१७ प्रतिग्रहः

186 प्रतिग्रह-समर्थो ऽपि ...{Loading}...

प्रतिग्रह-समर्थो ऽपि
प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्य् अस्याशु
ब्राह्मं तेजः प्रशाम्यति ॥ ४.१८६ ॥

187 न द्रव्याणाम् ...{Loading}...

न द्रव्याणाम् अविज्ञाय
विधिं धर्म्यं प्रतिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्याद्
अवसीदन्न् अपि क्षुधा ॥ ४.१८७ ॥

188 हिरण्यम् भूमिम् ...{Loading}...

हिरण्यं भूमिम् अश्वं गाम्
अन्नं वासस् तिलान् घृतम् ।
प्रतिगृह्णन्न् अविद्वांस् तु
भस्मी-भवति दारुवत् ॥ ४.१८८ ॥

189 हिरण्यम् आयुर् ...{Loading}...

हिरण्यम् आयुर् अन्नं च
भूर् गौश् चाऽप्य् ओषतस्+++(→ओषति = दहति)+++ तनुम् ।
अश्वश् चक्षुस् त्वचं वासो
घृतं तेजस् तिलाः प्रजाः ॥ ४.१८९ ॥

190 अतपास् त्व् ...{Loading}...

अतपास् त्व् अनधीयानः
प्रतिग्रह-रुचिर् द्विजः ।
अम्भस्य् अश्मप्लवेनेव
सह तेनैव मज्जति ॥ ४.१९० ॥+++(5)+++

191 तस्माद् अविद्वान् ...{Loading}...

तस्माद् अविद्वान् बिभियाद्
यस्मात् तस्मात् प्रतिग्रहात् ।
स्वल्पकेनाऽप्य् अविद्वान् हि
पङ्के गौर् इव सीदति ॥ ४.१९१ ॥+++(5)+++

192 न वार्य् ...{Loading}...

न वार्य् अपि प्रयच्छेत् तु
बैडाल-व्रतिके द्विजे ।
न बकव्रतिके पापे
नाऽवेदविदि धर्मवित् ॥ ४.१९२ ॥

193 त्रिष्व् अप्य् ...{Loading}...

+++(वक्ष्यमाणानि तयोर् लक्षणानि।)+++

त्रिष्व् अप्य् एतेषु दत्तं हि
विधिनाप्य् अर्जितं धनम् ।
दातुर् भवत्य् अनर्थाय
परत्रादातुर् एव च ॥ ४.१९३ ॥+++(5)+++

194 यथा प्लवेन+उपलेन ...{Loading}...

यथा प्लवेन+उपलेन
निमज्जत्य् उदके तरन् ।
तथा निमज्जतो ऽधस्ताद्
अज्ञौ दातृ-प्रतीच्छकौ ॥ ४.१९४ ॥+++(5)+++

195 धर्मध्वजी सदा ...{Loading}...

धर्मध्वजी सदा लुब्धश्
छाद्मिको लोकदम्भकः ।
बैडालव्रतिको ज्ञेयो
हिंस्रः सर्वाभिसन्धकः ॥ ४.१९५ ॥+++(5)+++

196 अधो-दृष्टिर् नैष्कृतिकः ...{Loading}...

अधो-दृष्टिर् नैष्कृतिकः
स्वार्थसाधन-तत्परः ।
शठो मिथ्याविनीतश् च
बकव्रतचरो द्विजः ॥ ४.१९६ ॥ [१९७ मेधातिथिपाठे]+++(4)+++

197 ये बकव्रतिनो ...{Loading}...

ये बकव्रतिनो विप्रा
ये च मार्जारलिङ्गिनः ।
ते पतन्त्य् अन्धतामिस्रे
तेन पापेन कर्मणा ॥ ४.१९७ ॥ [१९८ मेधातिथिपाठे]


  1. M G J: avidvān na bibhīyāt ↩︎

  2. M G J: pratigrahamantradravyāṇāṃ (I follow DK 5: 1176) ↩︎

  3. M G J: pratigrahītāraṃ (I follow the suggestion of DK 5: 1176) ↩︎

  4. DK (5: 1176) suggests deleting gamyate and adding tathā ↩︎

  5. M G J: dadānaś (I follow the suggestion of DK 5: 1176) ↩︎

  6. M G 1st ed.: naśyen ↩︎

  7. M G 1st ed.: kāmyayuktam ↩︎

  8. M G 1st ed. omit: kva ↩︎

  9. M G: ekaprakāragatāni ↩︎

  10. M G 1st ed.: śrautārtha- ↩︎

  11. M G: yasya ↩︎

  12. J: baiḍālavratike (but Jha’s translation presupposes the reading “saptamī”) ↩︎

  13. M G 1st ed. omit: yaḥ ↩︎

  14. M G: tasyaiva mukhāj jātam iti ↩︎