१५ धर्मप्रशंसा

170 अधार्मिको नरो ...{Loading}...

अधार्मिको नरो यो हि
यस्य चाऽप्य् अनृतं धनम् ।
हिंसा-रतश् च यो नित्यं
नेहाऽसौ सुखम् एधते [मेधातिथिपाठः - हिंसारतिश्] ॥ ४.१७० ॥

171 न सीदन्न् ...{Loading}...

न सीदन्न् अपि धर्मेण
मनो ऽधर्मे निवेशयेत् ।
अधार्मिकानां पापानाम्
आशु पश्यन् विपर्ययम् ॥ ४.१७१ ॥+++(5)+++

172 नाऽधर्मश् चरितो ...{Loading}...

नाऽधर्मश् चरितो लोके
सद्यः फलति गौर् इव ।
शनैर् आवर्त्यमानस् तु
कर्तुर् मूलानि कृन्तति ॥ ४.१७२ ॥+++(5)+++

173 यदि नात्मनि ...{Loading}...

यदि नात्मनि पुत्रेषु
न चेत् पुत्रेषु नप्तृषु ।
न त्व् एव तु कृतो ऽधर्मः
कर्तुर् भवति निष्-फलः [मेधातिथिपाठः - कृतो धर्मः?] ॥ ४.१७३ ॥+++(5)+++

174 अधर्मेणैधते तावत् ...{Loading}...

अधर्मेणैधते तावत्
ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति
स-मूलस् तु विनश्यति ॥ ४.१७४ ॥+++(5)+++

175 सत्य-धर्मार्यवृत्तेषु शौचे ...{Loading}...

सत्य-धर्मार्यवृत्तेषु
शौचे चैवारमेत् सदा ।
शिष्यांश् च +++(सं)+++शिष्याद् धर्मेण
वाग्-बाहूदर-संयतः ॥ ४.१७५ ॥+++(5)+++

176 परित्यजेद् अर्थ-कामौ ...{Loading}...

परित्यजेद् अर्थ-कामौ
यौ स्यातां धर्मवर्जितौ ।
धर्मं चाऽप्य् असुखोदर्कं
लोकसङ्क्रुष्टम् एव च ॥ ४.१७६ ॥+++(5)+++

177 न पाणि-पाद-चपलो ...{Loading}...

न पाणि-पाद-चपलो
न नेत्र-चपलो ऽनृजुः ।
न स्याद् वाक्-चपलश् चैव
न परद्रोहकर्म-धीः ॥ ४.१७७ ॥+++(5)+++


  1. M G J: tu phalataḥ kartavyatāpratiṣiddhaparihāre; I follow DK 5: 616. ↩︎

  2. M G: ca ↩︎

  3. M G: pīḍanam ↩︎

  4. M G: dharmakoyaṃ ↩︎

  5. DK (5: 618) suggests: tīrthasnānaṃ dharmārjanaṃ samakṣāpekṣā ↩︎

  6. M G: nindyate; DK (5: 618) suggests: vidyate ↩︎

  7. DK (5: 618) suggests: prasiddhaṃ mūlam ↩︎