ↩︎