१० सदाचारः

128 अमावास्याम् अष्टमीम् ...{Loading}...

अमावास्याम् अष्टमीं च
पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम्
अप्य् ऋतौ स्नातको द्विजः ॥ ४.१२८ ॥ (4)

129 न स्नानम् ...{Loading}...

न स्नानम् आचरेद् भुक्त्वा
नातुरो न महानिशि ।
न वासोभिः सहाऽजस्रं
नाऽविज्ञाते जलाशये ॥ ४.१२९ ॥(4)

130 देवतानाङ् गुरो ...{Loading}...

देवतानां गुरो राज्ञः
स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां
बभ्रुणो दीक्षितस्य च ॥ ४.१३० ॥(4)

131 मध्यन्दिने ऽर्धरात्रे ...{Loading}...

मध्यन्दिने ऽर्धरात्रे च
श्राद्धं भुक्त्वा च सामिषम् ।
सन्ध्ययोर् उभयोश् चैव
न सेवेत चतुष्पथम् ॥ ४.१३१ ॥

132 उद्वर्तनम् अपस्नानम् ...{Loading}...

उद्वर्तनम्(=फेनकचूर्णम्) अपस्नानं
विण्-मूत्रे रक्तम् एव च ।
श्लेश्म-निष्ठ्यूत-वान्तानि
नाऽधितिष्ठेत् तु कामतः ॥ ४.१३२ ॥

133 वैरिणन् नोपसेवेत ...{Loading}...

वैरिणं नोपसेवेत
सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च
परस्यैव च योषितं ॥ ४.१३३ ॥

134 न हीदृशम् ...{Loading}...

न हीदृशम् अनायुष्यं
लोके किं चन विद्यते ।
यादृशं पुरुषस्येह
परदारोपसेवनम् ॥ ४.१३४ ॥(5)

135 क्षत्रियञ् चैव ...{Loading}...

क्षत्रियं चैव सर्पं च
ब्राह्मणं च बहु-श्रुतम् ।
नाऽवमन्येत वै भूष्णुः
कृशान् अपि कदा चन ॥ ४.१३५ ॥(5)

136 एतत् त्रयम् ...{Loading}...

एतत् त्रयं हि पुरुषं
निर्दहेद् अवमानितम् ।
तस्माद् एतत् त्रयं नित्यं
नाऽवमन्येत बुद्धिमान् ॥ ४.१३६ ॥

137 नात्मानम् अवमन्येत ...{Loading}...

नात्मानम् अवमन्येत
पुर्वाभिर् असमृद्धिभिः ।
आ मृत्योः श्रियम् अन्विच्छेन्
नैनां मन्येत दुर्-लभाम् ॥ ४.१३७ ॥(5)

138 सत्यम् ब्रूयात् ...{Loading}...

सत्यं ब्रूयात् प्रियं ब्रूयान्
न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नाऽनृतं ब्रूयाद्
एष धर्मः सनातनः ॥ ४.१३८ ॥(5)

139 भद्रम् भद्रम् ...{Loading}...

भद्रं भद्रम् इति ब्रूयाद्
भद्रम् इत्य् एव वा वदेत् ।
शुष्क-वैरं विवादं च
न कुर्यात् केन चित् सह ॥ ४.१३९ ॥(5)

140 नाऽतिकल्यन् नाऽतिसायम् ...{Loading}...

नाऽतिकल्यं(=अतिप्रातः) नाऽतिसायं
नाऽतिमध्यन्दिने स्थिते ।
नाऽज्ञातेन समं गच्छेन्
नैको न वृषलैः सह ॥ ४.१४० ॥(4)

141 हीनाङ्गान् अतिरिक्ताङ्गान् ...{Loading}...

हीनाङ्गान् अतिरिक्ताङ्गान्
विद्या-हीनान् वयो-ऽधिकान् [मेधातिथिपाठः - वयोऽअतिगान्] ।
रूप-द्रविण-हीनांश् च
जाति-हीनांश् च नाक्षिपेत् [मेधातिथिपाठः - रूपद्रव्य-हीनांश् च] ॥ ४.१४१ ॥(5)

142 न स्पृशेत् ...{Loading}...

न स्पृशेत् पाणिनोच्छिष्टो
विप्रो गो-ब्राह्मणानलाण् ।
न चाऽपि पश्येद् अशुचिः
सुस्थो ज्योतिर्गणान् दिवा [मेधातिथिपाठः - स्वस्थो ज्योतिर्गणान् दिवि] ॥ ४.१४२ ॥(5)

143 स्पृष्ट्वैतान् अशुचिर् ...{Loading}...

