११ आचार्यादिलक्षणम्

140 उपनीय तु ...{Loading}...

उपनीय तु यः शिष्यं
वेदम् अध्यापयेद् द्विजः ।
स-कल्पं स-रहस्यं च
तम् आचार्यं प्रचक्षते ॥ २.१४० ॥

141 एकदेशन् तु ...{Loading}...

एकदेशं तु वेदस्य
वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम्
उपाध्यायः स उच्यते ॥ २.१४१ ॥

142 निषेकादीनि कर्माणि ...{Loading}...

निषेकादीनि कर्माणि
यः करोति यथाविधि ।
सम्भावयति चाऽन्नेन
स विप्रो गुरुर् उच्यते ॥ २.१४२ ॥

143 अग्न्याधेयम् पाकयज्ञान् ...{Loading}...

अग्न्याधेयं पाकयज्ञान्
अग्निष्टोमादिकान् मखान् ।
यः करोति वृतो यस्य
स तस्यर्त्विग् इहोच्यते ॥ २.१४३ ॥

144 य आवृणोत्य् ...{Loading}...

य आवृणोत्य् अवितथं
ब्रह्मणा श्रवणाव् उभौ ।
स माता स पिता ज्ञेयस्
तं न द्रुह्येत् कदा चन ॥ २.१४४ ॥

145 उपाध्यायान् दशाचार्य ...{Loading}...

उपाध्यायान् दशाचार्य
आचार्याणां शतं पिता ।
सहस्रं तु पितॄन् माता
गौरवेणाऽतिरिच्यते ॥ २.१४५ ॥

146 उत्पादक-ब्रह्मदात्रोर् गरीयान् ...{Loading}...

उत्पादक-ब्रह्मदात्रोर्
गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य
प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥

147 कामान् माता ...{Loading}...

कामान् माता पिता चैनं
यद् उत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्याद्
यद् योनाव् अभिजायते ॥ २.१४७ ॥

148 आचार्यस् त्व् ...{Loading}...

आचार्यस् त्व् अस्य यां जातिं
विधिवद् वेदपारगः ।
उत्पादयति सावित्र्या
सा सत्या साजरामरा ॥ २.१४८ ॥

149 अल्पं वा ...{Loading}...

अल्पं वा बहु वा यस्य
श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच्
छ्रुतोपक्रियया तया ॥ २.१४९ ॥

150 ब्राह्मस्य जन्मनः ...{Loading}...

ब्राह्मस्य जन्मनः कर्ता
स्वधर्मस्य च शासिता ।
बालो ऽपि विप्रो वृद्धस्य
पिता भवति धर्मतः ॥ २.१५० ॥

151 अध्यापयाम् आस ...{Loading}...

अध्यापयाम् आस पितॄन्
शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच
ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥

152 ते तम् ...{Loading}...

ते तम् अर्थम् अपृच्छन्त
देवान् आगत-मन्यवः ।
देवाश् चैतान् समेत्योचुर्
न्याय्यं वः शिशुर् उक्तवान् ॥ २.१५२ ॥

153 अज्ञो भवति ...{Loading}...

अज्ञो भवति वै बालः
पिता भवति मन्त्रदः ।
अज्ञं हि बालम् इत्य् आहुः
पितेत्य् एव तु मन्त्रदम् ॥ २.१५३ ॥

154 न हायनैर् ...{Loading}...

न हायनैर् न पलितैर्
न वित्तेन न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं
यो ऽनूचानः स नो महान् ॥ २.१५४ ॥

155 विप्राणाञ् ज्ञानतो ...{Loading}...

विप्राणां ज्ञानतो ज्यैष्ठ्यं
क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः
शूद्राणाम् एव जन्मतः ॥ २.१५५ ॥

156 न तेन ...{Loading}...

न तेन वृद्धो भवति
येनाऽस्य पलितं शिरः ।
यो वै युवाप्य् अधीयानस्
तं देवाः स्थविरं विदुः ॥ २.१५६ ॥

157 यथा काष्ठमयो ...{Loading}...

यथा काष्ठमयो हस्ती
यथा चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस्
त्रयस् ते नाम बिभ्रति ॥ २.१५७ ॥

158 यथा षण्ढो ...{Loading}...

यथा षण्ढो ऽफलः स्त्रीषु
यथा गौर् गवि चाऽफला ।
यथा चाऽज्ञे ऽफलं दानं
तथा विप्रो ऽनृचो ऽफलः ॥ २.१५८ ॥


  1. M G 1st ed.: ācāryakaniṣpattiḥ ↩︎

  2. M G 1st ed.: sarveṇa sarva- ↩︎

  3. M G 1st ed.: -vidhir ↩︎

  4. M G: nitya ↩︎

  5. M G: aprayojakatvam ↩︎

  6. M G: -nivṛttiḥ ↩︎

  7. G J: vaidasyaika- ↩︎

  8. M G place here: tāni yaḥ karoti (M = yat) ↩︎

  9. M G 1st ed. J: duṣyeta ↩︎

  10. M G 1st ed.: niṣpannam api granthagrahaṇe; G 2nd ed.: niṣpannaṃ granthagrahaṇe ↩︎

  11. M G 1st ed.: arthakarṇau ↩︎

  12. M G: tatra ↩︎

  13. M G 1st ed. add: tarkakalāśastrasya vā yad alpaṃ vā bahu vā tena ↩︎

  14. M G 1st ed.: -yanamantraṃ ↩︎

  15. M G 1st ed.: brahma ↩︎

  16. G 1st ed. omits: yasmān ↩︎

  17. M G: karoti ↩︎

  18. M G: vāraṇo ↩︎

  19. M G: strīgavyā ↩︎