१८ छद्मव्रतानि

198 न धर्मस्याऽपदेशेन ...{Loading}...

न धर्मस्याऽपदेशेन
पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य
कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ ४.१९८ ॥ [१९९ मेधातिथिपाठे]+++(5)+++

199 प्रेत्येह चेदृशा ...{Loading}...

प्रेत्येह चेदृशा विप्रा
गर्ह्यन्ते ब्रह्मवादिभिः ।
छद्मना चरितं यच् च
व्रतं रक्षांसि गच्छति ॥ ४.१९९ ॥ [२०० मेधातिथिपाठे]

200 अलिङ्गी लिङ्गिवेषेण ...{Loading}...

अलिङ्गी लिङ्गिवेषेण
यो वृत्तिम् उपजीवति ।
स लिङ्गिनां हरत्य् एनस्
तिर्यग्योनौ च जायते ॥ ४.२०० ॥ [२०१ मेधातिथिपाठे]+++(5)+++


  1. M G 1st ed.: arthaḥ svābhāvyāt ↩︎

  2. M G: paraliṅgadhāraṇāt ↩︎