०७ वेषः

034 न सीदेत् ...{Loading}...

न सीदेत् स्नातको विप्रः
क्षुधा शक्तः कथं चन ।
न जीर्ण-मलवद्-वासा
भवेच् च विभवे सति ॥ ४.३४ ॥

035 कॢप्तकेश-नख-श्मश्रुर् दान्तः ...{Loading}...

कॢप्तकेश-नख-श्मश्रुर्
दान्तः शुक्लाम्बरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान्
नित्यम् आत्महितेषु च ॥ ४.३५ ॥

036 वैणवीन् धारयेद् ...{Loading}...

वैणवीं धारयेद् यष्टिं
सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च
शुभं रौक्मे(=भास्वरे ‌सौवर्णे) च कुण्डले ॥ ४.३६ ॥


  1. M G: neṣyate ↩︎

  2. M G: asya ↩︎

  3. M G: aśucir avasthāne ↩︎

  4. M G 1st ed.: apsu tarpeta ↩︎

  5. M G 1st ed.: saṃniṣedhya ↩︎