०४ संस्काराः

025 एषा धर्मस्य ...{Loading}...

एषा धर्मस्य वो योनिः
समासेन प्रकीर्तिता ।
सम्भवश् चाऽस्य सर्वस्य
वर्णधर्मान् निबोधत ॥ २.२५ ॥

026 वैदिकैः कर्मभिः ...{Loading}...

वैदिकैः कर्मभिः पुण्यैर्
निषेकादिर् द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः
पावनः प्रेत्य चेह च ॥ २.२६ ॥

027 गार्भैर् होमैर् ...{Loading}...

गार्भैर् होमैर् जातकर्म-
चौड-मौञ्जी-निबन्धनैः ।
बैजिकं गार्भिकं चैनो
द्विजानाम् अपमृज्यते ॥ २.२७ ॥

028 स्वाध्यायेन व्रतैर् ...{Loading}...

स्वाध्यायेन व्रतैर् होमैस्
त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश् च यज्ञैश् च
ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥

029 प्राङ् नाभिवर्धनात् ...{Loading}...

प्राङ् नाभिवर्धनात् पुंसो
जातकर्म विधीयते ।
मन्त्रवत् प्राशनं चाऽस्य
हिरण्य-मधु-सर्पिषाम् ॥ २.२९ ॥

030 नामधेयन् दशम्याम् ...{Loading}...

नामधेयं दशम्यां तु
द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा
नक्षत्रे वा गुणान्विते ॥ २.३० ॥

031 मङ्गल्यम् ब्राह्मणस्य ...{Loading}...

मङ्गल्यं ब्राह्मणस्य स्यात्
क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं
शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥

032 शर्मवद् ब्राह्मणस्य ...{Loading}...

शर्मवद् ब्राह्मणस्य स्याद्
राज्ञो रक्षासमन्वितम् [मेधातिथिपाठः - राज्ञा ?] ।
वैश्यस्य पुष्टि-संयुक्तं
शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२ ॥

033 स्त्रीणां सुखोद्यम् ...{Loading}...

स्त्रीणां सुखोद्यम् अक्रूरं
विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तम्
आशीर्वादाभिधानवत् ॥ २.३३ ॥

034 चतुर्थे मासि ...{Loading}...

चतुर्थे मासि कर्तव्यं
शिशोर् निष्क्रमणं गृहात् ।
षष्ठे ऽन्नप्राशनं मासि
यद् वेष्टं मङ्गलं कुले ॥ २.३४ ॥

035 चूडाकर्म द्विजातीनाम् ...{Loading}...

चूडाकर्म द्विजातीनां
सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा
कर्तव्यं श्रुतिचोदनात् [मेधातिथिपाठः - श्रुतिनोदनात्] ॥ २.३५ ॥

036 गर्भाष्टमे ऽब्दे ...{Loading}...

गर्भाष्टमे ऽब्दे कुर्वीत
ब्राह्मणस्योपनायनम् ।
गर्भाद् एकादशे राज्ञो
गर्भात् तु द्वादशे विशः ॥ २.३६ ॥

037 ब्रह्मवर्चस-कामस्य कार्यो ...{Loading}...

ब्रह्मवर्चस-कामस्य
कार्यो विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे
वैश्यस्येहाऽर्थिनो ऽष्टमे ॥ २.३७ ॥

038 आ षोदशाद् ...{Loading}...

आ षोदशाद् ब्राह्मणस्य
सावित्री नाऽतिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर्
आ चतुर्विंशतेर् विशः ॥ २.३८ ॥

039 अत ऊर्ध्वम् ...{Loading}...

अत ऊर्ध्वं त्रयो ऽप्य् एते
यथाकालम् असंस्कृताः ।
सावित्रीपतिता व्रात्या
भवन्त्य् आर्यविगर्हिताः ॥ २.३९ ॥

040 नैतैर् अपूतैर् ...{Loading}...

नैतैर् अपूतैर् विधिवद्
आपद्य् अपि हि कर्हि चित् ।
ब्राह्मान् यौनांश् च सम्बन्धान्
नाचरेद् ब्राह्मणः सह [मेधातिथिपाठः - ब्राह्मणैः सह] ॥ २.४० ॥

041 कार्ष्ण-रौरव-बास्तानि चर्माणि ...{Loading}...

कार्ष्ण-रौरव-बास्तानि
चर्माणि ब्रह्मचारिणः ।
वसीरन्न् आनुपूर्व्येण
शाण-क्षौमाविकानि च ॥ २.४१ ॥

042 मौञ्जी त्रिवृत् ...{Loading}...

