१३ मासिकश्राद्धम्

122 पितृयज्ञन् तु ...{Loading}...

पितृयज्ञं तु निर्वर्त्य
विप्रश् चन्द्रक्षये ऽग्निमान् [क्:चेन्दुक्षये] ।
पिण्डान्वाहार्यकं श्राद्धं
कुर्यान् मासानुमासिकम् ॥ ३.१२२ ॥ [११२ मेधातिथिपाठे]

123 पितॄणाम् मासिकम् ...{Loading}...

पितॄणां मासिकं श्राद्धम्
अन्वाहार्यं विदुर् बुधाः ।
तच् चामिषेणा कर्तव्यं
प्रशस्तेन प्रयत्नतः ॥ ३.१२३ ॥ [११३ मेधातिथिपाठे]

भोक्तारः

124 तत्र ये ...{Loading}...

तत्र ये भोजनीयाः स्युर्
ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चाऽन्नैस्
तान् प्रवक्ष्याम्य् अशेषतः ॥ ३.१२४ ॥ [११४ मेधातिथिपाठे]

125 द्वौ दैवे ...{Loading}...

द्वौ दैवे पितृकार्ये त्रीन्
एकैकम् उभयत्र वा [मेधातिथिपाठः - पितृकृत्ये] ।
भोजयेत् सु-समृद्धो ऽपि
न प्रसज्जेत विस्तरे [मेधातिथिपाठः - न प्रवर्तेत] ॥ ३.१२५ ॥ [११५ मेधातिथिपाठे]

126 सत्क्रियान् देश-कालौ ...{Loading}...

सत्क्रियां देश-कालौ च
शौचं ब्राह्मणसम्पदः ।
पञ्चैतान् विस्तरो हन्ति
तस्मान् नेहेत विस्तरम् ॥ ३.१२६ ॥ [११६ मेधातिथिपाठे]

कालः

127 प्रथिता प्रेतकृत्यैषा ...{Loading}...

प्रथिता प्रेतकृत्यैषा
पित्र्यं नाम विधुक्षये ।
तस्मिन् युक्तस्यैति नित्यं
प्रेतकृत्यैव लौकिकी ॥ ३.१२७ ॥ [११७ मेधातिथिपाठे]

भोक्तारः

128 श्रोत्रियायैव देयानि ...{Loading}...

श्रोत्रियायैव देयानि
हव्य-कव्यानि दातृभिः ।
अर्हत्तमाय विप्राय
तस्मै दत्तं महाफलम् ॥ ३.१२८ ॥ [११८ मेधातिथिपाठे]

129 एकैकम् अपि ...{Loading}...

एकैकम् अपि विद्वांसं
दैवे पित्र्ये च भोजयेत् [मेधातिथिपाठः - भोजयन्] ।
पुष्कलं फलम् आप्नोति
नाऽमन्त्रज्ञान् बहून् अपि ॥ ३.१२९ ॥ [११९ मेधातिथिपाठे]

130 दूराद् एव ...{Loading}...

दूराद् एव परीक्षेत
ब्राह्मणं वेदपारगम् ।
तीर्थं तद् +धव्य-कव्यानां
प्रदाने सो ऽतिथिः स्मृतः ॥ ३.१३० ॥ [१२० मेधातिथिपाठे]

131 सहस्रं हि ...{Loading}...

सहस्रं हि सहस्राणाम्
अनृचां यत्र भुञ्जते ।
एकस् तान् मन्त्रवित् प्रीतः
सर्वान् अर्हति धर्मतः ॥ ३.१३१ ॥ [१२१ मेधातिथिपाठे]

132 ज्ञानोत्कृष्टाय देयानि ...{Loading}...

ज्ञानोत्कृष्टाय देयानि
कव्यानि च हवींषि च ।
न हि हस्ताव् असृग्दिग्धौ
रुधिरेणैव शुध्यतः ॥ ३.१३२ ॥ [१२२ मेधातिथिपाठे]

133 यावतो ग्रसते ...{Loading}...

यावतो ग्रसते ग्रासान्
हव्य-कव्येष्व् अमन्त्रवित् ।
तावतो ग्रसते प्रेतो
दीप्तशूल+र्ष्ट्य्+++(=कुन्त)+++-अयोगुडान् ॥ ३.१३३ ॥ [१२३ मेधातिथिपाठे]

134 ज्ञाननिष्ठा द्विजाः ...{Loading}...

ज्ञाननिष्ठा द्विजाः के चित्
तपोनिष्ठास् तथापरे ।
तपः-स्वाध्यायनिष्ठाश् च
कर्मनिष्ठास् तथापरे ॥ ३.१३४ ॥ [१२४ मेधातिथिपाठे]+++(5)+++

135 ज्ञाननिष्ठेषु कव्यानि ...{Loading}...

ज्ञाननिष्ठेषु कव्यानि
प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं
सर्वेष्व् एव चतुर्ष्व् अपि ॥ ३.१३५ ॥ [१२५ मेधातिथिपाठे] +++(5)+++

136 अश्रोत्रियः पिता ...{Loading}...

अश्रोत्रियः पिता यस्य
पुत्रः स्याद् वेदपारगः ।
अश्रोत्रियो वा पुत्रः स्यात्
पिता स्याद् वेदपारगः ॥ ३.१३६ ॥ [१२६ मेधातिथिपाठे]

137 ज्यायांसम् अनयोर् ...{Loading}...

ज्यायांसम् अनयोर् विद्याद्
यस्य स्याच् छ्रोत्रियः पिता ।
मन्त्रसम्पूजनार्थं तु
सत्कारम् इतरो ऽर्हति ॥ ३.१३७ ॥ [१२७ मेधातिथिपाठे]

138 न श्राद्धे ...{Loading}...

न श्राद्धे भोजयेन् मित्रं
धनैः कार्यो ऽस्य सङ्ग्रहः ।
नारिं न मित्रं यं विद्यात्
तं श्राद्धे भोजयेद् द्विजम् ॥ ३.१३८ ॥ [१२८ मेधातिथिपाठे]

139 यस्य मित्र-प्रधानानि ...{Loading}...

यस्य मित्र-प्रधानानि
श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नाऽस्ति
श्राद्धेषु च हविःषु च ॥ ३.१३९ ॥ [१२९ मेधातिथिपाठे]+++(4)+++

140 यः सङ्गतानि ...{Loading}...

यः सङ्गतानि+++(→स्नेहं)+++ कुरुते
मोहाच् छ्राद्धेन मानवः ।
स स्वर्गाच् च्यवते लोकाच्
छ्राद्ध-मित्रो द्विजाधमः ॥ ३.१४० ॥ [१३० मेधातिथिपाठे]+++(4)+++

141 साभिहिता पैशाची ...{Loading}...

+++(मैत्रिप्रेरितश्राद्धं)+++ सम्भोजानि+++(→प्रीतिभोजानि)+++ साभिहिता
पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके
गौर् अन्धेवैकवेश्मनि ॥ ३.१४१ ॥ [१३१ मेधातिथिपाठे]

142 यथेरिणे बीजम् ...{Loading}...

यथेरिणे बीजम् उप्त्वा
न वप्ता लभते फलम् ।
तथानृचे हविर् दत्त्वा
न दाता लभते फलम् ॥ ३.१४२ ॥ [१३२ मेधातिथिपाठे]

143 दातॄन् प्रतिग्रहीतॄंश् ...{Loading}...

दातॄन् प्रतिग्रहीतॄंश् च
कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्त्वा
विधिवत् प्रेत्य चेह च ॥ ३.१४३ ॥ [१३३ मेधातिथिपाठे]

144 कामं श्राद्धे ...{Loading}...

कामं श्राद्धे ऽर्चयेन् मित्रं
नाऽभिरूपम् अपि त्व् अरिम् ।
द्विषता हि हविर् भुक्तं
भवति प्रेत्य निष्-फलम् ॥ ३.१४४ ॥ [१३४ मेधातिथिपाठे]

145 यत्नेन भोजयेच् ...{Loading}...

यत्नेन भोजयेच् छ्राद्धे
बह्वृचं वेदपारगम् ।
शाखान्तगम् अथाऽध्वर्युं
छन्दोगं तु समाप्तिकम् ॥ ३.१४५ ॥ [१३५ मेधातिथिपाठे]

146 एषाम् अन्यतमो ...{Loading}...

एषाम् अन्यतमो यस्य
भुञ्जीत श्राद्धम् अर्चितः ।
पितॄणां तस्य तृप्तिः स्याच्
छाश्वती साप्तपौरुषी ॥ ३.१४६ ॥ [१३६ मेधातिथिपाठे]

147 एष वै ...{Loading}...

एष वै प्रथमः कल्पः
प्रदाने हव्य-कव्ययोः ।
अनुकल्पस् त्व् अयं ज्ञेयः
सदा सद्भिर् अनुष्ठितः ॥ ३.१४७ ॥ [१३७ मेधातिथिपाठे]

148 मातामहम् मातुलम् ...{Loading}...

मातामहं मातुलं च
स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम्
ऋत्विग् याज्यौ च भोजयेत् ॥ ३.१४८ ॥ [१३८ मेधातिथिपाठे]

149 न ब्राह्मणम् ...{Loading}...

