०८ वैश्वदेवविधिः

084 वैश्वदेवस्य सिद्धस्य ...{Loading}...

वैश्वदेवस्य सिद्धस्य
गृह्ये ऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्याद् देवताभ्यो
ब्राह्मणो होमम् अन्वहम् ॥ ३.८४ ॥ [७४ मेधातिथिपाठे]

085 अग्नेः सोमस्य ...{Loading}...

अग्नेः सोमस्य चैवादौ
तयोश् चैव समस्तयोः ।
विश्वेभ्यश् चैव देवेभ्यो
धन्वन्तरय एव च ॥ ३.८५ ॥ [७५ मेधातिथिपाठे]

086 कुह्वै चैवाऽनुमत्यै ...{Loading}...

कुह्वै चैवाऽनुमत्यै च
प्रजापतय एव च ।
सह द्यावापृथिव्योश् च
तथा स्विष्टकृते ऽन्ततः ॥ ३.८६ ॥ [७६ मेधातिथिपाठे]

087 एवं सम्यग् ...{Loading}...

एवं सम्यग् +हविर् हुत्वा
सर्वदिक्षु प्रदक्षिणम् ।
इन्द्र+अन्तक+अप्पतीन्दुभ्यः
सानुगेभ्यो बलिं हरेत् ॥ ३.८७ ॥ [७७ मेधातिथिपाठे]

088 मरुद्भ्य इति ...{Loading}...

मरुद्भ्य इति तु द्वारि
क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि ।
वनस्पतिभ्य इत्य् एवं
मुसलोलूखले हरेत् ॥ ३.८८ ॥ [७८ मेधातिथिपाठे]

089 उच्छीर्षके श्रियै ...{Loading}...

उच्छीर्षके श्रियै कुर्याद्
भद्रकाल्यै च पादतः ।
ब्रह्म-वास्तोष्पतिभ्यां तु
वास्तुमध्ये बलिं हरेत् ॥ ३.८९ ॥ [७९ मेधातिथिपाठे]

090 विश्वेभ्यश् चैव ...{Loading}...

विश्वेभ्यश् चैव देवेभ्यो
बलिम् आकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो
नक्तञ्चारिभ्य एव च ॥ ३.९० ॥ [८० मेधातिथिपाठे]

091 पृष्ठवास्तुनि कुर्वीत ...{Loading}...

पृष्ठवास्तुनि कुर्वीत
बलिं सर्वात्मभूतये [मेधातिथिपाठः - सर्वान्नभूतये] ।
पितृभ्यो बलिशेषं तु
सर्वं दक्षिणतो हरेत् ॥ ३.९१ ॥ [८१ मेधातिथिपाठे]

092 शूनाञ् च ...{Loading}...

शूनां च पतितानां च
श्वपचां पाप-रोगिणाम् ।
वयसानां कृमीणां च
शनकैर् निर्वपेद् भुवि [मेधातिथिपाठः - वयसां च] ॥ ३.९२ ॥ [८२ मेधातिथिपाठे]+++(4)+++

093 एवं यः ...{Loading}...

एवं यः सर्वभूतानि
ब्राह्मणो नित्यम् अर्चति ।
स गच्छति परं स्थानं
तेजोमूर्तिः पथा र्जुना ॥ ३.९३ ॥ [८३ मेधातिथिपाठे]


  1. M G: -arthatāyuktā ↩︎

  2. M G: sarvārthaniṣpannapākena (G 2nd ed.: sarvārthe) ↩︎

  3. M G 1st ed.L vā vidhihomādi- ↩︎

  4. M G: - kārāt pradarśanārthaḥ ↩︎

  5. M G: śrutaḥ ↩︎

  6. M G: ‘dhikāram ↩︎

  7. M G 1st ed.: -āvartam ↩︎

  8. M G 1st ed.: pratidivasam ↩︎

  9. M G 1st ed.: -sahacaryāt ↩︎

  10. M G: divācāribhya ↩︎

  11. J: ‘rdhaḥ ślokaḥ ↩︎

  12. M G 1st ed.: mantragṛhītam; G 2nd ed.: mātraṃ (pātre) gṛhītam ↩︎

  13. M G 1st ed.: -kṣayyāmayāvyādayaḥ ↩︎

  14. M G 1st ed.: śvādayaḥ ↩︎

  15. M G 1st ed.: anugrahaṃ ↩︎

  16. M G: brahmaprāptiḥ ↩︎

  17. M G: evaṃ yuktam ↩︎