मौञ्जी त्रिवृत् समा श्लक्ष्णा
कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या
वैश्यस्य शणतान्तवी ॥ २.४२ ॥

043 मुञ्जालाभे तु ...{Loading}...

मुञ्जालाभे तु कर्तव्याः
कुशाश्मन्तक-बल्वजैः ।
त्रिवृता ग्रन्थिनैकेन
त्रिभिः पञ्चभिर् एव वा ॥ २.४३ ॥

044 कार्पासम् उपवीतम् ...{Loading}...

कार्पासम् उपवीतं स्याद्
विप्रस्योर्ध्ववृतं त्रिवृत् ।
शण-सूत्रमयं राज्ञो
वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥

045 ब्राह्मणो बैल्व-पालाशौ ...{Loading}...

ब्राह्मणो बैल्व-पालाशौ
क्षत्रियो वाट-खादिरौ ।
पैलवाउदुम्बरौ वैश्यो
दण्डान् अर्हन्ति धर्मतः ॥ २.४५ ॥

046 केशान्तिको ब्राह्मणस्य ...{Loading}...

केशान्तिको ब्राह्मणस्य
दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः
स्यात् तु नासान्तिको विशः ॥ २.४६ ॥

047 ऋजवस् ते ...{Loading}...

ऋजवस् ते तु सर्वे स्युर्
अव्रणाः सौम्य-दर्शनाः ।
अनुद्वेगकरा नॄणां
स-त्वचो ऽनग्निदूषिताः ॥ २.४७ ॥

048 प्रतिगृह्येप्सितन् दण्डम् ...{Loading}...

प्रतिगृह्येप्सितं दण्डम्
उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याऽग्निं
चरेद् भैक्षं यथाविधि ॥ २.४८ ॥

049 भवत्-पूर्वञ् चरेद् ...{Loading}...

भवत्-पूर्वं चरेद् भैक्षम्
उपनीतो द्विजोत्तमः ।
भवन्-मध्यं तु राजन्यो
वैश्यस् तु भवद्-उत्तरम् ॥ २.४९ ॥

050 मातरं वा ...{Loading}...

मातरं वा स्वसारं वा
मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं
या चैनं नाऽवमानयेत् ॥ २.५० ॥

051 समाहृत्य तु ...{Loading}...

समाहृत्य तु तद् भैक्षं
यावदन्नम् अमायया [मेधातिथिपाठः - यावदर्थम्] ।
निवेद्य गुरवे ऽश्नीयाद्
आचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥

052 आयुष्यम् प्राङ्-मुखो ...{Loading}...

आयुष्यं प्राङ्-मुखो भुङ्क्ते
यशस्यं दक्षिणा-मुखः ।
श्रियं प्रत्यङ्-मुखो भुङ्क्ते
ऋतं भुङ्क्ते ह्य् उदङ्-मुखः ॥ २.५२ ॥

053 उपस्पृश्य द्विजो ...{Loading}...

उपस्पृश्य द्विजो नित्यम्
अन्नम् अद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यग्
अद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥

054 पूजयेद् अशनम् ...{Loading}...

पूजयेद् अशनं नित्यम्
अद्याच् चैतद् अकुत्सयन् ।
दृष्ट्वा हृष्येत् प्रसीदेच् च
प्रतिनन्देच् च सर्वशः ॥ २.५४ ॥

055 पूजितं ह्य् ...{Loading}...

पूजितं ह्य् अशनं नित्यं
बलम् ऊर्जं च यच्छति ।
अपूजितं तु तद् भुक्तम्
उभयं नाशयेद् इदम् ॥ २.५५ ॥

056 नोच्छिष्टङ् कस्य ...{Loading}...

नोच्छिष्टं कस्य चिद् दद्यान्
नाऽद्याद् एतत् तथान्तरा ।
न चैवाऽत्यशनं कुर्यान्
न चोच्छिष्टः क्व चिद् व्रजेत् ॥ २.५६ ॥

057 अनारोग्यम् अनायुष्यम् ...{Loading}...

अनारोग्यम् अनायुष्यम्
अस्वर्ग्यं चाऽतिभोजनम् ।
अपुण्यं लोकविद्विष्टं
तस्मात् तत् परिवर्जयेत् ॥ २.५७ ॥

058 ब्राह्मेण विप्रस् ...{Loading}...

