१४ नित्यश्राद्धम्

283 यद् एव ...{Loading}...

यद् एव तर्पयत्य् अद्भिः
पितॄन् स्नात्वा द्विजोत्तमः ।
तेनैव कृत्स्नम् आप्नोति
पितृयज्ञक्रियाफलम् ॥ ३.२८३ ॥ [२७३ मेधातिथिपाठे]