१२ शिष्यानुशासनम्

159 अहिंसयैव भूतानाम् ...{Loading}...

अहिंसयैव भूतानां
कार्यं श्रेयो ऽनुशासनम् ।
वाक् चैव मधुरा श्लक्ष्णा
प्रयोज्या धर्मम् इच्छता ॥ २.१५९ ॥

160 यस्य वाङ्-मनसी ...{Loading}...

यस्य वाङ्-मनसी शुद्धे
सम्यग्गुप्ते च सर्वदा ।
स वै सर्वम् अवाप्नोति
वेदान्तोपगतं फलम् ॥ २.१६० ॥

161 नाऽरुन्तुदः स्याद् ...{Loading}...

नाऽरुन्तुदः स्याद् आर्तो ऽपि
न परद्रोह-कर्म-धीः ।
ययास्योद्विजते वाचा
नाऽलोक्यां ताम् उदीरयेत् ॥ २.१६१ ॥

मानम्

162 सम्मानाद् ब्राह्मणो ...{Loading}...

सम्मानाद् ब्राह्मणो नित्यम्
उद्विजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद्
अवमानस्य सर्वदा ॥ २.१६२ ॥+++(5)+++

163 सुखं ह्य् ...{Loading}...

सुखं ह्य् अवमतः शेते
सुखं च प्रतिबुध्यते ।
सुखं चरति लोके ऽस्मिन्न्
अवमन्ता विनश्यति ॥ २.१६३ ॥

शिष्यध्येयानि

164 अनेन क्रमयोगेन ...{Loading}...

अनेन क्रमयोगेन
संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन् सञ्चिनुयाद्
ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥

165 तपो-विशेषैर् विविधैर् ...{Loading}...

तपो-विशेषैर् विविधैर्
व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः
स-रहस्यो द्विजन्मना ॥ २.१६५ ॥

166 वेदम् एव ...{Loading}...

वेदम् एव सदाभ्यस्येत्
तपस् तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य
तपः परम् इहोच्यते ॥ २.१६६ ॥

167 आ हैव ...{Loading}...

आ हैव स नखाग्रेभ्यः
परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते
स्वाध्यायं शक्तितो ऽन्वहम् ॥ २.१६७ ॥

168 यो ऽनधीत्य ...{Loading}...

यो ऽनधीत्य द्विजो वेदम्
अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम्
आशु गच्छति सान्वयः ॥ २.१६८ ॥

द्विजता

169 मातुर् अग्रे ...{Loading}...

मातुर् अग्रे ऽधिजननं
द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां
द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥

170 तत्र यद् ...{Loading}...

तत्र यद् ब्रह्मजन्माऽस्य
मौञ्जीबन्धनचिह्नितम् ।
तत्राऽस्य माता सावित्री
पिता त्व् आचार्य उच्यते ॥ २.१७० ॥

171 वेदप्रदानाद् आचार्यम् ...{Loading}...

वेदप्रदानाद् आचार्यं
पितरं परिचक्षते ।
न ह्य् अस्मिन् युज्यते कर्म
किञ् चिद् आ मौञ्जिबन्धनात् ॥ २.१७१ ॥

172 नाऽभिव्याहारयेद् ब्रह्म ...{Loading}...

नाऽभिव्याहारयेद् ब्रह्म
स्वधानिनयनाद् ऋते ।
शूद्रेण हि समस् तावद्
यावद् वेदे न जायते ॥ २.१७२ ॥

173 कृतोपनयनस्याऽस्य व्रतादेशनम् ...{Loading}...

कृतोपनयनस्याऽस्य
व्रतादेशनम् इष्यते ।
ब्रह्मणो ग्रहणं चैव
क्रमेण विधि-पूर्वकम् ॥ २.१७३ ॥

174 यद्य् अस्य ...{Loading}...

