०१ धर्मकामसम्बन्धः

001 विद्वद्भिः सेवितः ...{Loading}...

विद्वद्भिः सेवितः सद्भिर्
नित्यम् अद्वेष-रागिभिः ।
हृदयेनाऽभ्यनुज्ञातो
यो धर्मस् तं निबोधत ॥ २.१ ॥

002 कामात्मता न ...{Loading}...

कामात्मता न प्रशस्ता
न चैवेहाऽस्त्य् अकामता ।
काम्यो हि वेदाधिगमः
कर्मयोगश् च वैदिकः ॥ २.२ ॥

003 सङ्कल्प-मूलः कामो ...{Loading}...

सङ्कल्प-मूलः कामो वै
यज्ञाः सङ्कल्प-सम्भवाः ।
व्रतानि यमधर्माश् च
सर्वे सङ्कल्पजाः स्मृताः ॥ २.३ ॥

004 अकामस्य क्रिया ...{Loading}...

अकामस्य क्रिया का चिद्
दृश्यते नेह कर्हि चित् ।
यद् यद् +धि कुरुते किं चित्
तत् तत् कामस्य चेष्टितम् ॥ २.४ ॥

005 तेषु सम्यग् ...{Loading}...

तेषु सम्यग् वर्तमानो
गच्छत्य् अमरलोकताम् ।
यथा सङ्कल्पितांश् चेह
सर्वान् कामान् समश्नुते ॥ २.५ ॥


  1. M G J: saṃbhava iti (I follow DK 5: 604) ↩︎

  2. DK (5: 604): ātmano ↩︎

  3. G 1st ed.: ātmani yogopabhoge cāraktāḥ ↩︎

  4. M: ātmani ye bhogopayogāsareṇa ↩︎

  5. G 1st ed.: samarthā ↩︎

  6. G 1st ed.: sevanti ↩︎

  7. M G: cocyate ↩︎

  8. G: rāgadveṣaḥ ↩︎

  9. DK (5: 607) suggests: śruto ↩︎

  10. M G J: yadāpi (I follow DK 5: 607) ↩︎

  11. M G: tathānyathānuṣṭhāne ↩︎

  12. M G add: na caivehāsty akāmatā ↩︎

  13. G: niścinomīti ↩︎

  14. M G 1st ed. omit kriyā ↩︎

  15. M G 1st ed.: kiṃcid ↩︎

  16. M G 1st ed.: -kāraṇaṃ ↩︎

  17. J: kamaṇyam ↩︎

  18. M G 1st ed.: kamaṇy ↩︎