१३ सदाचारान्तरम्

162 आचार्यञ् च ...{Loading}...

आचार्यं च प्रवक्तारं
पितरं मातरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गाश् च
सर्वांश् चैव तपस्विनः ॥ ४.१६२ ॥

163 नास्तिक्यं वेदनिन्दाम् ...{Loading}...

नास्तिक्यं वेदनिन्दां च
देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च
क्रोधं तैक्ष्ण्यं च वर्जयेत् [मेधातिथिपाठः - द्वेषं स्तम्भं च] ॥ ४.१६३ ॥+++(5)+++

164 परस्य दण्डम् ...{Loading}...

परस्य दण्डं नोद्यच्छेत्
क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच् छिष्याद् वा
शिष्ट्य्-अर्थं ताडयेत् तु तौ ॥ ४.१६४ ॥+++(4)+++


  1. M G: prayatnenātikrāntaṃ ↩︎

  2. M G omit: ayam ↩︎

  3. M G: -pratiṣedhaś ceti ↩︎

  4. M G omit: kiṃ ↩︎