यद्य् अस्य विहितं चर्म
यत् सूत्रं या च मेखला ।
यो दण्डो यच् च वसनं
तत् तद् अस्य व्रतेष्व् अपि ॥ २.१७४ ॥

ब्रह्मचर्यनियमाः

175 सेवेतेमांस् तु ...{Loading}...

सेवेतेमांस् तु नियमान्
ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं
तपोवृद्ध्य्-अर्थम् आत्मनः ॥ २.१७५ ॥

176 नित्यं स्नात्वा ...{Loading}...

नित्यं स्नात्वा शुचिः कुर्याद्
देवर्षि-पितृतर्पणम् ।
देवताभ्यर्चनं चैव
समिदाधानम् एव च ॥ २.१७६ ॥

177 वर्जयेन् मधु ...{Loading}...

वर्जयेन् मधु मांसं च
गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्वाणि
प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥

178 अभ्यङ्गम् अञ्जनम् ...{Loading}...

अभ्यङ्गम् अञ्जनं चाक्ष्णोर्
उपानच्-छत्रधारणम् ।
कामं क्रोधं च लोभं च
नर्तनं गीतवादनम् ॥ २.१७८ ॥

179 द्यूतञ् च ...{Loading}...

द्यूतं च जनवादं च
परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भम्
उपघातं परस्य च (मेधातिथिपाठः - -आलम्भाव् ॥ २.१७९ ॥

180 एकः शयीत ...{Loading}...

एकः शयीत सर्वत्र
न रेतः स्कन्दयेत् क्व चित् ।
कामाद् +धि स्कन्दयन् रेतो
हिनस्ति व्रतम् आत्मनः ॥ २.१८० ॥

181 स्वप्ने सिक्त्वा ...{Loading}...

स्वप्ने सिक्त्वा ब्रह्मचारी
द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः
पुनर् माम् इत्य् ऋचं जपेत् ॥ २.१८१ ॥

182 उदकुम्भं सुमनसो ...{Loading}...

उदकुम्भं सुमनसो
गोशकृन्-मृत्तिका-कुशान् ।
आहरेद् यावद् अर्थानि
भैक्षं चाऽहर्-अहश् चरेत् ॥ २.१८२ ॥

183 वेद-यज्ञैर् अहीनानाम् ...{Loading}...

वेद-यज्ञैर् अहीनानां
प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं
गृहेभ्यः प्रयतो ऽन्वहम् ॥ २.१८३ ॥

184 गुरोः कुले ...{Loading}...

गुरोः कुले न भिक्षेत
न ज्ञाति-कुल-बन्धुषु ।
अलाभे त्व् अन्यगेहानां
पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥

185 सर्वं वापि ...{Loading}...

सर्वं वापि चरेद् ग्रामं
पूर्वोक्तानाम् असम्भवे ।
नियम्य प्रयतो वाचम्
अभिशस्तांस् तु वर्जयेत् ॥ २.१८५ ॥

186 दूराद् आहृत्य ...{Loading}...

दूराद् आहृत्य समिधः
सन्निदध्याद् विहायसि ।
सायमेधातिथिपाठः - प्रातश् च जुहुयात्
ताभिर् अग्निम् अतन्द्रितः ॥ २.१८६ ॥

187 अकृत्वा भैक्षचरणम् ...{Loading}...

अकृत्वा भैक्षचरणम्
असमिध्य च पावकं ।
अनातुरः सप्तरात्रम्
अवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥

188 भैक्षेण वर्तयेन् ...{Loading}...

भैक्षेण वर्तयेन् नित्यं
नैकान्नादी भवेद् व्रती ।
भैक्षेण व्रतिनो वृत्तिर्
उपवास-समा स्मृता ॥ २.१८८ ॥

189 व्रतवद् देव-दैवत्ये ...{Loading}...

व्रतवद् देव-दैवत्ये
पित्र्ये कर्मण्य् अथ र्षिवत् ।
कामम् अभ्यर्थितो ऽश्नीयाद्
व्रतम् अस्य न लुप्यते ॥ २.१८९ ॥

190 ब्राह्मणस्यैव कर्मैतद् ...{Loading}...

