११ भोजनक्रमः

113 इतरान् अपि ...{Loading}...

इतरान् अपि सख्य्-आदीन्
सम्प्रीत्या गृहम् आगतान् ।
प्रकृत्याऽन्नं यथाशक्ति
भोजयेत् सह भार्यया ॥ ३.११३ ॥ [१०३ मेधातिथिपाठे]

114 सुवासिनीः कुमारीश् ...{Loading}...

सुवासिनीः कुमारीश् च
रोगिणो गर्भिणीः स्त्रियः ।
अतिथिभ्यो ऽग्र एवैतान्
भोजयेद् अविचारयन् [मेधातिथिपाठः - अतिथिभ्यो ऽन्वग् एवैतान्] ॥ ३.११४ ॥ [१०४ मेधातिथिपाठे]

115 अदत्त्वा तु ...{Loading}...

अदत्त्वा तु य एतेभ्यः
पूर्वं भुङ्क्ते ऽविचक्षणः ।
स भुञ्जानो न जानाति
श्व-गृध्रैर् जग्धिम् आत्मनः ॥ ३.११५ ॥ [१०५ मेधातिथिपाठे]

116 भुक्तवत्स्व् अथ ...{Loading}...

भुक्तवत्स्व् अथ विप्रेषु
स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चाद्
अवशिष्टं तु दम्पती ॥ ३.११६ ॥ [१०६ मेधातिथिपाठे]

117 देवान् ऋषीन् ...{Loading}...

देवान् ऋषीन् मनुष्यांश् च
पितॄन् गृह्याश् च देवताः ।
पूजयित्वा ततः पश्चाद्
गृहस्थः शेषभुग् भवेत् ॥ ३.११७ ॥ [१०७ मेधातिथिपाठे]

118 अघं स ...{Loading}...

अघं स केवलं भुङ्क्ते
यः पचत्य् आत्मकारणात् ।
यज्ञशिष्टाशनं ह्य् एतत्
सताम् अन्नं विधीयते ॥ ३.११८ ॥ [१०८ मेधातिथिपाठे]


  1. M G: anyo vā ↩︎

  2. G: svavāsinyo ↩︎

  3. G: svavāsinya ↩︎

  4. M G: jātyādayaḥ ↩︎

  5. M G 1st ed. omit: idam ↩︎

  6. M: ardhaśloko; G 1st ed: asyārdhaśloko — for ādyo ‘rdhaśloko ↩︎

  7. M G omit: pūrvaṃ ↩︎

  8. M G 1st ed. omit: na ↩︎

  9. M G 1st ed. add: mṛṣā ↩︎

  10. M G: pacanīyam ↩︎

  11. M G: vidhyantareṇātikrameṇāpi ↩︎

  12. M G omit the section: evaṃ hy āhuḥ . . . atithyādibhuktaśiṣṭaṃ vidhīyate (G 2nd ed. includes just evaṃ hy āhuḥ and the verse that follows. ↩︎