०८ सदाचारः

037 नेक्षेतोद्यन्तम् आदित्यम् ...{Loading}...

(व्यसनरूपेण) नेक्षेतोद्यन्तम् आदित्यं
नाऽस्तं यान्तं कदा चन ।
नोपसृष्टं (ग्रहणेन) न वारिस्थं
न मध्यं नभसो गतम् ॥ ४.३७ ॥

038 न लङ्घयेद् ...{Loading}...

न लङ्घयेद् वत्सतन्त्रीं
न प्रधावेच् च वर्षति ।
न चोदके निरीक्षेत
स्वरूपम् इति धारणा ॥ ४.३८ ॥

039 मृदङ् गाम् ...{Loading}...

मृदं गां दैवतं विप्रं
घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत
प्रज्ञातांश् च वनस्पतीन् ॥ ४.३९ ॥(4)

रजस्वलानियमः

040 नोपगच्छेत् प्रमत्तो ...{Loading}...

नोपगच्छेत् प्रमत्तो ऽपि
स्त्रियम् आर्तवदर्शने ।
समानशयने चैव
न शयीत तया सह ॥ ४.४० ॥

041 रजसाभिप्लुतान् नारीम् ...{Loading}...

रजसाभिप्लुतां नारीं
नरस्य ह्य् उपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुर्
आयुश् चैव प्रहीयते ॥ ४.४१ ॥

042 तां विवर्जयतस् ...{Loading}...

तां विवर्जयतस् तस्य
रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुर्
आयुश् चैव प्रवर्धते ॥ ४.४२ ॥

स्त्रीसम्बन्धे नियमः

043 नाऽश्नीयाद् भार्यया ...{Loading}...

नाऽश्नीयाद् भार्यया सार्धं
नैनाम् ईक्षेत चाऽश्नतीम् ।
क्षुवतीं जृम्भमाणां वा
न चासीनां यथासुखम् ॥ ४.४३ ॥

044 नाऽञ्जयन्तीं स्वके ...{Loading}...

नाऽञ्जयन्तीं स्वके नेत्रे
न चाऽभ्यक्ताम् अनावृताम् ।
न पश्येत् प्रसवन्तीं च
तेजस्-कामो द्विजोत्तमः ॥ ४.४४ ॥

अशन-पुरीषयोः

045 नाऽन्नम् अद्याद् ...{Loading}...

नाऽन्नम् अद्याद् एकवासा
न नग्नः स्नानम् आचरेत् ।
न मूत्रं पथि कुर्वीत
न भस्मनि न गोव्रजे ॥ ४.४५ ॥

046 न फालकृष्टे ...{Loading}...

न फालकृष्टे न जले
न चित्यां न च पर्वते ।
न जीर्णदेवायतने
न वल्मीके कदा चन ॥ ४.४६ ॥

047 न स-सत्त्वेषु ...{Loading}...

न स-सत्त्वेषु गर्तेषु
न गच्छन्न् अपि न स्थितः ।
न नदीतीरम् आसाद्य
न च पर्वतमस्तके ॥ ४.४७ ॥

048 वाय्व्-अग्नि-विप्रम् आदित्यम् ...{Loading}...

वाय्व्-अग्नि-विप्रम् आदित्यम्
अपः पश्यंस् तथैव गाः ।
न कदा चन कुर्वीत
विण्-मूत्रस्य विसर्जनम् ॥ ४.४८ ॥

049 तिरस्कृत्योच्चरेत् काष्ठ- ...{Loading}...

(भूमिं) तिरस्कृत्योच्चरेत् (मूत्रेण) काष्ठ-
लोष्ठ-पत्र-तृणादिना [मेधातिथिपाठः - तृणादि च] ।
नियम्य प्रयतो वाचं
संवीताङ्गो ऽवगुण्ठितः ॥ ४.४९ ॥ [५० मेधातिथिपाठे]

050 मूत्रोच्चार-समुत्सर्गन् दिवा ...{Loading}...