ब्राह्मणस्यैव कर्मैतद्
उपदिष्टं मनीषिभिः ।
राजन्य-वैश्ययोस् त्व् एवं
नैतत् कर्म विधीयते ॥ २.१९० ॥

191 चोदितो गुरुणा ...{Loading}...

चोदितो गुरुणा नित्यम्
अप्रचोदित एव वा ।
कुर्याद् अध्ययने यत्नम्
आचार्यस्य हितेषु च [मेधातिथिपाठः - अध्ययने योगम्] ॥ २.१९१ ॥

192 शरीरञ् चैव ...{Loading}...

शरीरं चैव वाचं च
बुद्धीन्द्रिय-मनांसि च ।
नियम्य प्राञ्जलिस् तिष्ठेद्
वीक्षमाणो गुरोर् मुखम् ॥ २.१९२ ॥

193 नित्यम् उद्धृत-पाणिः ...{Loading}...

नित्यम् उद्धृत-पाणिः स्यात्
साध्व्-आचारः सु-संवृतः ।
आस्यताम् इति चोक्तः सन्न्
आसीताऽभिमुखं गुरोः ॥ २.१९३ ॥

194 हीनान्न-वस्त्र-वेषः स्यात् ...{Loading}...

हीनान्न-वस्त्र-वेषः स्यात्
सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत् प्रथमं चास्य
चरमं चैव संविशेत् ॥ २.१९४ ॥

195 प्रतिश्रावण-सम्भाषे शयानो ...{Loading}...

प्रतिश्रावण-सम्भाषे
शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो
न तिष्ठन् न पराङ्-मुखः ॥ २.१९५ ॥

196 आसीनस्य स्थितः ...{Loading}...

आसीनस्य स्थितः कुर्याद्
अभिगच्छंस् तु तिष्ठतः ।
प्रत्युद्गम्य त्व् आव्रजतः
पश्चाद् धावंस् तु धावतः ॥ २.१९६ ॥

197 पराङ्-मुखस्याऽभिमुखो दूरस्थस्यैत्य ...{Loading}...

पराङ्-मुखस्याऽभिमुखो
दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य
निदेशे चैव तिष्ठतः ॥ २.१९७ ॥

198 नीचं शय्यासनम् ...{Loading}...

नीचं शय्यासनं चास्य
नित्यं स्याद् गुरुसन्निधौ ।
गुरोस् तु चक्षुर्विषये
न यथेष्टासनो भवेत् ॥ २.१९८ ॥

199 नोदाहरेद् अस्य ...{Loading}...

नोदाहरेद् अस्य नाम
परोक्षम् अपि केवलम् ।
न चैवाऽस्यानुकुर्वीत
गति-भाषित-चेष्टितम् ॥ २.१९९ ॥

200 गुरोर् यत्र ...{Loading}...

गुरोर् यत्र परिवादो
निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ
गन्तव्यं वा ततो ऽन्यतः ॥ २.२०० ॥

201 परीवादात् खरो ...{Loading}...

परीवादात् खरो भवति
श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर् भवति
कीटो भवति मत्सरी ॥ २.२०१ ॥

202 दूरस्थो नाऽर्चयेद् ...{Loading}...

दूरस्थो नाऽर्चयेद् एनं
न क्रुद्धो नाऽन्तिके स्त्रियाः ।
यानासनस्थश् चैवैनम्
अवरुह्याऽभिवादयेत् ॥ २.२०२ ॥

203 प्रतिवाते ऽनुवाते ...{Loading}...

प्रतिवाते ऽनुवाते च
नासीत गुरुणा सह [मेधातिथिपाठः - प्रतिवातानुवाते] ।
असंश्रवे चैव गुरोर्
न किं चिद् अपि कीर्तयेत् ॥ २.२०३ ॥

204 गो-ऽश्वोष्ट्र-यान-प्रासाद- प्रस्तरेषु ...{Loading}...

