१० आतिथ्यम्

102 एकरात्रन् तु ...{Loading}...

एकरात्रं तु निवसन्न्
अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्
तस्माद् अतिथिर् उच्यते ॥ ३.१०२ ॥ [९२ मेधातिथिपाठे]

103 नैकग्रामीणम् अतिथिम् ...{Loading}...

नैकग्रामीणम् अतिथिं
विप्रं साङ्गतिकं तथा ।
उपस्थितं गृहे विद्याद्
भार्या यत्राऽग्नयो ऽपि वा ॥ ३.१०३ ॥ [९३ मेधातिथिपाठे]

104 उपासते ये ...{Loading}...

उपासते ये गृहस्थाः
परपाकम् अबुद्धयः ।
तेन ते प्रेत्य पशुतां
व्रजन्त्य् अन्नादिदायिनः ॥ ३.१०४ ॥ [९४ मेधातिथिपाठे]

105 अप्रणोद्यो ऽतिथिः ...{Loading}...

अप्रणोद्यो ऽतिथिः सायं
सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा
नाऽस्याऽनश्नन् गृहे वसेत् ॥ ३.१०५ ॥ [९५ मेधातिथिपाठे]

106 न वै ...{Loading}...

न वै स्वयं तद् अश्नीयाद्
अतिथिं यन् न भोजयेत् ।
धन्यं यशस्यम् आयुष्यं
स्वर्ग्यं वातिथिपूजनम् ॥ ३.१०६ ॥ [९६ मेधातिथिपाठे]

107 आसनावसथौ शय्याम् ...{Loading}...

आसनावसथौ शय्याम्
अनुव्रज्याम् उपासनाम् ।
उत्तमेषूत्तमं कुर्याद्
+धीने हीनं समे समम् ॥ ३.१०७ ॥ [९७ मेधातिथिपाठे]

108 वैश्वदेवे तु ...{Loading}...

वैश्वदेवे तु निर्वृत्ते
यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्याऽप्य् अन्नं यथाशक्ति
प्रदद्यान् न बलिं हरेत् ॥ ३.१०८ ॥ [९८ मेधातिथिपाठे]

109 न भोजनार्थम् ...{Loading}...

न भोजनार्थं स्वे विप्रः
कुल-गोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन्
वान्ताशीत्य् उच्यते बुधैः ॥ ३.१०९ ॥ [९९ मेधातिथिपाठे]

110 न ब्राह्मणस्य ...{Loading}...

न ब्राह्मणस्य त्व् अतिथिर्
गृहे राजन्य उच्यते ।
वैश्य-शूद्रौ सखा चैव
ज्ञातयो गुरुर् एव च ॥ ३.११० ॥ [१०० मेधातिथिपाठे]

111 यदि त्व् ...{Loading}...

यदि त्व् अतिथिधर्मेण
क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सु च विप्रेषु
कामं तम् अपि भोजयेत् ॥ ३.१११ ॥ [१०१ मेधातिथिपाठे]

112 वैश्य-शूद्राव् अपि ...{Loading}...

वैश्य-शूद्राव् अपि प्राप्तौ
कुटुम्बे ऽतिथि-धर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव्
आनृशंस्यं प्रयोजयन् ॥ ३.११२ ॥ [१०२ मेधातिथिपाठे]


  1. G 1st ed. adds: saṃśliṣṭaḥ ↩︎

  2. M G: dhi ↩︎

  3. M G: nādhikaraṇāntarakalpanā ↩︎