मूत्रोच्चार-समुत्सर्गं
दिवा कुर्याद् उदङ्-मुखः ।
दक्षिणाभिमुखो रात्रौ
सन्ध्यायोश् च यथा दिवा ॥ ४.५० ॥ [५१ मेधातिथिपाठे]

051 छायायाम् अन्धकारे ...{Loading}...

छायायाम् अन्धकारे वा
रात्राव् अहनि वा द्विजः ।
यथासुख-मुखः कुर्यात् (दिङ्नियमं विना)
प्राणबाध-भयेषु च ॥ ४.५१ ॥ [५२ मेधातिथिपाठे]

052 प्रत्य्-अग्निम् प्रति-सूर्यम् ...{Loading}...

प्रत्य्-अग्निं प्रति-सूर्यं च
प्रति-सोमोदक-द्विजम् ।
प्रति-गु प्रति-वातं च
प्रज्ञा नश्यति मेहतः [क्:प्रति-गां प्रति-वातं] ॥ ४.५२ ॥ [४९ मेधातिथिपाठे]

सदाचारान्तरम्

053 नाऽग्निम् मुखेनोपधमेन् ...{Loading}...

नाऽग्निं मुखेनोपधमेन्
नग्नां नेक्षेत च स्त्रियम् ।
नाऽमेध्यं प्रक्षिपेद् अग्नौ
न च पादौ प्रतापयेत् ॥ ४.५३ ॥

054 अधस्तान् नोपदध्याच् ...{Loading}...

अधस्तान् नोपदध्याच् च
न चैनम् अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान्
न प्राणबाधम् आचरेत् ॥ ४.५४ ॥(4)

055 नाऽश्नीयात् सन्धिवेलायाम् ...{Loading}...

नाऽश्नीयात् सन्धिवेलायां
न गच्छेन् नाऽपि संविशेत् ।
न चैव प्रलिखेद् भूमिं
नात्मनो ऽपहरेत् स्रजम् ॥ ४.५५ ॥

056 नाऽप्सु मूत्रम् ...{Loading}...

नाऽप्सु मूत्रं पुरीषं वा
ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तम् अन्यद् वा
लोहितं वा विषाणि वा ॥ ४.५६ ॥

057 नैकः सुप्याच् ...{Loading}...

नैकः सुप्याच् छून्यगेहे [शून्यगृहे स्वप्यान्]
न श्रेयांसं (जनं) प्रबोधयेत् ।
नोदक्यया(=रजस्वलया) ऽभिभाषेत
यज्ञं गच्छेन् न चाऽवृतः(=अनाहूतः [खादितुम्]) ॥ ४.५७ ॥

058 अग्न्यगारे गवाम् ...{Loading}...

अग्न्यगारे गवां गोष्ठे
ब्राह्मणानां च सन्निधौ ।
स्वाध्याये भोजने चैव
दक्षिणं पाणिम् उद्धरेत् ॥ ४.५८ ॥

059 न वारयेद् ...{Loading}...

न वारयेद् गां धयन्तीं(=पिबन्तीं)
न चाचक्षीत कस्य चित् ।
न दिवीन्द्रायुधं दृष्ट्वा
कस्य चिद् दर्शयेद् बुधः ॥ ४.५९ ॥ (5)

वासः

060 नाऽधर्मिके वसेद् ...{Loading}...

नाऽधर्मिके वसेद् ग्रामे
न व्याधि-बहुले भृशम् ।
नैकः प्रपद्येताऽध्वानं
न चिरं पर्वते वसेत् ॥ ४.६० ॥(5)

061 न शूद्रराज्ये ...{Loading}...

न शूद्रराज्ये निवसेन्
नाऽधार्मिकजनावृते ।
न पाषण्डि-गणाक्रान्ते
नोपस्षृटे ऽन्त्यजैर् नृभिः ॥ ४.६१ ॥ (5)

सदाचारान्तरम्

062 न भुञ्जीतोद्धृत-स्नेहम् ...{Loading}...