गो-ऽश्वोष्ट्र-यान-प्रासाद-
प्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं
शिला-फलक-नौषु च ॥ २.२०४ ॥

205 गुरोर् गुरौ ...{Loading}...

गुरोर् गुरौ सन्निहिते
गुरुवद् वृत्तिम् आचरेत् ।
न चाऽनिसृष्टो गुरुणा
स्वान् गुरून् अभिवादयेत् ॥ २.२०५ ॥

206 विद्यागुरुष्व् एवम् ...{Loading}...

विद्यागुरुष्व् एवम् एव
नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाऽधर्माद्
धितं चोपदिशत्स्व् अपि ॥ २.२०६ ॥

207 श्रेयःसु गुरुवद् ...{Loading}...

श्रेयःसु गुरुवद् वृत्तिं
नित्यम् एव समाचरेत् ।
गुरुपुत्रेषु चार्येषु
गुरोश् चैव स्वबन्धुषु [मेधातिथिपाठः - गुरुपुत्रे तथाचार्ये] ॥ २.२०७ ॥

208 बालः समान-जन्मा ...{Loading}...

बालः समान-जन्मा वा
शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो
गुरुवन् मानम् अर्हति ॥ २.२०८ ॥

209 उत्सादनञ् च ...{Loading}...

उत्सादनं च गात्राणां
स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य
पादयोश् चाऽवनेजनम् ॥ २.२०९ ॥

210 गुरुवत् प्रतिपूज्याः ...{Loading}...

गुरुवत् प्रतिपूज्याः स्युः
स-वर्णा गुरुयोषितः ।
असवर्णास् तु सम्पूज्याः
प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥

211 अभ्यञ्जनं स्नापनम् ...{Loading}...

अभ्यञ्जनं स्नापनं च
गात्रोत्सादनम् एव च ।
गुरुपत्न्या न कार्याणि
केशानां च प्रसाधनम् ॥ २.२११ ॥

212 गुरुपत्नी तु ...{Loading}...

गुरुपत्नी तु युवतिर्
नाऽभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण
गुण-दोषौ विजानता ॥ २.२१२ ॥

213 स्वभाव एष ...{Loading}...

स्वभाव एष नारीणां
नराणाम् इह दूषणम् ।
अतो ऽर्थान् न प्रमाद्यन्ति
प्रमदासु विपश्चितः ॥ २.२१३ ॥

214 अविद्वांसम् अलम् ...{Loading}...

अविद्वांसम् अलं लोके
विद्वांसम् अपि वा पुनः ।
प्रमदा ह्य् उत्पथं नेतुं
काम-क्रोधवशानुगम् ॥ २.२१४ ॥

215 मात्रा स्वस्रा ...{Loading}...

मात्रा स्वस्रा दुहित्रा वा
न विविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो
विद्वांसम् अपि कर्षति ॥ २.२१५ ॥

216 कामन् तु ...{Loading}...

कामं तु गुरुपत्नीनां
युवतीनां युवा भुवि ।
विधिवद् वन्दनं कुर्याद्
असाव् अहम् इति ब्रुवन् ॥ २.२१६ ॥

217 विप्रोष्य पादग्रहणम् ...{Loading}...

विप्रोष्य पादग्रहणम्
अन्वहं चाऽभिवादनम् ।
गुरुदारेषु कुर्वीत
सतां धर्मम् अनुस्मरन् ॥ २.२१७ ॥

218 यथा खनन् ...{Loading}...

यथा खनन् खनित्रेण
नरो वार्य् अधिगच्छति ।
तथा गुरुगतां विद्यां
शुश्रूषुर् अधिगच्छति ॥ २.२१८ ॥

219 मुण्डो वा ...{Loading}...

मुण्डो वा जटिलो वा स्याद्
अथ वा स्याच् छिखा-जटः ।
नैनं ग्रामे ऽभिनिम्लोचेत्
सूर्यो नाऽभ्युदियात् क्व चित् ॥ २.२१९ ॥

220 तञ् चेद् ...{Loading}...

