०५ अध्ययनविधिः

068 एष प्रोक्तो ...{Loading}...

एष प्रोक्तो द्विजातीनाम्
औपनायनिको विधिः ।
उत्पत्ति-व्यञ्जकः पुण्यः
कर्मयोगं निबोधत ॥ २.६८ ॥

069 उपनीय गुरुः ...{Loading}...

उपनीय गुरुः शिष्यं
शिक्षयेच् छौचम् आदितः ।
आचारम् अग्निकार्यं च
सन्ध्योपासनम् एव च ॥ २.६९ ॥

070 अध्येष्यमाणस् त्व् ...{Loading}...

अध्येष्यमाणस् त्व् आचान्तो
यथाशास्त्रम् उदङ्-मुखः ।
(वक्ष्यमाण)ब्रह्माञ्जलि-कृतो ऽध्याप्यो
लघु-वासा जितेन्द्रियः ॥ २.७० ॥

071 ब्रह्मारम्भे ऽवसाने ...{Loading}...

ब्रह्मारम्भे ऽवसाने च
पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्ताव् अध्येयं
स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥(4)

072 व्यत्यस्त-पाणिना कार्यम् ...{Loading}...

व्यत्यस्त-पाणिना कार्यम्
उपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो
दक्षिणेन च दक्षिणः ॥ २.७२ ॥

073 अध्येष्यमाणन् तु ...{Loading}...

अध्येष्यमाणं तु गुरुर्
नित्यकालम् अतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्
विरामो ऽस्त्व् इति चारमेत् ॥ २.७३ ॥

074 ब्रह्मणः प्रणवम् ...{Loading}...

ब्रह्मणः प्रणवं कुर्याद्
आदाव् अन्ते च सर्वदा ।
स्रवत्य् अन्+ॐकृतं पूर्वं
परस्ताच् च विशीर्यति ॥ २.७४ ॥

075 प्राक्-कूलान् पर्युपासीनः ...{Loading}...

प्राक्-कूलान् पर्युपासीनः
पवित्रैश् चैव पावितः ।
प्राणायामैस् त्रिभिः पूतस्
तत ॐ-कारम् अर्हति ॥ २.७५ ॥

076 अकारञ् चाऽप्य् ...{Loading}...

अकारं चाऽप्य् उ-कारं च
म-कारं च प्रजापतिः ।
वेदत्रयान् निरदुहद्
भूर् भुवः स्वर् इतीति च ॥ २.७६ ॥

077 त्रिभ्य एव ...{Loading}...

त्रिभ्य एव तु वेदेभ्यः
पादं पादम् अदूदुहत् ।
तद् इत्य् ऋचो ऽस्याः सावित्र्याः
परमेष्ठी प्रजापतिः ॥ २.७७ ॥

078 एतद् अक्षरम् ...{Loading}...

एतद् अक्षरम् एतां च
जपन् व्याहृति-पूर्विकाम् ।
सन्ध्ययोर् वेदविद् विप्रो
वेदपुण्येन युज्यते ॥ २.७८ ॥

079 सहस्रकृत्वस् त्व् ...{Loading}...

सहस्रकृत्वस् त्व् अभ्यस्य
बहिर् एतत् त्रिकं द्विजः ।
महतो ऽप्य् एनसो मासात्
त्वचेवाऽहिर् विमुच्यते ॥ २.७९ ॥

080 एतयार्चा विसंयुक्तः ...{Loading}...

एतयार्चा विसंयुक्तः
काले च क्रियया स्वया ।
ब्रह्म-क्षत्रिय-विश्-योनिर्
गर्हणां याति साधुषु ॥ २.८० ॥

081 ॐ-कार-पूर्विकास् तिस्रो ...{Loading}...

ॐ-कार-पूर्विकास् तिस्रो
महाव्याहृतयो ऽव्ययाः [मेधातिथिपाठः - ओङ्कार-] ।
त्रि-पदा चैव सावित्री
विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१ ॥

082 यो ऽधीते ...{Loading}...