न ब्राह्मणं परीक्षेत
दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते
परीक्षेत प्रयत्नतः ॥ ३.१४९ ॥ [१३९ मेधातिथिपाठे]+++(5)+++

अपाङ्क्त्याः

150 ये स्तेन-पतित-क्लीबा ...{Loading}...

ये स्तेन-पतित-क्लीबा
ये च नास्तिकवृत्तयः ।
तान् हव्य-कव्ययोर् विप्रान्
अनर्हान् मनुर् अब्रवीत् ॥ ३.१५० ॥ [१४० मेधातिथिपाठे]

151 जटिलञ् चाऽनधीयानम् ...{Loading}...

जटिलं चाऽनधीयानं
दुर्बालं कितवं तथा ।
याजयन्ति च ये पूगांस्
तांश् च श्राद्धे न भोजयेत् ॥ ३.१५१ ॥ [१४१ मेधातिथिपाठे]

152 चिकित्सकान् देवलकान् ...{Loading}...

चिकित्सकान् देवलकान्
मांसविक्रयिणस् तथा [मेधातिथिपाठः - चिकित्सका देवलका मांसविक्रयिणस्
तथा] ।
विपणेन च जीवन्तो
वर्ज्याः स्युर् हव्य-कव्ययोः ॥ ३.१५२ ॥ [१४२ मेधातिथिपाठे]+++(4)+++

153 प्रेष्यो ग्रामस्य ...{Loading}...

प्रेष्यो ग्रामस्य राज्ञश् च
कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव
त्यक्ताग्निर् वार्धुषिस् तथा ॥ ३.१५३ ॥ [१४३ मेधातिथिपाठे]

154 यक्ष्मी च ...{Loading}...

यक्ष्मी च पशुपालश् च
परिवेत्ता+++(=अग्रजम् उपेक्ष्य भार्यां वेत्ति यः)+++ निराकृतिः+++(=महायज्ञविहीनः)+++ ।
ब्रह्मद्विट् परिवित्तिश्+++(=यस्यानुजो गृहस्थः स्वापेक्षया)+++ च
गणाभ्यन्तर एव च ॥ ३.१५४ ॥ [१४४ मेधातिथिपाठे]

155 कुशीलवो ऽवकीर्णी ...{Loading}...

कुशीलवो ऽवकीर्णी च
वृषलीपतिर् एव च ।
पौनर्भवश् च काणश् च
यस्य चोपपतिर् गृहे ॥ ३.१५५ ॥ [१४५ मेधातिथिपाठे]

156 भृतकाध्यापको यश् ...{Loading}...

भृतकाध्यापको यश् च
भृतकाध्यापितस् तथा ।
शूद्र-शिष्यो गुरुश् चैव
वाग्दुष्टः कुण्ड+++(=जारज)+++-गोलकौ+++(=व्यभिचारिविध्वासुतः)+++ ॥ ३.१५६ ॥ [१४६ मेधातिथिपाठे]

157 अकारणे परित्यक्ता ...{Loading}...

अकारणे परित्यक्ता
माता-पित्रोर् गुरोस् तथा [क्- अकारणपरित्यक्ता] ।
ब्राह्मैर्+++(=मन्त्रैर्)+++ यौनैश्+++(=योनिसम्बन्धैः)+++ च सम्बन्धैः
संयोगं पतितैर् गतः ॥ ३.१५७ ॥ [१४७ मेधातिथिपाठे]

158 अगारदाही गरकूटकारकः ...{Loading}...

अगारदाही गर+++(ल)+++दः
कुण्डाशी+++(=जारजाशी)+++ सोमविक्रयी ।
समुद्रयायी बन्दी च
तैलिकः +++(न्यायालय)+++कूटकारकः ॥ ३.१५८ ॥ [१४८ मेधातिथिपाठे]

159 पित्रा विवदमानश् ...{Loading}...

पित्रा विवदमानश् च
कितवो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च
दाम्भिको रसविक्रयी ॥ ३.१५९ ॥ [१४९ मेधातिथिपाठे]

160 धनुः-शराणाङ् कर्ता ...{Loading}...

धनुः-शराणां कर्ता च
यश् चाऽग्रेदिधिषूपतिः ।
मित्रध्रुग् द्यूत-वृत्तिश् च
पुत्राचार्यस् तथैव च ॥ ३.१६० ॥ [१५० मेधातिथिपाठे]

161 भ्रामरी गन्डमाली ...{Loading}...

भ्रामरी गन्डमाली च
श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर्
वेदनिन्दक एव च ॥ ३.१६१ ॥ [१५१ मेधातिथिपाठे]

162 हस्ति-गो-ऽश्वोष्ट्रदमको नक्षत्रैर् ...{Loading}...

हस्ति-गो-ऽश्वोष्ट्रदमको
नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च
युद्धाचार्यस् तथैव च ॥ ३.१६२ ॥ [१५२ मेधातिथिपाठे]

163 स्रोतसाम् भेदको ...{Loading}...

+++(कृष्याद्यर्थे)+++ स्रोतसां भेदको यश् च
तेषां चावरणे रतः ।
गृहसंवेशको दूतो
वृक्षारोपक एव च ॥ ३.१६३ ॥ [१५३ मेधातिथिपाठे]

164 श्वक्रीडी श्येनजीवी ...{Loading}...

श्वक्रीडी श्येनजीवी च
कन्यादूषक एव च ।
हिंस्रो वृषल-वृत्तिश् च
गणानां चैव याजकः ॥ ३.१६४ ॥ [१५४ मेधातिथिपाठे]

165 आचार-हीनः क्लीबश् ...{Loading}...

आचार-हीनः क्लीबश् च
नित्यं याचनकस् तथा ।
कृषिजीवी श्लीपदी+++(=पादवल्मीकरोगी)+++ च
सद्भिर् निन्दित एव च ॥ ३.१६५ ॥ [१५५ मेधातिथिपाठे]

166 औरभ्रिकोपूर्वा-पतिस् तथा ...{Loading}...

औरभ्रिको+++(=मेषपालः)+++ माहिषिकः
पर+++(पति)+++पूर्वा-पतिस् तथा ।
प्रेतनिर्यापकश् चैव
वर्जनीयाः प्रयत्नतः ॥ ३.१६६ ॥ [१५६ मेधातिथिपाठे]

167 एतान् विगर्हिताचारान् ...{Loading}...

एतान् विगर्हिताचारान्
अपाङ्क्तेयान् द्विजाधमान् ।
द्विजातिप्रवरो विद्वान्
उभयत्र विवर्जयेत् ॥ ३.१६७ ॥ [१५७ मेधातिथिपाठे]

168 ब्राह्मणो त्व् ...{Loading}...

ब्राह्मणो त्व् अनधीयानस्
तृणाग्निर् इव शाम्यति [मेधातिथिपाठः - ब्राह्मणस् ह्य् अनधीयानस्] ।
तस्मै हव्यं न दातव्यं
न हि भस्मनि हूयते ॥ ३.१६८ ॥ [१५८ मेधातिथिपाठे]+++(5)+++

169 अपाङ्क्तदाने यो ...{Loading}...

अपाङ्क्तदाने यो दातुर्
भवत्य् ऊर्ध्वं फलोदयः [मेधातिथिपाठः - अपङ्क्त्यदाने] ।
दैवे हविषि पित्र्ये वा
तं प्रवक्ष्याम्य् अशेषतः [मेधातिथिपाठः - दैवे कर्मणि] ॥ ३.१६९ ॥ [१५९ मेधातिथिपाठे]

170 अव्रतैर् यद् ...{Loading}...

अव्रतैर् यद् द्विजैर् भुक्तं
परिवेत्र्-आदिभिस् तथा ।
अपाङ्क्तेयैर् यद् अन्यैश् च
तद् वै रक्षांसि भुञ्जते ॥ ३.१७० ॥ [१६० मेधातिथिपाठे]

171 दाराग्निहोत्रसंयोगङ् कुरुते ...{Loading}...

दाराग्निहोत्रसंयोगं
कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः
परिवित्तिस् तु पूर्वजः ॥ ३.१७१ ॥ [१६१ मेधातिथिपाठे]

172 परिवित्तिः परिवेत्ता ...{Loading}...

परिवित्तिः परिवेत्ता
यया च परिविद्यते ।
सर्वे ते नरकं यान्ति
दातृयाजक-पञ्चमाः ॥ ३.१७२ ॥ [१६२ मेधातिथिपाठे]

173 भ्रातुर् मृतस्य ...{Loading}...

भ्रातुर् मृतस्य भार्यायां
यो ऽनुरज्येत कामतः ।
धर्मेणाऽपि नियुक्तायां
स ज्ञेयो दिधिषूपतिः ॥ ३.१७३ ॥ [१६३ मेधातिथिपाठे]

174 परदारेषु जायेते ...{Loading}...

परदारेषु जायेते
द्वौ सुतौ कुण्ड-गोलकौ ।
पत्यौ जीवति कुण्डः स्यान्
मृते भर्तरि गोलकः ॥ ३.१७४ ॥ [१६४ मेधातिथिपाठे]

175 तौ तु ...{Loading}...

