०३ शास्त्रावेक्षणम्

019 बुद्धि-वृद्धि-कराण्य् आशु ...{Loading}...

बुद्धि-वृद्धि-कराण्य् आशु
धन्यानि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत
निगमांश् चैव वैदिकान् ॥ ४.१९ ॥+++(5)+++

020 यथा यथा ...{Loading}...

यथा यथा हि पुरुषः
शास्त्रं समधिगच्छति ।
तथा तथा विजानाति
विज्ञानं चाऽस्य रोचते ॥ ४.२० ॥+++(5)+++


  1. M G: bārhaspatyośanasādīni ↩︎

  2. M G: vaidyakajyotiṣādīni ↩︎

  3. M G 1st ed. omit: ṛco ↩︎