०७ श्राद्धप्रकारः

082 कुर्याद् अहर्-अहः ...{Loading}...

कुर्याद् अहर्-अहः श्राद्धम्
अन्नाद्येनोदकेन वा [मेधातिथिपाठः - दद्याद् अहर्-अहः] ।
पयो-मूल-फलैर् वापि
पितृभ्यः प्रीतिम् आवहन् ॥ ३.८२ ॥ [७२ मेधातिथिपाठे]

083 एकम् अप्य् ...{Loading}...

एकम् अप्य् आशयेद् विप्रं
पित्र्-अर्थे पाञ्चयज्ञिके [मेधातिथिपाठः - पित्र्-अर्थं] ।
न चैवाऽत्राशयेत् किं चिद्
वैश्वदेवं प्रति द्विजम् ॥ ३.८३ ॥ [७३ मेधातिथिपाठे]