तौ तु जातौ परक्षेत्रे
प्राणिनौ प्रेत्य चेह च [मेधातिथिपाठः - ते तु जाताः परक्षेत्रे प्राणिनः] ।
दत्तानि हव्य-कव्यानि
नाशयन्ति प्रदायिनाम् ॥ ३.१७५ ॥ [१६५ मेधातिथिपाठे]

176 अपाङ्क्त्यो यावतः ...{Loading}...

अपाङ्क्त्यो यावतः पङ्क्त्यान्
भुञ्जानान् अनुपश्यति [मेधातिथिपाठः - अ-पङ्क्त्यो यावतः] ।
तावतां न फलं तत्र
दाता प्राप्नोति बालिशः ॥ ३.१७६ ॥ [१६६ मेधातिथिपाठे]

177 वीक्ष्याऽन्धो नवतेः ...{Loading}...

वीक्ष्याऽन्धो नवतेः काणः
षष्टेः श्वित्री शतस्य तु [मेधातिथिपाठः - शतस्य च] ।
पापरोगी सहस्रस्य
दातुर् नाशयते फलम् ॥ ३.१७७ ॥ [१६७ मेधातिथिपाठे]

168 यावतः संस्पृशेद् ...{Loading}...

यावतः संस्पृशेद् अङ्गैर्
ब्राह्मणाञ् शूद्रयाजकः ।
तावतां न भवेद् दातुः
फलं दानस्य पौर्तिकम् ॥ ३.१७८ ॥ [१६८ मेधातिथिपाठे]

179 वेदविच् चाऽपि ...{Loading}...

वेदविच् चाऽपि विप्रो ऽस्य
लोभात् कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रम्
आमपात्रम् इवाऽम्भसि ॥ ३.१७९ ॥ [१६९ मेधातिथिपाठे]

180 सोमविक्रयिणे विष्ठा ...{Loading}...

सोमविक्रयिणे विष्ठा
भिषजे पूय-शोणितम् ।
नष्टं देवलके दत्तम्
अप्रतिष्ठं तु वार्धुषौ ॥ ३.१८० ॥ [१७० मेधातिथिपाठे]

181 यत् तु ...{Loading}...

यत् तु वाणिजके दत्तं
नेह नाऽमुत्र तद् भवेत् ।
भस्मनीव हुतं द्रव्यं
तथा पौनर्भवे द्विजे ॥ ३.१८१ ॥ [१७१ मेधातिथिपाठे]

182 इतरेषु त्व् ...{Loading}...

इतरेषु त्व् अपाङ्क्त्येषु
यथोद्दिष्टेष्व् असाधुषु ।
मेदो-ऽसृङ्-मांस-मज्जास्थि
वदन्त्य् अन्नं मनीषिणः +++(न पितृतर्पकम्)+++ ॥ ३.१८२ ॥ [१७२ मेधातिथिपाठे]

पङ्क्तिपावनाः

183 अपाङ्क्त्योपहता पङ्क्तिः ...{Loading}...

अपाङ्क्त्योपहता पङ्क्तिः
पाव्यते यैर् द्विजोत्तमैः [म्:अ-पङ्क्त्योपहता पङ्क्तिः] ।
तान् निबोधत कार्त्स्न्येन
द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१८३ ॥ [१७३ मेधातिथिपाठे]

184 अग्र्याः सर्वेषु ...{Loading}...

अग्र्याः सर्वेषु वेदेषु
सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव
विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४ ॥ [१७४ मेधातिथिपाठे]

185 त्रिणाचिकेतः पञ्चाग्निस् ...{Loading}...

त्रिणाचिकेतः पञ्चाग्निस्
त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयात्म+++(=ब्राह्मविवाहित)+++-सन्तानो
ज्येष्ठसामग एव च [मेधातिथिपाठः - ब्रह्मदेयानुसन्तानो] ॥ ३.१८५ ॥ [१७५ मेधातिथिपाठे]

‘Triṇāciketa’ is the name of a portion of the Yajurveda, beginning with the words ‘pītodakā jagdhatṛṇā; and the man is called ‘triṇāciketa’ by the circumstance of his having learnt that portion. Others, however, explain that there are certain observances prescribed for those who are learning the Tṛṇāciketa Mantras; and the person who has kept these observances is called ‘Triṇāciketa.’ Here also the term is applied to the man only figuratively.

‘Five fires,’ ‘Pañcāgnividyā,’ is the name of a certain teaching occurring in the Chāndogya Upaniṣad (5.10.9), the reward whereof has been described in the words ‘stenohiraṇyasya, etc.’)+++

‘Trisuparṇa’ is the name of a mantra occurring in the Taittirīya Veda, and also in the Ṛgveda, beginning with the words ‘ye brāhmaṇās trisuparṇam paṭhanti; etc.’

186 वेदार्थ-वित् प्रवक्ता ...{Loading}...

वेदार्थ-वित् प्रवक्ता च
ब्रह्मचारी सहस्रदः ।
शतायुश् चैव विज्ञेया
ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१८६ ॥ [१७६ मेधातिथिपाठे]+++(5)+++

निमन्त्रणम्

187 पूर्वेद्युर् अपरेद्युर् ...{Loading}...

पूर्वेद्युर् अपरेद्युर् वा
श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयेत त्र्य्-अवरान्
सम्यग् विप्रान् यथोदितान् [मेधातिथिपाठः - निमन्त्रयीत] ॥ ३.१८७ ॥ [१७७ मेधातिथिपाठे]

188 निमन्त्रितो द्विजः ...{Loading}...

निमन्त्रितो द्विजः पित्र्ये
नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत
यस्य श्राद्धं च तद् भवेत् ॥ ३.१८८ ॥ [१७८ मेधातिथिपाठे]

189 निमन्त्रितान् हि ...{Loading}...

निमन्त्रितान् हि पितर
उपतिष्ठन्ति तान् द्विजान् ।
वायुवच् चाऽनुगच्छन्ति
तथासीनान् उपासते ॥ ३.१८९ ॥ [१७९ मेधातिथिपाठे]

190 केतितस् तु ...{Loading}...

केतितस् तु यथान्यायं
हव्ये कव्ये द्विजोत्तमः ।
कथं चिद् अप्य् अतिक्रामन्
पापः सूकरतां व्रजेत् ॥ ३.१९० ॥ [१८० मेधातिथिपाठे]

191 आमन्त्रितस् तु ...{Loading}...

आमन्त्रितस् तु यः श्राद्धे
वृशल्या सह मोदते ।
दातुर् यद् दुष्कृतं किं चित्
तत् सर्वं प्रतिपद्यते ॥ ३.१९१ ॥ [१८१ मेधातिथिपाठे]

192 अक्रोधनाः शौच-पराः ...{Loading}...

अक्रोधनाः शौच-पराः
सततं ब्रह्मचारिणः ।
न्यस्त-शस्त्रा महा-भागाः
पितरः पूर्वदेवताः ॥ ३.१९२ ॥ [१८२ मेधातिथिपाठे]

पितृनिर्वचनम्

193 यस्माद् उत्पत्तिर् ...{Loading}...

यस्माद् उत्पत्तिर् एतेषां
सर्वेषाम् अप्य् अशेषतः ।
ये च यैर् उपचर्याः स्युर्
नियमैस् तान् निबोधत ॥ ३.१९३ ॥ [१८३ मेधातिथिपाठे]

194 मनोर् हैरण्यगर्भस्य ...{Loading}...

मनोर् हैरण्यगर्भस्य
ये मरीच्य्-आदयः सुताः ।
तेषाम् ऋषीणां सर्वेषां
पुत्राः पितृगणाः स्मृताः ॥ ३.१९४ ॥ [१८४ मेधातिथिपाठे]

195 विराट्-सुताः सोमसदः ...{Loading}...

विराट्-सुताः सोमसदः
साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश् च देवानां
मारीचा लोकविश्रुताः ॥ ३.१९५ ॥ [१८५ मेधातिथिपाठे]

196 दैत्य-दानव-यक्षाणाङ् गन्धर्वोरग-रक्षसाम् ...{Loading}...

+++(देवेष्व् अकारणं पुतृयाजकेषु किं मानुषकर्तव्ये शङ्का स्याद् इति भावः।)+++

दैत्य-दानव-यक्षाणां
गन्धर्वोरग-रक्षसाम् ।
सुपर्ण-किन्नराणां च
स्मृता बर्हिषदो ऽत्रिजाः ॥ ३.१९६ ॥ [१८६ मेधातिथिपाठे]

197 सोमपा नाम ...{Loading}...

सोमपा नाम विप्राणां
क्षत्रियाणां हविर्भुजः ।
वैश्यानाम् आज्यपा नाम
शूद्राणां तु सुकालिनः ॥ ३.१९७ ॥ [१८७ मेधातिथिपाठे]

198 सोमपास् तु ...{Loading}...

सोमपास् तु कवेः पुत्रा
हविष्मन्तो ऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा
वसिष्ठस्य सुकालिनः ॥ ३.१९८ ॥ [१८८ मेधातिथिपाठे]

199 अग्निदग्धानग्निदग्धान् काव्यान् ...{Loading}...

