०९ अध्ययनम्

095 श्रावण्याम् प्रौष्ठपद्याम् ...{Loading}...

श्रावण्यां प्रौष्ठपद्यां वाप्य्
उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत
मासान् विप्रो ऽर्धपञ्चमान् ॥ ४.९५ ॥+++(4)+++

096 पुष्ये तु ...{Loading}...

पुष्ये तु छन्दसां कुर्याद्
बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते
पूर्वाह्णे प्रथमे ऽहनि ॥ ४.९६ ॥

097 यथाशास्त्रन् तु ...{Loading}...

यथाशास्त्रं तु कृत्वैवम्
उत्सर्गं छन्दसां बहिः ।
विरमेत् +++(उभय)+++पक्षिणीं रात्रिं
तद् एवैकम् +++(उत्सर्गयुक्तम्)+++ अहर्-निशम् ॥ ४.९७ ॥

098 अत ऊर्ध्वम् ...{Loading}...

अत ऊर्ध्वं तु छन्दांसि
शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि
कृष्णपक्षेषु सम्पठेत् ॥ ४.९८ ॥+++(5)+++

099 नाऽविस्पष्टम् अधीयीत ...{Loading}...

नाऽविस्पष्टम् अधीयीत
न शूद्र-जन-सन्निधौ ।
न निशान्ते परिश्रान्तो
ब्रह्माऽधीत्य पुनः स्वपेत् ॥ ४.९९ ॥

100 यथोदितेन विधिना ...{Loading}...

यथोदितेन विधिना नित्यं
छन्दस्कृतं+++(→पद्यं)+++ पठेत् ।
+++(गद्य)+++ब्रह्म छन्दस्कृतं चैव
द्विजो युक्तो ह्य् अनापदि ॥ ४.१०० ॥

अनध्यायः

101 इमान् नित्यम् ...{Loading}...

इमान् नित्यम् अनध्यायान्
अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः
शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥

102 कर्णश्रवे ऽनिले ...{Loading}...

कर्णश्रवे ऽनिले रात्रौ
दिवा पांसुसमूहने ।
एतौ वर्षास्व् अनध्यायाव्
अध्यायज्ञाः प्रचक्षते ॥ ४.१०२ ॥

103 विद्युत्-स्तनित-वर्षेषु महोल्कानाम् ...{Loading}...

विद्युत्-स्तनित-वर्षेषु +++(युगपत्सु)+++
महोल्कानां च सम्प्लवे ।
आकालिकम् अनध्यायम्
एतेषु मनुर् अब्रवीत् ॥ ४.१०३ ॥

104 एतांस् त्व् ...{Loading}...

एतांस् त्व् अभ्युदितान् विद्याद्
यदा प्रादुष्कृताग्निषु+++(=प्रज्वालिताग्निषु)+++ ।
तदा विद्याद् अनध्यायम्
अनृतौ चाऽभ्रदर्शने ॥ ४.१०४ ॥+++(4)+++

105 निर्घाते भूमिचलने ...{Loading}...

निर्घाते भूमिचलने
ज्योतिषां चोपसर्जने ।
एतान् आकालिकान् विद्याद्
अनध्यायान् ऋताव् अपि ॥ ४.१०५ ॥

106 प्रादुष्कृतेष्व् अग्निषु ...{Loading}...

प्रादुष्कृतेष्व्+++(=प्रज्वालितेषु)+++ अग्निषु तु
विद्युत्-स्तनित-निःस्वने ।
स-+++(अग्नि)+++ज्योतिः स्याद् अनध्यायः
शेषे रात्रौ यथा दिवा ॥ ४.१०६ ॥

107 नित्यानध्याय एव ...{Loading}...

नित्यानध्याय एव स्याद्
ग्रामेषु नगरेषु च ।
धर्मनैपुण्य-कामानां
पूतिगन्धे च सर्वदा [मेधातिथिपाठः - सर्वशः] ॥ ४.१०७ ॥+++(4)+++

108 अन्तर्गत-शवे ग्रामे ...{Loading}...

अन्तर्गत-शवे ग्रामे
वृषलस्य च सन्निधौ ।
अनध्यायो रुद्यमाने
समवाये जनस्य च ॥ ४.१०८ ॥+++(5)+++

श्राद्धनिमित्तम्

109 उदके मध्यरात्रे ...{Loading}...

उदके मध्यरात्रे च
विण्-मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक् चैव
मनसापि न चिन्तयेत् ॥ ४.१०९ ॥+++(4)+++

110 प्रतिगृह्य द्विजो ...{Loading}...

प्रतिगृह्य द्विजो विद्वान्
एकोद्दिष्टस्य केतनम् [मेधातिथिपाठः - एकोद्दिष्ट-निकेतनम्] ।
त्र्यहं न कीर्तयेद् ब्रह्म
राज्ञो राहोश् च सूतके ॥ ४.११० ॥

111 यावद् एकानुदिष्टस्य ...{Loading}...

यावद् एकानुदिष्टस्य
गन्धो लेपश् च तिष्ठति ।
विप्रस्य विदुषो देहे
तावद् ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥

कारणान्तरम्

112 शयानः प्रौढ-पादश् ...{Loading}...

शयानः प्रौढ-पादश् च
कृत्वा चैवाऽवसक्थिकाम् +++(→जानुमेलनम्)+++ ।
नाऽधीयीतामिषं जग्ध्वा
सूतकान्नाद्यम् एव च ॥ ४.११२ ॥

113 नीहारे बाणशब्दे ...{Loading}...

