२३ इष्टापूर्तिः

226 श्रद्धयेष्टञ् च ...{Loading}...

श्रद्धयेष्टं च पूर्तं च
नित्यं कुर्याद् अतन्द्रितः ।
श्रद्धाकृते ह्य् अक्षये
ते भवतः स्वागतैर् धनैः ॥ ४.२२६ ॥ [२२७ मेधातिथिपाठे]+++(5)+++

227 दानधर्मन् निषेवेत ...{Loading}...

दानधर्मं निषेवेत
नित्यम् ऐष्टिक-पौर्तिकम् ।
परितुष्टेन भावेन
पात्रम् आसाद्य शक्तितः ॥ ४.२२७ ॥ [२२८ मेधातिथिपाठे]

228 यत् किम् ...{Loading}...

यत् किं चिद् अपि दातव्यं
याचितेनाऽनसूयया [मेधातिथिपाठः - अनसूयता?] ।
उत्पत्स्यते हि तत् पात्रं
यत् तारयति सर्वतः ॥ ४.२२८ ॥ [२२९ मेधातिथिपाठे]

229 वारिदस् तृप्तिम् ...{Loading}...

वारिदस् तृप्तिम् आप्नोति
सुखम् अक्षय्यम् अन्नदः [मेधातिथिपाठः - अक्षयम्] ।
तिलप्रदः प्रजाम् इष्टां
दीपदश् चक्षुर् उत्तमम् ॥ ४.२२९ ॥ [२३० मेधातिथिपाठे]

230 भूमिदो भूमिम् ...{Loading}...

भूमिदो भूमिम् आप्नोति
दीर्घम् आयुर् हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि
रूप्य+++(=रजत)+++दो रूपम् उत्तमम् ॥ ४.२३० ॥ [२३१ मेधातिथिपाठे]

231 वासोदश् चन्द्रसालोक्यम् ...{Loading}...

वासोदश् चन्द्रसालोक्यम्
अश्विसालोक्यम् अश्वदः ।
अनडुहः श्रियं पुष्टां
गोदो ब्रध्नस्य+++(=सूर्यस्य)+++ विष्टपम्+++(=लोकम्)+++ ॥ ४.२३१ ॥ [२३२ मेधातिथिपाठे]

232 यान-शय्या-प्रदो भार्याम् ...{Loading}...

यान-शय्या-प्रदो भार्याम्
ऐश्वर्यम् अभयप्रदः ।
धान्यदः शाश्वतं सौख्यं
ब्रह्मदो ब्रह्म-सार्ष्टिताम्+++(=साम्यम्)+++ ॥ ४.२३२ ॥ [२३३ मेधातिथिपाठे]

233 सर्वेषाम् एव ...{Loading}...

सर्वेषाम् एव दानानां
ब्रह्म-दानं विशिष्यते ।
वार्य्-अन्न-गो-मही-वासस्-
तिल-काञ्चन-सर्पिषाम् ॥ ४.२३३ ॥ [२३४ मेधातिथिपाठे]

234 येन येन ...{Loading}...

येन येन तु भावेन
यद् यद् दानं प्रयच्छति ।
तत् तत् तेनैव भावेन
प्राप्नोति प्रतिपूजितः ॥ ४.२३४ ॥ [२३५ मेधातिथिपाठे]

235 यो ऽर्चितम् ...{Loading}...

यो ऽर्चितं प्रति-गृह्णाति
ददात्य् अर्चितम् एव वा ।
ताव् उभौ गच्छतः स्वर्गं
नरकं तु विपर्यये ॥ ४.२३५ ॥ [२३६ मेधातिथिपाठे]

236 न विस्मयेत ...{Loading}...

न विस्मयेत तपसा
वदेद् इष्ट्वा च नाऽनृतम् ।
नार्तो ऽप्य् अपवदेद् विप्रान्
न दत्त्वा परिकीर्तयेत् [मेधातिथिपाठः - दत्वा] ॥ ४.२३६ ॥ [२३७ मेधातिथिपाठे]+++(5)+++

237 यज्ञो ऽनृतेन ...{Loading}...

यज्ञो ऽनृतेन क्षरति
तपः क्षरति विस्मयात् ।
आयुर् विप्रापवादेन
दानं च परिकीर्तनात् ॥ ४.२३७ ॥ [२३८ मेधातिथिपाठे]


  1. M G 1st ed.: yāvan na ↩︎

  2. M G 1st ed.: bhavati dāyāgataṃ ↩︎

  3. DK (5: 1168) suggests adding: na ↩︎

  4. M G J: bhṛtim eva (I follow DK 5: 1179) ↩︎

  5. M G 1st ed.palce api tu after śauryārtīti. ↩︎

  6. M G: śauryārti ↩︎

  7. M G 1st ed.: svatvānutpattipāṭhavibhāgakṛtāṃ ↩︎

  8. M G 1st ed.: dakṣiṇādīnām’ G 2nd ed.: dakṣiṇādānīyāt ↩︎

  9. M G 1st ed.: muktvā lāṅgala- ↩︎

  10. M G: svargaḥ prāpyate ↩︎

  11. J: tārayatī ↩︎

  12. M G 1st ed.: naiveśikasvarṇapuryāṃ ↩︎

  13. M G 1st ed.: yadaivecchati tadaiva ↩︎

  14. M G: arthakṛtaṃ ↩︎