न भुञ्जीतोद्धृत-स्नेहं
नाऽतिसौहित्यम्(=अत्यशनम्) आचरेत् ।
नाऽतिप्रगे नाऽतिसायं
न सायं प्रातर्-आशितः ॥ ४.६२ ॥(5)

063 न कुर्वीत ...{Loading}...

(‘He shall not eat to his fill both in the morning and in the evening.’ It is in view of this that Yājñavalkya (Acāra, 114) has advised light food in the evening.)

न कुर्वीत वृथाचेष्टां
न वार्य् अञ्जलिना पिबेत् ।
नोत्सङ्गे भक्षयेद् भक्ष्यान्
न जातु स्यात् (कु)कुतूहली ॥ ४.६३ ॥(4)

064 न नृत्येद् ...{Loading}...

न नृत्येद् अथ वा गायेन्
न वादित्राणि वादयेत् [मेधातिथिपाठः - न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत्] ।
नास्फोटयेन् (कराभ्यां अङ्गुलीभिर् वा) न च क्ष्वेडेन् (=दन्तान् घर्षयेत्)
न च रक्तो विरावयेत् [मेधातिथिपाठः - न च रक्तो विरोधयेत्] ॥ ४.६४ ॥

065 न पादौ ...{Loading}...

न पादौ धावयेत् कांस्ये
कदा चिद् अपि भाजने ।
न भिन्न(=भग्न)-भाण्डे भुञ्जीत
न भावप्रतिदूषिते ॥ ४.६५ ॥

066 उपानहौ च ...{Loading}...

उपानहौ च वासश् च
धृतम् अन्यैर् न धारयेत् ।
उपवीतम् अलङ्कारं
स्रजं करकम्(=कूपीम्) एव च ॥ ४.६६ ॥

यात्रा

067 नाऽविनीतैर् भजेद् ...{Loading}...

नाऽविनीतैर् भजेद् धुर्यैर्
न च क्षुध्-व्याधि-पीडितैः [मेधातिथिपाठः - नाऽविनीतैर् व्रजेद्] ।
न भिन्न-शृङ्गाक्षि-खुरैर्
न वालधि(=केशवत्पुच्छ)-विरूपितैः ॥ ४.६७ ॥

068 विनीतैस् तु ...{Loading}...

विनीतैस् तु व्रजेन् नित्यम्
आशुगैर् लक्षणान्वितैः ।
वर्ण-रूपोपसम्पन्नैः
प्रतोदेनातुदन् भृशम् [मेधातिथिपाठः - प्रतोदेनाक्षिपन्] ॥ ४.६८ ॥(5)

सदाचारान्तरम्

069 बालातपः प्रेतधूमो ...{Loading}...

बालातपः प्रेतधूमो
वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान् नख-रोमाणि
दन्तैर् नोत्पाटयेन् नखान् [मेधातिथिपाठः - न च्छिन्द्यान्] ॥ ४.६९ ॥(4)

070 न मृल्-लोष्ठम् ...{Loading}...

न मृल्-लोष्ठं च मृद्नीयान्(=चूर्णीकुर्यात्)
न छिन्द्यात् करजैस् तृणम् [मेधातिथिपाठः - च्छिन्द्यात्] ।
न कर्म निष्फलं कुर्यान्
नायत्याम् (वेलायां) असुखोदयम् (अत्यशनादिभिः) ॥ ४.७० ॥(4)

071 लोष्ठमर्दी तृणच्छेदी ...{Loading}...

लोष्ठमर्दी तृणच्छेदी
नखखादी च यो नरः ।
स विनाशं व्रजत्य् आशु
सूचकाशुचिर्(मेधातिथिपाठो वरः) एव च [मेधातिथिपाठः - (दोष)सूचको ऽशुचिर् एव च] ॥ ४.७१ ॥

विनयः

072 न विगर्ह्य ...{Loading}...

