०९ भिक्षा

094 कृत्वैतद् बलिकर्मैवम् ...{Loading}...

कृत्वैतद् बलिकर्मैवम्
अतिथिं पूर्वम् आशयेत् ।
भिक्षां च भिक्षवे दद्याद्
विधिवद् ब्रह्मचारिणे ॥ ३.९४ ॥ [८४ मेधातिथिपाठे]

095 यत् पुण्यफलम् ...{Loading}...

यत् पुण्यफलम् आप्नोति
गां दत्त्वा विधिवद् गुरोः ।
तत् पुण्यफलम् आप्नोति
भिक्षां दत्त्वा द्विजो गृही ॥ ३.९५ ॥ [८५ मेधातिथिपाठे]

096 भिक्षाम् अप्य् ...{Loading}...

भिक्षाम् अप्य् उदपात्रं वा
सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे
ब्राह्मणायोपपादयेत् ॥ ३.९६ ॥ [८६ मेधातिथिपाठे]

097 नश्यन्ति हव्य-कव्यानि ...{Loading}...

नश्यन्ति हव्य-कव्यानि
नराणाम् अविजानताम् ।
भस्मीभूतेषु विप्रेषु
मोहाद् दत्तानि दातृभिः [मेधातिथिपाठः - भस्मभूतेषु] ॥ ३.९७ ॥ [८७ मेधातिथिपाठे]

098 विद्या-तपः-समृद्धेषु हुतम् ...{Loading}...

विद्या-तपः-समृद्धेषु
हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच् च
महतश् चैव किल्बिषात् ॥ ३.९८ ॥ [८८ मेधातिथिपाठे]

099 सम्प्राप्ताय त्व् ...{Loading}...

सम्प्राप्ताय त्व् अतिथये
प्रदद्याद् आसनोदके ।
अन्नं चैव यथाशक्ति
सत्कृत्य विधिपूर्वकम् [क्:संस्कृत्य] ॥ ३.९९ ॥ [८९ मेधातिथिपाठे]

100 शिलान् अप्य् ...{Loading}...

शिलान् अप्य् उञ्छतो नित्यं
पञ्चाग्नीन् अपि जुह्वतः ।
सर्वं सुकृतम् आदत्ते
ब्राह्मणो ऽनर्चितो वसन् ॥ ३.१०० ॥ [९० मेधातिथिपाठे]

101 तृणानि भूमिर् ...{Loading}...

तृणानि भूमिर् उदकं
वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे
नोच्छिद्यन्ते कदा चन ॥ ३.१०१ ॥ [९१ मेधातिथिपाठे]+++(5)+++


  1. M G 1st ed: bhikṣa ↩︎

  2. M G 1st ed.: āvacyo ↩︎

  3. M G: tat ↩︎

  4. M G 1st ed. omit: satkṛtya pūjayitvā ↩︎

  5. M G 1st ed.: arthatraya- ↩︎

  6. M G: gṛhāgārād ↩︎