१३ अवराद् अपि विद्या

238 श्रद्दधानः शुभाम् ...{Loading}...

श्रद्दधानः शुभां विद्याम्
आददीताऽवराद् अपि ।
अन्त्याद् अपि परं धर्मं
+++(श्रुति-स्मृत्य्-अपेक्षया परो ऽन्यो [धर्मो] लौकिक इति मेधातिथिः।)+++
स्त्रीरत्नं दुष्कुलाद् अपि ॥ २.२३८ ॥+++(5)+++

239 विषाद् अप्य् ...{Loading}...

विषाद् अप्य् अमृतं ग्राह्यं
बालाद् अपि सुभाषितम् ।
अमित्राद् अपि सद्वृत्तम्
अमेध्याद् अपि काञ्चनम् ॥ २.२३९ ॥+++(5)+++

240 स्त्रियो रत्नान्य् ...{Loading}...

स्त्रियो रत्नान्य् अथो विद्या
धर्मः शौचं सुभाषितम् ।
विविधानि च शील्पानि
समादेयानि सर्वतः ॥ २.२४० ॥+++(5)+++

241 अब्राह्मणाद् अध्यायनम् ...{Loading}...

अब्राह्मणाद् अध्यायनम्
आपत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा
यावद् अध्यायनं गुरोः ॥ २.२४१ ॥

242 नाऽब्राह्मणे गुरौ ...{Loading}...

नाऽब्राह्मणे गुरौ शिष्यो
वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने
काङ्क्षन् गतिम् अनुत्तमाम् ॥ २.२४२ ॥

243 यदि त्व् ...{Loading}...

यदि त्व् आत्यन्तिकं वासं
रोचयेत गुरोः कुले ।
युक्तः परिचरेद् एनम्
आ शरीरविमोक्षणात् ॥ २.२४३ ॥

244 आ समाप्तेः ...{Loading}...

आ समाप्तेः शरीरस्य
यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो
ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥

245 न पूर्वम् ...{Loading}...

न पूर्वं गुरवे किं चिद्
उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः
शक्त्या गुर्व्-अर्थम् आहरेत् ॥ २.२४५ ॥

246 क्षेत्रं हिरण्यम् ...{Loading}...

क्षेत्रं हिरण्यं गाम् अश्वं
छत्रोपानहम् आसनम् [मेधातिथिपाठः - छत्रोपानहम् अन्ततः] ।
धान्यं शाकं च वासांसि
गुरवे प्रीतिम् आवहेत् [मेधातिथिपाठः - धान्यं वासांसि शाकं वा
गुरवे प्रीतिम् आहरन् ॥ २.२४६ ॥

247 आचार्ये तु ...{Loading}...

आचार्ये तु खलु प्रेते
गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा
गुरुवद् वृत्तिम् आचरेत् ॥ २.२४७ ॥

248 एतेष्व् अविद्यमानेषु ...{Loading}...

एतेष्व् अविद्यमानेषु
स्थानासन-विहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां
साधयेद् देहम् आत्मनः ॥ २.२४८ ॥

249 एवञ् चरति ...{Loading}...

एवं चरति यो विप्रो
ब्रह्मचर्यम् अविप्लुतः ।
स गच्छत्य् उत्तमस्थानं
न चेह जायते पुनः ॥ २.२४९ ॥


  1. M G 2nd ed.: ca śubhā ↩︎

  2. M G 1st ed.: yā ca śubhā śāśvatī ↩︎

  3. M G omit: jālmam ↩︎

  4. M G 1st ed. omit: kānti- ↩︎

  5. M G: ayam apavādo ↩︎

  6. M G 1st ed.: dṛṣṭaṃ na kriyate ↩︎

  7. M G 1st ed.: dveṣas ↩︎

  8. M G 1st ed.: nyāyāt ↩︎

  9. M G: siddhataro ↩︎

  10. M G: asadāśrayāt prāpyate tathā ↩︎

  11. M G 1st ed.: -paṭajanaka-; G 2nd ed.: -paṭajana- ↩︎

  12. M G: anekavākyād vā ↩︎

  13. M G: ayaṃ tatra ↩︎

  14. M G 1st ed.: āpanna ↩︎

  15. M G 1st ed.: tadā brāhmaṇaḥ ↩︎

  16. M G 1st ed.: na cedaṃ mahatvān mahad etad ācāryakam anumīyate ninditakarmābhyāse patanāt tatsaṃsargāc ca brahmacāriṇām kiṃ tu duṣṭatā syān niṣedhāt tulyadoṣa iti ced asty atra viśeṣaḥ | ↩︎

  17. M G: na vandana- ↩︎

  18. M G 1st ed.: viśeṣe ↩︎

  19. M G 1st ed.: yato nanu vaktaryathā ↩︎

  20. M G 1st ed.: ceti sahādarśane ↩︎

  21. M G 1st ed. omit: devaviśeṣaś; G 2nd ed: devaviśeṣaś ca ↩︎

  22. M G: ‘rghadānaṃ ↩︎

  23. M G 1st ed.: pratiṣedha upakārapratiṣedhe ↩︎

  24. M G: pūrvaṃ saṃbandhaḥ ↩︎

  25. M G: utpādayed ↩︎

  26. M G: darśanārthatā ↩︎

  27. M G 1st ed.: -aśvagantrī- ↩︎

  28. M G J: gurum ↩︎

  29. M G’s reading assumes that this is all part of the Gautama quotation: nimantryāhared yadi syād ātmīyaṃ śaktyāgataṃ tadā dadyān nāvedyāstrādinārjayet ↩︎

  30. M G 1st ed.: dharmaprayāsayatne ↩︎

  31. M G: vṛttavad ↩︎

  32. M G 1st ed.: śuśrūṣaitāṃ; G 2nd ed.: śuśrūṣatāṃ ↩︎