अग्निदग्धानग्निदग्धान्
काव्यान् बर्हिषदस् तथा [मेधातिथिपाठः - अनग्निदग्धानग्निदग्धान्] ।
अग्निष्वात्तांश् च सौम्यांश् च
विप्राणाम् एव निर्दिशेत् ॥ ३.१९९ ॥ [१८९ मेधातिथिपाठे]

200 य एते ...{Loading}...

य एते तु गणा मुख्याः
पितॄणां परिकीर्तिताः ।
तेषाम् अपीह विज्ञेयं
पुत्र-पौत्रम् अनन्तकम् ॥ ३.२०० ॥ [१९० मेधातिथिपाठे]

201 ऋषिभ्यः पितरो ...{Loading}...

ऋषिभ्यः पितरो जाताः
पितृभ्यो देव-मानवाः ।
देवेभ्यस् तु जगत् सर्वं
चरं स्थाण्व् अनुपूर्वशः ॥ ३.२०१ ॥ [१९१ मेधातिथिपाठे]+++(5)+++

पात्राणि

202 राजतैर् भाजनैर् ...{Loading}...

राजतैर् भाजनैर् एषाम्
अथो वा रजतान्वितैः ।
वार्य् अपि श्रद्धया दत्तम्
अक्षयायोपकल्पते ॥ ३.२०२ ॥ [१९२ मेधातिथिपाठे]

क्रमः

203 दैवकार्याद् द्विजातीनाम् ...{Loading}...

दैवकार्याद् द्विजातीनां
पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य
पूर्वम् आप्यायनं स्मृतम् ॥ ३.२०३ ॥ [१९३ मेधातिथिपाठे]+++(4)+++

204 तेषाम् आरक्षभूतम् ...{Loading}...

तेषाम् आरक्षभूतं तु
पूर्वं दैवं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति
श्राद्धम् आरक्षवर्जितम् ॥ ३.२०४ ॥ [१९४ मेधातिथिपाठे]

205 दैवाद्यन्तन् तद् ...{Loading}...

दैवाद्यन्तं तद् ईहेत
पित्र्-आद्यन्तं न तद् भवेत् ।
पित्र्-आद्यन्तं त्व् ईहमानः
क्षिप्रं नश्यति सान्वयः ॥ ३.२०५ ॥ [१९५ मेधातिथिपाठे]

स्थानम्

206 शुचिन् देशम् ...{Loading}...

शुचिं देशं विविक्तं च
गोमयेनोपलेपयेत् ।
दक्षिणा-प्रवणं चैव
प्रयत्नेनोपपादयेत् ॥ ३.२०६ ॥ [१९६ मेधातिथिपाठे]

207 अवकाशेषु चोक्षेषु ...{Loading}...

अवकाशेषु चोक्षेषु
जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति
दत्तेन पितरः सदा ॥ ३.२०७ ॥ [१९७ मेधातिथिपाठे]

208 आसनेषूपकॢप्तेषु बर्हिष्मत्सु ...{Loading}...

आसनेषूपकॢप्तेषु
बर्हिष्मत्सु पृथक्-पृथक् ।
उपस्पृष्टोदकान् सम्यग्
विप्रांस् तान् उपवेशयेत् ॥ ३.२०८ ॥ [१९८ मेधातिथिपाठे]

209 उपवेश्य तु ...{Loading}...

उपवेश्य तु तान् विप्रान्
आसनेष्व् अजुगुप्सितान् ।
गन्ध-माल्यैः सुरभिभिर्
अर्चयेद् दैवपूर्वकम् ॥ ३.२०९ ॥ [१९९ मेधातिथिपाठे]

विधिः

210 तेषाम् उदकम् ...{Loading}...

तेषाम् उदकम् आनीय
स-पवित्रांस् तिलान् अपि ।
अग्नौ कुर्याद् अनुज्ञातो
ब्राह्मणो ब्राह्मणैः सह ॥ ३.२१० ॥ [२०० मेधातिथिपाठे]

211 अग्नेः सोम-यमाभ्याम् ...{Loading}...

अग्नेः सोम-यमाभ्यां च
कृत्वाप्यायनम् आदितः ।
हविर्दानेन विधिवत्
पश्चात् सन्तर्पयेत् पितॄन् ॥ ३.२११ ॥ [२०१ मेधातिथिपाठे]

212 अग्न्य्-अभावे तु ...{Loading}...

अग्न्य्-अभावे तु विप्रस्य
पाणाव् एवोपपादयेत् ।
यो ह्य् अग्निः स द्विजो विप्रैर्
मन्त्रदर्शिभिर् उच्यते ॥ ३.२१२ ॥ [२०२ मेधातिथिपाठे]

213 अक्रोधनान् सु-प्रसादान् ...{Loading}...

अक्रोधनान् सु-प्रसादान्
वदन्त्य् एतान् पुरातनान् ।
लोकस्याप्यायने युक्तान्
श्राद्ध-देवान् द्विजोत्तमान् [मेधातिथिपाठः - श्राद्धे देवान् द्विजोत्तमान्] ॥ ३.२१३ ॥ [२०३ मेधातिथिपाठे]

214 अपसव्यम् अग्नौ ...{Loading}...

अपसव्यम् अग्नौ कृत्वा
सर्वम् आवृत्य विक्रमम् [मेधातिथिपाठः - आवृत्-परिक्रमम्] ।
अपसव्येन हस्तेन
निर्वपेद् उदकं भुवि ॥ ३.२१४ ॥ [२०४ मेधातिथिपाठे]

215 त्रींस् तु ...{Loading}...

त्रींस् तु तस्माद् +धविःशेषात्
पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना
निर्वपेद् दक्षिणा-मुखः ॥ ३.२१५ ॥ [२०५ मेधातिथिपाठे]

216 न्युप्य पिण्डांस् ...{Loading}...

न्युप्य पिण्डांस् ततस् तांस् तु
प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं
निर्मृज्याल् लेपभागिनाम् ॥ ३.२१६ ॥ [२०६ मेधातिथिपाठे]

217 आचम्योदक्परावृत्य त्रिर् ...{Loading}...

आचम्योदक्परावृत्य
त्रिर् आयम्य शनैर् असून् ।
षड् ऋतूंश् च नमस्कुर्यात्
पितॄन् एव च मन्त्रवत् ॥ ३.२१७ ॥ [२०७ मेधातिथिपाठे]

218 उदकन् निनयेच् ...{Loading}...

उदकं निनयेच् छेषं
शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच् च तान् पिण्डान्
यथान्युप्तान् समाहितः ॥ ३.२१८ ॥ [२०८ मेधातिथिपाठे]

219 पिण्डेभ्यस् त्व् ...{Loading}...

पिण्डेभ्यस् त्व् अल्पिकां मात्रां
समादायाऽनुपूर्वशः [मेधातिथिपाठः - पिण्डेभ्यः स्वल्पिकां] ।
तान् एव विप्रान् आसीनान्
विधिवत् पूर्वम् आशयेत् ॥ ३.२१९ ॥ [२०९ मेधातिथिपाठे]

220 ध्रियमाणे तु ...{Loading}...

ध्रियमाणे तु पितरि
पूर्वेषाम् एव निर्वपेत् ।
विप्रवद् वापि तं श्राद्धे
स्वकं पितरम् आशयेत् [मेधातिथिपाठः - श्राद्धं] ॥ ३.२२० ॥ [२१० मेधातिथिपाठे]

221 पिता यस्य ...{Loading}...

पिता यस्य निवृत्तः स्याज्
जीवेच् चाऽपि पितामहः [मेधातिथिपाठः - पिता यस्य तु वृत्तः स्याज्] ।
पितुः स नाम सङ्कीर्त्य
कीर्तयेत् प्रपितामहम् ॥ ३.२२१ ॥ [२११ मेधातिथिपाठे]

222 पितामहो वा ...{Loading}...

पितामहो वा तच्-छ्राद्धं
भुञ्जीतेत्य् अब्रवीन् मनुः ।
कामं वा समनुज्ञातः
स्वयम् एव समाचरेत् ॥ ३.२२२ ॥ [२१२ मेधातिथिपाठे]

223 तेषान् दत्त्वा ...{Loading}...

तेषां दत्त्वा तु हस्तेषु
स-पवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेत
स्वधैषाम् अस्त्व् इति ब्रुवन् [मेधातिथिपाठः - प्रयच्छेत् तु] ॥ ३.२२३ ॥ [२१३ मेधातिथिपाठे]

224 पाणिभ्यान् तूपसङ्गृह्य ...{Loading}...

पाणिभ्यां तूपसङ्गृह्य
स्वयम् अन्नस्य वर्धितम् [मेधातिथिपाठः - वर्द्धितम्] ।
विप्रान्तिके पितॄन् ध्यायन्
शनकैर् उपनिक्षिपेत् ॥ ३.२२४ ॥ [२१४ मेधातिथिपाठे]

225 उभयोर् हस्तयोर् ...{Loading}...

उभयोर् हस्तयोर् मुक्तं
यद् अन्नम् उपनीयते ।
तद् विप्रलुम्पन्त्य् असुराः
सहसा दुष्ट-चेतसः ॥ ३.२२५ ॥ [२१५ मेधातिथिपाठे]

परिवेषणम्

226 गुणांश् च ...{Loading}...

