१९ परवस्तुप्रयोगः

201 परकीयनिपानेषु न ...{Loading}...

परकीयनिपानेषु
न स्नायाद् +धि कदा चन [क्:स्नायाच् च कदा चन] ।
निपानकर्तुः स्नात्वा तु
दुष्कृतांशेन लिप्यते ॥ ४.२०१ ॥ [२०२ मेधातिथिपाठे]

202 यान-शय्यासनान्य् अस्य ...{Loading}...

यान-शय्यासनान्य् अस्य
कूपोद्यान-गृहाणि च ।
अदत्तान्य् उपयुञ्जान
एनसः स्यात् तुरीय-भाक् ॥ ४.२०२ ॥ [२०३ मेधातिथिपाठे]