२२ भोजननिषेधाः

भोजयितारो निषिद्धाः

205 नाऽश्रोत्रिय-तते यज्ञे ...{Loading}...

नाऽश्रोत्रिय-तते यज्ञे
ग्रामयाजि-कृते तथा ।
स्त्रिया क्लीबेन च हुते
भुञ्जीत ब्राह्मणः क्व चित् ॥ ४.२०५ ॥ [२०६ मेधातिथिपाठे]

206 अश्लीकम् एतत् ...{Loading}...

अश्लीकम्+++(=अश्लीलम्)+++ एतत् साधूनां
यत्र जुह्वत्य् अमी हविः [मेधातिथिपाठः - अ-श्लीलम्] ।
प्रतीपम् एतद् देवानां
तस्मात् तत् परिवर्जयेत् ॥ ४.२०६ ॥ [२०७ मेधातिथिपाठे]

207 मत्त-क्रुद्धातुराणाञ् च ...{Loading}...

मत्त-क्रुद्धातुराणां च
न भुञ्जीत कदा चन ।
केश-कीटावपन्नं च
पदा स्पृष्टं च कामतः ॥ ४.२०७ ॥ [२०८ मेधातिथिपाठे]

208 भ्रूणघ्नावेक्षितञ् चैव ...{Loading}...

भ्रूणघ्नावेक्षितं चैव
संस्पृष्टं चाऽप्य् उदक्यया+++(=रजस्वलया)+++ ।
पतत्रिणावलीढं च
शुना संस्पृष्टम् एव च ॥ ४.२०८ ॥ [२०९ मेधातिथिपाठे]

209 गवा चाऽन्नम् ...{Loading}...

गवा चाऽन्नम् उपघ्रातं
+++(सार्वजनिकेभ्यो)+++ घुष्टान्नं च विशेषतः ।
गणान्नं गणिकान्नं च
विदुषा च जुगुप्सितम् ॥ ४.२०९ ॥ [२१० मेधातिथिपाठे]

210 स्तेन-गायनयोश् चाऽन्नम् ...{Loading}...

स्तेन-गायनयोश् चाऽन्नं
तक्ष्णो वार्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य+++(=कृपणस्य)+++
बद्धस्य निगडस्य+++(=पादशृङ्खलस्य)+++ च ॥ ४.२१० ॥ [२११ मेधातिथिपाठे]

211 अभिशस्तस्य षण्ढस्य ...{Loading}...

+++(दोषीत्य्)+++ अभिशस्तस्य षण्ढस्य
पुंश्चल्या दाम्भिकस्य च ।
शुक्तं+++(=आम्लीकृतम्)+++ पर्युषितं चैव
शूद्रस्योच्छिष्टम् एव च ॥ ४.२११ ॥ [२१२ मेधातिथिपाठे]

212 चिकित्सकस्य मृगयोः ...{Loading}...

चिकित्सकस्य मृगयोः
क्रूरस्योच्छिष्ट-भोजिनः ।
उग्रान्नं सूतिकान्नं च
+++(हस्तप्रक्षालनेन सह)+++ पर्याचान्तम् अ–निर्-दशम् ॥ ४.२१२ ॥ [२१३ मेधातिथिपाठे]

213 अनर्चितं वृथा-मांसम् ...{Loading}...

अनर्चितं वृथा-मांसम्
अवीरायाश्+++(→पुंरहितायाश्)+++ च योषितः ।
द्विषदन्नं नगर्य्-अन्नं
पतितान्नम् अवक्षुतम् ॥ ४.२१३ ॥ [२१४ मेधातिथिपाठे]

214 पिशुनानृतिनोश् चाऽन्नम् ...{Loading}...

पिशुनानृतिनोश् चाऽन्नं
क्रतु-विक्रयिणस् तथा [मेधातिथिपाठः - क्रतुविक्रयकस्य च] ।
शैलूष-तुन्नवायान्नं+++(=तन्तुवायान्नम्)+++
कृतघ्नस्याऽन्नम् एव च ॥ ४.२१४ ॥ [२१५ मेधातिथिपाठे]

215 कर्मारस्य निषादस्य ...{Loading}...

कर्मारस्य+++(=लोहकारस्य)+++ निषादस्य
रङ्गावतारकस्य च ।
सुवर्णकर्तुर् वेणस्य+++(=गीतवादकस्य)+++
शस्त्रविक्रयिणस् तथा ॥ ४.२१५ ॥ [२१६ मेधातिथिपाठे]

216 श्व-वतां शौण्डिकानाम् ...{Loading}...

