२४ धर्मः

238 धर्मं शनैः ...{Loading}...

धर्मं शनैः सञ्-चिनुयाद्
वल्मीकम् इव पुत्तिकाः [मेधातिथिपाठः - सञ्चिनुयाद्] ।
परलोकसहायार्थं
सर्वभूतान्य् अपीडयन् ॥ ४.२३८ ॥ [२३९ मेधातिथिपाठे](5)

239 नाऽमुत्र हि ...{Loading}...

नाऽमुत्र हि सहायार्थं
पिता माता च तिष्ठतः ।
न पुत्रदारं न ज्ञातिर्
धर्मस् तिष्ठति केवलः ॥ ४.२३९ ॥ [२४० मेधातिथिपाठे]

240 एकः प्रजायते ...{Loading}...

एकः प्रजायते जन्तुर्
एक एव प्रलीयते ।
एको ऽनुभुङ्क्ते सुकृतम्
एक एव च दुष्कृतम् ॥ ४.२४० ॥ [२४१ मेधातिथिपाठे]

241 मृतं शरीरम् ...{Loading}...

मृतं शरीरम् उत्सृज्य
काष्ठ-लोष्ट-समं क्षितौ ।
विमुखा बान्धवा यान्ति
धर्मस् तम् अनुगच्छति ॥ ४.२४१ ॥ [२४२ मेधातिथिपाठे]

242 तस्माद् धर्मम् ...{Loading}...

तस्माद् धर्मं सहायार्थं
नित्यं सञ्चिनुयाच् छनैः ।
धर्मेण हि सहायेन
तमस् तरति दुस्तरम् ॥ ४.२४२ ॥ [२४३ मेधातिथिपाठे]

243 धर्म-प्रधानम् पुरुषम् ...{Loading}...

धर्म-प्रधानं पुरुषं
तपसा हत-किल्बिषम् ।
परलोकं नयत्य् आशु
भास्वन्तं ख-शरीरिणम् ॥ ४.२४३ ॥ [२४४ मेधातिथिपाठे]


  1. M G 1st ed.: sahaika; G 2nd ed. J: sa eka (I follow DK 5: 319) ↩︎

  2. M G J: -siddha- (I follow DK 5: 320) ↩︎

  3. J: svena and svaśarīrī (Jha seems to take the term as “sva” rather than “kha” in both his edition and his translation) ↩︎

  4. J: svam ↩︎