११ सदाचारस्तुतिः

155 श्रुति-स्मृत्य्-उदितं सम्यङ् ...{Loading}...

श्रुति-स्मृत्य्-उदितं सम्यङ्
निबद्धं स्वेषु कर्मसु ।
धर्ममूलं निषेवेत
सद्-आचारम् अतन्द्रितः ॥ ४.१५५ ॥+++(4)+++

156 आचाराल् लभते ...{Loading}...

आचाराल् लभते ह्य् आयुर्
आचाराद् ईप्सिताः प्रजाः ।
आचाराद् धनम् अक्षय्यम्
आचारो हन्त्य् अलक्षणम् ॥ ४.१५६ ॥+++(5)+++

157 दुर्-आचारो हि ...{Loading}...

दुर्-आचारो हि पुरुषो
लोके भवति निन्दितः ।
दुःखभागी च सततं
व्याधितो ऽल्पायुर् एव च ॥ ४.१५७ ॥

158 सर्वलक्षण-हीनो ऽपि ...{Loading}...

सर्वलक्षण-हीनो ऽपि
यः सदाचारवान् नरः ।
श्रद्दधानो ऽनसूयश् च
शतं वर्षाणि जीवति ॥ ४.१५८ ॥


  1. M G omit: api akṣayyam; DK (5: 613) akṣayam ↩︎

  2. M G: anyalakṣaṇaṃ ↩︎