अथ द्वादशतमो ऽध्यायः
चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उतो धर्मस् त्वयानघ ।
कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥ १२.१ ॥
मेधातिथिः ...{Loading}...
आद्यो ऽर्धः श्लोकः शास्त्रार्थ-परिसमाप्ति-दर्शनेनाधिकाकाङ्क्षा-निवृत्त्यर्थः । कृत्स्नग्रहणं संमानार्थम्1 - एतावन्तः स्मार्ता धर्मा यस्मिन् शास्त्रे रहस्यपर्यन्त उपदिष्टाश् च ।
शिष्य-मुखेनाचार्यस्यैव कृत्स्न-कारिता शास्त्रस्य प्रतिपाद्यते (कथाप्रसङ्गात्), न (दृढं) विवक्षिता । नात्र शिष्याचार्यं वस्तुतः प्रतिपत्तव्यम् । ग्रन्थकार एवेमं ग्रन्थम् एवं विभजति ।(5)
धर्मशब्दश् च कर्तव्यतावचनो विधिप्रतिषेधसमूहम् अनुवदति । तेन कर्मफलसंबन्धो ऽनुक्त इति इत ऊर्ध्वं प्रतिपाद्यते । कृत्स्नो धर्म उक्तस् त्वया । विधिप्रतिषेधापेक्षया वचनम् उपपन्नं भवति ।
- कस्य पुनः कर्मणः फलसंबन्धो जिज्ञास्यते येनोच्यते कर्मणां फलनिर्वृत्तिं शंसेति । यावता यावन्ति2 तावन् नित्यानि शास्त्रनोदितत्वाद् एव क्रियन्ते न तेषां फलम् अभिसंधेयम् । न हि तानि फलार्थानि । यान्य् अनित्यानि3 तत्रापि प्रतिकर्म प्रायशः फलान्य् उक्तान्य् एव “वारिदस् तृप्तिम् आप्नोति” (म्ध् ४.२३०), “स्वर्गम् आयुश्4 च” (आप्ध् १.५.१५) इत्यादीनि च । यत्रापि नोक्तम् इव मन्येत तत्रापि स्वर्गादि साधितम् एव । यानि जातकर्मादीनि संस्कारकर्माणि तानि संस्कार्यविशेषोक्तस्य क्रियाफलेनैव फलवन्ति नादृष्टम् आकांक्षन्ति । यान्य् अपि नैमित्तिकानि द्रव्यशुद्ध्यादीनि चाण्डालस्पर्शनस्नानादीनि तान्य् अपि दृष्टप्रयोजनान्य् एव । शुद्धये हि तानि5 क्रियन्ते, अशुद्धैर् व्यवहारप्रतिषेधात् । प्रायश्चित्तानि चानन्तरम् उक्तप्रयोजनान्य् एव । अतो न विद्मः कस्य वास्य कर्मणः फलम् अभिजिज्ञास्यते ।
- प्रतिषेधानाम् । “शरीरजैः कर्मदोषैः” (म्ध् १२.९) इत्यादिना6 तेषाम् एव वक्ष्यमाणत्वात् । तथाप्रतिषेधानुष्ठानम् अपि शास्त्रचोदितम् एव ।
- ननु7 तत्र फलार्थित्वे हि न सर्वविषयो ऽधिकारः स्यात् । अर्थिता वाधिक्रियेत ।
- उच्यते । नैवात्र तादृशं फलम् अभिधीयते यत् काम्यते । अनिष्टफलदर्शनम् अत्र क्रियते । नैव तत् काम्यते । नैव च कश्चिद् अनिष्टप्राप्तिम् इच्छति । अतः सर्वविषयतासिद्धिः । यद् अप्य् उच्यते “शास्त्रं चोदितं8 प्रतिषेधानुष्ठानं क्रियते,” अत्यल्पम् इदम् उच्यते । एवं तत्रानुष्ठानम्9 इति । सर्वम् एव शास्त्रनोदितं क्रियते ।
-
किं तु तच् छास्त्रं फलार्थिनः कस्यचित् कर्तव्यतां स्थापयति । कस्यचिद् अन्तरेण फलं नैमित्तिकत्वेन । इह तु यावज्जीवम् इव निमित्तश्रुतेर् अभावात् किमर्थं प्रतिषिद्धं न क्रियत इति ।
-
उपेक्षायां10 प्रत्यवायश् च दृश्यते- “जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते” (म्ध् ११.२०५) इति ।
- ननु च यत् प्रतिषिद्धं ब्राह्मणवधादि न तच् छास्त्रचोदितम् । शास्त्रनोदितस्य हि शास्त्रीयेण फलेन संबन्धो युक्तः, यथा “स्वर्गकामो यजेत” इति । शास्त्रतो हि यागस्य कर्तव्यताप्रतिपत्तिर् नान्यतः । इह तु द्वेषादिना लौकिकी प्रवृत्तिर् अशास्त्रीया । न चाशास्त्रीयस्य शास्त्रीयेण फलेन संबन्धो न्याय्यः । यद् अप्य् उक्तम् “उपेक्षायां प्रत्यवायः प्रदर्शितः” इति, किमित्य् अत्राकांक्षा11 । यावता द्विषन्तं प्रति वर्तमानस्य12 न कर्तव्यम्" इति शास्त्रतो ऽवगतिर् जायते, तावता वाक्यार्थसमाप्तिः । किम् अत्र पदम् अस्ति यदाकांक्षीत13 ।
- एतद् विविच्यमानं महान्तं ग्रन्थविस्तारम् आक्षिपति । संक्षेपस् त्व् अयम् । “न हिंस्याद् भूतानि” इति प्रतिषेधविधेः प्रतिषेधो भावार्थः । कर्तृकरण इति च श्रूयते14 । तत्र विधेस्15 तावन् नियोज्यविषयाकांक्षा16 । तत्र नियोज्यस्येयम् अवगतिर् भवति- “न17 मयैतत् कर्तव्यम्” । नार्थस् तत्र नियुक्तः, पुरुषनियोगरूपत्वाद् विधेः । स चात्र नियोज्यो लौकिक्या द्वेषलक्षणया प्रवृत्त्यार्थेन प्रवर्तमानहिंसास्वभावोपदेशेन समर्पितः । यः स्वेच्छया हनने प्रवर्तते स हन्याद् इति । न चैतेन युज्यते स ह्य् अत्र विधेर् विषयः । न चेति शून्येषु भावार्थस्यान्यतः प्राप्तत्वात् पुरुषोपलक्षणत्वात् स्वेन विषयत्वेन विधेः संबन्धः । यश् चासौ नियोज्यः स न तीर्थत्वेन नियोज्यभावम् आत्मनः प्रतिपद्यते । यावत् तद्विषयस्य प्रतिषिध्यमानस्य नानिष्टफलताम् अध्यवस्यति । तथा हि लोके व्युत्पत्तिः । “सभ्यायाङ्गुलिर् देया” इति वदन् प्रतिषिद्धे तदतिक्रमणे18 तदनुष्ठीयमानम् अनर्थहेतुतया प्रतिपन्नम् । न च19 लौकिकीं व्युत्पत्तिम् अवमृज्य हेत्वन्तरम् उपन्यासम् अर्हति । तत्राश्रुताप्य्20 अनिष्टफलता प्रतिषेधसामर्थ्यात् कल्पयितुं युक्ता, किं पुनर् यत्र श्रूयत एव । न हि श्रुतस्योत्सर्गो न्याय्यः । न चात्र वादमात्रोपलक्षकत्वं नरकादिफलं श्रुतियुक्तम् उक्तेन न्यायेन फलापेक्षान्वयः सकाशात् ।
-
किं चार्थवादा विधिविशेषा भवन्ति । न चेह कश्चिद् विधिः श्रुतः प्रकृतो वा, कर्मफलसंबन्धस्यैव प्राधान्येन प्रतिपादयिष्यमाणत्वात् । न ह्य् अत्र कर्माणि विधीयन्ते । अतश् च तेषां फलसंबन्ध उच्यते । न चैतावता भवन्ति वाक्यशतान्य् अनर्थकानि । भवन्तु अर्हन्तु स्मृतिकारणं तावद् एतद् दर्शनम् । न ह्य् अन्यथैतानि वाक्यानि व्याख्यातुं शक्यन्ते । अविधिशेष इह नास्ति ।
-
गुणवादेनैतद् व्याख्यानं शास्त्रकाराणाम् अपि भ्रान्तिर् इति चेत् ।
-
न । नैवंवादिन आत्मनः प्रकर्षतो महर्षीन् अवजानते ।
-
अघं पापम् । अनघेति संबोधनम् निष्कल्मषतया स्तुत्यर्थम् । शंसेति वाग्यतो वर्तते ॥ १२.१ ॥
स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२ ॥
मेधातिथिः ...{Loading}...
पृष्टप्रतिवचनम् एतत् । यद् अहं पृष्टः शृणु तत् । कर्मणो योगम् इति संबन्धः । स च प्रकृतत्वात् फलेनैव विज्ञेयः ॥ १२.२ ॥
शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
कर्मजा गतयो नॄणाम् उत्तमाधममध्यमाः ॥ १२.३ ॥
मेधातिथिः ...{Loading}...
शुभस्य निर्देशो दृष्टान्ततया, मनोवाग्व्यापारविध्यर्थो वा मनसो वाचो देहाच् च संभवति कर्म21 । कर्मशब्दो न चेज्यायाम् एव कायपरिस्पन्दे वर्तते । किं तर्हि, क्रियामात्रे22 योगध्यानवचनात्मके ऽपि । फलशब्दः प्रत्येकम् अभिसंबध्यते । शुभफलम्23 अशुभफलं च । नैवं विज्ञेयं कायव्यापारसाधनाद् एव24 कर्मानुष्ठानाच् छुभाशुभफलप्राप्तिः । अपि तु मनोवाक्कायसंभवाद् अप्य् एवम् एव । तस्माद् अपि त्रिविधात् कर्मणस् तु विधीयते फलप्राप्तिः ॥ १२.३ ॥
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ १२.४ ॥
मेधातिथिः ...{Loading}...
ननु च "दण्ड्यान् यजेत" "न हिंस्यात्" इति शुभम् अशुभं च । ते सर्वे कायव्यापारसाध्ये । दानेनात्मनः[^२५] स्वत्वनिवृत्तिः परस्य च स्वत्वसंपादनं तच् च पूर्वं "दक्षिणेन हस्तेन" इत्यादि विहितिम् । यागो ऽपि प्रयोगरूपो ऽवभृथान्तः कायव्यापारनिर्वर्त्यो भवति । एवं संघातदण्ड्याद्यविद्या[^२६] तु कायिकतया प्रसिद्धैव । तत्र किं तत् कर्म यन् मनसः संभवति ।
- अत आह अर्थस्यास्य मनो विद्यात् प्रवर्तकम् । मनसो हि व्यापाराः सर्वे25 दर्शनादयः । न च त्रिष्व् असत्सु भौतिको व्यापारः । तथा हि प्रथमं तावन् मनसायम् अर्थं संपश्यत्य् अयम् ईदृश एव तस्य26 वस्तुनः सुखं दुःखं वास्य कारणं27 तत आयत्ते “कथम् एतन् मनः संपद्यते” । ततो ऽध्यवस्यति “संपादयाम्य् अतो नेदम्” इति । तत्र उदरे क्रियाप्रधाने कायपरिस्पन्दरूपवाग्व्यवहारश् च । अतः सर्वस्य मनः प्रवर्तकं प्रेषापूर्वकारिणः
- अबुद्धिपूर्वं तु नावश्यं सद्दर्शनादयः पूर्वभाविरूपस्य ताद्रूप्येण ग्रहणम् — यथा मद्ये वर्णसादृश्यात्28 पानकबुद्ध्या प्रवृत्तिः, संतमासंभवात्29 तया परस्त्रीषु, अन्यत् तु दैवोपनिपतितम्, यथा सुप्तस्य हस्तसंचारपार्श्वपरिवर्तनादिना मशकादिप्राणिवधः — तत्रापि कर्तृत्वम् उपपादितं प्रायश्चित्तेषु प्रवृत्तिहेतुः ।
- त्रिविधस्य,30 वाङ्मनःकायसाधनभेदेन । त्र्यधिष्ठानस्य, उत्तमाधममध्यमगतिभेदेन । दशलक्षणयुक्तस्य मनः कायकर्मणोः प्रत्येकं त्रैविध्यं वाङ्मयं चतुर्विधम् । एतानि दशलक्षणानि । तान्य् उपरिष्टाद् वक्ष्यति ॥ १२.४ ॥
परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥ १२.५ ॥
मेधातिथिः ...{Loading}...
अभिध्यानं नाम परद्रव्यविषयेर्ष्याबुद्ध्या परद्रव्याभिभवानुचिन्तनम्- “कियद् अश्वगोधनं कियद् वाजाविकम् इति च विभवो ऽश्वाः धिग्दैवं कस्माद् अस्येयती समृद्धिः, अथ च कथं नामैतस्यापहरेयम्, अथ वा साधुर् भवति यद्य् एतस्यैतन् न भवति” ।
-
अन्ये त्व् आहुर् एतद् धनं समभिभवति ।
-
अनिष्टचिन्तनं परस्येत्य् अभिसंबध्नन्ति । परवधोपायचिन्तनम्- “यदि म्रियते,” “तन् ममास्तु” इति वा ।
-
ननु च परद्रव्याभिध्यानम्31 एवोक्तम् । अनेनैव सिद्धे तद् अनर्थकम् ।
-
सामान्यशब्दो ह्य् अयम् । यद् अनिष्ठम् अनभिप्रेतं परस्य तन् न चिन्तनीयम् । धननाशो ऽपि परस्य नैवेष्टः । एतद्भयाच् च किंचन परस्येत्य् एतन् न व्याहरन्ति । अनिष्टं च यत् प्रतिषिद्धं तद् व्याचक्षते ।
-
अस्मिन्न् अपि पक्षे परद्रव्याभिध्यानं प्राधान्यार्थम् एव ।
-
एवं वितथाभिनिवेशो ऽपि । पूर्वपक्षार्थस्य सिद्धान्तत्वेन ग्रहणम्, विज्ञानवादः, वेदाप्रामाण्यम्,32 अनात्मताग्रह इत्येवमादि ।
-
अन्ये तु नित्यनिरामिषद्वेषम् आहुः ।
-
इयं च त्रिविधाकुशला मानसी प्रवृत्तिः । अतो ऽन्या कुशला । अस्पृहा परद्रव्येषु, दया सर्वसत्त्वेषु, श्रद्धा धर्माद्यस्तित्वादिषु । तथा च भगवान् व्यासः ।
-
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
-
धर्मिणां फलम् अस्तीति त्रिविधं मनसा स्मरेत् ॥ १२.५ ॥
पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥ १२.६ ॥
अदत्तानाम् उपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥
मेधातिथिः ...{Loading}...
शास्त्रीयाप्राधान्यतयास्य +अदत्तानाम् असद्भ्य उपादानं दुष्टं चैव । तथा कुमार्यादिपरदारादाव् अपि । विपरीतधर्मादानं परित्राणम् इन्द्रियसंयमश् च । इदं मनोवाग्देहभेदेन दशविधम् । प्रवृत्तिकुशलाकुशलविभागेन विंशतिप्रकाराः ॥ १२.७ ॥
मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥
मेधातिथिः ...{Loading}...
परस्य मनस्तापो येन जन्यते कर्मणा ततो **मानसं** दुःखम् आप्नोतीति केचित् ।
- वयं तु ब्रूमो यत् त्रिविधं मानसम् उक्तं ततो मनोदुःखाप्तिः । एवम् उत्तरयोर् अपि ॥ १२.८ ॥
शरीरजैः कर्मदोषैर् याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥ १२.९ ॥
मेधातिथिः ...{Loading}...
भूयस्त्वाभिप्रायम् एतत् । प्रायेणैतासां जातीनाम् एतानि यथाविभागं निमित्तानि । न त्व् अयं नियमः । तथा महापातकिनां तिर्यक् पर्यटन्तीति वक्ष्यतीति (च्ड़्। म्ध् १२.५५ड़्) । पक्षिमृगग्रहणं तिर्यग्जातिमात्रप्रदर्शनार्थम् । मनोवाक्कायकर्मणाम् उत्तरोत्तरस्य गुरुत्वप्रदर्शनार्थपरम्33 ॥ १२.९ ॥
वाग्दण्डो ऽथ मनोदण्डः कायदण्डस् तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १२.१० ॥
मेधातिथिः ...{Loading}...
दमनं दण्डः । वाचो दण्डः पारुष्याप्रवृत्तिः । एवम् उत्तरयोर् अपि । यस्यैते दण्डा बुद्धौ निहिता “नैतन् मया कर्तव्यम्” इति यो न स्खलति स त्रिदण्डीत्य् उच्यते । न त्व् अनार्यो गुरुकाष्ठदण्डं धारयति ॥ १२.१० ॥
त्रिदण्डम् एतन् निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ सुसंयम्य34** ततः सिद्धिं निगच्छति**35** ॥ १२.११ ॥**
मेधातिथिः ...{Loading}...
त्रयाणां दण्डानां समाहारस् त्रिदण्डम् । पात्रादिदर्शनाद् अस्त्रियां भाषणात् (च्ड़्। पान् २.४.१७) । बुद्धौ निक्षिप्य बुद्धौ कृत्वा । सर्वभूतेष्व् अघातकत्वं चावस्थितं त्रिदण्डं वा निहितम् । कामक्रोधयोः संयमः सु साधुः । ततः सिद्धिं मोक्षाख्यां गच्छति प्राप्नोति । आध्यात्मिकत्वोपन्यास उपक्रमो ऽयम् । कस्य पुनर् एषा सिद्धिः कस्य वामुत्र36 विकारकर्मफलानां भोक्तृत्वम् । भस्मान्तं शरीरम् । न च ततो ऽयम् उपलभामहे । तेन सर्वेषु37 धर्माधर्मेष्व् अधिकारिपुरुषं प्रदर्शयितुकामः प्रारभते ॥ १२.११ ॥
यो ऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥
मेधातिथिः ...{Loading}...
अस्य शरीरस्य क्रियापरिस्पन्दात्मिकां38 क्रियां स्वयं प्रवर्तयिता । प्रयत्नवशेनास्य कर्तृत्वम् । स क्षेत्रज्ञः । अस्यात्मन इति समानाधिकरणे षष्ठी । आत्मशब्दस्य शरीरे वृत्तिः,39 तस्यापि आत्मार्थत्वात् । यः करोति पानादिलक्षणं40 तज्जन्यो यः शरीराख्यः कर्ता स भूतात्मोच्यते पृथिव्यादिभूतसंघातः, जघन्यत्वात् । भूतविकार आत्मा भूतात्मा । तथा चोक्तम् “द्वाव् आत्मानाव् अन्तरात्मना शरीरात्मना” ॥ १२.१२ ॥
जीवसंज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३ ॥
मेधातिथिः ...{Loading}...