न विगर्ह्य कथां कुर्याद्
(वस्त्राद्) बहिर् माल्यं न धारयेत् [मेधातिथिपाठः - न विगृह्य कथां कुर्याद्] ।
गवां च यानं पृष्ठेन (नाम, गोपृष्ठ उपविश्य)
सर्वथैव विगर्हितम् ॥ ४.७२ ॥(5)

073 अद्वारेण च ...{Loading}...

अद्वारेण च नाऽतीयाद्
ग्रामं वा वेश्म वावृतम् (परिधिभिः)
रात्रौ च वृक्षमूलानि
दूरतः परिवर्जयेत् ॥ ४.७३ ॥(4)

074 नाऽक्षैर् दीव्येत् ...{Loading}...

नाऽक्षैर् दीव्येत् कदा चित् तु
स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत
न पाणिस्थं न चासने ॥ ४.७४ ॥(4)

भोजनम्

075 सर्वञ् च ...{Loading}...

सर्वं च तिलसम्बद्धं
नाऽद्याद् अस्तम् इते रवौ ।
न च नग्नः शयीतेह
न चोच्छिष्टः(=अक्षालितमुखः) क्व चिद् व्रजेत् ॥ ४.७५ ॥(4)

076 आर्द्र-पादस् तु ...{Loading}...

आर्द्र-पादस् तु भुञ्जीत
नार्द्र-पादस् तु संविशेत् ।
आर्द्र-पादस् तु भुञ्जानो
दीर्घम् आयुर् अवाप्नुयात् ॥ ४.७६ ॥(4)

प्राणरक्षा

077 अचक्षुर् विषयम् ...{Loading}...

अचक्षुर् विषयं दुर्गं
न प्रपद्येत कर्हि चित् ।
न विण्-मूत्रम् उदीक्षेत
न बाहुभ्यां नदीं तरेत् ॥ ४.७७ ॥

078 अधितिष्ठेन् न ...{Loading}...

अधितिष्ठेन् न केशांस् तु
न भस्मास्थि-(कुम्भ)कपालिकाः ।
न कार्पासास्थि(→कार्पासबीजं) न तुषान्
दीर्घम् आयुर् जिजीविषुः ॥ ४.७८ ॥

नीचसम्बन्धे

079 न संवसेच् ...{Loading}...

न संवसेच् च पतितैर्
न चाण्डालैर् न पुल्कसैः ।
न मूर्खैर् नाऽवलिप्तैश् च
नाऽन्त्यैर्(=म्लेच्छैः) नाऽन्त्यावसायिभिः(=चण्डालनिषादीसुतैः) ॥ ४.७९ ॥

080 न शूद्राय ...{Loading}...

न शूद्राय मतिं दद्यान्
नोच्छिष्टं न हविष्कृतम् ।
न चाऽस्योपदिशेद् धर्मं
न चाऽस्य व्रतम् आदिशेत् ॥ ४.८० ॥(4)

081 यो ह्य् ...{Loading}...

(“This prohibition pertains to being an adviser as a means of livelihood” इति मेधतिथिः। अन्ये ऽन्यथा।)

यो ह्य् अस्य धर्मम् आचष्टे
यश् चैवादिशति व्रतम् ।
सो ऽसंवृतं नाम तमः
सह तेनैव मज्जति ॥ ४.८१ ॥

शिरः

082 न संहताभ्याम् ...{Loading}...

न संहताभ्यां पाणिभ्यां
कण्डूयेद् आत्मनः शिरः ।
न स्पृशेच् चैतद् उच्छिष्टो
न च स्नायाद् विना ततः ॥ ४.८२ ॥

083 केशग्रहान् प्रहारांश् ...{Loading}...

(Only when bathing after doing something unclean (like: touching a chaNDAla). Ordinary bathing, without washing the head, is of course possible; in view of which we have such assertions as—‘having bathed his head, etc., etc.,’)

केशग्रहान् प्रहारांश् च
शिरस्य् एतान् विवर्जयेत् ।
शिरःस्नातश् च तैलेन
नाऽङ्गं किं चिद् अपि स्पृशेत् ॥ ४.८३ ॥(4)

अग्राह्याणि

084 न राज्ञः ...{Loading}...