यो ऽधीते ऽहन्य् अहन्य् एतां
त्रीणि वर्षाण्य् अतन्द्रितः ।
स ब्रह्म परम् अभ्येति
वायुभूतः ख-मूर्तिमान् ॥ २.८२ ॥

083 एकाक्षरम् परम् ...{Loading}...

एकाक्षरं परं ब्रह्म
प्राणायामः परं तपः ।
सावित्र्यास् तु परं नाऽस्ति
मौनात् सत्यं विशिष्यते ॥ २.८३ ॥

084 क्षरन्ति सर्वा ...{Loading}...

क्षरन्ति सर्वा वैदिक्यो
जुहोति-यजति-क्रियाः ।
अक्षरं दुष्करं ज्ञेयं
ब्रह्म चैव प्रजापतिः [मेधातिथिपाठः - अक्षरं त्व् अक्षरं ज्ञेयं] ॥ २.८४ ॥

085 विधियज्ञाज् जपयज्ञो ...{Loading}...

विधियज्ञाज् जपयज्ञो
विशिष्टो दशभिर् गुणैः ।
उपांशुः स्याच् छतगुणः
साहस्रो मानसः स्मृतः ॥ २.८५ ॥

086 ये पाकयज्ञास् ...{Loading}...

ये पाकयज्ञास् चत्वारो
विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य
कलां नाऽर्हन्ति षोडशीम् ॥ २.८६ ॥

087 जप्येनैव तु ...{Loading}...

जप्येनैव तु संसिध्येद्
ब्राह्मणो नाऽत्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान्
मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥


  1. M G: tanmātāpitroḥ ↩︎

  2. M G: uktārtham ↩︎

  3. M G 1st ed.: śaucasyeṣyate ↩︎

  4. G 1st ed.: tadavaśiṣṭaṃ ↩︎

  5. M G: -vādanādibhiḥ; J: -vādanādi (mine is a conjectural emendation) ↩︎

  6. M G 1st ed.: upasannāḥ smādhyayanāya ↩︎

  7. M G add before prātar: na māsikaprayogārambhe prātaḥ ↩︎

  8. MG: kacchapakarṇa ↩︎

  9. J omits: na ↩︎

  10. M G 1st ed.: evaṃ ca tad ākhyāyate ↩︎

  11. M G omit: yajuḥṣu; J: yajur; the reading yajuḥṣu is a conjecture based on sāmasu and ṛkṣu that follow. ↩︎

  12. M G: vispṛṣṭam ↩︎

  13. M G: om iti kṛtaṃ ↩︎

  14. M G: oṃkṛtam ↩︎

  15. M G: tac ca pākasya ↩︎

  16. M G 1st ed.: evam āditaḥ ↩︎

  17. M G 1st ed.: -marṣaṇādiṣu ↩︎

  18. J: kṛteṣu ↩︎

  19. M G 1st ed. omit: hy ayaṃ ↩︎

  20. J: tripadā ca ↩︎

  21. M G: -prakaraṇaikavākyāt; J: -prakaraṇe vākyāt; my conjectural emendation is based on the necessity of a locative to parallel sati. Probably the double sandhi was used in MG (-raṇa + eka- = raṇaika). ↩︎

  22. J omits: yat ↩︎

  23. M G 1st ed.: -viṣayatayābhyeti ↩︎

  24. M G 1st ed.: vedavidi ↩︎

  25. G: avagame ↩︎

  26. M G: na tu ↩︎

  27. M: iti cet; G: iti ca ↩︎

  28. M G: daivavaśaprāpto ↩︎

  29. J: atke ↩︎

  30. M G 1st ed.: dauścayādi- ↩︎

  31. J: bhāvanā (mine is a conjectural reading) ↩︎

  32. M G: -bhāvanayā (omit tayā) ↩︎

  33. M G 1st ed.: antarddhānam anusmṛtiḥ; G 2nd ed.: antarddhānam anusaṃtardanam anusmṛtiḥ ↩︎

  34. M G add: niyame ucyate ↩︎

  35. M G 1st ed.: atha yuktā ↩︎

  36. M G: brāhmaṇa ↩︎

  37. M G: bahutarajapāt ↩︎

  38. M G 1st ed. omit: mano ↩︎

  39. M G 1st ed.: kuryān nityaṃ ↩︎