०६ गृह्ययज्ञाः

067 वैवाहिके ऽग्नौ ...{Loading}...

वैवाहिके ऽग्नौ कुर्वीत
गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं च
पक्तिं चाऽन्वाहिकीं गृही ॥ ३.६७ ॥ [५७ मेधातिथिपाठे]

068 पञ्च सूना ...{Loading}...

पञ्च सूना गृहस्थस्य
चुल्ली पेषण्य् उपस्करः ।
कण्डनी चोदकुम्भश् च
बध्यते यास् तु वाहयन् [मेधातिथिपाठः - वध्यते] ॥ ३.६८ ॥ [५८ मेधातिथिपाठे]

069 तासाङ् क्रमेण ...{Loading}...

तासां क्रमेण सर्वासां
निष्कृत्यर्थं महर्षिभिः ।
पञ्च कॢप्ता महायज्ञाः
प्रत्यहं गृहमेधिनाम् ॥ ३.६९ ॥ [५९ मेधातिथिपाठे]

070 अध्यापनम् ब्रह्मयज्ञः ...{Loading}...

अध्यापनं ब्रह्मयज्ञः
पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो
नृयज्ञो ऽतिथिपूजनम् ॥ ३.७० ॥ [६० मेधातिथिपाठे]

071 पञ्चैतान् यो ...{Loading}...

पञ्चैतान् यो महाअयज्ञान्
न हापयति शक्तितः ।
स गृहे ऽपि वसन् नित्यं
सूनादोषैर् न लिप्यते ॥ ३.७१ ॥ [६१ मेधातिथिपाठे]

072 देवतातिथि-भृत्यानाम् पितॄणाम् ...{Loading}...

देवतातिथि-भृत्यानां
पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम्
उच्छ्वसन् न स जीवति ॥ ३.७२ ॥ [६२ मेधातिथिपाठे]

073 अहुतञ् च ...{Loading}...

अहुतं च हुतं चैव
तथा प्रहुतम् एव च ।
ब्राह्म्यं हुतं प्राशितं च
पञ्चयज्ञान् प्रचक्षते ॥ ३.७३ ॥ [६३ मेधातिथिपाठे]

074 जपो ऽहुतो ...{Loading}...

जपो ऽहुतो हुतो होमः
प्रहुतो भौतिको बलिः ।
ब्राह्म्यं हुतं द्विजाग्र्यार्चा
प्राशितं पितृतर्पणम् ॥ ३.७४ ॥ [६४ मेधातिथिपाठे]

075 स्वाध्याये नित्ययुक्तः ...{Loading}...

स्वाध्याये नित्ययुक्तः स्याद्
दैवे चैवेह कर्मणि ।
दैवकर्मणि युक्तो हि
बिभर्तीदं चराचरम् ॥ ३.७५ ॥ [६५ मेधातिथिपाठे]

तेन गृहस्थोत्कर्षः

076 अग्नौ प्रास्ताहुतिः ...{Loading}...

अग्नौ प्रास्ताहुतिः सम्यग्
आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर्
वृष्टेर् अन्नं ततः प्रजाः ॥ ३.७६ ॥ [६६ मेधातिथिपाठे]

077 यथा वायुम् ...{Loading}...

यथा वायुं समाश्रित्य
वर्तन्ते सर्वजन्तवः [मेधातिथिपाठः - सर्वे जीवन्ति जन्तवः] ।
तथा गृहस्थम् आश्रित्य
वर्तन्ते सर्व आश्रमाः [मेधातिथिपाठः - वर्तन्त इतराश्रमः] ॥ ३.७७ ॥ [६७ मेधातिथिपाठे]

078 यस्मात् त्रयो ...{Loading}...

यस्मात् त्रयो ऽप्य् आश्रमिणो
ज्ञानेनाऽन्नेन चाऽन्वहम् ।
गृहस्थेनैव धार्यन्ते
तस्माज् ज्येष्ठाश्रमो गृही [क्:गृहम्] ॥ ३.७८ ॥ [६८ मेधातिथिपाठे] +++(5)+++

079 स सन्धार्यः ...{Loading}...

स सन्धार्यः प्रयत्नेन
स्वर्गम् अक्षयम् इच्छता ।
सुखं चेहेच्छतात्यन्तं
यो ऽधार्यो दुर्बलेन्द्रियैः ॥ ३.७९ ॥ [६९ मेधातिथिपाठे]

यज्ञविधानानि

080 ऋषयः पितरो ...{Loading}...

ऋषयः पितरो देवा
भूतान्य् अतिथयस् तथा ।
आशासते कुटुम्बिभ्यस्
तेभ्यः कार्यं विजानता ॥ ३.८० ॥ [७० मेधातिथिपाठे]

081 स्वाध्यायेनाऽर्चयेतर्षीन् होमैर् ...{Loading}...

स्वाध्यायेनाऽर्चयेतर्षीन्
होमैर् देवान् यथाविधि ।
पितॄञ् श्राद्धैश् च नॄन् अन्नैर्
भूतानि बलिकर्मणा ॥ ३.८१ ॥ [७१ मेधातिथिपाठे]


  1. M G: gṛhadharmapaktiṃ ↩︎

  2. M G 1st ed.: satkṛtadāra- ↩︎

  3. M G: yady api ↩︎

  4. M G: kuryān na ↩︎

  5. M G: na yuktaṃ ↩︎

  6. M G: cullyādidhāraṇe ‘pi taddoṣaḥ tanniṣkṛtyarthatayā ↩︎

  7. M G omit: ca ↩︎

  8. M G: iti cokto ↩︎

  9. M G 1st ed.: puruṣarājaḥ ↩︎

  10. M G: yathādhānavidhiḥ ↩︎

  11. M G: yady api ↩︎

  12. M G: ca vā ↩︎

  13. M G 1st ed.: bhṛtyānāṃ ↩︎

  14. M G 1st ed.: yady ayaṃ ↩︎

  15. M G 1st ed.: daivakarmaṇi ↩︎

  16. M G 1st ed.: tacchrutasya ↩︎

  17. M G: upari kriyante ↩︎

  18. M G 1st ed.: tān ↩︎

  19. M G: tvārthalopān ↩︎

  20. M G 1st ed. omit: atyantaṃ yasya sukhasyānto nāsti ↩︎

  21. M G 1st ed.: ‘śakyaṃ ↩︎

  22. M G 1st ed.: doṣeṇa kim ucyate ↩︎

  23. M G: sukhakāmenetarac ↩︎

  24. M G: āditsata ↩︎

  25. M G 1st ed. omit: yad ↩︎

  26. M G 1st ed.: -lepanena | atrocyate ↩︎

  27. M G 1st ed.: naitad ↩︎

  28. M G 1st ed.: tathā vidyābhyāsāt ↩︎

  29. G 2nd ed.: bhaktiḥ ↩︎

  30. M G 1st ed.: aprāṇyarcākārata eva ↩︎

  31. M G 1st ed.: homo ↩︎

  32. M G 1st ed.L nārcayet ↩︎