तं चेद् अभ्युदियात् सूर्यः
शयानं कामचारतः ।
निम्लोचेद् वाप्य् अविज्ञानाज्
जपन्न् उपवसेद् दिनम् ॥ २.२२० ॥

221 सूर्येण ह्य् ...{Loading}...

सूर्येण ह्य् अभिनिर्मुक्तः
शयानो ऽभ्युदितश् च यः [मेधातिथिपाठः - अभिनिम्लुक्तः] ।
प्रायश्चित्तम् अकुर्वाणो
युक्तः स्यान् महतैनसा ॥ २.२२१ ॥

222 आचम्य प्रयतो ...{Loading}...

आचम्य प्रयतो नित्यम्
उभे सन्ध्ये समाहितः ।
शुचौ देशे जपञ् जप्यम्
उपासीत यथाविधि ॥ २.२२२ ॥

223 यदि स्त्री ...{Loading}...

यदि स्त्री यद्य् अवरजः
श्रेयः किं चित् समाचरेत् ।
तत् सर्वम् आचरेद् युक्तो
यत्र चाऽस्य रमेन् मनः ॥ २.२२३ ॥

224 धर्मार्थाव् उच्यते ...{Loading}...

धर्मार्थाव् उच्यते श्रेयः
कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस्
त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥

225 आचार्यश् च ...{Loading}...

आचार्यश् च पिता चैव
माता भ्राता च पूर्वजः ।
नार्तेनाऽप्य् अवमन्तव्या
ब्राह्मणेन विशेषतः ॥ २.२२५ ॥

226 आचार्यो ब्रह्मणो ...{Loading}...

आचार्यो ब्रह्मणो मूर्तिः
पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस् तु
भ्राता स्वो मूर्तिर् आत्मनः ॥ २.२२६ ॥

227 यम् माता-पितरौ ...{Loading}...

यं माता-पितरौ क्लेशं
सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या
कर्तुं वर्षशतैर् अपि ॥ २.२२७ ॥

228 तयोर् नित्यम् ...{Loading}...

तयोर् नित्यं प्रियं कुर्याद्
आचार्यस्य च सर्वदा ।
तेष्व् एव त्रिषु तुष्टेषु
तपः सर्वं समाप्यते ॥ २.२२८ ॥

229 तेषान् त्रयाणाम् ...{Loading}...

तेषां त्रयाणां शुश्रूषा
परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो
धर्मम् अन्यं समाचरेत् ॥ २.२२९ ॥

230 त एव ...{Loading}...

त एव हि त्रयो लोकास्
त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास्
त एवोक्तास् त्रयो ऽग्नयः ॥ २.२३० ॥

231 पिता वै ...{Loading}...

पिता वै गार्हपत्यो ऽग्निर्
माताग्निर् दक्षिणः स्मृतः ।
गुरुर् आहवनीयस् तु
साग्नित्रेता गरीयसी ॥ २.२३१ ॥

232 त्रिष्व् अप्रमाद्यन्न् ...{Loading}...

त्रिष्व् अप्रमाद्यन्न् एतेषु
त्रीन् लोकान् विजयेद् गृही ।
दीप्यमानः स्ववपुषा
देववद् दिवि मोदते ॥ २.२३२ ॥

233 इमं लोकम् ...{Loading}...

इमं लोकं मातृभक्त्या
पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्व् एवं
ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥

234 सर्वे तस्यादृता ...{Loading}...

सर्वे तस्यादृता धर्मा
यस्यैते त्रय आदृताः ।
अनादृतास् तु यस्यैते
सर्वास् तस्याऽफलाः क्रियाः ॥ २.२३४ ॥

235 यावत् त्रयस् ...{Loading}...

यावत् त्रयस् ते जीवेयुस्
तावन् नाऽन्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां
कुर्यात् प्रियहिते रतः ॥ २.२३५ ॥

236 तेषाम् अनुपरोधेन ...{Loading}...

