१२ स्वातन्त्र्यम्

159 यद् यत् ...{Loading}...

यद् यत् परवशं कर्म
तत् तद् यत्नेन वर्जयेत् ।
यद् यद् आत्मवशं तु स्यात्
तत् तत् सेवेत यत्नतः ॥ ४.१५९ ॥+++(5)+++

160 सर्वम् परवशम् ...{Loading}...

सर्वं परवशं दुःखं
सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन
लक्षणं सुख-दुःखयोः ॥ ४.१६० ॥+++(5)+++

161 यत् कर्म ...{Loading}...

यत् कर्म कुर्वतो ऽस्य स्यात्
परितोषो ऽन्तरात्मनः ।
तत् प्रयत्नेन कुर्वीत
विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥+++(5)+++


  1. M G 1st ed. places the phrase yat tv ātmano . . . karma kuryāt after bhṛtyādi svīkriyate; DK (5: 614): svalpo ‘pi taṃ svayam eva kuryāt ↩︎

  2. DK (5: 614) suggests: na tu ↩︎