०३ देशौचित्यम्

017 सरस्वती-दृशद्वत्योर् देवनद्योर् ...{Loading}...

सरस्वती-दृशद्वत्योर्
देवनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं
ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥+++(5)+++

018 तस्मिन् देशे ...{Loading}...

तस्मिन् देशे य आचारः
पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां
स सदाचार उच्यते ॥ २.१८ ॥

019 कुरुक्षेत्रञ् च ...{Loading}...

कुरुक्षेत्रं च मत्स्याश् च
पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै
ब्रह्मावर्ताद् अनन्तरः ॥ २.१९ ॥

020 एतद् देशप्रसूतस्य ...{Loading}...

एतद् देशप्रसूतस्य
सकाशाद् अग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन्
पृथिव्यां सर्वमानवाः ॥ २.२० ॥

021 हिमवद्-विन्ध्ययोर् मध्यम् ...{Loading}...

हिमवद्-विन्ध्ययोर् मध्यं
यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च
मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥

022 आ समुद्रात् ...{Loading}...

आ समुद्रात् तु वै पूर्वाद्
आ समुद्राच् च पश्चिमात् ।
तयोर् एवाऽन्तरं गिर्योर्
आर्यावर्तं विदुर् बुधाः ॥ २.२२ ॥

023 कृष्णसारस् तु ...{Loading}...

कृष्णसारस् तु चरति
मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो
म्लेच्छदेशस् त्व् अतः परः ॥ २.२३ ॥

024 एताण् द्विजातयो ...{Loading}...

एताण् द्विजातयो देशान्
संश्रयेरन् प्रयत्नतः ।
शूद्रस् तु यस्मिन् कस्मिन् वा
निवसेद् वृत्तिकर्शितः [मेधातिथिपाठः - यस्मिंस् तस्मिन् वा] ॥ २.२४ ॥


  1. DK (5: 117) suggests: kanyāgamane ↩︎

  2. DK (5: 117) suggests: yathā ca ↩︎

  3. M G: kurukṣetre ↩︎

  4. M G: kuruta ↩︎

  5. M G: bhavati ↩︎

  6. M G: avadhīn kṛtvā ↩︎

  7. J: kṛṣṇasārākhyo ↩︎

  8. M G J: pratilomajātīyānadhikṛtā ↩︎

  9. M G 1st ed.: -vidhāyaka ↩︎

  10. M G: yāgārhatā saty ↩︎

  11. M G 1st ed.: vaidyāś; G 2nd ed.: traividyavaidyāś ↩︎

  12. M G: vakṣyante ↩︎

  13. M G: jātā āśrayeran ↩︎

  14. M G: deśāntare ‘py adhi- ↩︎

  15. M G: kalpādhikāratve ↩︎

  16. M G: tv anityakāmyānām ↩︎

  17. M G: vacanaṃ liṅgam ↩︎

  18. M G: arthahānir; J: atha hānir ↩︎

  19. M G 1st ed.: liṅgād ↩︎

  20. M G 1st ed.: vā dvijātiyam ↩︎

  21. DK (5: 762) suggests: enaṃ na ↩︎

  22. M G 1st ed.: varṣakṛtatvena ↩︎

  23. G: atiniyamam ↩︎

  24. M G: place this sentence as an introduction to verse 25. ↩︎