किं पुनर् अयं जीवो नाम यावता क्षेत्रज्ञम् एव जीवं मन्यन्ते । द्वौ चात्रोपलभ्येते- शरीरम् अहंप्रत्ययविज्ञेयश् चान्तरात्मा । ततो ऽन्यः कश्चिज् जीवो नाम ।
- केचित् तावद् आहुः महदादिभूतसूक्ष्मपरिवेष्टितं41 लिङ्गं यत् पठ्यते “संसरति निरुपभोगं भावैर् अधिवासितं42 लिङ्गम्” (साम्क् ४०) इति । येनेतिकरणत्वं च वेदनं प्रति तस्योपपद्यते । तद् धि स्थूलभूतानाम् आश्रयः, तस्यैव शरीराख्यबाह्यभूताश्रयत्वात् । शरीरे च सत्य् आत्मनः सुखदुःखभोक्तृत्वम् । अतो येनेति करणविभक्त्योच्यते ।
ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥
मेधातिथिः ...{Loading}...
उच्चावचेषु बहुविधेषु नानारूपेषु भूतेषु सर्वेषु यः स्थितो व्याप्य तानि भूतानि । तिष्ठतः संश्रयतः । अतश् च सर्वकर्मकर्तृत्वम्, तिष्ठतेर् अनेकार्थत्वात् ।
- को ऽसाव् उच्चावचेषु भूतेषु व्याप्य स्थितः ।
परमात्मा चेतनाचेतनजगत्परित्यक्तः परमानन्दरूपः परस्ताच् च प्रतिपादयिष्यते ।
भूतसंपृक्तौ** भूतानि पञ्च । महान् इति45 । येन वेदयत इत्य् उक्तः । क्षेत्रज्ञः “अस्यात्मनः” (म्ध् १२.१२) इति ।
- यथाव्याप्त्यापक्षे46 ऽपि द्वितीयस्थितं तम् इति । संश्रयणं च तत्कारणत्वात् सर्वस्यास्य जगतः । कार्यं च कारणम् आश्रयत्य् अतो ऽपेक्षैव संश्रयणम् । तथा च भवान् व्यासः-
-
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
-
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ (भ्ग् १५.१६)
क्षरशब्देन सर्वं चैतद् उच्यते, चाराचरप्रपञ्चरूपम् । अक्षरं प्रकृतिकारणम् कूटस्थशब्देन, कारणरूपतया प्रलये ऽप्य् अविनाशात् । अथ वा क्षरं शरीरम् अक्षरः क्षेत्रज्ञः । कूटस्थत्वं तु तस्यामोक्षप्राप्तेः कर्तृत्वभोक्तृत्वानिवृत्त्या-
-
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
-
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ (भ्ग् १५.१७) ॥ १२. १४ ॥
असंख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १२.१५ ॥
मेधातिथिः ...{Loading}...
मूर्तिशब्देन यावत् किंचिद् भौतिकं कार्यकारणम् इति शक्तिश् च तद् उच्यते । तद् एतत् सर्वं तस्य परमात्मनः शरीरात् प्रादुर् भवति । स्वभाव एव तस्य शरीरम् । शिलापुत्रकस्य शरीरम् इतिवद् भेदेन व्यपदेशः । असंख्या अनन्ताः । समुद्राद् इवोर्मयः । निष्पतन्ति प्रादुर् भवन्तीत्य् उक्तम् । ताभिः प्रादुर्भूताभिर् इदं जगच् चेष्टते सक्रियं भवतीत्य् अर्थः । शरीरेन्द्रियविज्ञानैर् विना चेष्टाया अभावाच् चेष्टयन्तीत्य् उच्यते ।
- अन्ये तु शरीरतः प्रधानं च परमात्मनः शरीरं तदधीनप्रवृत्तित्वात्, नात्र भूतानि47 ॥ १२.१५ ॥
पञ्चभ्य एव भूतेभ्यः[^५०]** प्रेत्य दुष्कृतिनां नृणाम् ।**
शरीरं यातनार्थीयम् अन्यद् उत्पद्यते ध्रुवम् ॥ १२.१६ ॥
मेधातिथिः ...{Loading}...
पञ्चभ्यो भूतेभ्यो ऽन्यच् छरीरं प्रेत्योत्पद्यते । एतद् उक्तं भवति । शुक्रशोणितम् अन्तरेणैव पाञ्चभौतिकं शरीरम् उत्पद्यते । दुष्कृतीनां च पाञ्चभौतिकं शरीरं पुण्यक्र्ताम् तु तैजसाकाशमात्राणि48 भवन्ति । यथोक्तम् “वायुभूतः खमूर्तिमान्” (म्ध् २.८२) इति । यातना पीडातिशयः । तद्अर्थीयम्,49 यद्50 अतिदृढम् अलौकिकदुःखसहिष्णुः ॥ १२.१६ ॥
तेनानुभूय ता यामीः शरीरेणेह यातनाः ।
तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७ ॥
मेधातिथिः ...{Loading}...
यमो नाम देवताविशेषो दुष्कृतिनां निग्रहादिकृत् । तद्दृष्टा यातना अस्य । ता अनुभूय तेन51 पाञ्चभौतिकेन शरीरेण । तानि शरीराणि पुनः प्रलीयन्ते तासु सूक्ष्मासु भूतमात्रासु ॥ १२.१७ ॥
सो ऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।
व्यपेतकल्मषो ऽभ्येति ताव् एवोभौ महौजसौ ॥ १२.१८ ॥
मेधातिथिः ...{Loading}...
विषयसङ्गात् प्रतिषिद्धविषयोपसेवनात् प्रतिषिद्धान् ततः सङ्गाच् च ये जाता दोषाः पापनिर्मिताः । नरकाद् दुःखान्य् अनुभूय तेन च दुःखोपभोगेन व्यपेतकल्मषो ऽपहतपाप्मा चेति । ताव् एवोभौ महौजसौ ।
- काव् उभौ । महान् क्षेत्रज्ञश्52 च तौ प्रकृतौ । अनन्तरश्लोकेन च क्षेत्रज्ञ एवानुभाविता सुखदुःखयोः । स इति च तस्यैव परामर्शो ऽतः क्षेत्रज्ञम् अभ्येतीति प्राप्तम् । तच् च विरुद्धम् । स एव प्राप्यः प्रापकश् च ।
- सत्यम्, औपचारिको भेदो ऽभिप्रेतः । अभ्येतीत्य् अयम् अर्थः एतावन्मात्रशेषो भवति । यद् उत क्षेत्रज्ञतया प्राणादिसंघातात्मकेन महान् इति व्यपदिष्टेन फलेषु तावन्मात्रः परिशिष्यते । लिङ्गजीवश् च क्षेत्रज्ञः ।
अन्ये तु महत्परमात्मानाव् इति व्याचक्षते ।
सुखोदर्कान्** क्षीणे पाप उत्तरकालं सुखम् अनुभूयते । प्रतिपन्थिनि53 पापे स्वल्पे ऽपि न सुखोत्पत्तिः । यथा स्वल्पे ऽप्य् अजीर्णे न भोजनं सुखाय ॥ १२ १८ ॥
तौ धर्मं पश्यतस् तस्य पापं चातन्द्रितौ सह ।
याम्यां प्राप्नोति संपृक्तः54** प्रेत्येह च सुखासुखम् ॥ १२.१९ ॥**
मेधातिथिः ...{Loading}...
ननु च यदि तौ महान् क्षेत्रज्ञश् च संबध्येते ततस् तस्य पश्यत इति तस्येति कः संबध्यते ।
-
जीव इति केचित् ।
-
उक्तं च “स एव क्षेत्रज्ञः स एव जीवः” इति ।
-
अथ लिङ्गम् ।
-
ननु च महच्छब्देन तद् एवोक्तम् ।
-
अथान्तःकरणं महद्बुद्ध्यादि
-
तत्रापि कः संबन्धो लिङ्गस्य धर्माधर्माभ्याम् । तद् धि सूक्ष्मं भूतरूपम् एव । यथोक्तम् “तेषाम् इदं तु सप्तानाम्” इत्य् अत्रान्तरे ।
-
अतो मन्यामहे यद् एवान्यैर् व्याख्यातम् अस्ति पूर्वश्लोके55 “ताव् एवोभौ” (म्ध् १२.१८) इति “महत्परमात्मानौ” बुध्येते इति, तद् एव युक्तं56 पश्यामः । तयोर् हि दृष्टान्त उपपद्यते । महतः करणस्य सतः57 कर्तृत्वोपचारात्, काष्ठानि पचन्तीति यथा ।** तस्येति** च क्षेत्रज्ञस्य परामर्शभेदोपपत्तिः ।
-
परमात्मनश् च क्षेत्रज्ञाश्रययोर् धर्माधर्मयोर् दृष्टान्तवचनं सर्वस्य सुखदुःखोपबोगस्य तदधीनताख्यापनार्थम् । यथोक्तम्,
-
ईश्वरप्रेरितो गच्छेत् स्वर्गं वाश्वरभ्रम् एव वा । (म्ध् ३.३१.२७)
प्रेरणा च धर्माधर्मनियमितेच्छैव ।
-
ननु च धर्माधर्मयोर् इच्छां प्रति नियन्तृत्व ऐश्वर्यं हीयते ।
-
तथा शारीरके दर्शितम्, यथेह राजा सेवानुरूपं ददाति न च तस्येश्वरत्वम् अपैति । अतो महत्परमात्मानौ पश्यत इति व्यपदिश्यते ।
-
तस्येति क्षेत्रज्ञज्ञानम् । तद् अप्य् अयुक्तम्, उत्तरग्रन्थविरोधात् । याम्यां58** प्राप्नोति संपृक्त** इति । न हि परमात्मना कस्यचित् संपर्कः संबन्ध उच्यते । न च परमात्मना कश्चित् संबन्धो ऽपि ।
- एवं तर्ह्य् अत्र59 याभ्याम् इति नैवं महत्परमात्मानौ संबध्येते । किं तर्हि, धर्मः पापं च, तयोर् अपि प्रकृतत्वात् । तौ धर्मं पश्यतस् तस्य पापं चेति ।
- यदि महच्छब्देनान्तःकरणम् उच्यते, सुतराम् अनुपपत्तिः । न हि परमात्मनो द्रष्टृत्वे करणापेक्षा60 । अधिकरणम् एव हि बोधिपरमात्मस्वरूपम् “अभ्येति ताव् एव चोभौ” (म्ध् १२.१८) इति । कीदृशम् एतद् अभिगमनम् । यदि तद्भावापत्तिः सा नैव कल्मषव्यपायमात्रसाध्या । अथ तत्प्राप्तिप्रवणता, सापि61 नैव प्रलीनेषु भूतेष्व् अशरीरस्य भवति ।
- तस्मात् तौ धर्मं पश्यतस् तस्य, तस्यैवात्मन इति पूर्ववन् नेयम् ॥ १२.१९ ॥
यद्य्[^६५]** आचरति धर्मं स प्रायशो ऽधर्मम् अल्पशः ।**
तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ॥ १२.२० ॥
मेधातिथिः ...{Loading}...
प्रायशो बाहुल्येन तैर् एव भूतैर् महदादिभिर् महाभूतपर्यन्तैः स्वर्गे सुखम् आप्नोति ॥ १२.२० ॥
यदि तु प्रायशो ऽधर्मं सेवते धर्मम् अल्पशः।
तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१ ॥
मेधातिथिः ...{Loading}...
ननु च "पञ्चभ्य एव भूतेभ्यः[^६६] शरीरं दुष्कृतिनाम्" (म्ध् १२.१६) इत्य् उक्तम्, किम् इदानीम् उच्यते **तैर् भूतैः परित्यक्त** इति ।
- उच्यते । न भौतिकं सरीरं नाप्य् अशरीरस्य यातनाः । किं तर्हि, अत्यन्तविलक्षणे ते मानुषसरीरे ऽतो ऽन्यान्य् एतानि मृदुस्निग्धसुकुमारशरीरारम्भकाण्य् अत्यन्तविलक्षणानि62 ।
- दुःखाभिघातनिष्कृत्या परित्यक्त उच्यते । यानि शरीराणि स्वर्गभोग्यानि63 तैः परित्यक्तः ॥ १२.२१ ॥
यामीस् ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
तान्य् एव पञ्चभूतानि पुनर् अप्य् एति भागशः ॥ १२.२२ ॥
एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।
धर्मतो ऽधर्मतश् चैव धर्मे दध्यात् सदा मनः ॥ १२.२३ ॥
मेधातिथिः ...{Loading}...
स्वल्पार्थो ऽयम् । धर्मतो ऽधर्मत इति नञः प्रश्लेषः, धर्माधर्मनिमित्तात् । जीवस्य क्षेत्रज्ञस्यात्मनः । स्वेनैव चेतसा शास्त्रप्रामान्यात् तदनुभवेत्66 । कृत्स्नशास्त्रार्थफलोपसंहारः ॥ १२.२३ ॥
सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् ।
यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥ १२.२४ ॥
मेधातिथिः ...{Loading}...
धर्माधर्मयोः कर्मकाण्डोपयोगि यत् तद् उक्तम् । इदानीं विद्याकाण्डम् आरिप्सते । तत्र द्वैताश्रयम् इव तावद् अङ्गार्थं प्रक्रियते । सत्वादयस् त्रयो गुणा आत्मनः । नात्रात्मा जीवः । किं तर्हि, महान् एव । आत्मशब्दः स्वभाववचनो न प्रत्यक्त्ववचनः । निर्गुणो हि पुरुषः । (5)
यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥
मेधातिथिः ...{Loading}...
यद्य् अपि सर्वं त्रिगुणं तथापि यो यदा गुणः साकल्येन कार्त्स्न्येन अतिरिच्यते आधिक्यं प्राप्नोति पूर्वकर्मातिशयवशात्, स तदा पुरुषस्य गुणान्तरम् अभिभवति । अतः शरीरी तद्गुणप्रायो भवति । तदीयम् एव धर्मम् आदर्शयति, गुणान्तरं जहातीव ॥ १२.२५ ॥
सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥
मेधातिथिः ...{Loading}...
सामान्यम् एतद् एषां लक्षणं व्यापि सर्वप्राणिषु । ज्ञानं वेदकम् । अज्ञानं मोहः, न यथा मदमूर्च्छाद्यवस्थास्व् अचैतन्यम् एव69 । उभयरूपता रजः । राग-द्वेष-शब्देनोभय-धर्म-योग उच्यते । नापि सम्यग्-ज्ञान-वशानाम् अतिशयेन क्रोधो, न चातिप्रमादः70 । तत् तद् रजः । वपुः स्वभावः । अनुच्छेदाद् बीजवासनाया आ ब्रह्म-प्राप्ति-स्थितत्वात्71 ॥ १२.२६ ॥
तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥ १२.२७ ॥
मेधातिथिः ...{Loading}...
प्रीतिसंयुक्तं संवेदनं शुद्धाभं शुद्धम् इवाभाति रजस्तमोभ्याम् अकलुषितं मद-मान-राग-द्वेष-लोभ-मोह-भय-शोक-मात्सर्य-दोष-रहितम् । एवं सर्वम् । एषा चावस्था (पाठकेन) स्वसंवेद्यैकस्यां72 वेलायां भवेत् ॥ १२.२७ ॥
यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।
तद् रजोप्रतिपं विद्यात् सततं हर्तृ73 देहिनाम् ॥ १२.२८ ॥
मेधातिथिः ...{Loading}...
दुःखेन समायुक्तं संभिन्नं शुद्धं प्रीति-रूपं न भवत्य् अत उच्यते अप्रीतिकरं दुःखानुविद्धतया प्रीत्या न युक्तम् । अप्रतिपम् अप्रत्यक्षं पारमार्थिकम् । एतद् रजसो रूपं हर्तृविषयेषु74 प्रवर्तकं स्पृहा-जनकम् इत्य् अर्थः ॥ १२.२८ ॥
यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥ १२.२९ ॥
मेधातिथिः ...{Loading}...
मोहो वैचित्यं युक्तायुक्तविवेकाभावः । विषय आत्मा स्वभावो यस्य ।
-
ननु चायम् अविषयो ऽन्तरात्मत्वाद् एव । तत् कथं विषयस्वभाव्ः ।
-
मोहविषयानुरागात् बुद्धिर् इव एवम् उच्यते । विषयाद् वातीव बुद्धिस् तदात्मिका संपद्यत इति संख्यात्रैगुण्यं न त्व् अन्तर्बहिःसत्त्वानाम् अविशब्दम् ।
-
अप्रतर्क्यं तदनुमानगोचरम् । अविज्ञेयम् अन्तर्बहिःकरणानाम् अगोचर इत्य् अर्थः ॥ १२.२९ ॥
त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।
अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥ १२.३० ॥
मेधातिथिः ...{Loading}...
त्रयाणाम् एषाम् आसेव्यमानानां यत् फलम् उत्पद्यत उत्तमाधममध्यमं तद्वक्तव्यतया प्रतिज्ञायते । यस्मिन् गुण उद्रिक्ते यः पुरुषस्य स्वभावो भवति स उच्यत इति प्रतिज्ञा ॥ १२.३० ॥
वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्विकं गुणलक्षणम् ॥ १२.३१ ॥
मेधातिथिः ...{Loading}...
तत्संबन्धगुणलक्षणम्75 इत्य् एवं वक्तव्यतया प्रतिज्ञायते । सात्विकम् इति कथंचिद् योजयितव्यम् । गुणो लक्ष्यते येन तद् गुणलक्षणम् । तत् कस्येति । सात्विकम् इति संबन्धः । प्रयोजनं समुदाय-संबन्ध्यवयवा अपि दृश्यन्ते । तेनैतद् उक्तं भवति । सत्त्वस्य76 गुणस्यैतल् लक्षणम् ।
यथा देवदत्तस्य गुरुकुलम् । गुरुर् उपसर्जनी-भूतो ऽपि देवदत्त-पदेन संबध्यते, तद्-वद् एतत् द्रष्टव्यम् । पदार्था व्याख्याताः ॥ १२.३१ ॥
आरम्भरुचिताधैर्यम् असत्कार्यपरिग्रहः।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥
मेधातिथिः ...{Loading}...
कर्मणां काम्यानां दृष्टार्थानाम् अदृष्टार्थानां चारम्भे रतिर् वृथारम्भश् च । एतत् राजसं लक्षणम् । अधैर्यम् अल्पे ऽप्य् उपघातहेतौ चेतसो ऽसमाश्वासः । दैन्यग्रहणम् उत्साहत्यागः । असत्कार्यं लोकशास्त्रविरुद्धम्, तस्य परिग्रह आचरणम् । विषये सङ्गो ऽजस्रं पुनः पुनः प्रवृत्तिः ॥ १२.३२ ॥
लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥ १२.३३ ॥
त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४ ॥
मेधातिथिः ...{Loading}...