तेषाम् अनुपरोधेन
पारत्र्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेत् तेभ्यो
मनो-वचन-कर्मभिः ॥ २.२३६ ॥

237 त्रिष्व् एतेष्व् ...{Loading}...

त्रिष्व् एतेष्व् इतिकृत्यं हि
पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षाद्
उपधर्मो ऽन्य उच्यते ॥ २.२३७ ॥


  1. M G: ṛtuṣu ↩︎

  2. M G: ṛtuvaiguṇye ↩︎

  3. The text is corrupt here. M G 1st ed.: adhītāttvartham; J: adhīrārthatvam ↩︎

  4. M G 1st ed. omit: yas tv . . . vinaśyati ↩︎

  5. M G: -payogād arthādarśanād ↩︎

  6. M G 1st ed.: vācārya- ↩︎

  7. M G: tathā ↩︎

  8. M G add: atha ↩︎

  9. M G: kāryakāraṇeti- ↩︎

  10. M G 1st ed.: adhyayanādiḥ dhātv- ↩︎

  11. M G: eva nivṛttam ↩︎

  12. M G: kūtāṅgaiḥ ↩︎

  13. M G omit: śāstrīyeṣu ↩︎

  14. M G 1st ed.: dvitīyaślokārthavādaḥ; G 2nd ed.: dvitīyaślokārdho ‘py arthavādaḥ ↩︎

  15. M G 1st ed.: agṛhīte ‘pi tasminn adhyayanam abhyanujñāyate ↩︎

  16. M G: dvijanmasu ↩︎

  17. M G 1st ed.: pradānaṃ svīkārotpādanaṃ vedākṣaroccāraṇe māṇavakasya ↩︎

  18. M G 1st ed.: sarvair hi jātipuruṣadharmair ↩︎

  19. J omits: ācāryeṇāsau śikṣayitavyaḥ | tad uktam “śaucācārāṃś ca śikṣayet” ↩︎

  20. M G 1st ed.: -hāryakaṃ ↩︎

  21. M G 1st ed.: kṛtatvāt ↩︎

  22. M G 1st ed.: vasan | niyamān āha | ↩︎

  23. M G 1st ed.: adhyāyavidhy- ↩︎

  24. M G 1st ed.: pratijñātān pūrveṇa niyamān; G 2nd ed: niyamān pūrveṇa pratijñātān ↩︎

  25. M G 1st ed.: punar na śuciḥ ↩︎

  26. J omits: na ↩︎

  27. M G: cedaṃ saty ↩︎

  28. M G 1st ed.: -mānaṃ svāmyena ↩︎

  29. M G 1st ed.: saṃpradānam ataḥ; G 2nd ed.: saṃpradānabhūta ↩︎

  30. M G 1st ed.: na vā kṛtāḥ kariṣyamāṇakāryasya ↩︎

  31. M G 1st ed.: vasiṣṭhaśāktapāraśaryeti; G 2nd ed.: vasiṣṭhaśaktipāraśaryeiti ↩︎

  32. M G 1st ed.: āgneye devatāpuroḍāśe ↩︎

  33. M G 1st ed,: tasya pratiṣedhaḥ ↩︎

  34. M G 1st ed.: vātyantamasaṃskṛtasyānnasya uktipratiṣedho ↩︎

  35. M G 1st ed.: vaktavyā; G 2nd ed.: vartavyā ↩︎

  36. M G omit: pṛthak kṛtasya ↩︎

  37. M G 1st ed.: prāptāsvarasāni ↩︎

  38. M G: sarvaśabdena mānasāni ↩︎

  39. M G: puruṣārthaḥ pratiṣedhātikramo ↩︎

  40. M G 1st ed. omit: rāgaḥ ↩︎

  41. M G 1st ed.: vāditraṃ ↩︎

  42. M G 1st ed: prayogyasyāpy ayogatvaṃ; G 2nd ed.: ayogyasyāpy ayogatvaṃ ↩︎