गुणांश् च सूप-शाकाद्यान्
पयो दधि घृतं मधु ।
विन्यसेत् प्रयतः पूर्वं
भूमाव् एव समाहितः ॥ ३.२२६ ॥ [२१६ मेधातिथिपाठे]

227 भक्ष्यम् भोज्यम् ...{Loading}...

भक्ष्यं भोज्यं च विविधं
मूलानि च फलानि च ।
हृद्यानि चैव मांसानि
पानानि सुरभीणि च ॥ ३.२२७ ॥ [२१७ मेधातिथिपाठे]

228 उपनीय तु ...{Loading}...

उपनीय तु तत् सर्वं
शनकैः सुसमाहितः ।
परिवेषयेत प्रयतो
गुणान् सर्वान् प्रचोदयन् ॥ ३.२२८ ॥ [२१८ मेधातिथिपाठे]

229 नाऽस्रम् आपातयेज् ...{Loading}...

नाऽस्रम् आपातयेज् जातु
न कुप्येन् नाऽनृतं वदेत् ।
न पादेन स्पृशेद् अन्नं
न चैतद् अवधूनयेत् ॥ ३.२२९ ॥ [२१९ मेधातिथिपाठे]

230 अस्रङ् गमयति ...{Loading}...

अस्रं गमयति प्रेतान्
कोपो ऽरीन् अनृतं शुनः ।
पादस्पर्शस् तु रक्षांसि
दुष्कृतीन् अवधूननम् ॥ ३.२३० ॥ [२२० मेधातिथिपाठे]

231 यद् यद् ...{Loading}...

यद् यद् रोचेत विप्रेभ्यस्
तत् तद् दद्याद् अमत्सरः ।
ब्रह्मोद्याश् च कथाः कुर्यात्
पितॄणाम् एतद् ईप्सितम् ॥ ३.२३१ ॥ [२२१ मेधातिथिपाठे]

श्रावणम्

232 स्वाध्यायं श्रावयेत् ...{Loading}...

स्वाध्यायं श्रावयेत् पित्र्ये
धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च
पुराणानि खिलानि च ॥ ३.२३२ ॥ [२२२ मेधातिथिपाठे]

सुखेन भोजनम्

233 हर्षयेद् ब्राह्मणांस् ...{Loading}...

हर्षयेद् ब्राह्मणांस् तुष्टो
भोजयेच् च शनैः-शनैः ।
अन्नाद्येनाऽसकृच् चैतान्
गुणैश् च परिचोदयेत् ॥ ३.२३३ ॥ [२२३ मेधातिथिपाठे]

234 व्रतस्थम् अपि ...{Loading}...

व्रतस्थम् अपि दौहित्रं
श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात्
तिलैश् च विकिरेन् महीम् ॥ ३.२३४ ॥ [२२४ मेधातिथिपाठे]

235 त्रीणि श्राद्धे ...{Loading}...

त्रीणि श्राद्धे पवित्राणि
दौहित्रः कुतपस् तिलाः ।
त्रीणि चाऽत्र प्रशंसन्ति
शौचम् अक्रोधम् अत्वराम् ॥ ३.२३५ ॥ [२२५ मेधातिथिपाठे]

236 अत्युष्णं सर्वम् ...{Loading}...

अत्युष्णं सर्वम् अन्नं स्याद्
भुञ्जीरंस् ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर्
दात्रा पृष्टा हविर्गुणान् ॥ ३.२३६ ॥ [२२६ मेधातिथिपाठे]

237 यावद् उष्मा ...{Loading}...

यावद् उष्मा भवत्य् अन्नं
यावद् अश्नन्ति वाग्यताः ।
पितरस् तावद् अश्नन्ति
यावन् नोक्ता हविर्गुणाः ॥ ३.२३७ ॥ [२२७ मेधातिथिपाठे]

238 यद् वेष्टित-शिरा ...{Loading}...

यद् वेष्टित-शिरा भुङ्क्ते
यद् भुङ्क्ते दक्षिणा-मुखः ।
सोपानत्कश् च यद् भुङ्क्ते
तद् वै रक्षांसि भुञ्जते ॥ ३.२३८ ॥ [२२८ मेधातिथिपाठे]

239 चाण्डालश् च ...{Loading}...

चाण्डालश् च वराहश् च
कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश् च
नेक्षेरन्न् अश्नतो द्विजान् ॥ ३.२३९ ॥ [२२९ मेधातिथिपाठे]

240 होमे प्रदाने ...{Loading}...

होमे प्रदाने भोज्ये च
यद् एभिर् अभिवीक्ष्यते ।
दैवे हविषि पित्र्ये वा
तद् गच्छत्य् अयथातथम् ॥ ३.२४० ॥ [२३० मेधातिथिपाठे]

241 घ्राणेन सूकरो ...{Loading}...

घ्राणेन सूकरो हन्ति
पक्षवातेन कुक्कुटः [मेधातिथिपाठः - शूकरो] ।
श्वा तु दृष्टिनिपातेन
स्पर्शेणाऽवरवर्णजः ॥ ३.२४१ ॥ [२३१ मेधातिथिपाठे]

242 खञ्जो वा ...{Loading}...

खञ्जो वा यदि वा काणो
दातुः प्रेष्यो ऽपि वा भवेत् ।
हीनातिरिक्त-गात्रो वा
तम् अप्य् अपनयेत् पुनः ॥ ३.२४२ ॥ [२३२ मेधातिथिपाठे]

243 ब्राह्मणम् भिक्षुकम् ...{Loading}...

ब्राह्मणं भिक्षुकं वापि
भोजनार्थम् उपस्थितम् ।
ब्राह्मणैर् अभ्यनुज्ञातः
शक्तितः प्रतिपूजयेत् ॥ ३.२४३ ॥ [२३३ मेधातिथिपाठे]

244 सार्ववर्णिकम् अन्नाद्यम् ...{Loading}...

सार्ववर्णिकम्+++(→विविधम्)+++ अन्नाद्यं
सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम्
अग्रतो विकिरन् भुवि ॥ ३.२४४ ॥ [२३४ मेधातिथिपाठे]

245 असंस्कृत-प्रमीतानान् त्यागिनाम् ...{Loading}...

असंस्कृत-प्रमीतानां+++(=मृतानां)+++
त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्
दर्भेषु विकिरश् च यः ॥ ३.२४५ ॥ [२३५ मेधातिथिपाठे]

246 उच्छेषणाम् भूमिगतम् ...{Loading}...

उच्छेषणां भूमिगतम्
अजिह्मस्याऽशठस्य च ।
दासवर्गस्य तत् पित्र्ये
भागधेयं प्रचक्षते ॥ ३.२४६ ॥ [२३६ मेधातिथिपाठे]

247 आ-सपिण्डक्रियाकर्म द्विजातेः ...{Loading}...

आ-सपिण्डक्रियाकर्म
द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच् छ्राद्धं
पिण्डम् एकं च निर्वपेत् ॥ ३.२४७ ॥ [२३७ मेधातिथिपाठे]

248 सहपिण्डक्रियायान् तु ...{Loading}...

सहपिण्डक्रियायां तु
कृतायाम् अस्य धर्मतः ।
अनयैवावृता कार्यं
पिण्डनिर्वपनं सुतैः ॥ ३.२४८ ॥ [२३८ मेधातिथिपाठे]

श्राद्धभुग्-विधिः

249 श्राद्धम् भुक्त्वा ...{Loading}...

श्राद्धं भुक्त्वा य उच्छिष्टं
वृषलाय प्रयच्छति ।
स मूढो नरकं याति
कालसूत्रम् अवाक्शिराः ॥ ३.२४९ ॥ [२३९ मेधातिथिपाठे]

250 श्राद्धभुग् वृषलीतल्पम् ...{Loading}...

श्राद्धभुग् वृषलीतल्पं
तद् अहर् यो ऽधिगच्छति ।
तस्याः पुरीषे तं मासं
पितरस् तस्य शेरते ॥ ३.२५० ॥ [२४० मेधातिथिपाठे]

251 पृष्ट्वा स्वदितम् ...{Loading}...

पृष्ट्वा स्वदितम् इत्य् एवं
तृप्तान् आचामयेत् ततः ।
आचान्तांश् चाऽनुजानीयाद्
अभितो रम्यताम् इति ॥ ३.२५१ ॥ [२४१ मेधातिथिपाठे]

252 स्वधास्त्व् इत्य् ...{Loading}...

स्वधास्त्व् इत्य् एव तं ब्रूयुर्
ब्राह्मणास् तदनन्तरम् ।
स्वधाकारः परा ह्य् आषीः
सर्वेषु पितृकर्मसु ॥ ३.२५२ ॥ [२४२ मेधातिथिपाठे]

253 ततो भुक्तवताम् ...{Loading}...

ततो भुक्तवतां तेषाम्
अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस् तथा कुर्याद्
अनुज्ञातस् ततो द्विजैः ॥ ३.२५३ ॥ [२४३ मेधातिथिपाठे]

254 पित्र्ये स्वदितम् ...{Loading}...