त्रिषु कालेषु साम्योपचयापचयेषु वोत्तमाधममध्यमेषु च फलोदयेषु । इदम् इति वक्ष्यमाणस्य निर्देशः ॥ १२.३४ ॥
यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति ।
तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं “त्रिषु” (म्ध् १२.३४) इति कालनिर्देशस् तद् दर्शयति- कृत्वा कुर्वन् करिष्यन्न् इति च । कदाचित् त्रिष्व् अपि कालेषु कदाचिद् अन्यतरस्मिन् । “किम् अर्थम् अहम् एवम् अकरवं कथं शिष्टानाम् अग्रतो भवामि” इति लज्जा चेतसि परिखेदः ॥ १२.३५ ॥
येनास्मिन् कर्मणा लोके ख्यातिम् इच्छति पुष्कलाम् ।
न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ॥ १२.३६ ॥
मेधातिथिः ...{Loading}...
“लोके साधुवादो ममैवं स्यात्” इति बुद्ध्या यद् याग-तपो-धर्माणाम्79 आचरणं - तच् च ख्यापनार्थम् । यथा तीर्थ-काकेभ्यो80 दानं, राजनि स्पर्धया जल्पः, शूद्रेभ्यः शास्त्र-व्याख्यानम्(5) । पुष्कलाम् इत्य् अनेनानुषङ्गित्वात् ख्यातेः सहायताम् आह ।
धर्मार्थं प्रवर्तमानस्य यदि जनाः प्रकाशयन्ति तादृशो धर्मो न दोषाय । तद् उक्तं “यथेक्षुहेतोः” इति । यथा महाभारताख्याने कृष्णद्वैपायनेनोक्तम्-
यथेक्षुसक्तो युधि(→त्वरया?) कर्षको ऽस्ति तृणानि वल्लीर् अपि संचिनोति81 ।(5)
तथा नरो धर्मपथेन संचरन्
यशश् च कामांश् च वसूनि चाश्नुते ॥
असम्पत्तौ च कर्मफलानाम् । न शोचति न दुःखम् अस्ति । अथ वा कर्मणाम् असंपत्तौ ॥ १२.३६ ॥
यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् ।
तेन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥ १२.३७ ॥
मेधातिथिः ...{Loading}...
विस्पष्टो ऽयम् ॥ १२.३७ ॥
तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथोत्तरम् ॥ १२.३८ ॥
मेधातिथिः ...{Loading}...
ननु च कामे ऽपि सुखम् अस्ति । "तत्र यत् प्रीतिसंयुक्तम्" (म्ध् १२.२७) तत् सत्त्वलक्षणम् इति प्राप्तम् । कथं तमसो लक्षणम् ।
-
उच्यते । मोहरूपं तमो ऽत्र संवेदनम् अस्ति ।
-
तद् अपि सत्त्वस्यैव लक्षणम्, “सत्यं ज्ञानम्” (म्ध् १२.२६) इत्य् उक्तत्वात् ।
-
उच्यते । नात्र भोक्तृभोग्यभावावस्थाभिप्रेता । किं तर्हि, विषयगतस्पृहातिशयः । न च तस्याम् अवस्थायां सुखोत्पत्तिः । अव्यक्तविषयत्वं च विद्यते । कामप्रधानस्य युक्तायुक्तविवेकशून्यत्वाद् अस्त्य् एव मोहरूपता । ईदृशश् चात्र कामो ऽभिप्रेतः । न यद् ऋतौ शास्त्रार्थतया स्वदारेषु गमनौत्सुक्यम् ॥ १२.३८ ॥
येन यांस्[^८७]** तु गुणेनैषां संसारान् प्रतिपद्यते ।**
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९ ॥
मेधातिथिः ...{Loading}...
एषां गुणानां मध्ये येन गुणेन यान् संसारान् पुरुषः प्रतिपद्यते । संसारशब्दो गतिवचनः । यानि जन्मानि प्राप्नोतीत्य् अर्थः । तद् उत्तरत्र वक्ष्यत इति प्रतिज्ञाश्लोकः ॥ १२.३९ ॥
देवत्वं सात्त्विका यानि मनुष्यत्वं च राजसाः ।
तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥ १२.४० ॥
मेधातिथिः ...{Loading}...
सामान्येन गतिनिर्देशो गुणनिमित्तो ऽयम् ॥ १२.४० ॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१ ॥
स्थावराः कृमिकीटाश् च मत्स्याः सर्पाः सकच्छपाः ।
पशवश् च मृगाश् चैव जघन्या तामसी गतिः ॥ १२.४२ ॥
हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः ।
सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥ १२.४३ ॥
चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ॥ १२.४४ ॥
मेधातिथिः ...{Loading}...
चारणाः कथक-गायक-स्त्रीसंयोजकादयः । सुपर्णाः पक्षिविशेषाः । शूद्रा गर्हिता इति संबन्धः । ये ब्राह्मणान् अवजानते ये च तद्-भृत्य्-उपजीविनो ये च मद-मानादि-युक्ताः(5) । हिंस्राश् चौरा इत्य् एवम्-आदयो विगर्हिताः ॥ १२.४२–४४ ॥
झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश् च जघ्न्या राजसी गतिः ॥ १२.४५ ॥
मेधातिथिः ...{Loading}...
झल्ला मल्ला इति रङ्गावतारकाः । तत्र मल्ला बाहुयोधिनः । झल्ला यष्टिप्रहारिणः परिहासजीविनो वा84 ॥ १२.४५ ॥
राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥ १२.४६ ॥
मेधातिथिः ...{Loading}...
राजानो जनपदेश्वराः । क्षत्रियास् तदनुजीविनः सामन्ताः । वादप्रधानाः शास्त्रार्थगहनेष्व् इतरेतरं जल्पन्ति । युद्धप्रधाना योधकाः ॥ १२.४६ ॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७ ॥
मेधातिथिः ...{Loading}...
गन्धर्व्आदयो देवास् तेषाम् अर्थवादेतिहासेभ्यो भेदो विज्ञेयः । विबुधा देवास् तेषाम् अनुचराः सिद्धविधाधरादयः ॥ १२.४७ ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः॥ १२.४८ ॥
मेधातिथिः ...{Loading}...
तापसास् तपःप्रधाना वानप्रस्थादयः । यतयः परिव्राजकादयः । अनेन च ज्ञापयति न केवलं जन्मोपपत्तिर् गतिजातस्य कर्माचरणाद् अपि । यतो न तापसादयः कतिचिज्जातिविशेषाः, किं तर्हि कर्मनिमित्ता एते व्यपदेशाः ।
-
अन्ये तु मन्यन्ते । सन्ति मेरुनिवासिनः केचिज् जनपदा यतयो नाम । श्रूयन्ते “इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्” (प्ब् ८.१.४) इति ।
-
विमानानि यानविशेषाः पुष्पकादयस् तैश् चरन्ति वैमानिकाः अन्तरिक्षचराः केचिद् देवयोनयः । प्रथमा निकृष्टाः ॥ १२.४८ ॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥
मेधातिथिः ...{Loading}...
आनुपूर्वीविशिष्टः शब्दो वेदः ।
-
ननु च गत्यधिकारे कः प्रसङ्गो ऽचेतनानाम् । अचेतनाश् च शब्दादयः ।
-
अत्यल्पम् इदम् उच्यते शब्दादयो ऽचेतना इति । सर्व एवैते देवादयः स्थावरान्ताः शरीरात्मानः । तत्र सर्वशरीराणाम् अचेतनत्वम्, तच्छक्तिः85 केवलं पुरुषादिचैतन्यरूपिणी प्राप्यते । निर्गुणश् च पुरुषस् तदधिष्ठितानि शरीराण्य् अचेतनान्य् अपि चेतनान्य् उच्यन्ते ।
-
अत एतद् उक्तं भवति । सत्त्वप्रधानो वेदस् तदभ्यासात् सात्त्विकी गतिः प्राप्यते । न पुनः सत्त्वप्रधानस्य वेदत्वप्राप्तिः सात्त्विकी गतिर् उच्यते ।
-
अन्येषां तु प्रदर्शनं सर्वक्षेत्रज्ञाः सन्त्य् अधिष्ठातारो वेदपुरुषा वारुणे लोके श्रूयन्ते ॥ १२.४९ ॥
ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च ।
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ १२.५० ॥
मेधातिथिः ...{Loading}...
विश्वसृजो मरीच्यादयः प्रजापतयः । धर्मो वेदार्थः । पूर्वं वेदस्वरूपम् उक्तम्, इदानीं तदर्थः । स्वरूपार्थः प्रधानतर इत्य् उक्तं भवति । अथ वा धर्माः सत्यादयश् च86 । विग्रहवत्त्वं पूर्ववद् द्रष्टव्यम् । महान् इति संज्ञान्तरम् । अव्यक्तं प्रधानं प्रकृतिर्87 इत्य् एको ऽर्थः ।
-
ननु च सत्त्वाधिक्ये प्रधानस्य तद्विकारत्वाज् जगतः सर्वेषां विकाराणां सत्त्वाधिक्यं प्राप्तम् । ततश् च रजस्तमसो कुतो ऽतिरेकः । अतो यद् उक्तम् “यो यद् एषां गुणो देहे साकल्येनातिरिच्यते” (म्ध् १२.२५) इति, तद् अनुपपन्नम् ।
-
उच्यते । नैतद् एवंपरं88 प्रधानरूपता प्राप्या । किं तर्हि, त्रयः प्रकाराः संभवन्ति89 । यदि वा90 प्राप्यो ऽव्यक्तिभावः, यदि वादृष्टविधिः, यदि वा नैवायं संख्ये यः प्रधाने ऽव्यक्तशब्दो वर्तते । क्रियानिमित्तो ह्य् अयम् । नास्य व्यक्तिर् विद्यत इति अस्फुटप्रकाशत्वाद् अव्यक्तम् । तथा च परमात्मनि वृत्तिर् भवति । महत्त्वं च तस्य विभुत्वाद् उपपद्यत एव ।
-
ननु च नैवास्य सात्त्विकी गतिः ।
-
अगुणत्यागाच्91 चाप्य् एवम् । यदा हि “नाहं न मम किंचित्” इति मुक्ताहंकारममकारो भवति तदा ब्रह्मता भवतीति विज्ञायते । निदिध्यासनयैव ब्रह्मप्राप्तिः । किं तु सत्त्वप्रधाना एव ज्ञानादितत्परा भवन्ति । न तामसी राजसी वेति92 । एवं कृत्वोच्यते उत्तमा सत्त्विकी गतिः ।
- अन्यौ पक्षाव् अनुपपन्नौ । न हि प्रधानभावं प्राप्य काचित् पुरुषार्थसिद्धिः । अचेतनं हि तद् व्यपदिशन्ति । अचैतन्यं स्थावरेभ्यो ऽपि निकृष्टतरं93 यदधीना हि मदमूर्च्छावस्थाः केचिद् अर्थयन्ते । दृष्टविधिस् तु नैव संभवत्य् अश्रुतत्वात् “आत्मा वारे द्रष्टव्यः” (बाउ २.४.५) इति श्रुतितः न94 प्रधानं द्रष्टव्यम् इति । तस्मात् परमात्मविषयाव् एव महान् अव्यक्त इत्य् एतौ शब्दौ ॥ १२.५० ॥
एष सर्वः समुद्दिष्टस् त्रिःप्रकारस्य कर्मणः ।
त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५१ ॥
मेधातिथिः ...{Loading}...
त्रिःप्रकारस्य वाङ्मनःकायसाधनस्य । त्रिविधः सत्त्वादिगुणभेदेन । पुनस् त्रिविधः उत्तमादिविशेषतः । या प्य् अत्र गतयो विशेषतो ऽनुक्तास् ता अप्य् उक्तसादृश्याद् अन्तर्भावनीयाः । गुणप्रकरणोपसंहारः । उत्तरो ऽपि श्लोको वक्ष्यमाणसूचकः ॥ १२.५१ ॥
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥ १२.५२ ॥
यां यां योनिं तु जीवो ऽयं येन येनेह कर्मणा।
क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥ १२.५३ ॥
बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥ १२.५४ ॥
मेधातिथिः ...{Loading}...
घोरान् नरकान् । दुःखप्रसहनव्यथया घोरान्98 । यातनास्थानानि नारकान् । तत्क्षणाद् उद्भूतरूपस्य कर्मणः फलोपभोगेन क्षयः99 । तत ईषदवशिष्टे कर्मणि संसारप्रतिपत्तिः ।
-
कथं पुनः सर्वकर्म तत्रैव न भुज्यते ।
-
उक्तम् । इन्द्रियस्य कर्मणो नरकं100 फलम्, नोपशान्तस्य । कार्यविरोधित्वाच् च कर्मणां फलेनोपशमः । तत्र यथैव च ज्वलितस्याग्नेर् उदर्चिषो दाहो विनियोगस् तपश् चादंभ एव स्थितस्यैवं नरकेष्व् अपि द्रष्टव्यम् ।
- अग्नेस् तु द्वे अवस्थे भवतः, प्रशान्तता ज्वाला च । नरकस् तु एकरूप एव सर्वदा । उदर्चिष इवाग्नयः कर्माणि चोपचयापचयवन्ति । अत उपचितस्य कर्मणो नरको ऽपचीयमानस्य ततो ऽन्यत्रोपभुक्तिः । तत्र युक्तं ततः सेषेणेति ॥ १२.५३–५४ ॥
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥ १२.५५ ॥
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राःमणो व्रजेत् ॥ १२.५६ ॥
मेधातिथिः ...{Loading}...
विड्भुजा वायसादयः । हिंस्राणां व्याघ्रादीनाम् ॥ १२.५६ ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ १२.५७ ॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८ ॥
मेधातिथिः ...{Loading}...
क्रूरकर्मकृताः परवधशीलाः ॥ १२.५८ ॥
हिंस्रा भवन्ति क्रव्यादाः कृमयो ऽमेध्यभक्षिणः[^१०७]** ।**
परस्परादिनः स्तेनाः प्रेतान्त्यस्त्रीनिषेविणः ॥ १२.५९ ॥
मेधातिथिः ...{Loading}...
क्रव्यादा गृध्रादयः । अमेध्यभक्षिणः कृमयः । परस्परम् अदन्ति, यथा महामार्जारो मार्जारम्, महामत्स्यः सूक्ष्मं मत्स्यम्, नेकभेदम् इव । अन्त्यस्त्रीनिषेविणो ऽन्त्याः101 बर्बरादयः ॥ १२.५९ ॥
संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ १२.६० ॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधानि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१ ॥
मेधातिथिः ...{Loading}...
हेमकर्तारः पक्षिणः ॥ १२.६१ ॥
धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ १२.६२ ॥
मेधातिथिः ...{Loading}...
आखुः मूषकः ॥ १२.६२ ॥
मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः ।
चीरीवाकस् तु लवणं बलाकाशकुनिर् दधि ॥ १२.६३ ॥
मेधातिथिः ...{Loading}...
कौशेयं तित्तिरिर् हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुधो गुडम् ॥ १२.६४ ॥
मेधातिथिः ...{Loading}...
दर्दुरः मण्डूकस्तोकः ॥ १२.६४ ॥
छुछुन्दरीः शुभान् गन्धान् पत्रशाकं तु बर्हिणः ।
श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥ १२.६५ ॥
मेधातिथिः ...{Loading}...
बर्हिणो मयूराः ॥ १२.६५ ॥
बको भवति हृत्वाग्निं गृहकारी ह्य् उपस्करम् ।
रक्तानि हृत्वा वासांसि जायति जीवजीवकः ॥ १२.६६ ॥
वृको मृगेभं व्याघ्रो ऽश्वं फलमूलं तु मर्कटः ।
स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥ १२.६७ ॥
मेधातिथिः ...{Loading}...
“जलं प्लवः (म्ध् १२.६२) इत्य् अत्र पानार्थम् उदकं ज्ञेयम् । स्तोकको वारीत्य् अत्र धान्यसेकाद्यर्थम् । “रसश्” चाद्यं रसम् आहुर् यदि वातिरिकौषधादि द्रष्टव्यम् (म्ध् १२.६२) ॥ १२.६७ ॥
यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ १२.६८ ॥
मेधातिथिः ...{Loading}...
नात्र तिरोहितम् इव किंचिद् अस्ति ॥ १२.६८ ॥
स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ १२.६९ ॥
स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापदि ।
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति दस्युषु ॥ १२.७० ॥
मेधातिथिः ...{Loading}...
ब्राह्मणो ऽध्यापनादिजीविकाकर्मत्यागेन यदि क्षत्रियादिवृत्तिम् उपजीवेत्, एवं क्षत्रियादयः स्वकर्मच्युताः पापान् संसारान् तिर्यग्योनीर् अनुभूय मनुष्यत्वे जाता दस्युषु चौरादिहिंस्रादिषु भृत्यभावं प्राप्नुवन्ति । अनापतीत्य् अनुवादः । आपदि विहितत्वाद् दोषाभावः ॥ १२.७० ॥
वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः102** ॥ १२.७१ ॥**
मेधातिथिः ...{Loading}...
स्वकर्मच्युतानां पापगतयः प्रदर्श्यन्ते । वान्तम् अश्नाति । उल्कया चास्य मुखं दह्यते । कुणपः शवशरीरम् । कूटपूतनः कुत्सितगन्धा नासिकास्य भवति । “कटपूतनः” इति वा पाठः । कटपूतनो103 नाम पिशाचादिः, स तु कश्चिद् अदृश्यो भूतविशेषः श्मशानिकभूमिसेवी ॥ १२.७१ ॥
मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ १२.७२ ॥
यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥
मेधातिथिः ...{Loading}...
भेदग्रहगृहीतानां पुत्रदाराभिष्वङ्गधनादिलोभे विषयसुखगन्धम् आत्मैकत्वपरिपन्थिविद्याप्रतिपक्षभूतं निवर्तयितुं संसारस्वरूपं मानुष्यकं जन्म यथास्थितम् अनूद्यते सर्वस्य प्रसिद्धम् ।
- यथा यथा विषयेष्व् अभ्यासेन प्रवर्तन्ते । विषयात्मका विषयलालसाः । आत्मशब्देन प्रवृत्तस्य तत्स्वभावतैव106 भवतीत्य् आहुः । यस् तु कथंचित् सहितं भुङ्क्ते तस्य भोगादिना न107 तत्स्मृत्युपपत्ताव् अभिलाषो जायते । यस् त्व् अत्यन्तम् एवाधरः स तद्भावनया तदात्मत्वेन108 संपद्यते । तद् इदम् आह तथा तथा कुशलतेति । कुशलतापदं चैकरसीभावः । अतश् च स न शक्नोति विषयान् परिहर्तुम् ।
- ईदृश्य् एव प्रवृत्तिः । अशिष्टाप्रतिषिद्धेष्व्109 अपि स्वदारगमनादिष्व् आगमार्जितद्रव्योपपादकेन भोज्याविशेषेष्व् अपि प्रतिषिद्धा ॥ १२.७३ ॥
ते ऽभ्यासात् कर्मणां तेषां पापानाम् अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ॥ १२.७४ ॥
मेधातिथिः ...{Loading}...
ततश् च तेषां पापानां प्रतिषिद्धानां कर्मणाम् अभ्यासात् । “निन्दितकर्माभ्यासे पतनम्” (च्ड़्। म्ध् ११.१८१ चोम्।) इति तद् भवतु । दुःखानि पश्यन्ति, तासु तासु कृमिकीटादियोनिषु ॥ १२.७४ ॥
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ १२.७५ ॥
मेधातिथिः ...{Loading}...