श्व-वतां शौण्डिकानां च
चैल+++(=वस्त्र)+++-निर्णेजकस्य च ।
रञ्जकस्य नृशंसस्य
यस्य चोपपतिर् गृहे [मेधातिथिपाठः - रजकस्य] ॥ ४.२१६ ॥ [२१७ मेधातिथिपाठे]

217 मृष्यन्ति ये ...{Loading}...

मृष्यन्ति ये चोपपतिं
स्त्रीजितानां च सर्वशः ।+++(5)+++
अनिर्दशं+++(=दशदिनगमनात् पूर्वम्)+++ च प्रेतान्नम्
अतुष्टिकरम् एव च ॥ ४.२१७ ॥ [२१८ मेधातिथिपाठे]

218 राजान्नन् तेज ...{Loading}...

राजान्नं तेज आदत्ते
शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं
यशश् चर्मावकर्तिनः ॥ ४.२१८ ॥ [२१९ मेधातिथिपाठे]

219 कारुकान्नम् प्रजाम् ...{Loading}...

कारुकान्नं+++(=शिल्प्यन्नं)+++ प्रजां हन्ति
बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नं च
लोकेभ्यः परिकृन्तति ॥ ४.२१९ ॥ [२२० मेधातिथिपाठे]

220 पूयञ् चिकित्सकस्याऽन्नम् ...{Loading}...

पूयं चिकित्सकस्याऽन्नं
पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् ।
विष्ठा+++(=पुरिषं)+++ वार्धुषिकस्याऽन्नं
शस्त्रविक्रयिणो मलम् ॥ ४.२२० ॥ [२२१ मेधातिथिपाठे]

221 य एते ...{Loading}...

य एते ऽन्ये त्व् अभोज्यान्नाः
क्रमशः परि-कीर्तिताः ।
तेषां त्वग्-अस्थि-रोमाणि
वदन्त्य् अन्नं मनीषिणः ॥ ४.२२१ ॥ [२२२ मेधातिथिपाठे]

222 भुक्त्वातो ऽन्यतमस्याऽन्नम् ...{Loading}...

भुक्त्वातो ऽन्यतमस्याऽन्नम्
अमत्या +++(भोजन)+++क्षपणं त्र्यहम् ।
मत्या भुक्त्वाचरेत् कृच्छ्रं
रेतो-विण्-मूत्रम् एव च ॥ ४.२२२ ॥ [२२३ मेधातिथिपाठे]

223 नाऽद्याच् छूद्रस्य ...{Loading}...

नाऽद्याच् छूद्रस्य पक्वान्नं
विद्वान् अश्राद्धिनो द्विजः ।
आददीतामम् एवाऽस्माद्
+++(आपद्य्)+++ अवृत्ताव् एकरात्रिकम् +++(आमम्)+++ ॥ ४.२२३ ॥ [२२४ मेधातिथिपाठे]+++(4)+++

श्रद्धा

224 श्रोत्रियस्य कदर्यस्य ...{Loading}...

श्रोत्रियस्य कदर्यस्य
वदान्यस्य च वार्धुषेः ।
मीमांसित्वोभयं देवाः
समम् अन्नम् अकल्पयन् ॥ ४.२२४ ॥ [२२५ मेधातिथिपाठे]

225 तान् प्रजापतिर् ...{Loading}...

तान् प्रजापतिर् आहैत्य
मा कृध्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य
हतम् अश्रद्धयेतरत् ॥ ४.२२५ ॥ [२२६ मेधातिथिपाठे]


  1. M G 1st ed.: anyeṣām api pātakinā spṛṣṭasya ↩︎

  2. G 2nd ed: taiḥ pātakibhiḥ avekṣitasya niṣedhaḥ ↩︎

  3. M G 1st ed. omit: taiḥ spṛṣṭasya tu pratiṣedhaḥ; G 2nd ed. omits: taiḥ ↩︎

  4. M G: gaṇasaṃghātas ↩︎

  5. The ascription of this passage to Āpastamba is curious. It is from the well-known passage of Baudhāyana on the unique practices of the north and the south. Either Medh has made a mistake here, or the medieval editor for King Madana made a mistake here. ↩︎

  6. This sentence is omitted in Jha’s translation. This abrupt beginning of the commentary is curious; possibly there is a missing passage here that dealt with cikitsaka, prior to the citation of this smṛtyantara. ↩︎

  7. M G 1st ed: veṇuvāditrajīvitaḥ; J: veṇuḥ vāditrajīvitaḥ ↩︎

  8. M G 1st ed. omit: yasya ↩︎

  9. M G: naivaṃ ↩︎

  10. M G 1st ed.: parijanyasya ↩︎

  11. M G 1st ed.: pretānnaṃ kṛtaṃ ↩︎

  12. M G 1st ed.: carmāvakṛttaṃ ↩︎

  13. M G 1st ed.: matyā ↩︎