ब्राह्मेण विप्रस् तीर्थेन
नित्यकालम् उपस्पृशेत् ।
काय-त्रैदशिकाभ्यां वा
न पित्र्येण कदा चन ॥ २.५८ ॥

059 अङ्गुष्ठमूलस्य तले ...{Loading}...

अङ्गुष्ठमूलस्य तले
ब्राह्मं तीर्थं प्रचक्षते ।
कायम् अङ्गुलिमूले ऽग्रे
देवं पित्र्यं तयोर् अधः ॥ २.५९ ॥

060 त्रिर् आचामेद् ...{Loading}...

त्रिर् आचामेद् अपः पूर्वं
द्विः प्रमृज्यात् ततो मुखम् ।
खानि चैव स्पृशेद् अद्भिर्
आत्मानं शिर एव च ॥ २.६० ॥

061 अनुष्णाभिर् अफेनाभिर् ...{Loading}...

अनुष्णाभिर् अफेनाभिर्
अद्भिस् तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेद्
एकान्ते प्राग्-उदङ्-मुखः ॥ २.६१ ॥

062 हृद्गाभिः पूयते ...{Loading}...

हृद्गाभिः पूयते विप्रः
कण्ठगाभिस् तु भूमिपः ।
वैश्यो ऽद्भिः प्राशिताभिस् तु
शूद्रः स्पृष्टाभिर् अन्ततः ॥ २.६२ ॥

063 उद्धृते दक्षिणे ...{Loading}...

उद्धृते दक्षिणे पाणाव्
उपवीत्य् उच्यते द्विजः ।
सव्ये प्राचीनावीती
निवीती कण्ठसज्जने ॥ २.६३ ॥

064 मेखलाम् अजिनम् ...{Loading}...

मेखलाम् अजिनं दण्डम्
उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि
गृह्णीताऽन्यानि मन्त्रवत् ॥ २.६४ ॥

065 केशान्तः षोडशे ...{Loading}...

केशान्तः षोडशे वर्षे
ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे
वैश्यस्य द्व्यधिके मतः ॥ २.६५ ॥

स्त्रीषु

066 अमन्त्रिका तु ...{Loading}...

अमन्त्रिका तु कार्येयं
स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य
यथाकालं यथाक्रमम् ॥ २.६६ ॥

067 वैवाहिको विधिः ...{Loading}...

वैवाहिको विधिः स्त्रीणां
संस्कारो वैदिकः स्मृतः ।
पतिसेवा गुरौ वासो
गृहार्थो ऽग्नि-परिक्रिया ॥ २.६७ ॥+++(5)+++


  1. J adds: dharmo ↩︎

  2. J: yadāśrama- ↩︎

  3. G: tūpanayanaṃ dharmo ↩︎

  4. M G: vāśramārthaṃ ↩︎

  5. M G 1st ed.: -bhedas tu nety ↩︎

  6. M G: tānīdānīṃ ↩︎

  7. J omits: ādadhāti ↩︎

  8. M G: -āpekṣyaṃ ↩︎

  9. M G: niṣpādito ‘dhyayana- ↩︎

  10. M G: śrute ↩︎

  11. M G: brahmacārī- ↩︎

  12. M G 1st ed.: kāmanānuṣṭhānāt; G 2nd ed.: kāmamanuṣṭhānāt ↩︎

  13. G 1st ed.: upāyās ↩︎

  14. M G: draṣṭavyanirdeśo ↩︎

  15. M G: dṛṣṭādinirdeśena ↩︎

  16. G 1st ed.: tad evedaṃ ↩︎

  17. M: tadevetannāmadheyakaṃ ↩︎

  18. M G 1st ed.: anibaddam ↩︎

  19. M G: gṛhye smṛtīnāṃ ↩︎

  20. M G: ūcuḥ kaṭho ↩︎

  21. M G connection this with the previous: asamāna evārthaḥ ↩︎

  22. M G here have a very different reading: yady etad asti tad eva kva tarhi | svakaṃ yad adhītaṃ tadarthaḥ śakyo ’nuṣṭhātum | ↩︎