न राज्ञः प्रतिगृह्णीयाद्
अराजन्य(=अक्षत्रिय)-प्रसूतितः ।(4)
सूना-(तैलोत्पादन)चक्र-(सुराविक्रयण)ध्वजवतां
वेशेनैव (→वेश्यावृत्त्या) च जीवताम् ॥ ४.८४ ॥

085 दशसूना-समञ् चक्रम् ...{Loading}...

दशसूना-समं चक्रं
दशचक्र-समो ध्वजः ।
दशध्वज-समो वेशो
दशवेश-समो नृपः ॥ ४.८५ ॥

086 दश सूनासहस्राणि ...{Loading}...

दश सूनासहस्राणि
यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा
घोरस् तस्य प्रतिग्रहः ॥ ४.८६ ॥(5)

087 यो राज्ञः ...{Loading}...

यो राज्ञः प्रतिगृह्णाति
लुब्धस्योच्छास्त्रवर्तिनः ।
स पर्यायेण यातीमान्
नरकान् एकविंशतिम् ॥ ४.८७ ॥

088 तामिस्रम् अन्धतामिस्रम् ...{Loading}...

तामिस्रम् अन्धतामिस्रं
महारौरव-रौरवौ ।
नरकं कालसूत्रं च
महानरकम् एव च ॥ ४.८८ ॥

089 सञ्जीवनम् महावीचिम् ...{Loading}...

सञ्जीवनं महावीचिं
तपनं सम्प्रतापनम् ।
संहातं च स-काकोलं
कुड्मलं प्रतिमूर्तिकम् [मेधातिथिपाठः - पूतिमृत्तिकम्] ॥ ४.८९ ॥

090 लोहशङ्कुम् ऋजीषम् ...{Loading}...

लोहशङ्कुम् ऋजीषं च
पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव
लोहदारकम् एव च ॥ ४.९० ॥

091 एतद् विदन्तो ...{Loading}...

एतद् विदन्तो विद्वांसो
ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति
प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ ४.९१ ॥

जागृतिः

092 ब्राह्मे मुहूर्ते ...{Loading}...

ब्राह्मे मुहूर्ते बुध्येत
धर्मार्थौ चाऽनुचिन्तयेत् ।
काय-क्लेशांश् च तन्-मूलान्
वेदतत्त्वार्थम् एव च ॥ ४.९२ ॥(5)

093 उत्थायावश्यकङ् कृत्वा ...{Loading}...

उत्थायावश्यकं कृत्वा
कृत-शौचः समाहितः ।
पूर्वां सन्ध्यां जपंस् तिष्ठेत्
स्वकाले चाऽपरां चिरम् ॥ ४.९३ ॥(4)

094 ऋषयो दीर्घसन्ध्यत्वाद् ...{Loading}...

ऋषयो दीर्घसन्ध्यत्वाद्
दीर्घम् आयुर् अवाप्नुयुः ।
प्रज्ञां यशश् च कीर्तिं च
ब्रह्मवर्चसम् एव च ॥ ४.९४ ॥