नीहारे बाणशब्दे च
सन्ध्ययोर् एव चोभयोः ।
अमावास्या-चतुर्दश्योः
पौर्णमास्य्-अष्टकासु च ॥ ४.११३ ॥ +++(4)+++

114 अमावास्या गुरुम् ...{Loading}...

अमावास्या गुरुं हन्ति
शिष्यं हन्ति चतुर्दशी ।
ब्रह्माऽष्टक-पौर्णमास्यौ
तस्मात् ताः परिवर्जयेत् ॥ ४.११४ ॥

115 पांसुवर्षे दिशाम् ...{Loading}...

पांसुवर्षे दिशां दाहे
गोमायु-विरुते तथा ।
श्व-खरोष्ट्रे च रुवति
+++(श्वपद)+++पङ्क्तौ च न पठेद् द्विजः ॥ ४.११५ ॥

116 नाऽधीयीत श्मशानान्ते ...{Loading}...

नाऽधीयीत श्मशानान्ते
ग्रामान्ते गोव्रजे ऽपि वा ।
वसित्वा मैथुनं वासः
श्राद्धिकं प्रतिगृह्य च ॥ ४.११६ ॥+++(4)+++

117 प्राणि वा ...{Loading}...

प्राणि वा यदि वाप्राणि
यत् किं चिच् छ्राद्धिकं भवेत् ।
तद् आलभ्याऽप्य् अनध्यायः
पाण्य्-आस्यो हि द्विजः स्मृतः ॥ ४.११७ ॥+++(5)+++

118 चोरैर् उपद्रुते ...{Loading}...

चोरैर् उपद्रुते ग्रामे
सम्भ्रमे चाऽग्निकारिते [मेधातिथिपाठः - चौरैर् उपप्लुते, सम्भ्रमे] ।
आकालिकम् अनध्यायं
विद्यात् सर्वाद्भुतेषु च ॥ ४.११८ ॥

119 उपाकर्मणि चोत्सर्गे ...{Loading}...

उपाकर्मणि चोत्सर्गे
त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्व् अहोरात्रम्
ऋत्वन्तासु च रात्रिषु ॥ ४.११९ ॥+++(4)+++

120 नाऽधीयीताऽश्वम् आरूढो ...{Loading}...

नाऽधीयीताऽश्वम् आरूढो
न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं
नेरिणस्थो न यानगः ॥ ४.१२० ॥+++(5)+++

121 न विवादे ...{Loading}...

न विवादे न कलहे
न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाऽजीर्णे
न वमित्वा न शुक्तके+++(=आम्लोद्गीरणं कण्ठे)+++ ॥ ४.१२१ ॥+++(4)+++

122 अतिथिञ् चाऽननुज्ञाप्य ...{Loading}...

अतिथिं चाऽननुज्ञाप्य
मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच्
छस्त्रेण च परिक्षते ॥ ४.१२२ ॥+++(4)+++

123 सामध्वनाव् ऋग्-यजुषी ...{Loading}...

सामध्वनाव् ऋग्-यजुषी
नाऽधीयीत कदा चन ।
वेदस्याऽधीत्य वाप्य् अन्तम्
आरण्यकम् अधीत्य च ॥ ४.१२३ ॥+++(5)+++

124 ऋग्वेदो देव-दैवत्यो ...{Loading}...

ऋग्वेदो देव-दैवत्यो
यजुर्वेदस् तु मानुषः ।
सामवेदः स्मृतः पित्र्यस्
तस्मात् तस्याऽशुचिर् ध्वनिः ॥ ४.१२४ ॥+++(4)+++

125 एतद् विद्वन्तो ...{Loading}...

एतद् विद्वन्तो विद्वांसस्
त्रयीनिष्कर्षम्+++(→ॐ)+++ अन्वहम् ।
क्रमतः पूर्वम् अभ्यस्य
पश्चाद् वेदम् अधीयते ॥ ४.१२५ ॥

126 पशु-मण्डूक-मार्जार- श्व-सर्प-नकुलाखुभिः ...{Loading}...

पशु-मण्डूक-मार्जार-
श्व-सर्प-नकुलाखुभिः ।
अन्तरागमने विद्याद्
अनध्यायम् अहर्-निशम् ॥ ४.१२६ ॥

127 द्वाव् एव ...{Loading}...

द्वाव् एव वर्जयेन् नित्यम्
अनध्यायौ प्रयत्नतः ।
स्वाध्याय-भूमिं चाऽशुद्धम्
आत्मानं चाऽशुचिं द्विजः ॥ ४.१२७ ॥+++(4)+++


  1. M G omit: kṛtaṃ ↩︎

  2. M G 1st ed. omit: brahma brāhmaṇam, yajurvede brahma ↩︎

  3. M G: gāyatryādiyuktāś ca mantrāḥ ↩︎

  4. M G omit: mantrā ↩︎

  5. M G add: saha ↩︎

  6. M G 1st ed.: tasmān nāpady ↩︎

  7. M G place this phrase after jyotiṣṭomādi ↩︎

  8. M G 1st ed. omit: jyotiḥ ↩︎

  9. M G 1st ed.: api ↩︎

  10. J: -vedhā ↩︎

  11. M G 1st ed.: ācamanārhapratyayamātra- ↩︎

  12. M G 1st ed.: nānyatrādhyāye ↩︎

  13. M G: chrāddhakṛto ↩︎

  14. M G: iriṇaṃ ↩︎

  15. M G 1st ed.: adhyetavyam ↩︎

  16. M G 1st ed.: nānujñāto ↩︎

  17. M G omit: vā ↩︎

  18. M G: vātasya ↩︎

  19. G 2nd ed.: -yajuṣayoḥ ↩︎

  20. M G omit: na ↩︎