“तामिस्रम् अन्धतामिस्रम्” (म्ध् ४.८८) इत्याद्याः प्रागुक्ता नरकाः । तत्र विवर्तनम् एकेन पार्श्वेनासित्वा पार्श्वान्तरेणावर्तनम् अबद्धस्योत्तानस्य वा खड्गधारानिशितपत्रैर् वृक्षैर् बन्धनम् । भूमिष्ठैर् वा पत्रैर् एव कदलीदलखण्डवत् तथाविधैर् मैत्री दुष्कृतिनाम् अङ्गच्छेदप्राप्तिः ॥ १२.७५ ॥
विविधाश् चैव संपीडाः काकोलूकैश् च भक्षणम् ।
करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ॥ १२.७६ ॥
मेधातिथिः ...{Loading}...
करम्भः कर्दमः । कुम्भीषु प्रक्षिप्तास् ते हि तापेनाग्नेयेनान्नादिवत् पच्यन्ते ॥ १२.७६ ॥
संभवांश् च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश् च विविधानि भयानि च ॥ १२.७७ ॥
मेधातिथिः ...{Loading}...
वियोनयः तिर्यक्प्रेतपिशाचादयः । तत्र संभवो जन्म दुःखबहुलासु ॥ १२.७७ ॥
असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि परप्रेष्यत्वम् एव च ॥ १२.७८ ॥
मेधातिथिः ...{Loading}...
स्पष्टार्थः ॥ १२.७८ ॥
बन्धुप्रियवियोगांश् च संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९ ॥
जरां चैवाप्रतीकारां व्याधिभिश् चोपपीडनम् ।
क्लेशांश् च विविधांश् तांस् तान् मृत्युम् एव च दुर्जयम् ॥ १२.८० ॥
मेधातिथिः ...{Loading}...
एताव् अप्य् उक्तार्थौ ॥ १२.७९–८० ॥
यादृशेन तु भावेन यद् यत् कर्म निषेवते ।
तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥ १२.८१ ॥
मेधातिथिः ...{Loading}...
सात्त्विकेन राजसेन तामसेन वा भावेन यद् यत् कर्म निषेवते सात्त्विकं राजसं तामसं वा । शरीरेण तादृशेन110 सत्त्वबहुलेन रजोबहुलेन तमोबहुलेन वा तत् तत् फलम् उपाश्नुते, सात्त्विकं राजसं तामसं वा ।
- यतश् चैतद् एवं रजस्तमोबहुलात् कर्मणो ऽकुशलसंकल्पहेतोर् अनिष्टफलप्राप्तिः । अतस् तत्परिवर्जनेन कुशलसंकल्पकर्मणा भवितव्यम् ॥ १२.८१ ॥
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥
वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥
मेधातिथिः ...{Loading}...
निःश्रेयसशब्देन न पुनः पुरुषार्थसिद्धिर् उच्यते, अपि तु निश्चितसुखदुःखानुबन्धः प्रीतिविशेषो ऽपि । वेदाभ्यासादीनां तत्र तत्रोक्तानां पुनर्वचनम् आत्मज्ञानस्तुत्यर्थम् । ज्ञानं वेदार्थविषयम् । उक्तार्थान्य् अन्यानि पदानि ॥ १२.८३ ॥
सर्वेषाम् अपि चैतेषां शुभानाम् इह कर्मणाम् ।
किंचिच् छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥
सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम् ।
तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ॥ १२.८५ ॥
मेधातिथिः ...{Loading}...
द्विविधम् आत्मज्ञानम्- देहेन्द्रियबुद्ध्यादिव्यतिरिक्तस्य कर्तृभोक्तृत्वोपपत्तिरूपस्य अहंप्रत्ययप्रमेयतयात्मनि विषयप्रतीत्यन्तर्गतस्य जीवक्षेत्रज्ञविज्ञानात्मादिपर्यायस्य शरीरनाशे ऽप्य् अनष्टानां कर्मफलानाम् और्ध्वदेहिकानां भोक्तृत्वज्ञानम् । अपरं सर्वस्य जगतो जन्मादीनां परमात्मैककारणत्वेन114 नित्यस्य सत एकस्याविद्यावासनोपहितनानारूपस्य तिर्यङ्मनुष्यादिष्व् एकत्वदर्शनम्, “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बाउ २.४.५) इत्येवमादिश्रुतिभिर् उपदर्शितस्वरूपस्य ज्ञानम् ।
- तत्र क्षेत्रज्ञपरिज्ञानं कर्मविधिषूपयुज्यते । असति हि देहादिव्यतिरिक्ते ऽस्मिन्न् और्ध्वदेहिकानां भोक्तरि फलानां स्वर्गकामादिचोदना अनर्थिकाः स्युः, अतस् तत्र न कश्चित् प्रवर्तेत । अतस् तत् कर्मानुष्ठानोपयोगि । यत् तु परमात्मैकत्वज्ञानं तिरोधानोपसेवनाभ्याससामर्थ्येनोपपद्यमानं115 शुद्धबुद्धमुक्तानन्दनित्याविनश्वरस्वभावस्यात्मनः116 प्रकाशनं तत्रेदम् उपपद्यते- तद् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं तत इति । अमृतं ततः गतेर् व्यापत्तिम् । तत इति विद्यानिर्देश आत्मविद्यायाः । क्षेत्रज्ञज्ञानं तु कर्मोपकारकत्वाद् अमृतत्वाय न117 कल्पते । अतो वेदान्तोपदिष्टस्य समस्तस्य द्वैताद्वैतविषयस्य सदात्मनो दर्शनं तद् आत्मज्ञानम् अभिप्रेतम् ॥ १२.८५ ॥
षण्णाम् एषां तु पूर्वेषां[^१२५]** कर्मणां प्रेत्य चेह च ।**
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥
मेधातिथिः ...{Loading}...
वेदाभ्यासादीनि षट्कर्माणि श्रेयस्कराणि । तेभ्यो निःश्रेयसकरत्वं वैदिकस्य ज्योतिष्टोमादेः कर्मणः । तेषु मोक्षत्वं प्रतिपद्यते118 ।
- ननु च यदि तावत् पूर्वेषाम् इति निर्धारणे षष्ठी तद् अनुपपन्नम् । निर्धारणं हि समुदायभूतविशेषस्य119 केनचिद् धर्मेण तदैकविषयेण चोपपद्यमानस्यावान्तरेणासंभविना120 । “क्षत्रियो मनुष्याणां शूरतमः” इति मनुष्यजातौ क्षत्रियो ऽप्य् अन्तर्भूतः स शूरतमत्वेन निर्धार्यते । अनुपदिष्टस्यानन्तरितस्य कुतो निर्धारणम् ।121 न चेह प्राग् वैदिकं कर्मादिष्टम् ।
- अथोच्यते । अन्तर्वेदाभ्यासादीनि122 वैदिकान्य् एव, कथम् अनुद्दिष्टं123 वैदिकं कर्म । यद्य् एवम्, सामान्यस्य सामान्यात्124 सुतराम् अनिर्धारणम् । न हि भवति “गवां गौर् उत्पन्नक्षीरतमा” इति । यदि ह्य् अवैदिकानि125 चोद्दिष्टार्थान्य् अभविष्यंस् तत एवैतद् अपेक्षेत वैदिकं श्रेयस्करतरम्126 इति ।
- किं च, कानि तावद् अत्र वैदिकानि कर्माण्य् अभिप्रेतानि । यदि तावत् ज्योतिष्टोमादीनि, विशेषग्रहणे प्रमाणं वक्तव्यम्, वेदाभ्यासादीनाम् अपि वैदिकत्वात्127 । अथ “स्मार्तत्वान् न तानि वैदिकानि, यान्य् एव प्रत्यक्षश्रुतिविहितानि तान्य् एव वैदिकानि” इति128 । न हि सर्वेषु129 वैदिकेषु कर्मसु वेदाभ्यासादीनाम् अगत्वेनान्तर्भावः130 । एतच् च यद् वक्ष्यति “अन्तर्भवन्ति क्रमशस् तस्मिन् क्रियाविधौ” (म्ध् १२.८७) इति, तद् धि तस्य नेति तर्ह्य् अग्निहोत्रादौ तपो गुरु संपाद्यं स्यात् । अनेन तेनोक्तेन न कश्चिद् अर्थः । वेदाभ्यासादीन्य्131 अप्य् अनुष्ठेयान्य् अग्निहोत्रादीन्य् अपि । तत्र न विद्मः कीदृशम् अमीषां श्रेयस्करत्वम् । नापि समानि फलानि, येन फलस्योत्कर्षवत्तयैवम् उच्यते । यथा गोदानात् स्वर्गस्य ज्योतिष्टोमाच् च दीर्घकालाद्यनुवृत्तता । यथोक्तम् “लोकवत् परिमाणतः132 फलविशेषः स्यात्”(प्म्स् १.२.१७) इति ।
- अत्रोच्यते । यद् उक्तं नैतेनोक्तेन133 कश्चिद् अर्थ इति, तत्र केचिद् आहुः । विरोधे स्मार्ते श्रौते बाधकत्वज्ञापनार्थं वैदिकानां श्रेयस्करतरत्ववचनम्134 । यथोक्तम् “तुल्यबलविरोधे विकल्पः”135 (ग्ध् १.४) । अतुल्यबलायाः स्मृतेः श्रुत्या बाधः136 इति । “श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ” (म्ध् २.१४) । श्रुतिस्मृतिद्वैधे137 अनुवादः138 स्मृतिर् इत्य् अर्थाद् उक्तं139 भवति ।
-
अमुनैवावगतत्वाद् अवाच्यम् एतत् ।
-
विस्पष्टीकरणार्थम् एव पुनर् उच्यत इत्य् अदोषः ।
-
अथ वा, अन्यो ऽपि तथार्थः140 संभाव्यते । शुद्धे च विकल्पवचनम् । स्मृतिद्वैधे न तद्विकल्पार्थम् । तेनायम् अर्थः । स्मार्तेभ्यो वैदिकानि बलीयांसि । वेदाभ्यासादिग्रहणं सर्वस्मार्तप्रदर्शनार्थम् । वृत्तानुरोधाद् एवं पठितम् ।
- वयं तु ब्रूमः- न्यायसिद्धो ऽयम् अर्थः, न्यायसिद्धस्यापि सौहार्देनाभिधानम् अनारभ्य युक्तम् । इहात्मनो ज्ञानं प्रतिपदं पठ्यते । तत्र कः प्रसङ्गो बाधात् तस्य । स्मृतिकारा न च स्ववाक्यानि स्ववाक्यैर् एव प्रमाणयितुम् अर्हन्ति । अथोच्यते- याज्ञवल्कीयायाः स्मृतेर् विधिर्141 उच्यते, नात्मीयायाः समानता । यत् तावद् आत्मीयायाम् अप्य् उक्तं भवति । अतः प्रकरणानुरोधाद् वेदाभ्यासादि पदं पृथक्142 । नेहात्मानं प्रतिज्ञायेदं पठ्यते । कथं च आत्मज्ञानं श्रुतिपरत्वेन तैर् व्याख्यातम् इति143 । + + +144 वेदाभ्यासादिभ्यो वैदिकं यागादि कर्म श्रेष्ठम् इति, ततो ऽध्यात्मज्ञानम् । इतरथान्यत्र प्रजाया अन्यद् उच्यमानम् अन्यत्रास्तम् अन्यत्र पतितं स्यात् ।
- अथ वा वैदिकम् अत्र आत्मज्ञानम् एव,145 वेदस्य तत्प्रतिपादनपरत्वात् । अग्निहोत्राद्युपदेश औषधपाने वृद्ध्युपदेशवद् बालादिप्रवृत्त्यर्थः ।
- यदि वा कर्मकाण्डेन शिष्टाः स्वाभाविकीम् एनाम् अनाद्यविद्यां वासनाविषयासङ्गहेतुभूताम् अवधूय शास्त्राभ्यासवासनासामर्थ्यवशात्146 क्रमेणोपजातवैराग्यशिथिलीभूतदृढतृष्णारागग्रहणे उत्तमाधिकारानुशासने नियोज्यतां प्रतिपत्तुं समस्तम् अपि श्रुत्यादिष्टत्वम् अधिकारोपकारकत्वं कर्मकाण्डस्य विज्ञायत इति ब्रह्मवादिनः । अतो वक्ष्यमाणनिवृत्त्याख्यकर्माभिप्रायम् एतत्- श्रेयस्करतरं ज्ञेयं सर्वथा कर्म वैदिकम् इति ।
- अथ वा भेदो यदि सर्वेषाम् अपि स्वप्नवद् असत्यदर्शनद्वये ऽप्य् आत्मैकत्वज्ञाने श्रेय इत्य् अर्थः । वेदाभ्यासादीनां147 भेदोपदेशादिनोद्यं तत् कर्तव्यम् । षष्ठीनोद्यं तु तैर् एव समाहितं बुद्ध्यारोपितान्तरेण पृथक्त्वोपपत्तेः । यथा “मथुराः पाटलीपुत्रकेभ्य आढ्यतराः” इति । तथा सतीयं148 पञ्चमी स्याद् इति चेत्, अत्रापि प्रतिविहितं धर्माविशेषात् ॥ १२.८६ ॥
वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः ।
अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥ १२.८७ ॥
मेधातिथिः ...{Loading}...
एतावद् वैदिकं कर्म ज्योतिष्टोमाद्य् आचक्षते । तेषाम् एव श्लोकयोजना । क्रियाविधिः कर्मविधिर् वैदिकः । कर्मयोगे149 कर्मप्रयोगे बहिः संपाद्यावस्थाः । एतान्य् उपनिषद्वेदाभ्यासादीन्य् अन्तर्भवन्ति । तस्मिन्न् इति व्याप्यतया क्वचित् कस्यचित् समम् एषाम् अन्तर्भावम् आह । कर्मयोग इत्य् उक्ते क्रियाविधिग्रहणं श्लोकपूरणार्थम् । “क्रतुयज्ञेभ्यश् च” इति150 (पाण् ४.३.६८) तद्वद् वा151 सोमयागभेदेन भेदो व्याख्येयः ।
- तत्र वेदाभ्यासस् तावत् सत्रे ऽन्तर्भवति,152 यजमानमन्त्रेषु सर्वत्रोपयोगतः । तपोदीक्षोपसदसोमयागेषु153 “पयो ऽमृतं154 ब्राह्मणस्य” इत्यादि । ज्ञानं सर्वत्र, विदुषाम् अनधिकारात्155 । एवम् इन्द्रियसंयमः प्रतियागगामी “न156 स्त्रियम् उपेयान्157 न मांसम् अश्नीयात्” इति । अहिंसापि “एतां रात्रिं158 प्राणभृतः प्राणं न विच्छिन्द्याद्159 अपि कृकलासस्य” (बाउ १.५.१४.) इति । गुरुसेवादेर् इत्थम् अप्रवृत्तिः ।
-
ये तु निवृत्तम् एव कर्माहुस् तेषां वेदाभ्यासादीनां अनुवृत्त्यर्थः श्लोकः ।
-
अन्तर्भवन्त्य् उपासनापरस्यापि तेषाम् अनुष्ठानाद् अन्तर्भावः । तथा चोपनिषद्भ्य उपासकस्य प्रायश्चित्तनिर्देशः पापक्षपणार्थः, न पुनः प्रतिविधानविकार एवोक्तो भवति । अतो विहिताकरणे प्रतिषिद्धसेवने सति प्रत्यवायः ।
-
एवं तर्हि कुतो मोक्षः ।
-
फलोपभोगेन जन्मान्तरोपत्तदुरितक्षयात्, अकरणात् स्वबुद्धिपूर्वम् अन्यस्य,160 प्रमादकृतस्य प्राणायामविद्याविशेषाभ्यासातिशयेन कृतनिष्कृतित्वात्161 निरुपाध्यात्मस्वरूपसाक्षात्करणाच् च । प्रथमं तं वेदयेत्, तद्भावापत्तिर् मोक्षः । अतश् च ब्रह्मनिष्ठापरेणापि वेदाभ्यासादीन्य् अनुष्ठेयानि । यस्य यस्य कर्मन्यासः श्रूतते स षष्ठे व्याख्यातः ।
- क्रियाविधिर्162 उपासनविधिर् एव “द्रष्टव्यः श्रोतव्यः” (बाउ २.४.५) इत्यादिनोदितः । बहुत्वाच् चोपासनाप्रकाराणां तस्मिंस् तस्मिन्न् इति वीप्सा युज्यत एव । अतः “ब्राह्मेत्य् उपासीत,”163 (छु ३.१८.१) “य एष आदित्ये हिरण्मयः पुरुषः” (छु १.६.६) इति, “स च एष आत्मापहतपाप्मा” (छु ८.७.१) इत्यादि क्वचिद् उपात्तबुद्ध्याध्यारोपितश् चोद्यते, क्वचिद् धिरण्यमय इत्यादौ लक्षणया तस्यैवोपासना, क्वचित् सर्वोपासनाधिपत्येन निष्कलंकम् इवात्मनः “स एवाधस्तात्164 स उपरिष्टात्” (छु ७.२५.१) इति चोदनाबहुत्वाद् वीप्सोपपत्तिः ॥ १२.८७ ॥
सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥
मेधातिथिः ...{Loading}...
ननु च प्रवृत्तम् एव वैदिकं कर्म व्याख्यातम् । किम् इदम् उच्यते द्विविधम् इति ।
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥ १२.८९ ॥
मेधातिथिः ...{Loading}...
इह कारीरीवैश्वानर्यादि,172 अमुत्र ज्योतिष्टोमादि काम्यसंपादकं कर्म । काम्यत इति काम्यम् । फलस्य काम्यत्वात् तत्साधनम्173 अपि कर्म काम्यम्174 एव । निष्कामं नित्यम् । ज्ञानपूर्वम्175 उभयत्र शेषम्, अविदुषो ऽनाधिकारात् । अथापि176 रहस्याधिकारिज्ञानम् उपदिश्यते । तदा नोभयशेषः177 । पूर्वशब्दश् चाद्यर्थं178 लक्षयति । ज्ञानम् आद्यं मुख्यं यस्येति विग्रहः । यो ऽभिमुख्यः स लोकः पूर्वं क्रियां प्रतिलभते । अतश् चैतद् उक्तं भवति । ज्ञानं प्रधानं प्रधानतो ऽनुष्ठेयम् । वेदाभ्यासादि तु शास्त्रमात्रया ॥ १२.८९ ॥
प्रवृत्तं कर्म संसेव्य देवानाम् एति साम्यताम् ।
निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ॥ १२.९० ॥
मेधातिथिः ...{Loading}...
