०९ शिष्यलक्षणम्

108 अग्नीन्धनम् भैक्षचर्याम् ...{Loading}...

अग्नीन्धनं भैक्षचर्याम्
अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात्
कृतोपनयनो द्विजः ॥ २.१०८ ॥

109 आचार्यपुत्रः शुश्रूषुर् ...{Loading}...

आचार्यपुत्रः शुश्रूषुर्
ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तो ऽर्थदः साधुः
स्वो ऽध्याप्या दश धर्मतः ॥ २.१०९ ॥

110 नाऽपृष्टः कस्य ...{Loading}...

नाऽपृष्टः कस्य चिद् ब्रूयान्
न चाऽन्यायेन पृच्छतः ।
जानन्न् अपि हि मेधावी
जडवल् लोक आचरेत् ॥ २.११० ॥

111 अधर्मेण च ...{Loading}...

अधर्मेण च यः प्राह
यश् चाऽधर्मेण पृच्छति ।
तयोर् अन्यतरः प्रैति
विद्वेषं वाधिगच्छति ॥ २.१११ ॥

112 धर्मार्थौ यत्र ...{Loading}...

धर्मार्थौ यत्र न स्यातां
शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या
शुभं बीजम् इवोषरे ॥ २.११२ ॥

113 विद्ययैव समम् ...{Loading}...

विद्ययैव समं कामं
मर्तव्यं ब्रह्मवादिना ।
आपद्य् अपि हि घोरायां
न त्व् एनाम् इरिणे वपेत् ॥ २.११३ ॥

114 विद्या ब्राह्मणम् ...{Loading}...

विद्या ब्राह्मणम् एत्याह
शेवधिस् ते ऽस्मि रक्ष माम् [मेधातिथिपाठः - शेवधिष् टे] ।
असूयकाय मां मादास्
तथा स्यां वीर्यवत्तमा ॥ २.११४ ॥

115 यम् एव ...{Loading}...

यम् एव तु शुचिं विद्यान्
नियत-ब्रह्मचारिणम् [मेधातिथिपाठः - विद्या नियतं ब्रह्मचारिणम्] ।
तस्मै मां ब्रूहि विप्राय
निधिपायाऽप्रमादिने ॥ २.११५ ॥

116 ब्रह्म यस् ...{Loading}...

ब्रह्म यस् त्व् अननुज्ञातम्
अधीयानाद् अवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो
नरकं प्रतिपद्यते ॥ २.११६ ॥


  1. M G 1st ed.: avirodhāt ↩︎

  2. M G: smṛtyantaramātradarśita- ↩︎

  3. M G 1st ed. add: bādhitaḥ ↩︎

  4. M omits: vakṣyati; G: tad vakṣyati ↩︎

  5. M G omit: arthadaḥ ↩︎

  6. M G 1st ed.: pūrvaḥ ↩︎

  7. M G: kalpam iti ↩︎

  8. M G 1st ed.: jaritatayā ↩︎

  9. M G: anuvadantīti ↩︎

  10. J: -nirvṛttiḥ ↩︎

  11. M G: ye ↩︎

  12. M G 1st ed.: mriyatā ↩︎

  13. M G 1st ed,: kārakarī ↩︎

  14. M G: jānīyān ↩︎