  43. M G: yaunau ↩︎

  44. M G 1st ed.: vratalopo nāva- ↩︎

  45. M G 1st ed.: punar mām ity ↩︎

  46. J omits: etad ↩︎

  47. M G 1st ed.: naikānnādi (omits iti); G 2nd ed.: naikānnādīni ↩︎

  48. J omits: yato ↩︎

  49. M G 1st ed. omit: santi ↩︎

  50. G 2nd ed.: nivasaṃto ↩︎

  51. M G 1st ed.: vihāyasa ↩︎

  52. M G 1st ed. add: niyamya vicchdyete | kālo niyatas tu tayor api | ↩︎

  53. M G 1st ed.: anāturasyāvyādhitasya sato ↩︎

  54. M G omit: na ↩︎

  55. M G 1st ed.: pitrye ‘bhyanujñānārthaṃ ↩︎

  56. M G 1st ed.: jīvitaḥ sthitiṃ ↩︎

  57. M G 1st ed.: arthavādaḥ; both M and G connect this with vratiśabdaḥ ↩︎

  58. M G 1st ed.: tasya ↩︎

  59. M G: -viruddha ↩︎

  60. M G: cāmnātaṃ ↩︎

  61. M G 1st ed.: tūddeśamātraṃ ↩︎

  62. M G omit: anuṣṭhānasādhyam ↩︎

  63. M G 1st ed.: viṣayo na hi ↩︎

  64. M G 1st ed. omit karmabhyaḥ, and add: karmākhye prādhānyam upādhyāyāya gāṃ dadāti ↩︎

  65. M G 1st ed. omit: pitṛṣu ↩︎

  66. M G 1st ed.: parasparakarmādīnīti ↩︎

  67. M G: sūtrādhikā- ↩︎

  68. M G: adhikārānu- ↩︎

  69. M G: tasmin ↩︎

  70. J: na; The TS reading is: indriyāvī paśumaṇ bhavati ↩︎

  71. M G 1st ed.: yāvajjīvikālāt ↩︎

  72. M G 1st ed. omits: na ↩︎

  73. M G 1st ed.: parikriyate ↩︎

  74. M G 1st ed.: śrāddhena ↩︎

  75. M G: anuddeśyatvasāmānyād ↩︎

  76. M G 1st ed.: homājyapuroḍāśādīnāṃ ↩︎

  77. M G 1st ed.: yāgo ↩︎

  78. M G: ‘pi ↩︎

  79. M G 1st ed.: vibhidyate ↩︎

  80. M G 1st ed.: nārtho ↩︎

  81. M G: devatārthaḥ ↩︎

  82. J omits: tac ca ↩︎

  83. M G 1st ed.: chucāvakāśe ↩︎

  84. M G 1st ed.: mṛdādi taddevatāyā ↩︎

  85. M G 1st ed. places sarvatra . . . gatiḥ after -darśanāt ↩︎

  86. M G 1st ed.: kāryaṃ prasādhaye ya evāgnir ↩︎

  87. M G 1st ed.: naivaṃ śuklo ↩︎

  88. M G 1st ed.: pratyakṣāhyavaseyāḥ ↩︎

  89. J: pratipadyamānāḥ ↩︎

  90. M G: apaśyantīti ↩︎

  91. M G 1st ed.: krator viśeṣāvagatisāhacaryād itivat; G 2nd ed.: krator viśeṣāvagatisāhacaryād iti cet ↩︎

  92. M G: ca ↩︎

  93. M G 1st ed.: -dhikāraṃ ↩︎

  94. G 2nd ed.: codito ↩︎

  95. M G: śakti- ↩︎

  96. M G: sādhvanindyaḥ ↩︎

  97. M G 1st ed.: ājyaghaṭitakṣīrādivyañjanaṃ; G 2nd ed.: ājyaṃ dadhighaṭitakṣīrādivyañjanaṃ; J: ājyaṃ dadhikṣīrādivyañjanaṃ ↩︎