पित्र्ये स्वदितम् इत्य् एव
वाच्यं गोष्ठे तु सुशृतम् ।
सम्पन्नम् इत्य् अभ्युदये
दैवे रुचितम् इत्य् अपि [मेधातिथिपाठः - सम्पन्नम्] ॥ ३.२५४ ॥ [२४४ मेधातिथिपाठे]+++(4)+++

सारः

255 अपराह्णस् तथा ...{Loading}...

अपराह्णस् तथा दर्भा
वास्तुसम्पादनं तिलाः [मेधातिथिपाठः - सम्पादनं] ।
+++(अन्न)+++सृष्टिर् +++(भोजनान्ते)+++ मृष्टिर् द्विजाश् चाऽग्र्याः
श्राद्धकर्मसु सम्पदः ॥ ३.२५५ ॥ [२४५ मेधातिथिपाठे]

256 दर्भाः पवित्रम् ...{Loading}...

दर्भाः पवित्रं पूर्वाह्णो
हविष्याणि च सर्वशः ।
पवित्रं यच् च पूर्वोक्तं
विज्ञेया हव्यसम्पदः ॥ ३.२५६ ॥ [२४६ मेधातिथिपाठे]

257 मुन्य्-अन्नानि पयः ...{Loading}...

मुन्य्-अन्नानि पयः सोमो
मांसं यच् चाऽनुपस्कृतम्+++(=अनिषिद्धम्)+++ ।
अक्षार-लवणं चैव
प्रकृत्या हविर् उच्यते ॥ ३.२५७ ॥ [२४७ मेधातिथिपाठे]

वरयाचनम्

258 विसृज्य ब्राह्मणांस् ...{Loading}...

विसृज्य ब्राह्मणांस् तांस् तु
नियतो वाग्यतः शुचिः [मेधातिथिपाठः - विसर्ज्य ब्राह्मनांस् तांस् तु प्रयतो विधिपूर्वकम्] ।
दक्षिणां दिशम् आकाङ्क्षन्
याचेतेमान् वरान् पितॄन् ॥ ३.२५८ ॥ [२४८ मेधातिथिपाठे]

259 दातारो नो ...{Loading}...

दातारो नो ऽभिवर्धन्तां
वेदाः सन्ततिर् एव च ।
श्रद्धा च नो मा व्यगमद्
बहुदेयं च नो ऽस्त्व् इति ॥ ३.२५९ ॥ [२४९ मेधातिथिपाठे]+++(5)+++

पिण्डनिष्कासनम्

260 एवन् निर्वपणम् ...{Loading}...

एवं निर्वपणं कृत्वा
पिण्डांस् तांस् तदनन्तरम् ।
गां विप्रम् अजम् अग्निं वा
प्राशयेद् अप्सु वा क्षिपेत् ॥ ३.२६० ॥ [२५० मेधातिथिपाठे]+++(4)+++

261 पिण्डनिर्वपणङ् के ...{Loading}...

पिण्डनिर्वपणं के चित्
परस्ताद् एव कुर्वते ।
वयोभिः खादयन्त्य् अन्ये
प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ ३.२६१ ॥ [२५१ मेधातिथिपाठे]

262 पति-व्रता धर्मपत्नी ...{Loading}...

पति-व्रता धर्मपत्नी
पितृपूजन-तत्परा ।
मध्यमं तु ततः पिण्डम्
अद्यात् सम्यक् सुतार्थिनी ॥ ३.२६२ ॥ [२५२ मेधातिथिपाठे]

263 आयुष्मन्तं सुतम् ...{Loading}...

आयुष्मन्तं सुतं सूते
यशो-मेधासमन्वितम् ।
धनवन्तं प्रजावन्तं
सात्त्विकं धार्मिकं तथा ॥ ३.२६३ ॥ [२५३ मेधातिथिपाठे]

बन्धुभोजनम्, वैश्वदेवम्

264 प्रक्षाल्य हस्ताव् ...{Loading}...

प्रक्षाल्य हस्ताव् आचाम्य
ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा
बान्धवान् अपि भोजयेत् [मेधातिथिपाठः - दत्वा] ॥ ३.२६४ ॥ [२५४ मेधातिथिपाठे]

265 उच्छेषणन् तु ...{Loading}...

उच्छेषणं तु तत् तिष्ठेद्
यावद् विप्रा विसर्जिताः [क्:यत् तिष्ठेद्] ।
ततो गृहबलिं कुर्याद्
इति धर्मो व्यवस्थितः ॥ ३.२६५ ॥ [२५५ मेधातिथिपाठे]

उत्तमहवींषि

266 हविर् यच् ...{Loading}...

हविर् यच् चिररात्राय
यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं
तत् प्रवक्ष्याम्य् अशेषतः ॥ ३.२६६ ॥ [२५६ मेधातिथिपाठे]

267 तिलैर् व्रीहि-यवैर् ...{Loading}...

तिलैर् व्रीहि-यवैर् माषैर्
अद्भिर् मूल-फलेन वा ।
दत्तेन मासं तृप्यन्ति
विधिवत् पितरो नृनाम् ॥ ३.२६७ ॥ [२५७ मेधातिथिपाठे]

268 द्वौ मासौ ...{Loading}...

द्वौ मासौ मत्स्यमांसेन
त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाऽथ चतुरः
शाकुनेनाऽथ पञ्च वै ॥ ३.२६८ ॥ [२५८ मेधातिथिपाठे]

269 षण्मासांश् छागमांसेन ...{Loading}...

षण्मासांश् छागमांसेन
पार्षतेन च सप्त वै ।
अष्टाव् एनस्य मांसेन
रौरवेण नवैव तु [मेधातिथिपाठः - ऐणेयमांसेन] ॥ ३.२६९ ॥ [२५९ मेधातिथिपाठे]

270 दशमासांस् तु ...{Loading}...

दशमासांस् तु तृप्यन्ति
वराह-महिषामिषैः ।
शश-कूर्मयोस् तु मांसेन
मासान् एकादशैव तु ॥ ३.२७० ॥ [२६० मेधातिथिपाठे]

271 संवत्सरन् तु ...{Loading}...

संवत्सरं तु गव्येन
पयसा पायसेन च [मेधातिथिपाठः - संवत्सरे] ।
वार्ध्रीणसस्य मांसेन
तृप्तिर् द्वादशवार्षिकी ॥ ३.२७१ ॥ [२६१ मेधातिथिपाठे]

272 कालशाकम् महाशल्काः ...{Loading}...

कालशाकं महाशल्काः
खङ्ग-लोहामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते
मुन्य्-अन्नानि च सर्वशः ॥ ३.२७२ ॥ [२६२ मेधातिथिपाठे]

273 यत् किम् ...{Loading}...

यत् किं चिन् मधुना मिश्रं
प्रदद्यात् तु त्रयोदशीम् ।
तद् अप्य् अक्षयम् एव स्याद्
वर्षासु च मघासु च ॥ ३.२७३ ॥ [२६३ मेधातिथिपाठे]

कालः

274 अपि नः ...{Loading}...

अपि नः स कुले भूयाद्
यो नो दद्यात् त्रयोदशीम् ।
पायसं मधु-सर्पिर्भ्यां
प्राक् छाये कुञ्जरस्य च +++(→ अपराह्णे)+++ ॥ ३.२७४ ॥ [२६४ मेधातिथिपाठे]

275 यद् यद् ...{Loading}...

यद् यद् ददाति विधिवत्
सम्यक् श्रद्धासमन्वितः ।
तत् तत् पितॄणां भवति
परत्राऽनन्तम् अक्षयम् ॥ ३.२७५ ॥ [२६५ मेधातिथिपाठे]

276 कृष्णपक्षे दशम्यादौ ...{Loading}...

कृष्णपक्षे दशम्यादौ
वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो
यथैता न तथेतराः ॥ ३.२७६ ॥ [२६६ मेधातिथिपाठे]

277 युक्षु कुर्वन् ...{Loading}...

युक्षु कुर्वन् दिनर्क्षेषु
सर्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् सर्वान्
प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२७७ ॥ [२६७ मेधातिथिपाठे]

278 यथा चैवाऽपरः ...{Loading}...

यथा चैवाऽपरः पक्षः
पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णाद्
अपराह्णो विशिष्यते ॥ ३.२७८ ॥ [२६८ मेधातिथिपाठे]

279 प्राचीनावीतिना सम्यग् ...{Loading}...

प्राचीनावीतिना सम्यग्
अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं
विधिवद् दर्भ-पाणिना ॥ ३.२७९ ॥ [२६९ मेधातिथिपाठे]

280 रात्रौ श्राद्धम् ...{Loading}...

रात्रौ श्राद्धं न कुर्वीत
राक्षसी कीर्तिता हि सा ।
सन्ध्ययोर् उभयोश् चैव
सूर्ये चैवाऽचिरोदिते ॥ ३.२८० ॥ [२७० मेधातिथिपाठे]

281 अनेन विधिना ...{Loading}...

अनेन विधिना श्राद्धं
त्रिर् अब्दस्येह निर्वपेत् ।
हेमन्त-ग्रीष्म-वर्षासु
पाञ्चयज्ञिकम् अन्वहम् ॥ ३.२८१ ॥ [२७१ मेधातिथिपाठे]

अग्निनियमः

282 न पैतृयज्ञियो ...{Loading}...