  1. M G 1st ed.: arcā ↩︎

  2. M G 1st ed.: ghṛtamahācaryān ↩︎

  3. M G: pratiṣedhadvayam ↩︎

  4. M G: gatvocchiṣṭe prati- ↩︎

  5. M G 1st ed.: aśeṣaśabdārtho ↩︎

  6. M G: teṣv asti ↩︎

  7. M G: pūryamāṇāyāṃ ↩︎

  8. M G: cāsīnām ↩︎

  9. M G 1st ed.: -yantīṃ ↩︎

  10. M G 1st ed.: spṛhantīṃ ↩︎

  11. M G 1st ed.: sarvāsu saṃsthānā ↩︎

  12. M G 1st ed.: vekṣaṇīyā ↩︎

  13. M G 1st ed.: anyonyachādakādi; G 2nd ed.: anyoṅgachādakādi ↩︎

  14. M G 1st ed. add: iti ↩︎

  15. M G: pratiṣedhaḥ ↩︎

  16. M G: cāsane ↩︎

  17. M G 1st ed.: bhavati tathāsannaparvatasya ↩︎

  18. M G 1st ed.: vākyacakre; G 2nd ed.: vātyācakre ↩︎

  19. J place this sentence before verse 4.53. ↩︎

  20. M G: -rātribhūto ↩︎

  21. M G: yathāsukhamukham ↩︎

  22. M G: yayā hi prāṅmukhaṃ bhavati ↩︎

  23. M G 1st ed. omit: pādau ↩︎

  24. M G 1st ed.: pādau yena kuryāt ↩︎

  25. M G: rāgādi- ↩︎

  26. M G 1st ed.: -pratirūpakālaḥ; G 2nd ed.: -pratirūpakaḥ ↩︎

  27. M G: nṛpatijanapadaiśvaryaṃ ↩︎

  28. M G: pākhaṇḍijanair ↩︎

  29. M G 1st ed.: ṛtur paryuṣitānāṃ; G 2nd ed. omits kratu- ↩︎

  30. M G omit: ca ↩︎

  31. J: apare ↩︎

  32. M G: na tat ↩︎

  33. M G: prāhve ↩︎

  34. M G: astasamayamaye ↩︎

  35. M G 1st ed.: bhuñjan ↩︎

  36. M G: ayaṃ pratiṣedho na ↩︎

  37. M G 1st ed.: anyo ↩︎

  38. M G 1st ed.: parituṣṭya ↩︎

  39. M G 1st ed.: etadgṛhādau ↩︎

  40. M G add: avinītā adāntāḥ (which is a repetion of the initial phrase) ↩︎

  41. M G 1st ed. omit: yasya ↩︎

  42. M G 1st ed.: prasiddham ↩︎

  43. M G: karṇaśobhādinā ↩︎

  44. J: chinnaṃ ↩︎

  45. M G 1st ed.: -kariṣyatā; G 2nd ed.: -kariṣyat ↩︎

  46. M G add: ca ↩︎

  47. M G 1st ed.: nānayet ↩︎

  48. G 1st ed.: sarpacaurārdair; G 2nd ed.: sarpacaurādair ↩︎

  49. M G 1st ed. omit one nirūpaṇaṃ ↩︎

  50. M G 1st ed.: - prakṣaṇāni bhavanti iti | ↩︎

  51. M G 1st ed.: vṛkabhaye ↩︎

  52. M G 1st ed.: bhagnasya śakalāni ↩︎

  53. M G: tathā ↩︎

  54. M G 1st ed.: anyatvam asaṃgataṃ vā; G 2nd ed.: anyad vāsaṃgataṃ vā ↩︎

  55. M G: yathā ↩︎

  56. M G 1st ed.: vikalpete ↩︎

  57. M G omit: iti ↩︎

  58. M G 1st ed.: na na ↩︎

  59. M G 1st ed.: na cāsti ↩︎

  60. M G: vidhipratiṣedhādhikṛtakramāt ↩︎

  61. M G: vāsyopadiśet ↩︎

  62. M G in place of iha vadanti read idaṃ tu bahuyuktam ↩︎

  63. M G: -sāreṇa na ↩︎

  64. J: anenāgatatvāt ↩︎

  65. M G: ’nyahastena ↩︎

  66. M G: tatra ↩︎

  67. M G: śrutaśīlaṃ ↩︎

  68. M G 1st ed. place the phrase “śrutaśīlaṃ ca vijñāyetyādi after sāmantakādibhyaḥ ↩︎

  69. DK (5: 1174) suggests: nātīva ↩︎

  70. The reading should be avidvān ↩︎

  71. M G: śayanaṃ rātrau ↩︎

  72. M G 1st ed.: puruṣas taṃ kurvīta ↩︎