ननु च काम्यं कर्म प्रवृत्तम् इत्य् उक्तम् । काम्यानि च कानिचित् स्वर्गफलानि कानिचिद् दृष्टफलानि[^१८७] । न च देवसाम्यताफलं[^१८८] किंचिद् दृष्टं[^१८९] कर्म । अतः किम् इदम् उच्यते **देवानाम् एति साम्यताम्** इति । यान्य् अश्रुतफलानि विश्वजिदादीनि तान्य् अपि निष्कामस्वर्गफलानि[^१९०] । अतो न विद्मः कर्मणा देवसाम्यताप्राप्तिः फलम् । न च शक्यं वक्तुं "यानि फलवन्ति श्रुतानि तानि निष्कामेणानुष्ठेयानि, तथा चानुष्ठितानि वै देवत्वफलानि संपद्यन्ते" । श्रुतहानिर् अश्रुतपरिकल्पना च तथा स्यात् । काम्यमानं च वेदे फलम्- "ग्रामकामः," "स्वर्गकामः" इति, न वस्तुस्वाभाव्येन विषभक्षणवत्[^१९१] । अथो देवत्वादिप्राप्तिर् भवति, न च काम्यम्[^१९२] इति विरुद्धम् इति । प्रतिषेधाधिकारेष्व् अकामितं[^१९३] कथम् इति चेत्, तथाभूतस्यैव तत्र फलत्वेनान्वयः । न ह्य् अनिष्टं[^१९४] काम्यं भवति । अथ नित्यानां फलम् इतः कथ्यते, नित्यताहनिः । यावज्जीवादिपदैश्[^१९५] च तत्र नित्यफलत्वम्[^१९६] अवगमितम् । अथावश्यं[^१९७] कल्प्यते, प्रत्यवायपरिहारः[^१९८] कल्प्यताम् । तद् धि कल्प्यमानं[^१९९] नित्यत्वे न विरुध्यते ।
- यो ऽप्य् उत्तरः श्लोकः भूतान्य् अत्येति पञ्च वै इति,179 तत्र180 अत्येति181 विमुच्यत इति न विद्मः । अन्यत्रात्ययो182 लय उच्यते । न चेह भूतेषु जीवस्य लय इष्यते, अपि तु ब्रह्मरूपापत्तिः183 ।
- अन्ये ऽपि व्याचक्षते — स184 चातिक्रामति पञ्चभूतानि । न185 पाञ्चभौतिकं तस्य शरीरं भवति, अपि तु तेजोमूर्तिर् एवान्वेति186 । तद् अपि न किंचित् । शरीराग्रहणं हि मोक्षः । तच् च शरीरम् एकभौतिकं187 वा भवतु188 पाञ्चभौतिकं वा,189 को विशेषः संसरित्वे । अतो व्याख्येयो ऽयं श्लोकः ।
- उच्यते । यत् तावद् उक्तम् “कस्य कर्मणो देवसाम्यता फलम् इति, नित्यानाम् अफलत्वात्,190 काम्यानां च फलान्तरयोगात्” इति, तत्र ब्रूमः- नानेन सर्वेषां वैदिकानां कर्मणाम् एतत् फलम् उच्यते । किं तर्हि, निवृत्तस्य कर्मणो यत् फलं यत्र प्रवृत्तिः191 । किं च कर्म192 विद्यते, येन193 तत्फलम् आप्यत इति प्रशंसा । सन्ति च कानिचित् देवत्वप्राप्तिफलानि कर्माणि194 । तेनैतद् उक्तं भवति । कर्मकाण्डे यत् कर्तव्यतया195 वेदितं सास्य परा गतिर् देवत्वप्राप्तिः, न तु मोक्षः । यत् तु रहस्याधिकारोक्तं कर्म तद् अनावृत्तिहेतुः । तत्र कामयमानस्य फलसंकल्पोपहतत्वात् कर्म बन्धहेतुः । कर्मणां ह्य् एष स्वभावो196 यत् स्वफलदानार्थम् अधिकारिणः कार्यकारणम् आरभन्ते । तथैव नित्यान्य् अप्य् अक्रियमाणानि197 प्रत्यवायहेतवो भवन्ति । तान्य् अपि शरीरम् आरंभन्त एव ।
- यद्य् एवम्, नित्यानि करिष्यति, काम्यानि प्रतिषिद्धानि न198 करिष्यति, तस्य शरीरारम्भककर्माभावाद् धेत्वभावेन मोक्षम् अवाप्स्यति, आत्मज्ञानस्य क्वोपभोगः199 । यथोक्तम्-
-
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
-
मोक्षहीनः200 प्रवर्तेत201 तत्र काम्यनिषिद्धयोः202 ॥ (श्लोव् ५.१५- ११०)
इत्य् उक्तं भगवद्भिः । न203 विद्याम् अनभ्यस्यमानस्याविदया204 क्षयो ऽस्ति । न ज्ञानानुच्छिन्नायाम् अविद्यायां205 ब्रह्मरूपापत्तिः । एतद् एवाभिप्रेत्योक्तम् “निष्कामं ज्ञानपूर्वम्” (म्ध् १२.८९) इति, तथा “कामात्मता न प्रशस्ता” (म्ध् २.२) ।
-
समानक्रियस्य सामार्ष्टिस् तस्य भावः साम्यता । देवैः समानगतिर् भवतीत्य् अर्थः ।
-
यच् च भूतान्य् अत्येति इत्य् अप्य् अमुं प्रति206 व्यामोहः, सो ऽपि न युक्तः । विप्रलापनम् अप्य् अत्यय207 उच्यते । तुषारनिखिलप्रपञ्चो भवीत्य् अर्थः ।
- “अभ्येति” इत्य् अपि पाठे ऽशरीरत्वम् उक्तं भवति ॥ १२.९० ॥
कथं पुनः प्रपञ्चः कर्तव्य इत्य् अत आह ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥
मेधातिथिः ...{Loading}...
भूतशब्देन यत् किंचित् स्थावरजङ्गमं प्राण्यप्राणि208 तत् सर्वम् उच्यते । तत्र चात्मानं पश्येत्- “अहम् इवैतज् जगत्” इति । तथा च श्रुतिः- “अहं वृक्षस्य रेरिवा” इति (तु १.१०.१) । स्वपरव्यवहारं209 जह्यात् । “अयम् अहम् एतन् मम नेदं मम” इति संपद्यते बन्धः210 । त्यक्तात्मात्मीयाभिनिवेशस्योज्झितस्वपरभेदस्य केवलात्मैकत्वं भाति । एष एव स्वाराज्यपदार्थः211 ।
- सर्वभूतानि चात्मनीति । यद् एव विकारप्रपञ्चरूपं जगत् तद् एव तन् मयि स्थितम् अहम् एकः स्रष्टा कर्ता ध्याता द्येयश् चेति संपद्यते । आत्मयाजी । आत्मानम् एव सर्वदेवतामयत्वेन यो यजते, मन्यते- “नाग्निर्212 आदित्यो वा देवता, अहम् एव देवता” इत्य् एवं पश्यन्न् आत्मयाजी संपद्यते । न पुनर् आत्मोद्देशेन213 यागः कर्तव्यतया चोद्यते214 ।
-
केचिद् आहुः । नाग्नेयादिष्व् अग्न्यादयो देवता आत्मत्वेनापि न वक्तव्याः ।
-
स्वाराज्यम्215 । स्वे राज्ये भवः स्वाराज्यः216 । परमात्मवत् स्वतन्त्रः संपद्यते स्वप्रकाशश् च भवति । न217 चन्द्रादित्याद्यालोकम् अपेक्षते नेन्द्रियाणि218 चक्षुरादीनि नान्तःकरणं मन आदि । अतः पश्यन्न् इति219 च । भावयेद् इत्य् उच्यते220 । न221 दर्शनमात्रं सकलबाह्याभ्यन्तरव्यापारतिरस्करणे तद्भावनापराः स्मृताः222 ॥ १२.९१ ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥
मेधातिथिः ...{Loading}...
यथोक्तान्य् अपि कर्माणीति । नानेनाग्निहोत्रादीनां कर्मणां परिहानिर् विधीयते, अपि त्व् आत्मज्ञाने यत्नवान् स्याद् इत्य् आत्मज्ञानाभ्यासो विधीयते । कर्माणि परिहायेत्य् अस्यालंबनं223 प्रशस्तदेवतायतनप्रदक्षिणमन्त्रगुरुगमनादीनि मुक्त्वा224 ऽप्य् आत्मज्ञानम् अभ्यस्येत् । न हि नित्यानां कर्मणां स्वेच्छया परित्यागो ऽस्ति पुरुषधर्मादिषु225 विहिते नास्ति त्यागेन विना ॥ १२.९२ ॥
एतद् धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥
मेधातिथिः ...{Loading}...
द्विजो226 भवति क्षत्रियवैश्ययोर् अप्य् आत्मज्ञाने ऽधिकारं दर्शयति । यथा चारण्यककश्रुतिः227 । ब्राःमणस्य विशेषतः इति । “वेदाभ्यासे” (म्ध् १२.९२) इति संबन्धनीयम् । आत्मज्ञेन समत्वेनाभ्यासासितेनैव संभवतः । यद् आत्मज्ञानं प्राप्य कृतकृत्यो द्विजो भवति पुरुषार्थ एतावता समाप्यते । न हि मोक्षाद् अपरः पुरुषार्थो ऽस्तीति ॥ १२.९३ ॥
ननु च यद् उक्तं सर्वात्मैकत्वेनायं पश्येत् तत्228_ प्रत्यक्षविरुद्धम् इव, प्रत्यक्षेण हि भिन्नो भावः_229_ प्रतिभाति । तेन कथम् एकत्वेन ग्राह्यः । अनारभ्य स्वार्थ उपदिष्टः स्यात् । कथं भिन्नम् अभिन्नं द्रष्टुं शक्यम् । न हि खरो गौर् इव बुद्ध्या ग्रहीतुं शक्यः । इन्द्रियदोषेणान्यत्रावभासरूपया प्रतीयते शुक्तिकादौ रजताकारतया, न तूपदेशतः । यो ह्य् उपदिशेत् तं हस्तिनं प्रतिपद्यते । नासौ वचनफलम् अञ्जसाश्नुवीत । अत आह ।_
पितृदेवमनुष्याणां वेदश् चक्षुः सनातनम् ।
अशक्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥ १२.९४ ॥
मेधातिथिः ...{Loading}...
अयम् अर्थः । वेदो ऽत्र वक्तुः230 प्रमाणम् । चक्षुर् इव चक्षुः, दर्शनहेतुत्वसामान्यात् । यथा चक्षुःपरिच्छिन्नेष्व् अनेष्टितः231 रूपप्रत्ययो भवत्य् एवं वेदाद् इति चक्षुर् इत्य् उक्तम् । सनातनं शाश्वतं नित्यम् । अनेनापुरुषकृतत्वम् आह । पुरुषकृतत्वे232 हि तत्प्रामाण्यात् प्रमादो ऽपीत्य् अत्र न प्रमाणम् अस्ति, अतः पुरुषगतगुणदोषसद्भावनिश्वयात्233 । तदभावाद् अपौरुषेयत्वेन वेदः प्रमाणम् । अतो वेदप्रामाण्यात् दृश्यार्थस्य न कश्चन विरोधः ।
- ननु च यद्य् एवम् उपदिशेत् “अग्निना सिञ्चेद् उदकेन च दीपयेत्”,234 किं न भवेद् विरोधः ।
- विषम उपन्यासः । तत्र हि दृष्टया पदार्थशक्त्या दृष्ट एवार्थः कर्तव्यतयोपदिश्यते । तत्र प्रमाणान्तरगोचरत्वं तस्यार्थस्य । तद्विपर्ययाद् युक्तं तद् एतद् उक्तम् । इह तु विधिपरत्वात् वाच्यानां235 प्रमाणान्तराणां च विधिविषयत्वाभावात् सिद्धस्वरूपवस्तुगोचरत्वेनासत्य् एकविषयत्वे कुतो विरोधः ।
- इह ह्य् अनात्मभूतानां आभासतो भावानाम् आत्मत्वेन236 दर्शनं विधीयते स्वाराज्यफलाय237 । तत्र यत्राधिकं भेददर्शनं तस्याभ्यासतः शक्यम् अन्यथाकर्तुम् । तथा हि, रागादयश् चित्तधर्मा भावनातिशययोगाङ्गाभ्यासेन शक्यन्ते238 नियन्तुम् । द्वेष्यम्239 अपि मैत्रादिना द्वेष्यताबुद्धिर् निवर्तत इति सर्वस्यैतत् स्वसंवेद्यं दृष्टं240 च । भावनाया241 अविद्यमानवस्तुस्वाभाव्यम् अवभासते, सामर्थ्यात् । यथा विप्रलंभे कामिनः सर्वत्र कामिनीवत्242 पश्यन्ति, किम् अङ्ग यत्र तात्त्विकम् एकत्वम् अस्ति । तत् कथं भेदेन विरुद्धत्वाद् अवभासते । तद्रूपा हि सर्वभावना, सा भिन्ना विद्यते । ईदृशं चात्र दर्शनं समत्वेन विधीयते, यत्र “ममेतत्,” “नेदं मम” इति बुद्धेर् अनुपपत्तिः । यथोकम्-
- ममेति द्व्यक्षरो मृत्युर् न ममेति च शाश्वतम् । इति । (म्भ् १४.१३.३)
तस्मान् नास्ति विरोधः ।
या वेदबाह्याः श्रुतयो[^२७०]** याश् च काश् च कुदृष्टयः ।**
सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥
मेधातिथिः ...{Loading}...
पूर्वं त्व् अपौरुषेयत्वेन वेदस्य प्रामाण्यम् उक्त्वा, इदानीं पौरुषेयाणां वेदानाम् अप्रामाण्यम् । अथ वेदबाह्या वेदविरुद्धा अवेदमूलाः श्रुतयो ग्रन्थसंदृब्धेषु249 नोदनाश् “चैत्यवन्देन स्वर्गो भवति” इत्याद्या निर्ग्रन्थशोभादिसिद्धान्ताः250 प्रसिद्धाः251 । कुदृष्टयः252 असत्तर्कदर्शनानि । वेदकर्तुः साधनम् अपूर्वदेवतादिनिराकरणम् एवमाद्याः कुदृष्टयः । सर्वास् ता निष्फलाः प्रेत्य प्रकर्षं प्राप्य । संनिरूपितहेतुदृष्टान्ताः253 अन्ततो निष्फला उक्ताः, तत्र युक्तीनाम् आभासरूपत्वात् । ताश् च युक्तयो ऽन्यवति वर्त्मनि रात्रीयन्ति254 महाग्रन्थविस्तारा भवन्ति संक्षेपरूपाः । तथा पौरुषेयाणाम् उपदेशे न प्रामाण्यम्,255 पुरुषाणाम् अतीन्द्रियार्थदर्शनशक्त्यभावात्, सत्याम् अपि शक्तौ उपदेशिकस्य256 प्रमाणाभावात् । “अयं सर्वज्ञः, तेनायम् आगमः प्रणीतः” इति न किंचिद् अत्र प्रमाणं क्रमते ।257 विद्यमाने ऽपि कर्तृपूर्वत्वे दृष्टार्थादृष्टकल्पनाप्रसङ्गः, तत्प्रमाणत्वे देवतात्वसिद्धिः258 । अतस् ता युक्तयो व्यामोहमूला इत्य् अर्थः ।
- अन्ये तु व्याचक्षते । प्रेत्य मृत्यस्य ता निष्फलाः । तमोनिष्टास्259 तामसयोनिहेतुत्वात् ।
- अस्मिन् पक्षे ऽसमानकर्तृकत्वात् प्रेत्येति दुर्लभत्वम्260 । निष्ठान्ताद् वा सप्तमी पठितव्या “प्रेते” इति ॥ १२.९५ ॥
उत्पद्यन्ते विनश्यन्ति[^२८३]** यान्य् अतो ऽन्यानि कानिचित् ।**
तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥ १२.९६ ॥
मेधातिथिः ...{Loading}...
अतो वेदाद् यान्य् अन्यानि शासनानि तान्य् **उत्पद्यन्ते विनश्यन्ति **च । उत्पादविनाशित्वाद् अनित्यानि । वेदस् तु तद्विपर्ययान् नित्यः । अर्वाक्कालिकतया इदानींतनेन पुरुषेण केनचित् कृतत्वाद् अतो निष्फलानि, अदृष्टस्य फलस्याभावात् । यानि कानिचिद्261 विप्रलम्भमूलकादिलक्षणानि262 ॥ १२.९६ ॥
चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ॥ १२.९७ ॥
मेधातिथिः ...{Loading}...
इयम् अपि स्तुतिर् एव । चातुर्वर्ण्यं वेदात् प्रसिध्यति, अधिकारित्वेनावतिष्ठते “वसन्ते ब्राह्मणो ग्रीष्मे राजन्यः” (आप्ध् १.१.१९) इत्यादि । स्वरूपं तु व्यवहारावगम्यं सर्ववर्णेषु तुल्यत्वाद्263 अन्यत्र दर्शितम् । त्रयो लोकाः “इतः प्रदानं देवा उपजीवन्ति” (श्ब् १.२.५.२४) । अनेन त्रैलोक्यस्थितिहेतुत्वं वेदस्य सिद्धम् एव, वेदमूलत्वात् स्मृतीनां च264 । आश्रमो ऽपि265 वेदाद् एव । भूतम्266 अतीतं जन्मसुखदुःखादि । यच् च भवद् वर्तमानं यच् च भविष्यं267 तत् सर्वस्य वेद एव शरणीयम् ॥ १२.९७ ॥
शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः ।
वेदाद् एव प्रसिध्यन्ति268** प्रसूतिर् गुणकर्मतः ॥ १२.९८ ॥**
मेधातिथिः ...{Loading}...
शब्दादीनां भोग्यत्वेन सुखसाधनानां वेदाद् एव प्रसिद्धिः । वैदिककर्मानुष्ठानाद् गीतादिशब्दोपपत्तिः । तत्परित्यागाच् छ्रुतिकटुशब्दश्रवणम्269 । अतः शरीरारम्भकाः शब्दादयस् ताभ्यां स्वविषयत्वेनोपतिष्ठमाना वेदात्270 प्रसिधन्तीत्य् एतद् अभिप्रायम्, एतन्271 न पुनर् वेद उपादानकरणम् । अतः शरीरारम्भकाः शब्दादयस् ताभ्याम्272 । एतद् एवाह- प्रसूतिर् गुणकर्मतः । प्रसूतिः शब्दादीनाम् उत्पत्तिः । तदर्थं गुणकर्म । फलार्थत्वात् प्रधानकर्म च चित्रादि273 गुणधर्म इत्य् उक्तम् ।
- पाठान्तरम् “प्रसूतिर्274 गुणधर्मतः” इति । गुणाः सत्त्वादयः, तेषाम् धर्मो विपरिणामः, तस्य या प्रसूतिः साम्यावस्थायाः275 प्रच्युतिस् तदुद्रेको विष्वग्भावश् च, तत्र वेद एव हेतुर् अदृष्टनिमित्तत्वात् ।
- वैचित्र्यपाठान्तराणि निष्प्रयोजनत्वान् न लिख्यन्ते ॥ १२.९८ ॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्माद् एतत् परं मन्ये यज् जन्तोर् अस्य साधनम् ॥ १२.९९ ॥
मेधातिथिः ...{Loading}...