न पैतृयज्ञियो होमो
लौकिके ऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धम्
आहिताग्नेर् द्विजन्मनः ॥ ३.२८२ ॥ [२७२ मेधातिथिपाठे]


  1. M G 1st ed. omit: draṣṭavyam ↩︎

  2. G 1st ed.: tādvad ↩︎

  3. G 1st ed. adds: atrāha | mā bhūd dvayor eko ‘pi tāvanto bhojanīyāḥ | ↩︎

  4. M G 1st ed. add: vidhukṣaye tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī na yathā daivāni karmāṇi | ↩︎

  5. M G: vidhukṣaye ↩︎

  6. M G: ca ↩︎

  7. M G: aśrotriyāya ↩︎

  8. M G: bhojayet ↩︎

  9. M G 1st ed.: pāragaḥ samāptigaḥ vedaparagaḥ ↩︎

  10. M G: yathātithir ↩︎

  11. M G: ṛco yato ↩︎

  12. M G 1st ed. omit: ātmasāt karoti ↩︎

  13. M G: utkṛṣṭā adhikāḥ tebhyo ↩︎

  14. M G 1st ed. add: tair yad arthaṃ śrāddham ārabdhaṃ saṃdīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | ↩︎

  15. M G 1st ed. omit: hastau; G 2nd ed.: hastau rudhiradigdhau ↩︎

  16. M G add: pāṭhāntaraṃ pretyeti bhoktur eva pretyatā | nāviduṣā daivapitryayor bhoktavyam | J puts this at end of commentary on 2.123. ↩︎

  17. M G: āyudhaviśeṣe ↩︎

  18. M G: ayolaguḍaḥ ↩︎

  19. M G 1st ed. omit: yadarthaṃ śrāddam ārabdhaṃ sa dīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | G 2nd ed. places it after doṣo na bhoktuḥ. ↩︎

  20. M G 1st ed. omit: na ↩︎

  21. M G add: syāt ↩︎

  22. M G place this at the end of the previous verse. ↩︎

  23. M G: tasmin niṣṭhas ↩︎

  24. M G 1st ed.: tatra ↩︎

  25. M G 1st ed.: prakarṣo ‘sty eva guṇāḥ ↩︎

  26. M G 1st ed.: tena ↩︎

  27. M G 1st ed.: jñānaniṣṭhaparivrājako; G 2nd ed.: jñānaniṣṭhāparivrājako ↩︎

  28. M G: ca nāśramiṇo ↩︎

  29. M G 1st ed. add: api ↩︎

  30. M G 1st ed.: kevalayor brāhmaṇayor bhojanaṃ ↩︎

  31. M G 1st ed.: prāyeṇa ↩︎

  32. M G 1st ed.: śrāddhakṛcchratāyā ↩︎

  33. M G: niyatasaṃjñam ↩︎

  34. M G 1st ed.: prāyeṇāpi ↩︎

  35. M G 1st ed.: āpyāpi ↩︎

  36. M G: mitrabhāvād ↩︎

  37. M G: maitryādisahabhojanaṃ ↩︎

  38. M G 1st ed.: na karṣako ↩︎

  39. J: dharmeṣv ↩︎

  40. M G: kṛtsnaśākhā tatrādhyāyī ↩︎

  41. M G: -brāhmaṇādānāt ↩︎

  42. M G 1st ed. omit: pañca- ↩︎

  43. M G 1st ed.: atithim ↩︎

  44. M G 1st ed.: agre ↩︎

  45. M G 1st ed. add: kāṇādivarjanārtham ↩︎

  46. M G: vṛttidvaya- ↩︎

  47. M G: manupratiṣedhā- ↩︎

  48. M G 1st ed.: anadhītavedaś cet agṛhītavedaś cet ↩︎

  49. M G omit: api dauhitram ↩︎

  50. M G add: tatra ↩︎

  51. M G: vikeśendriyo ↩︎

  52. M G: ca hi ↩︎

  53. M G: dūrvā ↩︎

  54. M G: tāvanmātreṇāpi dadhāti ↩︎

  55. M G 1st ed omit: pratiṣiddhāḥ paṇā; G 2nd ed.: te in place of pratiṣiddhāḥ paṇā ↩︎

  56. M G 1st ed.: tatas tasyehāprāptir ↩︎

  57. M G 1st ed.: kenāpi ↩︎

  58. M G: rūpasaṃpannamanoharāvayavasaṃniveśavayaḥsaṃpannaḥ | ↩︎

  59. M G 1st ed.: apratyakṣanyāyaṃ ↩︎

  60. M G: punarūḍhāṃ ↩︎

  61. M G: cārthavāde ↩︎

  62. M G: hy utpannabuddhiḥ ↩︎

  63. M G 1st ed.: śapathena vihitaṃ sukṛtaiḥ sādhitān svair iti, for: sukṛtaṃ sukṛtaiḥ sādhitaṃ dharmam ↩︎

  64. G 2nd ed.: saṃbādhakatvaṃ ↩︎

  65. M G 1st ed.: apratirodhaḥ ↩︎

  66. M G 1st ed.: vadati ↩︎

  67. M G: upāṃśubhedī rasadaḥ satrī ↩︎

  68. M G 1st ed. add: dyūtajñaḥ ↩︎

  69. M G omit: dyūtaṃ ↩︎

  70. M G 1st ed.: anṛtastrīka; G 2nd ed.: anṛtaśrīka ↩︎

  71. M G: dhātuḥsaṃkṣobheṇa ↩︎

  72. M G: damanakaḥ ↩︎

  73. M G: evāvaraṇe ↩︎

  74. M G: prāgukta ↩︎

  75. The Pāṇinian sūtra reads: nandigrahipacādibhyo lyuṇinyatraḥ | ↩︎

  76. M G 1st ed.: yad dattaṃ ↩︎

  77. M G: ca paṅktāv api gṛhyete ↩︎

  78. M G 1st ed.: praṣṭavyaḥ ↩︎

  79. It is difficult to identify the passage precisely, but see VaDh 6.11; 8.3; 12.27 etc. ↩︎

  80. M G: niṣedhaparivarjane varjitaḥ ↩︎

  81. M G 1st ed.: parivettā ↩︎

  82. M G: tādṛśyayā ↩︎

  83. M G: nāpūrvakāriṇām ↩︎

  84. M G 1st ed.: hy upohyate ↩︎

  85. M G J: paṅktiṃ gataḥ ↩︎

  86. M G: yasminn ↩︎

  87. M G: apāṅkteṣu ↩︎

  88. M G 1st ed.: na ced ↩︎

  89. M G place tāni after aṅgāni ↩︎

  90. M G 1st ed.: nedānīṃ ↩︎

  91. M G 1st ed. omit the section sati śrotiyatve . . . vyaktyapekṣam, and instead give the following: sati śrotriyatvād viguṇayoge adhiko ‘yaṃ guṇo draṣṭavyaḥ paṅktipāvanahetutayā na bahuvacanaṃ vyaktyapekṣam | ↩︎

  92. G 1st ed. in place of triṇāciketākhyo . . . sa triṇāciketaḥ, reads: triṇāciketaṃ yajurvekaikadeśaḥ tad vrataṃ ca | tadvratācaraṇena tadadhyāyī triṇāciketaḥ | ↩︎

  93. G: prājñayā ↩︎

  94. G 1st ed.: pārapakva- ↩︎

  95. G adds: yo ‘sau ↩︎

  96. M: parirakṣan; G: parirakṣeta ↩︎

  97. M G 1st ed.: nādhīyīta ↩︎

  98. M G: vāyavo ’nugacchanti ↩︎

  99. M G 1st ed.: vāyupramāṇaḥ puruṣo gacchaty anugacchati ↩︎

  100. M G 1st ed.: tatra satyāṃ ↩︎

  101. G: yat ↩︎

  102. M G omit: te ca ↩︎

  103. M G 1st ed. add: pūrvaṃ ↩︎

  104. M: kalpāntare te ‘py ete; G 1st ed.: kalpāntareṇa te ‘py ete ↩︎

  105. M G: sarvasyātmīyapitaraḥ ↩︎

  106. M G: coditaḥ ↩︎

  107. M G: vasiṣṭha- ↩︎

  108. M G: vidheyatve ↩︎

  109. M G: yathāvarṇaśrāddhe ↩︎

  110. M G: tāvakatve ↩︎

  111. M G: yena na ↩︎

  112. M G add: prathitaprabhāvāḥ | ṛṣayaś ca ↩︎

  113. M: gotranirdeśo; G 1st ed.: gotranirdeśa ↩︎

  114. M G add: putrikānuliṅgā iti ↩︎

  115. M G: prasajyate ↩︎

  116. MG add: gotrasya ↩︎

  117. M G: -nāmakās teṣām ↩︎

  118. M G add: ca ↩︎

  119. M G omit: ca na ↩︎

  120. M G add: na ↩︎

  121. M G: kṛtakaraṇīyatayā ↩︎

  122. G 1st ed: etan nityaṃ ↩︎

  123. M G 1st ed.- devatāṃs tv ↩︎

  124. G 2nd ed. omits uktārthaḥ . . . indrādayaḥ ↩︎

  125. M G: caivaṃ ↩︎

  126. M G: vā niyamavacanād ↩︎

  127. M G 1st ed.: sauvarṇena ↩︎

  128. M G: vādaḥ ↩︎

  129. M G add this passage: harṣayed brāhmaṇān iti | tathā kaścin madhurarasapriyo ‘paro kṣārarasapriyas tatra bhakṣyaṃ bhojyaṃ ca vividhaṃ pānāni surabhīṇi ceti bahuṣu pānakeṣu satsu yady anyānurodhena bhavatu ↩︎