  98. M G: paro ‘pi ↩︎

  99. M G 1st ed.: uttiṣṭhan ↩︎

  100. M G omit: diśi ↩︎

  101. J: sthitir ↩︎

  102. J omits: paścād vā vasatas tathā ↩︎

  103. M G in place of yatra reads: nāsthatavyam ↩︎

  104. M G: pūrvapratiṣedhe śeṣo ↩︎

  105. M G J: ghañamanuṣye; my version follows Pāṇini’s reading ↩︎

  106. M G: mātulam ↩︎

  107. M G: tattyāgenāyaṃ prasādo ↩︎

  108. M G: śiṣyadeśāt ↩︎

  109. M G: na tu ↩︎

  110. M G: athācārye ↩︎

  111. M G: ācāryaśabdo ↩︎

  112. G 2nd ed.: śūdrācāryo ↩︎

  113. M G 1st ed.: śūdrācāryau carmaṇi vyāyacchete tayor ācāryaṃ varṇaṃ jāpayantīti prayogadarśanāt ↩︎

  114. M G 1st ed.: -arthi ↩︎

  115. M G 1st ed. omit: na ↩︎

  116. M G 1st ed.: yaṃ ↩︎

  117. M G 1st ed.: nyāyo ↩︎

  118. M G1st ed.: dhairyavyāvartasaṅgād dhi ↩︎

  119. M G 1st ed.: mukhyam ↩︎

  120. M G 1st ed.: utthitāḥ ↩︎

  121. M G 1st ed.: -vidhyarthatā ↩︎

  122. M G: jāṭāḥ ↩︎

  123. M G: itaretarasaṃlagnakeśāḥ ↩︎

  124. M G omit: śikhājaṭaḥ ↩︎

  125. M G 1st ed.: nidrāvagatam; G 2nd ed.: nidrāvaśagatam ↩︎

  126. M G omit: abhir abhāge . . . kecid āhuḥ ↩︎

  127. M G 1st ed.: kāmakārataḥ ↩︎

  128. M G 1st ed.: ajñānāt ↩︎

  129. M G 1st ed.: kāmakāreṇa ↩︎

  130. M G 1st ed.: -karmā vijñeyaḥ ↩︎

  131. M G 1st ed.: karmādinā trivargaṃ; G 2nd ed.: karmādinā dharmādi trivargaṃ ↩︎

  132. M G 1st ed.: vācārajanaka ↩︎

  133. M G 1st ed.: dṛṣṭapūrvaḥ mṛdbhiḥ; G 2nd ed.: dṛṣṭapūrvam adbhiḥ ↩︎

  134. M G 1st ed.: tathā vidhipūrvaṃ; G 2nd 3d.: yathāvidhipūrvaṃ ↩︎

  135. M G: ca brūyād ↩︎

  136. M G 1st ed.: prakṣālayed ↩︎

  137. M G 1st ed.: gurugṛhāl ↩︎

  138. M G: samācāryamāṇaḥ ↩︎

  139. M G: evaṃ for sa eva ↩︎

  140. M G 1st ed.: pramāṇaṃ śūdragrahaṇena, G 2nd ed.: strīśūdragrahaṇena ↩︎

  141. M G 1st ed. omit: yat ↩︎

  142. M G 1st ed.: arthata ↩︎

  143. M G 1st ed.: puruṣeṣu ↩︎

  144. M G 1st ed.: yat te manaḥpratiṣedhakṛto ↩︎

  145. M G 1st ed. : -sādhyeṣu vyāpṛcchya mātā ca mataṃmatyā; G 2nd ed.: -sādhyeṣu vyāpṛcchya mātā nāvamantavyā ↩︎

  146. M G 1st ed.: ājñā ↩︎

  147. G 2nd ed.: tenaivānujñāṃ ↩︎

  148. M G 1st ed.: virodhi tat tair ājñāpayitavyam ↩︎

  149. M G: ātmaparo ‘dharmam ↩︎

  150. M G: caivaṃ ↩︎