१५ उपसंहारः

284 वसून् वदन्ति ...{Loading}...

वसून् वदन्ति तु पितॄन्
रुद्रांश् चैव पितामहान् ।
प्रपितामहांस् तथादित्यान्
श्रुतिर् एषा सनातनी ॥ ३.२८४ ॥ [२७४ मेधातिथिपाठे]

285 विघसाशी भवेन् ...{Loading}...

विघसाशी भवेन् नित्यं
नित्यं वामृत-भोजनः ।
+++(उत्तरार्धे निर्वचनम्)+++
विघसो भुक्तशेषं तु
यज्ञशेषं तथामृतम् ॥ ३.२८५ ॥ [२७५ मेधातिथिपाठे]

286 एतद् वो ...{Loading}...

एतद् वो ऽभिहितं सर्वं
विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां
विधानं श्रूयताम् इति ॥ ३.२८६ ॥ [२७६ मेधातिथिपाठे]


  1. M G: tristhānāvasthādyā ↩︎

  2. M G add: tu ↩︎

  3. J: bhuktaśeṣaṃ ↩︎

  4. J: pāṭhasāmarthyād ↩︎

  5. M G: anyat tu ↩︎

  6. M G: -nyāsopagate coktaprayojanāni ↩︎