०८ अनध्यायः

105 वेदोपकरणे चैव ...{Loading}...

वेदोपकरणे चैव
स्वाध्याये चैव नैत्यके ।
नाऽनुरोधो ऽस्त्य् अनध्याये
होममन्त्रेषु चैव हि ॥ २.१०५ ॥

106 नैत्यके नाऽस्त्य् ...{Loading}...

नैत्यके नाऽस्त्य् अनध्यायो
ब्रह्मसत्त्रं हि तत् स्मृतम् ।
ब्रह्माहुति-हुतं पुण्यम्
अनध्याय-वषट्कृतम् ॥ २.१०६ ॥

107 यः स्वाध्यायम् ...{Loading}...

यः स्वाध्यायम् अधीते ऽब्दं
विधिना नियतः शुचिः ।
तस्य नित्यं क्षरत्य् एष
पयो दधि घृतं मधु ॥ २.१०७ ॥


  1. M G: nādaraṇīyā ↩︎

  2. M G 1st ed.: -miśratvabuddhiḥ; G 2nd ed.: -miśratvāt buddhiḥ ↩︎