०४ यज्ञाः

021 ऋषियज्ञन् देवयज्ञम् ...{Loading}...

ऋषियज्ञं देवयज्ञं
भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च
यथाशक्ति न हापयेत् ॥ ४.२१ ॥+++(5)+++

022 एतान् एके ...{Loading}...

एतान् एके महायज्ञान्
यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततम्
इन्द्रियेष्व् एव जुह्वति ॥ ४.२२ ॥

023 वाच्य् एके ...{Loading}...

वाच्य् एके जुह्वति प्राणं
प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो
यज्ञनिर्वृत्तिम् अक्षयाम् ॥ ४.२३ ॥

024 ज्ञानेनैवाऽपरे विप्रा ...{Loading}...

ज्ञानेनैवाऽपरे विप्रा
यजन्त्य् एतैर् मखैः सदा [मेधातिथिपाठः - यजन्ते तैर् मखैः सदा] ।
ज्ञान-मूलां क्रियाम् एषां
पश्यन्तो ज्ञानचक्षुषा ॥ ४.२४ ॥

025 अग्निहोत्रञ् च ...{Loading}...

अग्निहोत्रं च जुहुयाद्
आद्य्-अन्ते द्यु-निशोः सदा ।
दर्शेन चाऽर्धमासान्ते
पौर्णामासेन चैव हि ॥ ४.२५ ॥

अग्रेष्टिः

026 सस्यान्ते नवसस्येष्ट्या ...{Loading}...

सस्यान्ते नवसस्येष्ट्या
तथार्त्व्-अन्ते द्विजो ऽध्वरैः ।
पशुना त्व् अयनस्यादौ
समान्ते सौमिकैर् मखैः [मेधातिथिपाठः - अयनान्ते तु समान्ते] ॥ ४.२६ ॥

027 नाऽनिष्ट्वा नवसस्येष्ट्या ...{Loading}...

नाऽनिष्ट्वा नवसस्येष्ट्या
पशुना चाऽग्निमान् द्विजः ।
नवान्नम् अद्यान् मांसं वा
दीर्घम् आयुर् जिजीविषुः ॥ ४.२७ ॥+++(5)+++

028 नवेनाऽनर्चिता ह्य् ...{Loading}...

नवेनाऽनर्चिता ह्य् अस्य
पशुहव्येन चाऽग्नयः ।
प्राणान् एवाऽत्तुम् इच्छन्ति
नवान्नामिषगर्धिनः ॥ ४.२८ ॥+++(4)+++


  1. M G: ato ↩︎

  2. M G: karmabhedahetur ↩︎

  3. M G: grāsena ↩︎

  4. M G: na cecchanti ↩︎

  5. M G: tatsaṅgamam ↩︎

  6. M G 1st ed. J: sāyaṃ ↩︎

  7. M G: āśravaṇāt ↩︎

  8. M G 1st ed.: tulyaṃ ↩︎

  9. M G: pratipattibhedād ↩︎

  10. M G: pratipattibhedād ↩︎

  11. M G: rupād vacanam ↩︎

  12. M G 1st ed.: dviśabdo ↩︎

  13. M G add: darśena yajet ↩︎

  14. M G 1st ed.: yady api ↩︎

  15. M G: -śyāmakayor ↩︎

  16. M G 1st ed.: etaṃ; G 2nd ed. omits: sasyaṃ ↩︎