१६ बन्धुषु नयः

178 येनाऽस्य पितरो ...{Loading}...

येनाऽस्य पितरो याता
येन याताः पितामहाः ।
तेन यायात् सतां मार्गं
तेन गच्छन् न रिष्यति ॥ ४.१७८ ॥+++(5)+++

179 ऋत्विक्-पुरोहिताचार्यैर् मातुलातिथि-संश्रितैः ...{Loading}...

ऋत्विक्-पुरोहिताचार्यैर्
मातुलातिथि-संश्रितैः ।
बाल-वृद्धातुरैर् वैद्यैर्
ज्ञाति-सम्बन्धि-बान्धवैः ॥ ४.१७९ ॥

180 माता-पितृभ्याञ् जामीभिर् ...{Loading}...

माता-पितृभ्यां जामीभिर्
भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण
विवादं न समाचरेत् ॥ ४.१८० ॥+++(5)+++

181 एतैर् विवादान् ...{Loading}...

एतैर् विवादान् सन्त्यज्य
सर्व-पापैः प्रमुच्यते ।
एतैर् जितैश् च जयति
सर्वाल्ँ लोकान् इमान् गृही ॥ ४.१८१ ॥

182 आचार्यो ब्रह्मलोकेशः ...{Loading}...

आचार्यो ब्रह्मलोकेशः
प्राजापत्ये पिता प्रभुः ।
अतिथिस् त्व् इन्द्रलोकेशो
देवलोकस्य चर्त्विजः ॥ ४.१८२ ॥+++(5)+++

183 जामयो ऽप्सरसाम् ...{Loading}...

जामयो ऽप्सरसां लोके
वैश्वदेवस्य बान्धवाः ।
सम्बन्धिनो ह्य् अपां लोके
पृथिव्यां मातृ-मातुलौ ॥ ४.१८३ ॥

184 आकाशेशास् तु ...{Loading}...

आकाशेशास् तु विज्ञेया
बाल-वृद्ध-कृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा
भार्या पुत्रः स्वका तनुः ॥ ४.१८४ ॥+++(5)+++

185 छाया स्वो ...{Loading}...

छाया स्वो दासवर्गश् च
दुहिता कृपणं परम् ।
तस्माद् एतैर् अधिक्षिप्तः
सहेताऽसञ्ज्वरः सदा ॥ ४.१८५ ॥+++(5)+++


  1. M G: anukampā dayā ↩︎