०६ इन्द्रियनिग्रहः

088 इन्द्रियाणां विचरताम् ...{Loading}...

इन्द्रियाणां विचरतां
विषयेष्व् अपहारिषु ।
संयमे यत्नम् आतिष्ठेद्
विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥

089 एकादशेन्द्रियाण्य् आहुर् ...{Loading}...

एकादशेन्द्रियाण्य् आहुर्
यानि पूर्वे मनीषिणः ।
तानि सम्यक् प्रवक्ष्यामि
यथावद् अनुपूर्वशः ॥ २.८९ ॥

090 श्रोत्रन् त्वक् ...{Loading}...

श्रोत्रं त्वक् चक्षुषी जिह्वा
नासिका चैव पञ्चमी ।
पायूपस्थं हस्त-पादं
वाक् चैव दशमी स्मृता ॥ २.९० ॥

091 बुद्धीन्द्रियाणि पञ्चैषाम् ...{Loading}...

बुद्धीन्द्रियाणि पञ्चैषां
श्रोत्रादीन्य् अनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां
पाय्व्-आदीनि प्रचक्षते ॥ २.९१ ॥

092 एकादशम् मनो ...{Loading}...

एकादशं मनो ज्ञेयं
स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जिताव् एतौ
भवतः पञ्चकौ गणौ ॥ २.९२ ॥

093 इन्द्रियाणाम् प्रसङ्गेन ...{Loading}...

इन्द्रियाणां प्रसङ्गेन
दोषम् ऋच्छत्य् असंशयम् ।
सन्नियम्य तु तान्य् एव
ततः सिद्धिं निगच्छति ॥ २.९३ ॥

094 न जातु ...{Loading}...

न जातु कामः कामानाम्
उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव
भूय एवाऽभिवर्धते ॥ २.९४ ॥

095 यश् चैतान् ...{Loading}...

यश् चैतान् प्राप्नुयात् सर्वान्
यश् चैतान् केवलांस् त्यजेत् ।
प्रापणात् सर्वकामानां
परित्यागो विशिष्यते ॥ २.९५ ॥

096 न तथैतानि ...{Loading}...

न तथैतानि शक्यन्ते
सन्नियन्तुम् असेवया ।
विषयेषु प्रजुष्टानि
यथा ज्ञानेन नित्यशः ॥ २.९६ ॥

097 वेदास् त्यागश् ...{Loading}...

वेदास् त्यागश् च यज्ञाश् च
नियमाश् च तपांसि च ।
न विप्रदुष्ट-भावस्य
सिद्धिं गच्छति कर्हि चित् ॥ २.९७ ॥

098 श्रुत्वा स्पृष्ट्वा ...{Loading}...

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च
भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा
स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥

099 इन्द्रियाणान् तु ...{Loading}...

इन्द्रियाणां तु सर्वेषां
यद्य् एकं क्षरतीन्द्रियम् ।
तेनाऽस्य क्षरति प्रज्ञा
दृतेः पादाद् इवोदकम् ॥ २.९९ ॥

100 वशे कृत्वेन्द्रियग्रामम् ...{Loading}...

वशे कृत्वेन्द्रियग्रामं
संयम्य च मनस् तथा ।
सर्वान् संसाधयेद् अर्थान्
अक्षिण्वन् योगतस् तनुम् ॥ २.१०० ॥


  1. G 1st ed.: apravṛttiḥ parihāro ↩︎

  2. M: puruṣānapahāriṇo; G 1st ed.: puruṣāpahāriṇo; G 2nd ed.: puruṣaapahāriṇo ↩︎

  3. M G omit: te ↩︎

  4. M G: padārthaḥ ↩︎

  5. M G 1st ed.: ajānato nāgamika ↩︎

  6. M G 1st ed.: api hasyate ↩︎

  7. M G: ye veditavyāḥ ↩︎

  8. M G 1st ed.: javas ↩︎

  9. M G: tālvādi ↩︎

  10. G omits: buddhīndriyāṇi ↩︎

  11. M omits: buddher indriyāṇi ↩︎

  12. M G omit: tattvākhyānam etat ↩︎

  13. M G omit: doṣaṃ ↩︎

  14. J: prāptam | ↩︎

  15. The readings here are quite confused. I follow Jha. M G 1st ed.: tadartham āha: na sevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | asaṃnihitāś ca na seviṣyante | tadartham āha | nāsevayā indriyāṇi niyantavyānīti; G 2nd ed.: tadartham āha: nāsevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | ↩︎

  16. M G 1st ed.: satyāpi sevayā ↩︎

  17. M G: asthisthūṇāsnāyuyutam ↩︎

  18. G 2nd ed. adds: satāpi ↩︎

  19. M G: praduṣṭāny eva pravṛttāny ↩︎

  20. M G: ucyate ↩︎

  21. M G: ayam aṃśas ↩︎

  22. M G 1st ed.: bhajati ↩︎

  23. J: -ṣaṣṭikāṃ ↩︎

  24. M G 1st ed.: vidhehi kṛtyendriyāṇi ↩︎

  25. M G: -prāvaraṇa ↩︎

  26. M G: sukumāratvāt prakṛtes ↩︎

  27. M G: vaśīkṛtveti ↩︎

  28. M G 1st ed. add: tṛtīyāyogaḥ ↩︎