०४ ऋतुसङ्गमनम्

045 ऋतुकालाभिगामी स्यात् ...{Loading}...

ऋतुकालाभिगामी स्यात्
स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच् चैनां
तद्-व्रतो रतिकाम्यया ॥ ३.४५ ॥

046 ऋतुः स्वाभाविकः ...{Loading}...

ऋतुः स्वाभाविकः स्त्रीणां
रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरैः सार्धम्
अहोभिः सद्विगर्हितैः ॥ ३.४६ ॥

047 तासाम् आद्याश् ...{Loading}...

तासाम् आद्याश् चतस्रस् तु
निन्दितैकादशी च या ।
त्रयोदशी च शेषास् तु
प्रशस्ता दशरात्रयः ॥ ३.४७ ॥

048 युग्मासु पुत्रा ...{Loading}...

युग्मासु पुत्रा जायन्ते
स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी
संविशेद् आर्तवे स्त्रियम् ॥ ३.४८ ॥

049 पुमान् पुंसो ...{Loading}...

पुमान् पुंसो ऽधिके शुक्रे
स्त्री भवत्य् अधिके स्त्रियाः ।
समे ऽपुमान् पुं स्त्रियौ वा
क्षीणे ऽल्पे च विपर्ययः ॥ ३.४९ ॥

050 निन्द्यास्व् अष्टासु ...{Loading}...

निन्द्यास्व् अष्टासु चाऽन्यासु
स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्य् एव भवति
यत्र तत्राश्रमे वसन् ॥ ३.५० ॥


  1. M G 1st ed.: -patitaṃ ↩︎

  2. M G: anuṣṭhīyamānaṃ ↩︎

  3. M G: parisaṃpadyate ↩︎

  4. M G 1st ed. omit: yad ↩︎

  5. M G: saṃkāravidhitvād adhikāragrahaṇāt ↩︎

  6. M G 1st ed.: ca śakyatvād ↩︎

  7. M G omit: ca ↩︎

  8. M G: tarhi ↩︎

  9. M G 1st ed.: atrāpekṣyate ↩︎

  10. M G omit: vā ↩︎

  11. M G omit: svadāranirataḥ ↩︎

  12. M G 1st ed.: -gamane ↩︎

  13. M G add: yugmāsu putrārthī saṃviśed ārtave striyam ↩︎

  14. M G 1st ed. omit: anye ↩︎

  15. M G 1st ed.: ’lpagrahaṇaṃ ↩︎