१४ ब्राह्मणहिंसा

165 ब्राह्मणायाऽवगुर्य +एव ...{Loading}...

ब्राह्मणायाऽवगुर्य(=ताडनाभिनयं कृत्वा) +एव
द्विजातिर् वधकाम्यया ।
शतं वर्षाणि तामिस्रे
नरके परिवर्तते ॥ ४.१६५ ॥

166 ताडयित्वा तृणेनाऽपि ...{Loading}...

ताडयित्वा तृणेनाऽपि
संरम्भान् मति-पूर्वकम् ।
एकविंशतीर् आजातीः
पापयोनिषु जायते ॥ ४.१६६ ॥

167 अयुध्यमानस्योत्पाद्य ब्राह्मणस्याऽसृग् ...{Loading}...

अयुध्यमानस्योत्पाद्य
ब्राह्मणस्याऽसृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति
प्रेत्याऽप्राज्ञतया नरः ॥ ४.१६७ ॥(4)

168 शोणितं यावतः ...{Loading}...

शोणितं यावतः पांसून्
सङ्गृह्णाति महीतलात् ।
तावतो ऽब्दान् अमुत्राऽन्यैः
(ब्राह्मण)शोणितोत्पादको ऽद्यते ॥ ४.१६८ ॥

169 न कदा ...{Loading}...

न कदा चिद् द्विजे तस्माद्
विद्वान् अवगुरेद् अपि ।
न ताडयेत् तृणेनाऽपि
न गात्रात् स्रावयेद् असृक् ॥ ४.१६९ ॥


  1. M G 1st ed.: duḥkhabalātipattāv daṇḍādipīḍākarapadārthaḥ; J G 2nd ed.: pīḍākarapadārthaḥ (I follow DK 5: 1174) ↩︎

  2. M G 1st ed. omit: apy ↩︎

  3. G 1st ed. J: atītyarthaḥ ↩︎