स्पृष्ट्वैतान् अशुचिर् नित्यम्
अद्भिः प्राणान् (→इन्द्रियाणि) उपस्पृशेत् ।
गात्राणि चैव सर्वाणि
नाभिं पाणितलेन तु ॥ ४.१४३ ॥

144 अनातुरः स्वानि ...{Loading}...

अनातुरः स्वानि खानि(=नेत्रादिगर्तानि)
न स्पृशेद् अनिमित्ततः ।
रोमाणि च रहस्यानि
सर्वाण्य् एव विवर्जयेत् ॥ ४.१४४ ॥(5)

145 मङ्गलाचारयुक्तः स्यात् ...{Loading}...

मङ्गलाचारयुक्तः स्यात्
प्रयतात्मा जितेन्द्रियः ।
जपेच् च जुहुयाच् चैव
नित्यम् अग्निम् अतन्द्रितः ॥ ४.१४५ ॥(4)

146 मङ्गलाचारयुक्तानान् नित्यम् ...{Loading}...

मङ्गलाचारयुक्तानां
नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव
विनिपातो न विद्यते ॥ ४.१४६ ॥

147 वेदम् एवाऽभ्यसेन् ...{Loading}...

वेदम् एवाऽभ्यसेन् नित्यं
यथाकालम् अतन्द्रितः [मेधातिथिपाठः - वेदम् एव जपेन्] ।
तं ह्य् अस्याहुः परं धर्मम्
उपधर्मो ऽन्य उच्यते ॥ ४.१४७ ॥(4)

148 वेदाभ्यासेन सततम् ...{Loading}...

वेदाभ्यासेन सततं
शौचेन तपसैव च ।
अद्रोहेण च भूतानां
जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥(5)

149 पौर्विकीं संस्मरन् ...{Loading}...

पौर्विकीं संस्मरन् जातिं
ब्रह्मैवाऽभ्यस्यते पुनः [मेधातिथिपाठः - द्विजः] ।
ब्रह्माभ्यासेन चाऽजस्रम्
अनन्तं सुखम् अश्नुते ॥ ४.१४९ ॥(5)

150 सावित्राञ् शान्तिहोमांश् ...{Loading}...

सावित्राञ् शान्तिहोमांश् च
कुर्यात् पर्वसु नित्यशः [मेधातिथिपाठः - सावित्रान् शान्तिहोमांश्] ।
पितॄंश् चैवाऽष्टकास्व् अर्चेन्
नित्यम् अन्वष्टकासु च ॥ ४.१५० ॥

151 दूराद् आवसथान् ...{Loading}...

दूराद् आवसथान् मूत्रं
दूरात् पादावसेचनम् ।
उच्छिष्टान्न-निषेकं च
दूराद् एव समाचरेत् ॥ ४.१५१ ॥

152 मैत्रम् प्रसाधनम् ...{Loading}...

मैत्रं(=गुदादि-सम्बद्धं/मित्रसम्बद्धं‌‌) प्रसाधनं स्नानं
दन्तधावनम् अञ्जनम् ।
पूर्वाह्ण एव कुर्वीत
देवतानां च पूजनम् ॥ ४.१५२ ॥

153 दैवतान्य् अभिगच्छेत् ...{Loading}...

दैवतान्य् अभिगच्छेत् तु
धार्मिकांश् च द्विजोत्तमान् ।
ईश्वरं चैव रक्षार्थं
गुरून् एव च पर्वसु ॥ ४.१५३ ॥(4)

154 अभिवादयेद् वृद्धांश् ...{Loading}...

अभिवादयेद् वृद्धांश् च
दद्याच् चैवासनं स्वकम् ।
कृताञ्जलिर् उपासीत
गच्छतः पृष्ठतो ऽन्वियात् ॥ ४.१५४ ॥(4)


  1. M G: prayujyamāne ↩︎

  2. M G: munyukta ↩︎

  3. M G: ‘rdharātrikaḥ ↩︎

  4. M G 1st ed. omit: striyam ↩︎

  5. M G 1st ed. omit: na ↩︎

  6. M G: ajīrṇakārabhojanādi ↩︎

  7. M G omit: na ↩︎

  8. M G: cedṛśam ↩︎

  9. M G 1st ed. omit: nirdahet ↩︎

  10. M G 1st ed.: sarpo ‘dṛṣṭyā ↩︎

  11. M G J: gṛha- (my reading conjectural; see the subhāṣita cited below) ↩︎

  12. M G: gṛhasthitim ↩︎

  13. M G 1st ed.: garbhiṇyā garbhiṇīti ↩︎

  14. M G: ‘gre cāpratiṣedhaḥ ↩︎

  15. M G 1st ed. omit: na ca ↩︎

  16. M G: ekatarasukhaṃ ↩︎