०३ विवाहप्रकाराः

020 चतुर्णाम् अपि ...{Loading}...

चतुर्णाम् अपि वर्णानं
प्रेत्य चेह हिताहितान् ।
अष्टाव् इमान् समासेन
स्त्रीविवाहान् निबोधत ॥ ३.२० ॥

021 ब्राह्मो दैवस् ...{Loading}...

ब्राह्मो दैवस् तथैवार्षः
प्राजापत्यस् तथासुरः ।
गान्धर्वो राक्षसश् चैव
पैशाचश् चाऽष्टमो ऽधमः ॥ ३.२१ ॥

022 यो यस्य ...{Loading}...

यो यस्य धर्म्यो वर्णस्य
गुण-दोषौ च यस्य यौ ।
तद् वः सर्वं प्रवक्ष्यामि
प्रसवे च गुणागुणान् ॥ ३.२२ ॥

023 षड् आनुपूर्व्या ...{Loading}...

षड् आनुपूर्व्या विप्रस्य
क्षत्रस्य चतुरो ऽवरान् ।
विट्-शूद्रयोस् तु तान् एव
विद्याद् धर्म्यान् अराक्षसान् [मेधातिथिपाठः - धर्म्यान् न राक्षसान्] ॥ ३.२३ ॥

024 चतुरो ब्राह्मणस्याद्यान् ...{Loading}...

चतुरो ब्राह्मणस्याद्यान्
प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम्
आसुरं वैश्य-शूद्रयोः ॥ ३.२४ ॥

025 पञ्चानान् तु ...{Loading}...

पञ्चानां तु त्रयो धर्म्या
द्वाव् अधर्म्यौ स्मृताव् इह ।
पैशाचश् चाऽसुरश् चैव
न कर्तव्यौ कदा चन ॥ ३.२५ ॥

026 पृथक् पृथग् ...{Loading}...

पृथक् पृथग् वा मिश्रौ वा
विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश् चैव
धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६ ॥

027 आच्छाद्य चाऽर्चयित्वा ...{Loading}...

आच्छाद्य चाऽर्चयित्वा च
श्रुत-शीलवते स्वयम् ।
आहूय दानं कन्याया
ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥

028 यज्ञे तु ...{Loading}...

यज्ञे तु वितते सम्यग्
ऋत्विजे कर्म कुर्वते ।
अलङ्कृत्य सुतादानं
दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥

029 एकङ् गोमिथुनम् ...{Loading}...

एकं गोमिथुनं द्वे वा
वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद्
आर्षो धर्मः स उच्यते ॥ ३.२९ ॥

030 सहोभौ चरताम् ...{Loading}...

सहोभौ चरतां धर्मम्
इति वाचानुभाष्य च ।
कन्याप्रदानम् अभ्यर्च्य
प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥

031 ज्ञातिभ्यो द्रविणम् ...{Loading}...

ज्ञातिभ्यो द्रविणं दत्त्वा
कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद्
आसुरो धर्म उच्यते ॥ ३.३१ ॥

032 इच्छयान्योन्यसंयोगः कन्यायाश् ...{Loading}...

इच्छयान्योन्यसंयोगः
कन्यायाश् च वरस्य च ।
गान्धर्वः स तु विज्ञेयो
मैथुन्यः काम-सम्भवः ॥ ३.३२ ॥

033 हत्वा छित्त्वा ...{Loading}...

हत्वा छित्त्वा च भित्त्वा च
क्रोशन्तीं रुदन्तीं गृहात् ।
प्रसह्य कन्याहरणं
राक्षसो विधिर् उच्यते ॥ ३.३३ ॥

034 सुप्ताम् मत्ताम् ...{Loading}...

सुप्तां मत्तां प्रमत्तां वा
रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां
पैशाचश् चाऽष्टमो ऽधमः [मेधातिथिपाठः - पैशाचः प्रथितोऽधमः] ॥ ३.३४ ॥

035 अद्भिर् एव ...{Loading}...

अद्भिर् एव द्विजाग्र्याणां
कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानाम्
इतरेतरकाम्यया ॥ ३.३५ ॥


  1. M G 1st ed.: vyuddiṣṭānāṃ ↩︎

  2. M G 1st ed. : aguṇo doṣaḥ ↩︎

  3. M G 1st ed.: kramaṃ ↩︎

  4. M G: kramam ↩︎

  5. M G 1st ed.: sapiṇḍādipariṇayana ↩︎

  6. M G 1st ed.: tayor vivāhau dharmyau ↩︎

  7. M G omit: na tu ↩︎

  8. M G 1st ed.: tad ↩︎

  9. M G 1st ed.: nirapekṣāyāṃ ↩︎

  10. M G: tatrasthe ↩︎

  11. M G 1st ed.: itarāpi ↩︎

  12. M G add: asya ↩︎

  13. M G 1st ed.: -vācanamātram ↩︎

  14. M G 1st ed.: so ‘pakriyo; G 2nd ed.: sapariṣkaryaḥ ↩︎

  15. M G 1st ed.: prārabdhe tantre ↩︎

  16. M G 1st ed.: prākārapuradurgādi ↩︎

  17. M G: varjitas tu paiśāce for mantrādi varjitas tu ↩︎

  18. M G 1st ed. omit: paiśāce ↩︎

  19. M G omit: na ↩︎

  20. M G omit: na ca ↩︎

  21. M G: saṃskārabhāva- ↩︎

  22. M G 1st ed. omit: na ↩︎

  23. M G 1st ed.: yasmā ↩︎

  24. M G: sarvaviṣayapratiṣedhaḥ ↩︎

  25. M G: nā ↩︎

  26. M G 1st ed. add: teṣām api ↩︎

  27. M G 1st ed.: na me pūrvaṃ ↩︎

  28. M G 1st ed. omit: itaretarakāmyayā parasparecchayā ↩︎

  29. M G: evety (omit vā) ↩︎