  130. M G omit: rakṣārtham iva ↩︎

  131. M G: nimantrayeta ↩︎

  132. M G: daivopakramaṃ viśeṣeṇa ↩︎

  133. M G 1st ed.: tāvatprāvṛttikenaiva; G 2nd ed.: tatprāvṛttikenaiva ↩︎

  134. M G1st ed. add: padārthadharmaḥ ↩︎

  135. M: tasmād upakramaḥ samāno devādiḥ; G: devādinā ↩︎

  136. M G: śrāddhe nityatuṣṭāḥ ↩︎

  137. M G: sahapavitrāṃs ↩︎

  138. M G: tena hi te prārthitā ↩︎

  139. G 1st ed. omits: tatra ↩︎

  140. G: bhāryāyā ↩︎

  141. M G 1st ed. omit: na ↩︎

  142. M G 1st ed.: anadhikārā ucyante ↩︎

  143. M G: copanayād ↩︎

  144. M G 1st ed.: bhāryāvivāhe ↩︎

  145. M G: tadā ↩︎

  146. M G omit: na ↩︎

  147. M G: dharmāt ↩︎

  148. M G: tataś ca ↩︎

  149. M G: ced ↩︎

  150. M G 1st ed.: vedaṃ ↩︎

  151. M G: purātanamunaya ↩︎

  152. M G: tataḥ ↩︎

  153. M G: carusādhanīya ↩︎

  154. M G 1st ed.: -dakasya vā ↩︎

  155. M G: kriyate ↩︎

  156. G 1st ed: uṣmā ca saṃkrāmati; G 2nd ed.: uṣmā vā saṃkrāmati; M omits: saṃkrāmati ↩︎

  157. M G: prakṛtavacanair evāpūrvam ↩︎

  158. M G omit: namas te bhrātaḥ ↩︎

  159. M G: brāhmaṇa ↩︎

  160. M G: bhojyet ↩︎

  161. M G 1st ed: pitṛbhyo hitam ↩︎

  162. J: piṇḍe ujjanādi ↩︎

  163. M G: dṛṣṭārtham ↩︎

  164. M G: anujñātvāpi mātāmaham prārthya ↩︎

  165. M G: eṣv akāmaṃ ↩︎

  166. M G add: vaser arthasyeti ↩︎

  167. M G: eṣām etat ↩︎

  168. M: ghṛtapūpādi; G: ghṛtapūpādiḥ ↩︎

  169. M G: saramādūtyam ↩︎

  170. M G: brahmodyaṃ ↩︎

  171. M G: pariyuktena ↩︎

  172. M G: grāsā grahītavyā hy etat ↩︎

  173. M G omit: mahīm ↩︎

  174. M GL ucchiṣṭadānatvāt ↩︎

  175. M G 1st ed.: api bhayādināpi; G 2nd ed.: abhinayādir api ↩︎

  176. M G: yat ↩︎

  177. M G omit: sūtrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke ↩︎

  178. M G add: prākpitrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke (*see previous note) ↩︎

  179. M G: carmamayyau ↩︎

  180. M G: kriyamāṇamātraṃ ↩︎

  181. M G: vyākhyānam ↩︎

  182. M G: jaḍaprakṛtitvāt ↩︎

  183. M G 1st ed.: vyavakṣitatvarūpā ↩︎

  184. M G: ‘vadyam ↩︎

  185. M G: sparśe ↩︎

  186. M omits the commentary on this verse ↩︎

  187. M G 1st ed. omit: bhāga eva ↩︎

  188. G 1st ed. J: -ocyete ↩︎

  189. M G: svatantrāḥ, and add: anye ↩︎

  190. M G 1st ed. omit: tat ↩︎

  191. M G add: na ↩︎

  192. M G: āvāhayet ↩︎

  193. M G 1st ed. omit: na nirdiśet ↩︎

  194. M G: vidvān ↩︎

  195. M G 1st ed.: sahavacanagṛhītaṃ ↩︎

  196. M G 1st ed.: saṃmīlitās ↩︎

  197. M G: virudhyeta ↩︎

  198. M G 1st ed.: ‘yataḥ ↩︎

  199. M G: iti kecit ↩︎

  200. M G 1st ed.: amāvāsyāyās tatprāptau māsikaśabdaśravaṇāt; G 2nd ed: amāvāsyāyā utpattau māsikaśabdaśravaṇāt ↩︎

  201. M G 1st ed. omit: na hi ↩︎

  202. M G: tasmān na māsikam eva śrāddhaṃ tasmān na māsikaśabdasyaikoddiṣṭaviśeṣaviṣyatāyāṃ ↩︎

  203. M G omit: sa ↩︎

  204. G 2nd ed. omits: ta ucyante | yaś ca nikṣipyate . . . ity evam eva ↩︎

  205. M G: viniyogaś ca saṃsarjanaṃ na ↩︎

  206. M G: tasmān na mantrāt pūrvapratipattiḥ ↩︎

  207. M G: caturthaḥ śabdaḥ ↩︎

  208. M G: āvāhayet ↩︎

  209. M G 1st ed.: yathāyaṃ; G 2nd ed: yo ‘yaṃ ↩︎

  210. M G: vācyaṃ ↩︎

  211. M G: nirūpya ↩︎

  212. M G 1st ed.: tatra ↩︎

  213. M G: samuccayārtho yaś cakāraḥ ↩︎

  214. M G 1st ed.: ca ↩︎

  215. M G 1st ed.: yadyanaṃtāni ↩︎

  216. G 1st ed: kim ayāmāvāsyāyāṃ’ G 2nd ed: kinayāmāvāsyāyāṃ ↩︎

  217. M G omit: atra ↩︎

  218. M G: vṛṣasyantī ↩︎

  219. M G: prakarṇārthaś ↩︎

  220. M G: yady ↩︎

  221. M G: yantraṇayātraṃ ↩︎

  222. M G omit: tu ↩︎

  223. G 1st ed: tṛptānām ↩︎

  224. M omits: tṛptān . . . praṣṭavyāḥ ↩︎

  225. M G: abhibho ↩︎

  226. M G omit: anujñātaḥ ato ↩︎

  227. M G: -pravṛttaiḥ ↩︎

  228. G: pariśiṣṭyaivaṃ ↩︎

  229. G: khāditam ↩︎

  230. G: svadita ↩︎

  231. M omits: ataś ca śrāddhakṛtā . . . prīṇayitavyāḥ ↩︎

  232. M: suśritam; G: śrutam ↩︎

  233. M G 1st ed.: saṃpādayitavyāḥ anyāni ↩︎

  234. M G 1st ed: ataḥ ↩︎

  235. M G: dakṣiṇā- ↩︎

  236. M G omit: haviṣyāṇi pūrva- ↩︎

  237. M G: yac coktaṃ pūrvoktaṃ vā ↩︎

  238. M G: arhaḥ ↩︎

  239. M G: kiṃ dvandvagarbhe ↩︎

  240. M G: anāśritaviśeṣeṇa tad dhavir jñēyam ↩︎

  241. M G: purastāt ↩︎

  242. M G omit: kecit ↩︎

  243. M G: evānuditam ↩︎

  244. M G: purastāt ↩︎

  245. M: pitṛbhaktiḥ; G 1st ed.: patikavratā ↩︎

  246. M G 1st ed.: ukte ‘dṛṣṭebhya ↩︎

  247. M G: tatra ↩︎

  248. M G: bhūtasya yajña ↩︎

  249. M G 1st ed.: yac cānantyāya kenacid vacanaṃ naivaitad ubhayaṃ; G 2nd ed.: yac cānantyāya kalpate | dīrghakālatṛptaye jāyate kenacid vacanaṃ naivaitad ubhayaṃ ↩︎

  250. M G 1st ed.: vividhadattair ↩︎

  251. M G add: yathā ↩︎

  252. M G: trayodṛśy- ↩︎

  253. M G: -navamyas ↩︎

  254. M G 1st ed.: nyūne bhukte bhavanti vaktāto nāsmābhir atyabhuktam iti; G 2nd ed.: nyūne bhukte ‘bhukte iti bhavanti vaktāto nāsmābhir atyabhuktam iti ↩︎

  255. J: tv ayuktam (but Jha’s translation appears to presuppose yuktam) ↩︎

  256. M G: yal laukiko ↩︎

  257. M G: homasya ↩︎

  258. M G: (omits na) darśapaurṇamāsayor anadhikāraḥ ↩︎

  259. M G: asty eva evam ↩︎

  260. M G: anāhitāgner nitye ↩︎

  261. M G: āhitāgneḥ ↩︎

  262. M G: ata āhitāgninā ↩︎