276सर्वभूतभरणं च वेदशास्त्रस्य दर्शितं ब्राह्मणे । तथा च “हविर् अग्नौ हूयते सो ऽग्निर् आदित्यम् उद्वयति तत् सूर्यो रश्मिभिर् वक्ष्यति तेनार्त्तिर्277 भवति ततो ह वैनाम् उत्पत्तिस्थितिर्278 वेति हविर् ज्ञायते” इति । इहाप्य् उक्तम् “अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते” (म्ध् ३.६६) इत्येवमादि ।
तस्माद् एतत् परं मन्ये** पुरुषार्थकारणम् । यद्य् एवं कारणेन जन्तोर् अस्य धर्मानुशासनम् एतस्मात् करणात् तेषु यथा दर्शितोपपत्तिः ।
- ननु च यद्य् औपादानिकम् अर्थं किं तद् भेदम् उक्तं279 लौकिकम् अर्थम् इति ।
M G: bhedayuktaṃ
- उच्यते । अनुष्ठानम् अस्य वैदिकम्, कार्यं तु दृष्टत्वाल् लौकिकम् एव ॥ १२.९९ ॥
सैनापत्यं च राज्यं च दण्डनेतृत्वम् एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥ १२.१०० ॥
यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ १२.१०१ ॥
मेधातिथिः ...{Loading}...
इयम् अपि पूर्ववत् । स्पष्टा पदयोजना प्रसिद्धाश् च पदार्थाः ॥ १२.१०१ ॥
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥
अज्ञेभ्यो ग्रन्थिनः स्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥
मेधातिथिः ...{Loading}...
अज्ञा मूर्खा अनधीयानाः । ग्रन्थिनः284 विद्वांसो ग्रन्थमात्राभिधायिनः । तेभ्यो धारिण इत्य् एतद् यत्नेन पठन्तः285 । पूर्वे तु नातिप्रयत्नतः । ग्रन्थस्येति तत्रापि संबध्यते “ग्रन्थस्य धारिणः” इति । श्रेष्ठत्वम्286 एतेषां जपप्रतिग्रहादिष्व् अधिकारात् । ज्ञानिनस् तु सर्वत्राधिकृता इति श्रेष्ठतराः । ज्ञानपूर्वं जपादयो ऽनुष्ठीयमानाः फलातिशयदायिनो भवन्ति । तद् उक्तम् “यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवति” (छु १.१.१०) इति । व्यवसायिनः287 अनुष्ठातारो निर्विचिक्त्साः288 । येषाम् एतद्289 अन्यथेति न290 शक्यते ।
- एतद् अपि स्तुत्यर्थम् । अध्ययनमात्रेण वेदाः पुरुषार्थाय प्रभवन्ति, किं पुनस् तदर्थज्ञानम्291 ॥ १२.१०३ ॥
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ॥ १२.१०४ ॥
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥ १२.१०५ ॥
मेधातिथिः ...{Loading}...
सुहृद् भूत्वोपदिशति लौकिकम् अर्थम् । धर्मो वेदार्थः, तस्य शुद्धिर् विवरणं पूर्वपक्षनिराकरणेन294 निश्चितसिद्धान्तव्यवस्थापनम् । एतत्295 प्रत्यक्षादिप्रमाणनिश्चये सति भवति । सुविदिते हि प्रत्यक्षे ज्वालादिवैषम्येण प्रत्यभिज्ञायते । शब्दनित्यत्वादिसिद्धिः296 । यस्य तु सम्यक् नास्ति297 विवेकः, तस्योभयोर्298 अविशेषेण प्रत्यक्षम् अध्यवसायः स्यात् । ज्वालादिषु च प्रत्यक्षेण क्षयं दृष्ट्वा शब्दे ऽपि299 तथा संभावयेत्, तथानित्यशब्दसमुदायात्मको वेदः स्यात् । यस्य तु विहितानि कुशलप्रमाणेषु प्रशब्दो ऽतद्ग्रहणनिबन्धनो नास्त्य् अभिज्ञानो मन्यमानो ज्वालाविदुषो भेदग्रहणनिबन्धनम् इव सितविशितं विशेषो न ज्वालाबाधेन शब्दे बाधं संभावयति ।
- एवम् अनुमानम् अपि सुविवेचितं न भारतादिग्रन्थप्रमाणोपलक्षणत्वाच् च । तेन शौर्यादिशास्त्रान्ते300 कर्मण्यतासिद्धिः । येन न विवेचितं301 ह्य् अनुमानं स पक्षविपक्षयोर्302 दर्शनादर्शनमात्रेणानुमानप्रवृत्तिं मन्वानो वेदे ऽपि कर्तारं कल्पयेत् । यदा तु निपुणमतिर् भवति तत् तत् प्रयोजकस्य स्नातव्यलक्षणया तस्य कर्तृत्वस्वकरणस्याभावाद् अपौरुषेयत्वम् अध्यवस्यति ।
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १२.१०६ ॥
मेधातिथिः ...{Loading}...
ऋषिर् वेदः, तत्र भवः आर्षः, धर्मोपदेशो यो वैदिकः । यस् तर्केण अनुमानान्तरेण युक्त्या निरूपयति स धर्मं वेदेति पदयोजना ।
- तर्क ऊहापोहान्तर्यसिद्धिः, इदम् अत्र युक्तम् ऊहितुम्, इदम् अपोहितम् । यदा307 सौर्ये कर्मणि निर्वापमन्त्रे “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये त्वा जुष्टं निर्वपामि” (व्स् २.११) इति प्रकृतितः प्राप्ते मन्त्रे ऽग्निपदस्यार्थासमवायाद्308 अपोहः सूर्यपदस्य च क्षेपः । अयं तर्को न विरुध्यते वेदेन । यो ऽप्य् एवं मन्यते- “सौर्ये कर्मण्य् अग्नेर् देवतायाः अभावात्, अर्थेन च मन्त्राणां प्रयोज्यत्वात्, एकदेशोपशमे च मन्त्रत्वाभावात्, कृत्स्नस्य वै मन्त्रस्य लोपः,”309 एष वेदार्थविरोधी310 तर्कः । यद् उच्चारणं311 मन्त्राणां प्रयोज्यत्वं मन्यते, “अतश् चाविकृत एव मन्त्रः प्रयोक्तव्यः” इति, सो ऽपि शास्त्रविरोधी तर्कः312 ।
- न चायं313 विधिः । अयम् अर्थवादः । अस्यात्र तात्पर्यम्, ईदृश्य् उपेक्षा यद् अत्रैतच् च मीमांसातो ज्ञायते ऽतो धर्मशुद्ध्यर्थं मीमांसावेदनम् एतेन चोदितम् ।
- अन्ये तु व्याचक्षते । तर्केणेति तर्कप्रधाना ग्रन्था लौकिकप्रमाणनिरूपणपरा314 न्यायवैशेषिकलोकायतिका उच्यन्ते । तत्र वेदविरुद्धानि बौद्धलोकायतिकनैर्ग्रन्थादीनि पर्युदस्यन्ते । तानि वेदविरुद्धानि । न315 तत्र प्रमाणं वेदः । कपिलकणादक्रियाम् अविरथतानिग्रहान्तादिषु हि शब्दः प्रमाणम् । तथा चाक्षपादसूत्रम् “प्रत्यक्षानुमानोपमानशब्दाः316 प्रमाणानि” (न्यास् १.१.३) । वैशेषिका अपि “तद्वचनाद् आम्नायस्य प्रामाण्यम्”317 (वैश्स् १.१.३) इत्य् आहुः । अतस् तानि शास्त्राणि श्रोतव्यानीति च । तथा च महाभारते भगवता कृष्णद्वैपायनेन दर्शितम्-
-
श्रोत्रियस्यैव ते राजन् मन्दकस्याल्पबुद्धयः ।
-
अनुवाकहता बुद्धिर् नैषा सूक्ष्मार्थदर्शिनी ॥ (म्भ् १२.१०.१)
अनुवाकहतेति तर्ककृताम् अप्य् उपपत्तिम् आह, केवलत्वाद् असत्तया । तथेदम्318 अपरम् उत ।
-
कश्चिन् न लोकायतिकान् ब्राह्मणान् स्मार्तः सेवते ।
-
अनर्थकुशला ह्य् एते मूर्खाः पण्डितमानिनः । इति । (राम् २.९४.३२)
अनेनासत्तर्कश्रवणं प्रसिद्धम्, पूर्वेण सत्तर्कानुज्ञानं तद् एव तद् इति ।
- केचित्319 प्रामाण्यं वेदस्याहुर् ईश्वरप्रणेतृकतया । न च तस्यास्ति संभवः । न च तस्मिन् पक्षे वेदः प्रमाणम्, तस्य ह्य् असाव् ईश्वरः समयोपस्थापकः ।
- एतेषु श्रूयमाणेषु अप्रामाणिको320 विपरीतो ऽभिनिवेशो जायते । अतो ऽसत्तर्का एव ते । न च वैदिकस्य वाक्यावबोधे कस्यचिद् अप्य् उपयुज्यन्ते321 । तथा च सांख्याः “स ह्य् अविशुद्धिक्षयातिशययुक्तः”322 (सांक् २) इत्य् आहुः । अक्षपादैर् अपि तदप्रामाण्यं मन्यते । तथा च याज्ञिकपूर्वपक्षे निर्धारितं यद् अपि केनचित् पठितम् (न्यास् २.१.५७) ।
- कर्ममीमांसावेदान्तभाष्यम्323 एवम् अभिधानं यथाश्रुति विज्ञायते- “देवा अस्माल् लोकाद् अमुं लोकम् आयंस् तान् ऋषयो ऽन्वीयुस् तान् मनुष्या अब्रुवन् कथम् अथो भविष्यामः एभ्यः सर्वकर्म ऋषयः प्रायच्छत्324 । तस्माद् यत् ब्राह्मणोत्तमास् तर्कयन्त्य्325 आर्षम् एव तद् भवति” इति श्रुतेः । एषा यथोक्ततर्कपदार्थानुवादिनी ॥ १२.१०६ ॥
नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यम् उपदिश्यते ॥ १२.१०७ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणार्थादारातिशयोत्पत्त्यर्थः श्लोको ऽयं श्रोत्रियसंबोधनार्थः । रहस्यं गुह्यम् । अतश् च न सर्वस्य प्रकाशयितव्यम् । यो न शुश्रूषापरो न च परमां भक्तिम् उपेतो यश् च न स्थिरप्रकृतिर् न तस्मै प्रकाश्यम् ॥ १२.१०७ ॥
अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥ १२.१०८ ॥
मेधातिथिः ...{Loading}...
ननु च, **अनाम्नातेषु** कः संदेहः । नो जाने नेह कथं स्याद् इति चेत्, यतो नैव तेषां तद् ।
-
उच्यते । नेहेदृशम् अनाम्नातम् अभिप्रेतम् । किं तर्हि, यत् सामान्यत आम्नातं विसेषतस् तु न ज्ञायते ।
-
ननु च तत्रापि कः संदेहः । सामान्यस्य विशेषमात्रापेक्षाद्326 येन केनचित् सिद्धं327 शास्त्रार्थम्, यथा “अद्भिर् आचमेत्” इति कूप्यस्थावरनादेयादिभेदेन भिन्नास्व् अप्सु ताः काश्चिद् उपादीयमानाः संपादयन्ति शास्त्रार्थम् ।
- सत्यम् । यत्र प्रतिषेधश्रुतिः,328 न च वैशेषिकं प्रायश्चित्तम् उपदिष्टम्, तत्रेदम्329 उपदिश्यते । यदा शूद्रोच्छिष्टं किंचित् पात्रं तद् अशुद्धं तत् संपर्काद् अशुचि तस्मिन्न् अकृते सुद्धे यदि केनचिद् भुक्तं स्यात् तदा किं प्रायश्चित्तम् इति संदेहः । स हि जिज्ञासा च निश्चयावसानेन च प्रत्यक्षादिषु सम्यङ् निधिः स्त्रीशूद्रोच्छिष्टम् एवेत्य् अदत्तं भवितुम् अर्हति । न हि तच् छूद्रस्योच्छिष्टम् इति शक्यं वक्तुम् । किं तेन तद् उच्छिष्टम् इति । एवमादौ संदेहे तु शिष्टवचनं प्रमाणीकर्तव्यम्330 । यथा ये शूद्रादयो विप्रांशास् तेषाम् अयं धर्मसंदेहः । शिष्टोपदिष्टम् एव युक्तं कर्तुम् । ततश् च न्यूनाधिकभावेन या कृता कल्पना स एव तत्र धर्मः । तेषाम् अपि तथोपदिशतां न दोषः । यत आह- स धर्मः स्याद् अशङ्कितः इति । अधर्मं ब्रुवतो331 दोषः, धर्मे तु का विचिकित्सा332 । तथा गोत्रप्रवरसंदेहे कथंचित्333 स्मृतिविच्छेदे ब्राह्मणवचनाद् गोत्रप्रवरसिद्धिः । तत्र च प्रवरसंदेहे “सर्वेषां मानवेति334 संशये” (आश्श् १.३.५) इत्य् उक्तम् । गोत्रसंशये तर्हि भविष्यति । तत्र च गोत्रसंशयाभावे कुतः प्रवरसंशयः, प्रतिगोत्रं335 प्रवराणां भेदेन पठितत्वात् । उपपद्यत एवम् एतद् गोत्रनामधेयम् । प्रवराश् च भिन्ना नाना गोत्राणि । तत्र सत्य् अपि प्रवरनिश्चये गोत्रसंदेह336 उत्पद्यते337 ॥ १२.१०८ ॥
धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९ ॥
मेधातिथिः ...{Loading}...
शिष्टलक्षणम् अनेन कथ्यते ।
-
ननु च “अर्थकामेष्व् असक्तानाम्” (म्ध् २.१३) इत्य् अत्रोक्तम् एव शिष्टलक्षणम् ।
-
अन्यो ऽपि तस्य तत्रार्थ आशङ्कितः, अतो न तस्य लक्षणपरतैव, यच् च वसिष्टेनोक्तम् “शिष्टः पुनर् अकामात्मा” (वध् १.६) इति, तत्र विद्वत्ताया338 अश्रुतत्वात्339 ।
- इतिहासपुराणाभ्यां वेदार्थम् उपबृंहयेत् । इति ।
स्मृतयो ऽप्य् एवं गृहीतार्था भवन्ति । ब्राःमणग्रहणम् अनुवादः, तेषाम् एव342 धर्मप्रवचनाधिकारात् । श्रुतिप्रत्यक्षहेतवः । प्रत्यक्षं हेतवश् च प्रत्यक्षहेतवः । हेतुशब्देन प्रत्यक्षाद् अन्यप्रमाणान्य् उच्यन्ते343 । श्रुतिः344 प्रत्यक्षो हेतुश् च येषां ते345 श्रुतिप्रत्यक्षहेतवः । एतद् उक्तं भवति । यथा प्रत्यक्षं निर्विवादं प्रामाण्यम् एव, तादृशीं श्रुतिं मन्यन्ते, यान्य् अपि हेतूत्थानि प्रमाणानि तेषु346 विश्वसन्ति, श्रुतिम् एव तर्कं मन्यन्ते, हेतुशास्त्राश्रयणेन चेदं न प्रमाणीकुर्वन्ति347 ।
- अथ वा श्रुतिः प्रत्यक्षश्रुतिः,348 प्रत्यक्षशब्दः श्रौते प्रत्यये प्रयक्षतुल्यत्वात् प्रयुक्तः । स च हेतुर् धर्माधर्मपरिज्ञाने कारणं येषां त एवम् उच्यन्ते ॥ १२.१०९ ॥
दशावरा वा परिषद् यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥
मेधातिथिः ...{Loading}...
दश अवरे यस्या दशावरा349 । यदि बहवो न संनिधीयन्ते दशावश्यं संनिधातव्याः । तदभावे त्र्यवरा350 । वृत्तथेति । यद् उक्तम् “अर्थकामेष्व् असक्तानाम्” (म्ध् २.१३) इति, तस्यैवायम् अनुवादः । न चैषा पुरुषसंख्या, अपि तु गुणसंख्या । तथा च वक्ष्यति “एको ऽपि वेदवित्” (म्ध् १२.११३) इति । एकस्य यतो गुणसमूहस्य बाहुल्येनासंभवात् पुरुषप्रधानतया संख्याया निर्देशः कृतः ॥ १२.११० ॥
तानीदानीं परिषत्त्वहेतुगुणान्351_ दर्शयति ।_
त्रैविद्यो हेतुकस्[^३७५]** तर्की नैरुक्तो धर्मपाठकः ।**
त्रयश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ १२.१११ ॥
मेधातिथिः ...{Loading}...
पुरुषप्रधाने ऽपि निर्देशे गुणपरतैव विज्ञेया ।352 यस् त्रैविद्यः वेदत्रयस्याध्येता तदर्थस्य च वेदिता ।353 अनुमानादिकुशलः । तर्की अयम् ऊहापोहबुद्धियुक्तः ।
-
ननु च नैवंविदो वेदार्थवित्त्वम् एव संभवतीत्य् उक्तम् ।
-
सत्यम् । परोपदेशाद् अपि कस्यचिद् याचनावती वेदार्थमात्रा354 संभवत्य् अपि । अतश् च प्रत्ययेन विना वेदार्थग्रहणार्थहेतुकेन355 भातीत्य् उक्तम् ।
- एतेन नैरुक्तो व्याख्यातः । धर्मपाठको मन्वादिस्मृतिशास्त्राणाम्356 अध्येता । त्रयश् चाश्रमिणो ह्य् एते ह्य् अनुष्ठानपराः कुशलतरा धर्मेषु भवन्ति । पूर्वे357 ।
ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
त्र्यवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥
मेधातिथिः ...{Loading}...
निरुक्तव्याकरणमीमांसाभिर् वेदार्थो ज्ञायते । ते च सर्वे साधारणाः । न हि तत्रैकस्य वेदस्यार्थो ज्ञायते नान्यस्य362 नित्यम् अयं प्रकारो ऽस्ति । अथ ऋग्वेदादीत्यादि कथं भेदोपपत्तिः । तथा तत्र गृह्यसूत्रभेदेन चेदम् उक्तम् ॥ १२.११२ ॥
एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ १२.११३ ॥
अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥
यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः ।
तत् पापं शतधा भूत्वा तद्वक्तॄन् अनुगच्छति ॥ १२.११५ ॥
मेधातिथिः ...{Loading}...
वक्तॄणाम् अविदुषां दोषकथनम् ॥ १२.११५ ॥
एतद् वो ऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६ ॥
मेधातिथिः ...{Loading}...
