०५ स्त्रीधनम्

051 न कन्यायाः ...{Loading}...

न कन्यायाः पिता विद्वान्
गृह्णीयाच् छुल्कम् अण्व् अपि ।
गृह्णञ् शुल्कं हि लोभेन
स्यान् नरो ऽपत्यविक्रयी ॥ ३.५१ ॥

052 स्त्रीधनानि तु ...{Loading}...

स्त्रीधनानि तु ये मोहाद्
उपजीवन्ति बान्धवाः ।
नारी यानानि वस्त्रं वा
ते पापा यान्त्य् अधोगतिम् ॥ ३.५२ ॥

053 आर्षे गोमिथुनम् ...{Loading}...

आर्षे गोमिथुनं शुल्कं
के चिद् आहुर् मृषैव तत् ।
अल्पो ऽप्य् एवं महान् वापि
विक्रयस् तावद् एव सः [मेधातिथिपाठः - तावान् एव स विक्रयः] ॥ ३.५३ ॥

054 यासान् नाददते ...{Loading}...

यासां नाददते शुल्कं
ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम्
आनृशंस्यं च केवलम् [मेधातिथिपाठः - न केवलम्] ॥ ३.५४ ॥

नारीपूजा

055 पितृभिर् भ्रातृभिश् ...{Loading}...

पितृभिर् भ्रातृभिश् चैताः
पतिभिर् देवरैस् तथा ।
पूज्या भूषयितव्याश् च
बहुकल्याणम् ईप्सुभिः ॥ ३.५५ ॥

056 यत्र नार्यस् ...{Loading}...

यत्र नार्यस् तु पूज्यन्ते
रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते
सर्वास् तत्राऽफलाः क्रियाः ॥ ३.५६ ॥

[१० श्लोका न विधद्यन्ते मेधातिथिपाठे। “These are very probably a later addition. The corresponding section in the Mahābhārata, 13.46 stops right here also.”—Hopkins. They are all quoted in Vivādaratnākara and in Parāśaramādhava.]

057 शोचन्ति जामयो ...{Loading}...

शोचन्ति जामयो यत्र
विनश्यत्य् आशु तत् कुलम् ।
न शोचन्ति तु यत्रैता
वर्धते तद् +धि सर्वदा ॥ ३.५७ ॥

058 जामयो यानि ...{Loading}...

जामयो यानि गेहानि
शपन्त्य् अप्रतिपूजिताः ।
तानि कृत्याहतानीव
विनश्यन्ति समन्ततः ॥ ३.५८ ॥

059 तस्माद् एताः ...{Loading}...

तस्माद् एताः सदा पूज्या
भूषणाच्छादनाशनैः ।
भूति-कामैर् नरैर् नित्यं
सत्करेषूत्सवेषु च ॥ ३.५९ ॥

060 सन्तुष्टो भार्यया ...{Loading}...

सन्तुष्टो भार्यया भर्ता
भर्त्रा भार्या तथैव च ।
यस्मिन्न् एव कुले नित्यं
कल्याणं तत्र वै ध्रुवम् ॥ ३.६० ॥

061 यदि हि ...{Loading}...

यदि हि स्त्री न रोचेत
पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः
प्रजनं न प्रवर्तते ॥ ३.६१ ॥

062 स्त्रियान् तु ...{Loading}...

स्त्रियां तु रोचमानायां
सर्वं तद् रोचते कुलं ।
तस्यां त्व् अरोचमानायां
सर्वम् एव न रोचते ॥ ३.६२ ॥

कुलपात-मार्गान्तराणि

063 कु-विवाहैः क्रिया-लोपैर् ...{Loading}...

कु-विवाहैः क्रिया-लोपैर्
वेदानध्ययनेन च ।
कुलान्य् अकुलतां यान्ति
ब्राह्मणातिक्रमेण च ॥ ३.६३ ॥

064 शिल्पेन व्यवहारेण ...{Loading}...

शिल्पेन व्यवहारेण
शूद्रापत्यैश् च केवलैः ।
गोभिर् अश्वैश् च यानैश् च
कृष्या राजोपसेवया ॥ ३.६४ ॥

065 अयाज्ययाजनैश् चैव ...{Loading}...

अयाज्ययाजनैश् चैव
नास्तिक्येन च कर्मणाम् ।
कुलान्य् आशु विनश्यन्ति
यानि हीनानि मन्त्रतः ॥ ३.६५ ॥

066 मन्त्रतस् तु ...{Loading}...

मन्त्रतस् तु समृद्धानि
कुलान्य् अल्प-धनान्य् अपि ।
कुलसङ्ख्यां च गच्छन्ति
कर्षन्ति च महद् यशः ॥ ३.६६ ॥

[इतः श्लोकसङ्ख्याभेदो मेधातिथिपाठे।]


  1. M G 1st ed. place pūrvasyaiva śeṣaḥ after gṛhyante ↩︎

  2. M G: varād ādātavyaṃ ↩︎