  23. M G omit: yaḥ ↩︎

  24. M G: na tasya ↩︎

  25. M G 1st ed.: sarvasva ↩︎

  26. M G: upadiśya- ↩︎

  27. M: adravya; G: adravyatva ↩︎

  28. G: tad uktaṃ ↩︎

  29. M G 1st ed.: -viṣṭipātavivarjitam ↩︎

  30. M G: -prasaṅgo ↩︎

  31. G adds: matyā ↩︎

  32. J omits one yena ↩︎

  33. M G 1st ed. omit: yena ↩︎

  34. M G: -prayogādarśasaṃbandhād ↩︎

  35. M G: balārthavācinām ↩︎

  36. M G: ete śarmaśabdāḥ ↩︎

  37. G omits: śarma ↩︎

  38. M G: indrāvato ‘pi ↩︎

  39. M G: svakāraṇa- ↩︎

  40. M G 1st ed.: tat tu ↩︎

  41. J: -sausthiyāpekṣā ↩︎

  42. M G: cūḍākarmavyañjanā ↩︎

  43. M G: garbhaśabde ↩︎

  44. M G 1st ed.: yathāśrutānavāparo ↩︎

  45. M G: -prāṇatā cetad ↩︎

  46. J omits: ca ↩︎

  47. M G: -nivṛtte ↩︎

  48. M G: ceccha ↩︎

  49. M G: -bandhāv; J: -bandhav; this is probably a vocative: brahmabandho ↩︎

  50. M G: pūrveṇa ca ↩︎

  51. G 1st ed.: prāyaścitta ↩︎

  52. M G give accusative plurals: -mittān saṃbandhān …-pratigrahān ↩︎

  53. M G 1st ed. omit: kāmyo hy ayam . . . dakṣiṇādinā | ↩︎

  54. M G 1st ed.: sahahāridrumaṃtaṃ; G 2nd ed.: hāridrumaṃtaṃ ↩︎

  55. M G 1st ed. omit: trīṇi ↩︎

  56. M G: ānupūrvagrahaṇe ↩︎

  57. M G 1st ed.: triguṇīkṛtavedamūrdhani vartanaṃ ↩︎

  58. G: -ākhyaṃ ↩︎

  59. M G: pañcasūtrābhāve ↩︎

  60. M G: -ūdumbara ↩︎

  61. M G: kāṇḍa ↩︎

  62. M G: priyaṃkaraṃ ↩︎

  63. M G 1st ed. omit: mantrair ↩︎

  64. M G: abhidhānam ↩︎

  65. J: samārtham ↩︎

  66. M G 1st ed. : yadi vā na pratyaya- ↩︎

  67. M G 1st ed.: tadannaṃ ↩︎

  68. G: bhuṅkte ↩︎

  69. M: yathā ↩︎

  70. G 1st ed.: kṛtaṃ ↩︎

  71. M G omit: asyāpi ↩︎

  72. M G: yā ↩︎

  73. M G: brahmacārīdharmabhojanatā ↩︎

  74. M G 1st ed.: -viruddhavādivarjanaṃ ↩︎

  75. M G: yadi ↩︎

  76. M G 1st ed.: -saktupūpādy ↩︎

  77. M G 1st ed.: dhyānaṃ ↩︎

  78. M G 1st ed.: phalavidho ↩︎

  79. M G 1st ed. omit: na ↩︎

  80. M G 1st ed.: prakalpaṃ ↩︎

  81. M G: paripūrṇa ↩︎

  82. M G J: satvāpattir; my reading is conjectural, and based also on Jha’s translation of this sentence. ↩︎

  83. M G 1st ed.: -mūlatānatyśana- ↩︎

  84. M G 1st ed.: cāvidhānavad ↩︎

  85. M G omit: adha ↩︎

  86. M G: -kāṅkṣāya ↩︎

  87. G: evaṃ; J adds: evaṃ after daivaṃ; G misread daivaṃ as evaṃ, and J added this misreading to the original daivam ↩︎

  88. J: agraśabde ↩︎

  89. M G: kaṇiṣṭhāntaralayoḥ ↩︎

  90. M G: -layoḥ kāyaṃ pūrveṇāgram ↩︎

  91. M G 1st ed.: netaro viṇmūtrādi- ↩︎

  92. M G: aharahaḥsu ↩︎

  93. M G: sparśa ↩︎

  94. M G 1st ed.: asya ↩︎

  95. G 1st ed.: saṅga ↩︎

  96. G: sūtrakasya ↩︎

  97. M G 1st ed.: kamaṇḍalunā ↩︎

  98. M G 1st ed.: pauṃsnam eva ↩︎

  99. J: nāsti | atyato ↩︎

  100. M G 1st ed. add: tadāpattivacanaṃ vivāhasya; this is included in the third sentence of the commentary. ↩︎