प्रतिज्ञातधर्मोपसंहारः367 श्लोको ऽयम् । “धर्मान् नो वक्तुम् अर्हसि” (म्ध् १.२) इति यत् पृष्टम्, “महर्षीन् श्रूयताम्”368 (म्ध् १.४) इति यद् वक्तव्यतया प्रतिज्ञातं तत् सर्वं कथितम् इति शास्त्रपरिसमाप्तिम् आह ।
-
ननु च परस्ताद् अप्य् अस्ति शास्त्रं हन्तव्यादिशास्त्रम्, सा च विधितः श्रूयते । तत्र विधिविषये कश्चिद् इति कथम् उच्यते शास्त्रम् उपसंह्रियत इति । वक्तुर् न करोति प्राय उपसंहारः ।
-
परस्ताच् च कर्मशेषात् स्वप्रधाना शुद्धैव विद्योपदिश्यत इति न विरोधः । सर्वत्र श्रेयसी शास्त्रार्थधर्मलक्षणा विद्येत्य् उपसंहृत्याभिधाने प्रयोजनम् ॥ १२.११६ ॥
एवं स भगवान् देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वम् उक्तवान् ॥ १२.११७ ॥
मेधातिथिः ...{Loading}...
स भगवान् मनुर् इदं शास्त्रं सर्वं लोकहिताय प्रोक्तवान् इति भृगुः शिष्यान् आह । अनेनाधिकाराकांक्षा निवर्तते । गुह्यं यद् अध्यात्मं तद् अपि मनुर् माम् उपदिश्य प्रकाशयां चक्रे । मयापि369 यथागमं भवतां प्रकटीकृतम् इति न कार्याधिकाकांक्षा ॥ १२.११७ ॥
सर्वम् आत्मनि संपश्येत् सच् चासच् च समाहितः ।
सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः ॥ १२.११८ ॥
मेधातिथिः ...{Loading}...
सर्वं जगत् सदसद्रूपम् उत्पत्तिविनाशधर्मकम् । अथ असत्370 शशविषाणादिवत् सच् च371 नित्यम् आकाशादिवत् सर्वम् आत्मनि संपश्येद् आत्मनि व्यवस्थितम् उपासीत ।
- संदर्शनार्थस्य स्पष्टार्थस्य साक्षात्करणपर्यन्तयोपासनया विज्ञायते । न हि सकृद्दर्शनेन साक्षात्कारः संभवति । तथोपदिश्यते रहस्यशास्त्रम् । तत्रात्मध्यानायैतद् उक्तं भवति “श्रोतव्यो मन्तव्यो निदिह्यासितव्यः” (बाउ २.४.५) इति ध्यानपर्यन्तता सद्दर्शनस्य372 । आत्मध्यानं यथोपदिष्टज्ञानाभ्यासो विजातीयप्रत्ययान्तरितम् उच्यते । अथ वा सामर्थ्याद् अभ्यासाक्षेपः । यतः संस्कारकर्माणि373 च संस्कार्ये विशेषाधानेन संपन्नस्वार्थानि भवन्ति । यथा “व्रीहीन् अवहन्ति” (आप्श्र् १.२१.७) इति अश्रुतोपन्यासः374 तुषकणविप्रमोकफलेभ्यस् तत्संदर्शनेन ह्य् अदृष्टार्थता स्यात् । तथा च कर्मविधित्वात् षष्ठिसंस्कारकर्मताहानिश् च । अतः संपशेद् इति ज्ञेयान्तरविषयज्ञाननिराकरणेन तद् एकज्ञेयनिष्ठाम् अनुब्रूयात् ।
- अत्र्आत्मनीति विवदन्ते । को ऽयम् आत्मा नाम । यदि तावद् अयं देहाधिकरणः क्षेत्रज्ञः तत उत्तरं375 विरुध्येत “प्रशासितारं रुक्माभम्” (म्ध् १२.१२२) इति । न हि कर्मत्वशरीरस्य मृत्योर् उत्पत्तिः श्रूयते- एतस्य376 वाक्षरस्य प्रशासने गार्गि377 द्व्यावापृथिव्यौ विधृते तिष्ठतः” (बाउ ३.८.९) इति । तस्मान् नाहंप्रत्यय्प्रेमेये378 आत्मन्य् अपि संसारविधिः । अतो ऽन्या काचित् तस्य स्वरूपसिद्धिर् वक्तव्या । किंचैवं सति पश्येद् इत्यादिना बाह्यात्मनाम् अप्य् आधिभूताधिदैवभावेन379 व्यवस्थितानाम् आध्यात्मम्380 उपसंहारः । शिष्यते च श्रौतम् अतोस्तरागः साधनतया कारणात्मनार्जितस्य381 संबन्धितां प्रतिपद्यते ।
-
ननु यः सर्वं जगत्कारणपुरुषावच्छेदम् उक्तं सदा प्रत्य्आत्मनि संपश्येद् इति, तत्र कीदृशम् आत्मनो दर्शनम् आत्मनीति वक्तव्यम् ।
-
अन्ये तु मन्यन्ते । शरीरात्मन एवैतत् संनिवेशनं युक्तम् । तस्य हि श्रोतृसंनिवेशेन तद्वत्ता युक्ता ।
-
तत्रोच्यते । आत्मशब्दस् तावत् परमात्मविषयतया दर्शितवाक्यान्तरसमन्वयप्रमाणः । यत् तु382 स्वरूपसिद्धिर् वक्तव्येति तत्र किम् अन्यच् छक्यं न वक्तुम् अन्यद् अतः श्रोतृत्वज्ञानविधेः । तानि च वाक्यानि प्रतिशाखं सर्वोपनिषद्भ्यो ऽवगन्तव्यानि । प्रमाणान्तराणाम् अप्य् एकत्वप्रतिपादनपरत्वाद् एव ग्राहिणः प्रत्यक्षस्य मिश्रैः कृत एव क्लेशः । उक्तं च वाक्यपदीये383 “न तद् अस्ति च तन् नाम्नि” (ब्वक्य् ३.२.१२) इत्यादि । विध्यवगम्यता च शरीरावरकाद् अवसातव्या ।
- यद् अप्य् उक्तम् असत् कथं दृश्यत384 इति सच् चासच् चेत्य् अयम् अर्थः स्यात् । सद् इति विकारग्रामस्य385 निर्देशः । असद् इत्य् अप्रत्यक्षतैव सूक्ष्मतयाशक्यावधारत्वात्386 ।
-
यद् अप्य् उक्तं नास्ति परमात्मनः श्रोत्रसंबन्ध इति । किम् अत्र संबन्धि सर्वस्य जगत्स्थित्युत्पत्तिविनाशानां तत्कारणतयोपपादित्वात् ।
-
यश् चायं संनिवेशविधिस् तस्यायम् अर्थः । यावद् यत् किंचिद् भेदवद् अवभासते तत् सर्वम् अद्वैतिकत्वे प्रविलापयेत् । सर्वम् आत्मस्थम् इत्य् एतत् परमात्मनो विरतिसामान्ये हेतुर् विद्यत इति ।
-
समाहितः । समाधिर् नाम चित्तवृत्तिनिरोधोपायो योगशास्त्राद् आगमयितव्य इत्य् अर्थः । नाधर्मे कुरुते मतिं बुद्धिचेतसोर्387 निश्चलताभावः । तावद् अभ्यसेद् यावद् वादिभिश् चेतो नापह्रियेत । अतश् च यावत् कश्चिद् भेदकत्वे प्रतिविलापयेत्388 ॥ १२.११८ ॥
आत्माइव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् ।
आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥
मेधातिथिः ...{Loading}...
सर्वत्र यागादिक्रियाः स्वर्गादयो देवता आत्मत्वेन द्रष्टव्याः । यो ऽयम् अग्निर् देवता अग्नेर् इयम् अन्यात्मैवासौ नान्यो ऽग्निर् देवतास्तीति । तद् अप्य् उक्तम्- “एक आत्मा बहुधा श्रूयते” (निर् ७.४) इति । यत्र युक्त “एक एवाहम् आत्मा देवता” (र्व् १.१६४.४६) इति । तथा “इन्द्रं मित्रं वरुणम् अग्निम् आहुः एकं सद् विप्रा बहुधा वदन्ति (र्व् १.१६४.४६), बहुरूपपरमात्मनो ऽन्यां देवतां पश्यन्ति, सतां परादात्” इत्य् अनेन कर्माङ्गदेवतानाम् आत्मदृष्टिर् विधीयते ।
-
किं तर्हि न तस्य देवतादिकृत्यम् अस्ति ।
-
आत्मतयैव सर्वसिद्धिः ।
-
कथम् ।
-
नार्थात्मनि जनयत्य् एषाम् इति ।
-
कर्मयोगे कर्मफलसंबन्धः । स आत्मा तेषां निष्पादयति । नान्या देवता न तद्गुणकम् इति ॥ १२.११९ ॥
खं संनिवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहे ऽपो गां च मूर्तिषु ॥ १२.१२० ॥
मेधातिथिः ...{Loading}...
यान्य् एतानि नवच्छिद्राणि तेषु बाह्यम् आकाशं नियच्छेत् । बाह्यम् आकाशं तद् एव तन् न बाह्यं किंचिद् अस्तीति । अनिलो389 वायुः । तं संनिवेशयेत् । चेष्टते स्पन्दते तत्र काचिच् छरीरावस्था हस्तपादाद्युक्तविहरणलक्षणायाश् चायम् । स्पर्शो बाह्यादिलक्षणः390 । तत्र वायुं संनिवेशयेत् । **पक्तिर् **जठिराग्निकृता । दृष्टिश् च । तयोः391 निवेशयेत् । तेजः परं392 कृष्णम् आदित्यात्मनावस्थितम्393 । स्नेहे मेदोमज्जादिरूपे संनिवेशयेद् इति वर्तते । गां पृथिवीं मूर्तिषु शरीरभागेषु ॥ १२.१२० ॥
एवं महाभूतानाम् उपसंहारः । इदानीं देवतानाम् आधानम् उपसंहरिष्यते ।
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१ ॥
मेधातिथिः ...{Loading}...
यो ऽयम् इन्दुश् चन्द्रमास् तं मनसि संनिवेशयेत् । नैष चन्द्रो गगनसंचारी । किं तर्हि, मम मनसि व्यवस्थितः । याश् च दिशः श्रोत्रेन्द्रियशक्तौ । क्रान्ते394 विष्णुं यो यत्राल्पम् अपि क्रामति395 विष्णुर् एव क्रान्तिकर्मणा396 संनिविष्टः । एवं बले हरम्397 । हनुरेतो द्राग् अप्य् उत्थानं स चेन्द्रियावकाशः कालाकृतिर् इन्द्रियकर्मैव तत् । यम् एवं398 वागग्नेर् एवायम् उत्सर्गो वाय्वाद्यैर् मन्त्रैः पश्येत् । एवम् अध्यात्मम् उपसंहृत्य सर्वं परमात्मनि पश्येत् । एवमात्मको हेतुः परमात्मनि व्यवस्थितः “नाहं कश्चित् ततो भिन्नः” इति । एवम् एषा सर्वोपासना कर्तव्या ॥ १२.१२१ ॥
प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥ १२.१२२ ॥
मेधातिथिः ...{Loading}...
एवम् एवाह । प्रशासितारं नियन्तारम् । सर्वेषां ब्राह्मणादिशूद्रपर्यन्तानाम् । यो ऽयम् अग्न्यादीनाम् औष्ण्यादिस्वभावनियमो यच् चादित्यादीनाम्399 अनिशम् अन्तःपरम् ओजः जगद्भ्रमणप्रकाशनादिषु400 व्यापारो401 यश् च कर्मणां फलं प्रतिनियमः स सर्वस् तस्मिन् नियन्तरि सति । यद् उक्तम् “एतस्यैवाक्षरस्य प्रशासने गार्गि” (बाउ ३.८.९) इत्यादिना, तथा-
-
तत् सूर्यस् तपति च यावद् वर्षति चन्द्रमा ।
-
भयाद् अग्निश् च वायुश् च मृत्युर् धावति पञ्चमः ॥ (च्ड़्। कटु ६.३) इति
अणीयांसम् अणोर् अपि इति ।यः कश्चिद् दारानिरतिशयवालाग्रशतभागादिस् तत् ते तृतीयांशपरिमाणकत्वम् असत्प्रतिपाद्यते, “अस्थूलम् अनणु” (बाउ ३.८.८) इत्यादिसर्वधर्मपरिषेधात् । किं तर्हि, कुशाग्रीयाया भुद्धेर् गम्यत्वात् । एतद् उक्तं भवति । यो नात्यन्तं कुशलो न च तदभ्यासे परिष्वक्तः ॥ १२.१२२ ॥
एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम् ।
इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥
एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना ।
स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥
मेधातिथिः ...{Loading}...
ब्रह्माभ्येति ब्रह्मभावम् आपद्यते । मैत्राद्यवभासेन रागद्वेषक्षयम् अनुवदति । अनेन चाविजातीयप्रत्ययान्तरितात्मैकत्वज्ञानम् अनुष्ठेयम् आह । न हि विजातीयप्रत्ययोत्पत्तौ सर्वसंमतता भवति । अतश् चैतद् उक्तं भवति । अहं ममेति त्यक्ताहंकारममकारस्य तद् एकज्ञाननियततया निरतिशयपरमानन्दरूपं ब्रह्म प्राप्नोति । अनिष्टनिवृत्तिः शास्त्रप्रदर्शिताभिप्रेतनियमस्य प्राप्तिश् च402 फलसिद्धिर् भवति इत्य् अर्थः ॥ १२.१२३–२५ ॥
इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
भवत्य् आचारवान् नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥ १२.१२६ ॥
मेधातिथिः ...{Loading}...
इतिः शास्त्रसमाप्तिम् आह । पठन् भवत्य् आचारवान् । अन्यो अध्याहार्य आचारः । यथा पठितशास्त्रात् शास्त्रानुष्ठानम्403 । एवंविधश् चेद् भवति यथेष्टां देवतादिलक्षणां गतिम् ॥ १२.१२६ ॥
M G: paṭhitaśāstrāntarāt svanuṣṭhānaṃ
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **
द्वादशो ऽध्यायः ॥
**मान्या कापि मनुस्मृतिस् तदुचिता व्याख्या हि मेधातिथेः **
सा लुप्तैव विधेर् वशात् क्वचिद् अपि प्राप्यं न यत् पुस्तकम् ।
**क्षोणीन्द्रो मदनः सहारणसुतो देशान्तराद् आहृतं **
जीर्णोद्धारम् अचीकरत् तत इतस् तत्पुस्तकैर् लेखितैः ।
इति भट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृतौ
मनुभाष्ये द्वादशो ऽध्यायः ॥
-
M G: sāmānyārtham ↩︎
-
M G: yāni ↩︎
-
M G: yāny atulyāni ↩︎
-
M G J: svargāyuś (my reading is conjectural, based on Āp and the presence of the final “ca”) ↩︎
-
M G: vihitāni ↩︎
-
M G: kṛte for ityādinā ↩︎
-
M G: na ca ↩︎
-
M G: śāstrācoditaṃ ↩︎
-
M G: tatra nānuṣṭhānam ↩︎
-
M G: apekṣā ↩︎
-
M G: atra kāṃkṣā ↩︎
-
M G: pravartamānasya ↩︎
-
M G: yadākāṃkṣīyata ↩︎
-
J omit: kartṛkaraṇa iti ca śrūyate ↩︎
-
M G: vidhis ↩︎
-
M G: niyojyaṃ viṣa- ↩︎
-
M G omit: na ↩︎
-
M G: tadatikrameṇa ↩︎
-
M G: tatra ↩︎
-
M G: na cāśrutāpy ↩︎
-
M G omit: karma ↩︎
-
M G: kriyāmātra ↩︎
-
M G: śubham ↩︎
-
M G: -sādhanādivat ↩︎
-
M G: sarva- ↩︎
-
M G: īdṛśa etasya ↩︎
-
M G: kāraṇāt ↩︎
-
M G: meghavarṇasādṛśyāt ↩︎
-
M G: santamāsaṃbhavāt pravṛtti saṃtamāsaṃbhavati ↩︎
-
M G: vividhasya ↩︎
-
M G add: īdṛśam ↩︎
-
M G: vidāṃ prāmāṇyam; J: vedāḥ prāmāṇyam (my reading is conjectural, also based on Jha’s translation) ↩︎
-
M G: -ārthaṃ param ↩︎
-
M G: tu saṃyamya ↩︎
-
M G: niyacchati ↩︎
-
M G: vā na | atra ↩︎
-
M G: te sarve ↩︎
-
M G: kriyāṃ pari- ↩︎
-
M G omit: vṛttiḥ ↩︎
-
M G: pāṇādi- ↩︎
-
M G: mahad abhibhūtaṃ sūkṣmapariveṣṭitaṃ ↩︎
-
M G: nānārūpaṃ bhogabhāvair adhivāsitaṃ ↩︎
-
M G: sahaśabdasya ↩︎
-
M G: tad api yogena ↩︎
-
M G: mahānti ↩︎
-
M G: athāvyāptyāpakṣe ↩︎
-
M G place nātra bhūtāni at the beginning of the com. on the next verse. ↩︎
-
M G: tejasā- ↩︎
-
M G omit: tadarthīyam ↩︎
-
M G: yady ↩︎
-
M G: chalena ↩︎
-
M G: mahākṣetrajñāc ↩︎
-
M G: pratirandhriṇi ↩︎
-
M G: saṃvṛktaḥ ↩︎
-
M G: na śloke ↩︎
-
M G: evamuktaṃ ↩︎
-
M G: tataḥ ↩︎
-
M G: yābhyāṃ; J: tābhyāṃ ↩︎
-
M G: atha ↩︎
-
M G: kāraṇāpekṣā ↩︎
-
M G: -pravaṇabhāsāpi ↩︎
-
M G: -vilakṣaṇā- ↩︎
-
M G: yāni svargaśarīrāṇi bhakṣyāṇi ↩︎
-
M G: cānya- ↩︎
-
M G J read: sukhānubhavena, without the elided “a”. I think it is asukhānubhavena, thus when there is a small amount of adharma, the asukha is experience in this very world, and after death the person goes to heaven. ↩︎
-
M G: tadanubhave; DK (5: 631) suggests: na tv anubhavena ↩︎
-
M G omit: jīvatau ↩︎
-
M G: pramāvasthā vāpy atra bhavān ↩︎
-
M G places yathā . . . acaitanyam eva after ucyate ↩︎
-
M G J: cātiprasādaḥ (but Jha’s translation assumes pramāma) ↩︎
-
M G: place anucchedād bījavāsanāyā ā brahmaprāptisthitatvāt under verse 27, after evaṃ sarvam ↩︎
-
M G: svasaṃvedyaiva kasyāṃ ↩︎
-
M G: hāri ↩︎
-
M G: bhartṛviṣayeṣu ↩︎
-
M G: tat kasyeti saṃbandha- (see kasyeti given later) ↩︎
-
M G: saṃbandhasya ↩︎
-
M G: gaṇanaṃ ↩︎
-
M G: apāyaparihāre ↩︎
-
M G: -dhanānām ↩︎
-
M G: -kālebhyo ↩︎
-
M G: saṃcarante ↩︎
-
M G: buddhipūrvaprayogaś ↩︎
-
M G add: ca ↩︎
-
M G omit: vā ↩︎
-
M G: acetanāditacchaktiḥ ↩︎
-
M G: dharmādeś ca ↩︎
-
M G: kṛtir ↩︎
-
M G: eva paraṃ ↩︎
-
M G: ye ye prakārāḥ santi ↩︎
-
M G omit: vā ↩︎
-
M G: aguṇatyāgā ↩︎
-
M G: ceti ↩︎
-
M G omit: nikṛṣṭataraṃ ↩︎
-
M G omit: na ↩︎
-
M G: indriyasaṅgo ‘pratiṣiddha- ↩︎
-
M G: paramāt saṃsārāt ↩︎
-
M G: tatra ↩︎
-
M G: ghorā ↩︎
-
M G: kṣayaṃ ↩︎
-
M G: naraka- ↩︎
-
M G omit: ’ntyāḥ ↩︎
-
M G: kaṭa- ↩︎
-
M G: prakaṭaḥ pūtano ↩︎
-
M G: ādityalokaḥ ↩︎
-
M G: ādityāl loke ↩︎
-
M G: pravṛttasya syāt tatsvabhāvatayaiva ↩︎
-
M G omit: na ↩︎
-
M G: tadātmatve ca ↩︎
-
M G: aśiṣṭā- ↩︎
-
M G add: ity arthaḥ ↩︎
-
M G J omit: vihitānāṃ (I follow the suggested emendation of DK 5: 632) ↩︎
-
M G: vartitavyam ↩︎
-
M G J: śreyase (I follow the suggested emendation of DK 5: 632) ↩︎
-
M G J: -kāraṇatve (I follow the suggested emendation of DK 5: 633) ↩︎
-
M G: -opasenābhyā- ↩︎
-
M G J: -śvarabhāvasyātmanaḥ (I follow the suggested emendation of DK 5: 634) ↩︎
-
M G omit: na ↩︎
-
J omits: teṣu mokṣatvaṃ pratipadyate ↩︎
-
DK (5: 634) suggests: samudāyāntarbhūtaviśeṣasya ↩︎
-
DK (5: 634) suggests: na copapadya- ↩︎
-
M G add: na hi bhavati ↩︎
-
DK (5: 634) vedābhyāsādīni, thus omitting the initial antar- ↩︎
-
M G: uddiṣṭaṃ ↩︎
-
M G: sāmānyasāmānyāt ↩︎
-
DK (5: 634) suggests: vaidikāni ↩︎
-
M G: śreyaskaram ↩︎
-
M G: -dīnām avaidikatvāt ↩︎
-
M G: vaidikādīni ↩︎
-
M G J: sarve (I follow the suggestion of DK 5: 634) ↩︎
-
M G: agatvena tadbhāvaḥ ↩︎
-
M G: vedābhyāsādīnām ↩︎
-
M G: parimāṇavat ↩︎
-
M G J: caitenoktena (I follow DK 5: 634; Jha translation also presupposed the negative) ↩︎
-
M G: -karataratve vacanam; DK (5: 634) -karatvavacanam ↩︎
-
M G: yathoktakalpavirodhe ↩︎
-
M G: atulyāyāḥ śruteḥ smṛtyābādhaḥ ↩︎
-
M G omit: śruti- ↩︎
-
M G: anuvāda- ↩︎
-
M G: arthayuktaṃ ↩︎
-
DK ( 5: 635) suggests: tathāsyārthaḥ ↩︎
-
M G: vidhis tair ↩︎
-
M G add: agnihotrādyupadeśaḥ (omitted in J and DK, but found in Jha’s translation; the phrase is given later in this passage) ↩︎
-
M G place tair vyākhyātam iti after kathaṃ ca ↩︎
-
J notes a lacuna here, but not M G or DK (5: 635. ↩︎
-
M G: vaidikaṃ mana ātmajñānam evam arthasya ↩︎
-
M G: śākhābhyāsa- ↩︎
-
M G: svavedā- ↩︎
-
M G: sati ↩︎
-
M G: karmavidhir vaidikakarmayoge ↩︎
-
M G J: kratuṃ yajñebhya iti ↩︎
-
M G J: tad vā (I follow the suggestion of DK 5: 636) ↩︎
-
M G: sarvatrāntarbhavati ↩︎
-
M G: -opadeśasoma-; DK (5: 636): -opasatsoma- ↩︎
-
DK (5: 636) suggests: payo vrataṃ ↩︎
-
M G: jñānaṃ sarvatrāpi duḥkhānadhikārāt; DK (5: 363) suggests: viduṣām adhikārāt ↩︎
-
M G: pratyahagāminaḥ; J: pratiyāgagāmi na ↩︎
-
M G: apeyān ↩︎
-
M G J: ahiṃsāniratāṃ rātriṃ (clearly the editors failed to note the citation; DK 5: 636 has the correct reading) ↩︎
-
M G J: prāṇenācchindyād ↩︎
-
M G: ajānānasya ↩︎
-
M G: kṛtiniṣkṛtitvāt ↩︎
-
M G: vīpsāyāvidhir ↩︎
-
M G DK (5: 636): brāhmaṇānyupāsīta; J: brāhmāṇyupāsīta (my reading is conjectural based in ChU) ↩︎
-
M G J: tasyaivādhastāt ↩︎
-
M G: nivṛttaṃ ↩︎
-
M G add: na punar agnihotrādīni ↩︎
-
DK (5: 637) suggests: vaidikatvaṃ ↩︎
-
M G: upetyo- ↩︎
-
DK (5: 637) suggests: vā matvartho ↩︎
-
M G: pravṛttapade ↩︎
-
DK (5: 637) suggests: pūrvatra ↩︎
-
J: kārīrā- ↩︎
-
M G omit: tat- ↩︎
-
M G: kāmyata ↩︎
-
M G: jñātaṃ pūrvam; J: jñātapūrvam (I think it should be jñāna, as Jha’s translation and the vigraha of the compound given below suggest) ↩︎
-
M G: anayor api ↩︎
-
M G: tadubhayaśeṣaḥ ↩︎
-
DK (5: 638) suggests: ādyārthaṃ ↩︎
-
M G: prabhūtāny apyeti paṃcadheti ↩︎
-
M G: tathāpy ↩︎
-
M G: apyeti ↩︎
-
M G: anyatrāpyayo ↩︎
-
M G: brahmarūpāpattiṃ ye paṭhanti ↩︎
-
M G: na ↩︎
-
M G omit: na ↩︎
-
M G: tejomūrtiṃ cānveti ↩︎
-
M G J: śarīram ekaṃ (I follow DK 5: 639) ↩︎
-
M G: vābhavat ↩︎
-
M G: ca ↩︎
-
M G: nityākāmaphalatvāt ↩︎
-
M G: pravṛttaṃ ↩︎
-
M G: kiṃcana ↩︎
-
M G: atha na ↩︎
-
M G omit: praśaṃsā | santi ca kānicit devatvaprāptiphalāni karmāṇi ↩︎
-
J: yat kartavyaṃ tathā ↩︎
-
M G: tadabhāvo ↩︎
-
M G: avyatikriyamāṇāni ↩︎
-
M G: ca ↩︎
-
M G: ātmajñānasyopabhogaḥ vidyamānaṃ tasyaiva vidyayā ↩︎
-
DK (5: 639) suggests: mokṣārthī na ↩︎
-
M G: pravartate ↩︎
-
M G: kāmyayor ↩︎
-
M G J: uktam | bhagavadbhinnaṃ (I follow DK 5: 639); bhagavadbhiḥ refers to Kumārila. ↩︎
-
M G: uktagarbhavad bhinnaṃ ↩︎
-
M G: na cānuṣṭhitayogavidyāyā ↩︎
-
M G: ye cāpi bhūtāny apy etīty apy ayaṃ prati ↩︎
-
M G J: aya (I follow DK 5: 639) ↩︎
-
M G: puṇyaprāṇi ↩︎
-
M G: pratiṣedhavad bhedāvabhāsasvaparavyavahāraṃ ↩︎
-
M G: adya te bandhyaḥ ↩︎
-
M G: na svārājyadevatārthaḥ ↩︎
-
M G: nāsty ↩︎
-
M G: ātmāpadeśena ↩︎
-
M G: cocyate ↩︎
-
M G: svārājyān ↩︎
-
M G: bhavāḥ svārājyāḥ ↩︎
-
M G omit: na ↩︎
-
M G: apekṣatendriyāṇi ↩︎
-
M G: mana āditaḥ paśyantīti ↩︎
-
M G: bhāve tad ucyate ↩︎
-
M G omit: na ↩︎
-
M G: tadbāvanāparasyāt ↩︎
-
M G: tvālaṃbanaṃ ↩︎
-
M G: mukto ↩︎
-
M G: puruṣamedhādiṣu ↩︎
-
M G: dvijanmanāṃ ↩︎
-
M G: ca rāṇakaśrutiḥ ↩︎
-
M G omit: tat ↩︎
-
M G: bhinnābhāvaḥ ↩︎
-
DK (5: 109) suggests: cakṣuḥ ↩︎
-
M G: cakṣuṣā paricchinno ‘rtho niścitaḥ; DK (5: 109) suggests: -chinneṣu niścitaḥ ↩︎
-
M G: anenāpuruṣakṛtatvāt mahāpuruṣakṛtatve ↩︎
-
M G: puruṣagataguṇadoṣasadṛśād bhāvaniśvayāt ↩︎
-
M G: cādīpayet ↩︎
-
DK (5: 109) suggests: vākyānāṃ ↩︎
-
M G: bhāvānmahattvena ↩︎
-
M G: svārājyaphalāyāṃ ↩︎
-
M G: bhāvanātiśayayogāṃgā na śakyante ↩︎
-
DK (5: 109) suggests: dveṣād ↩︎
-
M G: pṛṣṭaṃ ↩︎
-
DK (5: 109) suggests: bhāvanayā ↩︎
-
DK (5: 109) suggests: kāminīm eva ↩︎
-
DK (5: 109) suggests: stutipadāni ↩︎
-
DK (5: 109) suggests: siddhisaṃyuktā ↩︎
-
DK (5: 109) suggests: cedṛśaṃ ↩︎
-
M G: atha vā ↩︎
-
M G: śakyam ↩︎
-
M G J: vedāṅgaṃ (I follow DK 5: 109) ↩︎
-
M G: -saṃdṛpteṣu ↩︎
-
DK (5: 111): nirgranthasaugatādi- ↩︎
-
M G: -siddhāntaprasiddhāḥ ↩︎
-
M G: kudṛṣṭyā ↩︎
-
M G: -dṛṣṭāntaḥ ↩︎
-
M G: rātriyati ↩︎
-
M G: upadeśenāprāmāṇye ↩︎
-
M G: śakyam api śakter uddeśikasya ↩︎
-
M G add: na ↩︎
-
M G: devatāsiddhiḥ ↩︎
-
M G: pretyamatyāsyatāniṣphalās tā niṣṭās ↩︎
-
DK (5: 111) suggests: durlabam ↩︎
-
M G: yadi nāma kecid ↩︎
-
M G: vipralambhamodakādilakṣaṇaṃ siddhe ‘pi ↩︎
-
M G: sarvavarṇeṣv atulyatvād ↩︎
-
M G: tā ↩︎
-
DK (5: 112) suggests: āśramā api ↩︎
-
M G: vedā vedabhūtam ↩︎
-
M G: bhaviṣyati ↩︎
-
M G J: prasūyante (but see prasidhyanti given in the commentary) ↩︎
-
M G: chrutikarma- ↩︎
-
M G: vedāḥ ↩︎
-
DK (5: 112) omits: etan ↩︎
-
DK (5: 113) suggests omitting: ataḥ śarīrārambhakāḥ śabdādayas tābhyām ↩︎
-
M G: citrādiṣu; DK (5: 1123) suggests: agnihotrādi ↩︎
-
M G: prasūter ↩︎
-
M G: tasyāvasthāyāḥ ↩︎
-
M G puts at the beginning: tasmād etat paraṃ manye ↩︎
-
DK (5: 113): tena vṛṣṭir ↩︎
-
DK (5: 113): utpattiḥ sthitir ↩︎
- ↩︎
-
M G: daṇḍena tāvad ↩︎
-
M G: -prekṣaṇāniyuktāḥ ↩︎
-
M G omit: yatra ↩︎
-
DK (5: 114): anuvidya ↩︎
-
M G: na punar ↩︎
-
M G: amatyā paratāṃ ↩︎
-
M G: śreṣṭham ↩︎
-
M G: anyavaśānām ↩︎
-
M G: nirviciktsādyā ↩︎
-
M G: naitad ↩︎
-
M G omit: na ↩︎
-
M G: tadarthā naiva ↩︎
-
M G: tu bhāvena ↩︎
-
M G: balānandarūpatā ↩︎
-
M G: vivaraṇapūrvakāśayanirākaraṇe ‘ṅga- ↩︎
-
M G: utaitat ↩︎
-
M G: śabdanityatvāt siddhiḥ ↩︎
-
M G omit: nāsti ↩︎
-
M G: sa ubhayor ↩︎
-
M G: cānumānenopari dṛṣṭaśabde ‘pi ↩︎
-
M G: -śāstrānta- ↩︎
-
M G: anuvivecitaṃ (omit yena na) ↩︎
-
M G: pakṣayor ↩︎
-
M G omit: -vidhi- ↩︎
-
M G: svādhyāyavidyākṣepaḥ ↩︎
-
M G: śuddhabhāvenopadiṣṭaḥ ↩︎
-
M G: places this under 12.208 erroneously. ↩︎
-
DK (5: 121) suggests: yathā ↩︎
-
M G: -ārthasamavāyād ↩︎
-
DK ( 5: 121) suggests adding: iti ↩︎
-
M G: -virodho ↩︎
-
M G: uccāraṇena ↩︎
-
M G omit: prayojyatvaṃ manyate, “ataś cāvikṛta eva mantraḥ prayoktavyaḥ” iti, so ‘pi śāstravirodhī tarkaḥ ↩︎
-
M G omit: na ca ↩︎
-
M G: -svarūpanirūpaṇa- ↩︎
-
M G omit: na ↩︎
-
M G: -pamā śabdāḥ ↩︎
-
M G: tadvacanād āmnāyasya prāmāṇyam ↩︎
-
M G: tayedam ↩︎
-
M G: kiṃcit vedaḥ ↩︎
-
M G: prāmāṇiko ↩︎
-
M G: upayujyate ↩︎
-
M G J: aviśuddhiḥ kṣayā- ↩︎
-
M G: karmamīmāṃsāvedyaṃ tarkabhāṣābhyām ↩︎
-
M G: prayacchata ↩︎
-
M G: brāhmaṇa uktavāṃs tarkayaty ↩︎
-
DK (5: 122) suggests: -āpekṣatvād ↩︎
-
M G: siddha- ↩︎
-
M G: -śruter ↩︎
-
M G J: yatredam (I follow DK 5: 122) ↩︎
-
M G: tūcchiṣṭavacanaṃ pramāṇaṃ kartavyam ↩︎
-
M G: brūte ↩︎
-
M G: kāpi cikitsā ↩︎
-
M G J: kathaṃ ca (I follow DK 5: 122) ↩︎
-
M G J: mānave ↩︎
-
M G: pratigotra- ↩︎
-
M G J: yo ’tra saṃdeha (I follow DK 5: 123) ↩︎
-
M G place this passage under 12.105: sa hi jijñāsā ca . . . yo ’tra saṃdeha utpadyate ↩︎
-
M G: vidvattayā ↩︎
-
M G J: śrutatvāt (I follow DK 5: 123) ↩︎
-
DK (5: 123) suggests: aparipūrṇatvāt ↩︎
-
M G: viditaḥ paribṛṃhaṇāni ↩︎
-
M G: api ↩︎
-
M G: anyābhidhānam ucyate ↩︎
-
M G: śrutaḥ ↩︎
-
M G omit: te ↩︎
-
DK (5: 123) suggests adding: na ↩︎
-
DK (5: 123) suggests: cemāṃ nāpramāṇīkurvanti ↩︎
-
M G: śruteḥ pratyakṣaśruteḥ ↩︎
-
M G J: daśāvarāḥ ↩︎
-
M G J: tryavarāḥ ↩︎
-
M G: -hetur guṇān ↩︎
-
M G add: pūrvoktāc cetoviṣāṇīvaruddhān pratibāladhiḥ sāprāvaniti gotrelipsām iti (the reading here is unclear) ↩︎
-
DK (5: 124) suggests adding: haitukaḥ ↩︎
-
M G: vedanamātrā ↩︎
-
M G: vedārthaṃ gra- ↩︎
-
M G: -smṛtiśrutiśāstrāṇām ↩︎
-
M G: pūrvo ↩︎
-
M G J: nāniṣiddhaḥ (I follow DK 5: 124) ↩︎
-
M G: ceyaṃ mānuṣī ↩︎
-
DK (5: 125) suggests: adharmam ↩︎
-
M G: dharmāśrayāt; J: dharmāśrayet (my reading is a conjecture) ↩︎
-
M G: jñāyate ’nyasya ↩︎
-
J: uditaḥ ↩︎
-
J: vyākhyātaḥ ↩︎
-
M G omit: yaṃ ↩︎
-
M G: vikalpate ↩︎
-
M G: pratijñāna- ↩︎
-
DK (5: 340) suggests: śrūyatām iti (here with two “iti”) ↩︎
-
M G: mamāpi ↩︎
-
M G: vānyaḥ ↩︎
-
M G: yac ca ↩︎
-
M G: saddarśanena darśanasyāpy ↩︎
-
M G: -karmaṇi ↩︎
-
M G: aśrutopanyāsa- ↩︎
-
M G: vikaraṇakṣetrajñata uttaraṃ ↩︎
-
M G: naitasya ↩︎
-
M G J: gārgī ↩︎
-
M G: neha pratya- ↩︎
-
M G J: -ādidaiva- ↩︎
-
M G: vyavasthito nāmādhyātmam ↩︎
-
M G: kāraṇātmanā jitasya ↩︎
-
M G: yatra ↩︎
-
J: vākakpadoye; M G: vākyapradīpe ↩︎
-
M G: darśayann ↩︎
-
M G: vikārasya grāmyasya ↩︎
-
M G: -ākṣarāvadhāratvāt ↩︎
-
M G: buddhiś cetaso ↩︎
-
M G: prativilāpayeta ↩︎
-
M G: aniyato ↩︎
-
M G: vāyvādi- ↩︎
-
M G: kuśalo ↩︎
-
M G: sarvaṃ tatparaṃ ↩︎
-
M G: ityātma- ↩︎
-
M G: tato ↩︎
-
M G: yatrālpam atikrāmati ↩︎
-
M G: ekānte karmaṇā ↩︎
-
M G: evaṃ ca tehara ↩︎
-
M G: yaṃ yaṃ ↩︎
-
M G: ca bhittyādīnām ↩︎
-
M G: jagata-; J: jagat- ↩︎
-
M G: -ādisvavyāpāro ↩︎
-
M G: -ābhipretapratiniyamena ca ↩︎
- ↩︎